सद्गुरुश्रीत्यागब्रह्मपञ्चशती
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्मपञ्चशती ॥
ॐ गुरुदेवाय विद्महे स्वरज्योतिषे धीमहि ।
तन्नस्सुपादः प्रचोदयात् ॥
अथ पञ्चशती ।
ॐ
ॐ पञ्चनदक्षेत्र-सञ्चरित-परमगुरवे नमः ।
ॐ उञ्छवृत्ति-धर्म-चारिणे नमः ।
ॐ उत्तम-भक्तिमार्ग-गानिने नमः ।
ॐ प्राभातिक-प्रादोषिक-गान-नीराजनानुशासिने नमः ।
ॐ घनीभूताष्टाङ्गयोग-नादयोगाचार्याय नमः ।
ॐ उद्दीप्र-पवित्र-गात्राय नमः ।
ॐ अतितेजस्-सुमुखाय नमः ।
ॐ करुणार्द्र-देदीप्यमान-नयनकुसुमाय नमः ।
ॐ गानामृतकलश-कण्ठाय नमः ।
ॐ सुन्दरतर-कोमल-हृदयाय नमः ।
ॐ भक्तालम्बन-कराम्भोजाय नमः ।
ॐ भक्त-हृत्तटाक-पावनकर-पद-कोकनदाय नमः । १२
ॐ नैश्चिन्त्य-प्रद-भद्र-पदच्छायाय नमः ।
ॐ गुरुपाद-दृढग्राहि-क्षिप्रानुग्राहिणे नमः ।
ॐ शरणागतात्मताप-विरोपण-शुभ-स्पर्शनाय नमः ।
ॐ निरुपाय-वैकल्यप्रचुर-चरणपतित-
वात्सल्योपतारकोद्ग्रभणाय नमः ।
ॐ सुधामय-दृष्टि-परित्रात-भक्ताय नमः ।
ॐ कोटिसूर्य-प्रकाश-मन्दीकर-दीप्ततेजसे नमः ।
ॐ भक्ताश्रुबिन्दु-स्फटिकमणिमाला-स्फुरितप्रभायै नमः ।
ॐ वज्रभक्त्यन्वित-शिष्याध्यक्षावरोकिणे नमः ।
ॐ रागार्द्र-हृदय-भक्तानुरागोपगूहन-निबद्धाय नमः ।
ॐ वन्द्रान्तश्चक्षुस्-सर्वकाल-समक्षाय नमः ।
ॐ वन्द्र-हृद्ग्रन्थि-भिदे नमः ।
ॐ संशयच्छिदे नमः । २४
ॐ शिष्यान्तःसुप्त-चिच्छक्ति-जागरयितृ-सद्गुरवे नमः ।
ॐ शिष्यचित्त-ज्ञानज्वालोद्दीपकाय नमः ।
ॐ परिमार्गि-पारमार्थिक-मार्गिणे नमः ।
ॐ नादोपासन-मार्ग-निर्देष्ट्रे नमः ।
ॐ सङ्गीताञ्जलि-समीहित-सपर्यूपगापयित्रे नमः ।
ॐ शिष्यशरीरवेणु-सुस्वरोपध्मानाय नमः ।
ॐ देहोद्भव-नाद-दिव्य-प्रणवाकाराभिव्यञ्जकाय नमः ।
ॐ सप्तस्वर-स्वरूप-स्फोटयित्रे नमः ।
ॐ स्वर-जाति-मूर्च्छना-भेदान्तर्-ज्ञापयित्रे नमः ।
ॐ स्वर-रागलयज्ञानदात्रे नमः ।
ॐ रागलय-भजन-पराङ्गव-प्लावयित्रे नमः ।
ॐ स्वर-समुद्र-पार-दर्शयित्रे नमः । ३६
ॐ सुस्वर-सुरगङ्गा-स्नापयित्रे नमः ।
ॐ स्व-गान-सुधारस-पाययित्रे नमः ।
ॐ श्रीरामनामगान-सोमपान-मादयित्रे नमः ।
ॐ शिष्यहृन्-नादपुष्प-विकचीकर्त्रे नमः ।
ॐ नादयोगनिष्ठानुग्राहिणे नमः ।
ॐ अग्रे पृष्ठे उभयपार्श्वयोस्सदा भक्तायाः परिरक्षकाय नमः ।
ॐ अनन्योपासिकायाः क्षणमप्यपरोक्षाय नमः ।
ॐ भक्तचित्तान्यूनव्यापिने नमः ।
ॐ भावस्थ-हृद्-द्योतन-सवित्रे नमः ।
ॐ उपासक-शरीरालय-सुवासिने नमः ।
ॐ ध्यानस्थान्तस्थाय नमः ।
ॐ अनवरत-मननकान्तरात्म-समावेशिने नमः । ४८
ॐ मानुषतन्वाश्रित-ज्ञानपतये नमः ।
ॐ मनुष्यजीवनाढ्यङ्करण-सहस्रिय-सुकृतिदाम्ने नमः ।
ॐ भुक्तिमुक्तिप्रद-भद्रकीर्तन-प्रसादिने नमः ।
ॐ भक्तिरस-परिपूर्ति-विवृत-कृतिवार-प्रतिपादयित्रे नमः ।
ॐ सद्विषय-गुटिकारूप-कृतिवृन्द-प्रतिपादक-वृन्दारकाय नमः ।
ॐ सर्वजनीय-मधुश्च्युदुपदेशसार-निर्जर-कीर्तन-
निःसार-प्रसादाय नमः ।
ॐ श्रीरामनाम-मधुरित-मधुगान-सर्वजन-रामभक्त्यावहाय नमः ।
ॐ मनआवृत्ति-स्थापन-श्रीरामचिन्तन-नामकीर्तन-जिन्वित्रे नमः ।
ॐ अन्तवद्देहातीतानन्तात्म-स्वरूप-प्रकाशयित्रे नमः ।
ॐ अनृतपूजन-जीवनोपक्रोशन-चिच्छुद्ध्युपदेशन-
निजभक्त्युपसेचन-गीताचार्याय नमः ।
ॐ वाक्तैक्ष्ण्य-पटुतमाय नमः ।
ॐ अनिर्वचनीय-स्वादुमय-वाक्प्रभावाय नमः । ६०
ॐ श्रीरामगानैकार्थावतारिणे नमः ।
ॐ सहजसमाधिस्थ-सङ्गीतस्वामिने नमः ।
ॐ गीतोपनिषत्सार-मधुदोह-श्रोत्राभिराम-सुकीर्तनानुग्राहिणे नमः ।
ॐ सप्तस्वरभूषित-नादरङ्गरङ्गण-श्रीराम-नादाकृति-
सुस्वरगान-नुतये नमः ।
ॐ स्वर-राग-लय-ज्ञान-भक्ति-वैराग्य-भावानन्द-
नाद-नवरत्न-खचित-
हाटक-हृन्मण्डप-श्रीराम-ध्यानाभिनिविष्टाय नमः ।
ॐ द्राक्षारस-नवरसयुत-कृतिसंवर्त-
श्रीरामभजन-सम्मत्ताय नमः ।
ॐ निगमार्थ-निजवाक्-स्वरशुद्धि-सद्भक्ति-पूरित-
सुश्राव्य-गान-हारित-हरये नमः ।
ॐ यति-विरति-युत-कृतियुक्तिज्ञ-सद्भक्ताय नमः ।
ॐ प्रासानुप्रासालङ्कार-निपुणाय नमः ।
ॐ यान्तभान्त-नुति-धान्तथान्त-निशान्ताय नमः ।
ॐ नैगम-शास्त्र-पुराणागमार्थ-संक्षेप-शतराग-कृतिरत्न-
रञ्जित-रामाय नमः ।
ॐ भजनानन्द-कीर्तन-कारिणे नमः । ७२
ॐ सन्तत-नियमसहित-नामसङ्कीर्तनाविप्लुत-महातपस्विने नमः ।
ॐ सङ्गीतार्णव-पारावारीण-सुरगायनाय नमः ।
ॐ मथित--रामामृतक-गान-क्षीरोदाय नमः ।
ॐ अनुरागि-हृत्-सङ्गीतोत्कण्ठार्णश्चन्द्रोदयाय नमः ।
ॐ रागानुरक्त-हृदयानुराग-सागर-सुस्वर-शुभ्र-विकिरण-
सङ्गीत-शीतकिरणाय नमः ।
ॐ शीतल-करुणाकिरण-परिवृत्त-तेजसानन्द-सङ्गीत-
पीयूषनिधये नमः ।
ॐ उपासक-हृदयाब्ध्यनुराग-तरङ्गोत्थापन-सङ्गीतसोमाय नमः ।
ॐ सङ्गीत-ब्रह्मानन्द-सुधाम्बुधि-गभीर-मर्म-विरोचिष्णवे नमः ।
ॐ मायावृत-संसार-सागर-निमग्न-कृपणोद्धारकाय नमः ।
ॐ तमोऽन्ध-प्रसर-भवोद-क्षितिजोदर्चिषे नमः ।
ॐ मनोऽन्धापनोदक-गान-विरोचनाय नमः ।
ॐ अज्ञान-तिमिरावृत-धरणीतल-प्रद्योतन-
प्रज्ञान-सूर्याय नमः । ८४
ॐ अविद्यान्धापसारण-शुद्धज्ञानप्रकाश-सङ्गीत-द्युमणये नमः ।
ॐ उग्रोज्ज्वल-शुचिरश्मि-मलिन-मनोवृत्ति-भस्मीकर--भासवे नमः ।
ॐ गीत-वाद्य-नृत्य-सङ्गीत--शृङ्गाटकोद्द्योतकाय नमः ।
ॐ भक्त-मानस-सरोवर-भावानन्द-राग-रञ्जकाय नमः ।
ॐ निजभक्त-स्वावेश-गुरुदेवाय नमः ।
ॐ फलहेतु-पामर-दूर-परवस्तुने नमः ।
ॐ मनःशुद्धि-रहित-पूजा-तिरस्कर्त्रे नमः ।
ॐ सुशुद्ध-मानस-पुष्पार्चन-स्वीकर्त्रे नमः ।
ॐ मनोमौनकरसद्गुरवे नमः ।
ॐ निरेभ-मानसगुहा-निध्याताय नमः ।
ॐ निरेभ-मानस-स्पष्ट-क्वणित-दिव्यवाण्यै नमः ।
ॐ सान्धकार-मानसगुहा-दीपकाय नमः । ९६
ॐ स्व-तेजोरश्मि-मालिने नमः ।
ॐ निश्चल-चित्त-सरसी-संक्रान्तात्म-स्वरूपाय नमः ।
ॐ पूजक-हृदयाब्ज-विरोचनाय नमः ।
ॐ रागोक्तये नमः ।
ॐ भक्त-प्रणयासिद्धाय नमः ।
ॐ भक्त-प्राणाभिन्नाय नमः ।
ॐ प्रणयार्द्र-भक्तात्मीयाय नमः ।
ॐ मनोवेग-प्रशमन-प्रशान्त-प्रणवाय नमः ।
ॐ प्रणवान्तस्थ-परवस्तुने नमः ।
ॐ प्रादुर्भूत-सुस्वरज्योतिषे नमः ।
ॐ श्रोत्र-जिह्वामृत-नाम्ने नमः ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८
ॐ अद्वैतसाराय नमः ।
ॐ आनन्दामृत-सङ्गीत-सागराय नमः ।
ॐ इह-पर-साधनाय नमः ।
ॐ ईश्वरदर्शकाय नमः ।
ॐ उदारधिये नमः ।
ॐ ऊर्ध्वभासिने नमः ।
ॐ ऋग्मिय-ऋषये नमः ।
ॐ एकब्रह्मणे नमः ।
ॐ एकाक्षर-गूढ-परमात्मने नमः ।
ॐ ऐकान्तिक-नादयोगिने नमः ।
ॐ ओंकारस्वरूपिणे नमः ।
ॐ औपनिषदसार-सङ्गीताकृतये नमः । १२०
ॐ कलहंसाय नमः ।
ॐ कालभय-हरणाय नमः ।
ॐ किरणमय-गानसूर्याय नमः ।
ॐ कीर्तित-रामचन्द्राय नमः ।
ॐ कुलधन-श्रीरामावृत्त-जीवनाय नमः ।
ॐ कूजित-रामराम-स्वर-जित-सुस्वराय नमः ।
ॐ कृष्णलीलास्तव-मधुर-गीतकाराय नमः ।
ॐ क्लृप्तिदाय नमः ।
ॐ केवलात्मने नमः ।
ॐ कैवल्यप्रद-नादोपासन-मार्गोपदेशकाय नमः ।
ॐ कोकिलगान-पुष्पाञ्जलि-भाग्यप्रदाय नमः ।
ॐ कौसल्या-सुकुमार-गुण-गानोल्लसिताय नमः । १३२
ॐ क्रमिक-श्रीसीतारामार्चार्चनाराधन-गान-भजन-
नित्योत्सव-निरताय नमः ।
ॐ क्रान्तदर्शिने नमः ।
ॐ क्रियायोगोदाहृति-ज्ञानव्यक्तये नमः ।
ॐ क्रीडाविनोदि-श्रीकृष्ण-लीलाविनोद-गानविनोदिने नमः ।
ॐ क्रोडीकृत-गानानन्द-श्रीरामाय नमः ।
ॐ क्लान्तिच्छिद्-गानानन्दरूपाय नमः ।
ॐ क्लिन्नहृदे नमः ।
ॐ क्लेशापहाय नमः ।
ॐ क्वणित-वीणा-स्वरित-प्रणवाय नमः ।
ॐ क्षपानाथ-लज्जापयितृ-श्रीरामचन्द्रानन-वर्णन-गाननाथाय नमः ।
ॐ क्षालित-भक्तदुरिताय नमः ।
ॐ क्षितिजाकान्त-दास-धौरेयाय नमः । १४४
ॐ क्षीराब्धि-कन्यका-रमण-रागाब्धि-रामकाय नमः ।
ॐ क्षुद्र-चिन्ताकुल-चित्त-वन-कुठार-गीताय नमः ।
ॐ क्षेमंकराय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षैत्रज्ञदाय नमः ।
ॐ खगाधिप-वाहन-श्रीमन्नारायण-नामभजन-गानाधिपाय नमः ।
ॐ खाण्डव-नाम-मधुरित-गान-मधु-धाराधराय नमः ।
ॐ खिन्नोन्मनस्कैकायतनाय नमः ।
ॐ खेदकर-तापत्रयोत्खेदाय नमः ।
ॐ ख्यान-वर्धनाय नमः ।
ॐ गङ्गीभूत-पोतनाय नमः ।
ॐ गाङ्गेय-गाथिने नमः । १५६
ॐ गिरा-माधुर्य-भूषणाय नमः ।
ॐ गीर्ण-सङ्गीत-गीतप्रिय-श्रीरामाय नमः ।
ॐ गीतार्थ-भाव-पुष्टि-वाङ्माधुर्यानुपमाय नमः ।
ॐ गीतवाद्यलय-ज्ञानदाय नमः ।
ॐ गुरुदेवाय नमः ।
ॐ गूढोत्मने नमः ।
ॐ गृत्स-कवीशाय नमः ।
ॐ गेयराजाय नमः ।
ॐ गोपाल-गांमालालङ्करिष्णवे नमः ।
ॐ गोपिका-काम-कामिने नमः ।
ॐ गोविन्द-नामसङ्कीर्तन-वन्दिने नमः ।
ॐ गोविन्द-नारायण-हरिनाम-सङ्कीर्तनोत्पुलकाय नमः । १६८
ॐ ग्रथित-भक्तान्तर्भावना-मणिमाला-विभूषिताय नमः ।
ॐ ग्रहपीडा-निग्रहण-हरिभजन-प्रचोदिने नमः ।
ॐ ग्लानि-विद्रावणाय नमः ।
ॐ घन-रव-गम्भीर-स्वराय नमः ।
ॐ घूर्णमानसोद्वेग्यनन्यभागाश्वासनाय नमः ।
ॐ घोर-भवग्राह-विमोचनाय नमः ।
ॐ चरणयुग-दृढग्राह्युद्बाष्पोद्भावयित्रे नमः ।
ॐ चारुस्वर-सत्त्वोत्साह-प्रसादस्थाय नमः ।
ॐ चित्स्वरूपाय नमः ।
ॐ चीर्ण-रामनाम-जप-स्मरण-व्रतिने नमः ।
ॐ चुम्बित-नाद-हिमाद्रि-शिखर-नामानन्द-वारिधराय नमः ।
ॐ चेतनाचेतन-सूक्ष्मव्यापिने नमः । १८०
ॐ चैतन्यरूप-सर्वव्यापिने नमः ।
ॐ चोदयन्मति-गीतकाचार्याय नमः ।
ॐ च्यावित-नादशक्तये नमः ।
ॐ छन्द-रामचन्द्र-गानच्छन्द-वन्द्र-चन्द्राय नमः ।
ॐ छायामण्डल-सम्परिक्षिप्ताय नमः ।
ॐ छिद्रहृच्छमनाय नमः ।
ॐ छुरित-रामचन्द्रकिरण-स्वर-सुन्दरमूर्तये नमः ।
ॐ जयराम-जयगेय-घोषयित्नवे नमः ।
ॐ जाड्यापाकर्त्रे नमः ।
ॐ जितानन्यभक्तमानसाय नमः ।
ॐ जितात्मने नमः ।
ॐ जीवन्मुक्ताय नमः । १९२
ॐ जुष्ट-रामयुक्ताय नमः ।
ॐ जूतिमन्-नादगङ्गायै नमः ।
ॐ जृम्भित-नादपुष्पार्चिताय नमः ।
ॐ जेन्य-नाद-वसुधारायै नमः ।
ॐ ज्ञातसर्वस्वाय नमः ।
ॐ ज्ञीप्सुचक्षसे नमः ।
ॐ ज्ञेय-नादरहस्य-निधये नमः ।
ॐ ज्योतिष्टमाय नमः ।
ॐ ज्वलत्-सुस्वर-नभोमणये नमः ।
ॐ झङ्कार-रामनामश्रुतिकर-दैवतुम्बराय नमः ।
ॐ झाङ्कृत-गानापाताय नमः ।
ॐ झिल्लीझञ्झन-भजन-नर्तनानन्दरूपाय नमः । २०४
ॐ टलनोपशमनाय नमः ।
ॐ टालोद्वेलित-शिष्य-वृषयाय नमः ।
ॐ टिप्पणीभूत-स्वरार्णव-ग्रन्थाय नमः ।
ॐ टीकित-नादरहस्याय नमः ।
ॐ टेपित-घृणार्द्र-वीक्षिताय नमः ।
ॐ ठक्कुररूप-श्रीरामदैव-पूजापराय नमः ।
ॐ ठक्कुररूपाधिष्ठितावदात-शिष्य-पूजागृह-दैवाय नमः ।
ॐ डमरु-सशब्द-शिव-हाटकाकृति-हृन्नालीक-दर्शनाय नमः ।
ॐ डाङ्कृत-रामराम-गानघनाय नमः ।
ॐ डिण्डिम-घुषित-तारकनाम्ने नमः ।
ॐ डीन-गानवरूथाय नमः ।
ॐ ढौकित-नादब्रह्मानन्द-श्रीत्यागब्रह्म-गुरुनाथाय नमो नमः ॥ २१६
ॐ तन्त्रीस्वरस्वराय नमः ।
ॐ तारकनामप्रियाय नमः ।
ॐ तिमित-मनः-श्रुत-प्रणवाय नमः ।
ॐ तीर्थीकृत-पञ्चनदक्षेत्राय नमः ।
ॐ तुङ्ग-तरङ्ग-कोलाहल-सप्तस्वरोर्मिमालिने नमः ।
ॐ तूष्णींस्थानोत्थोंकारनादाय नमः ।
ॐ तृष्य-सङ्गीतार्थाय नमः ।
ॐ तेजोऽमृतमय-गानमूर्तये नमः ।
ॐ तैजस-नाद-भासन्ताय नमः ।
ॐ तोयात्मने नमः ।
ॐ तौर्यत्रिकौकसे नमः ।
ॐ त्यागराजाय नादब्रह्मणे नमः । २२८
ॐ त्रसन-प्रशमनाय नमः ।
ॐ त्राणच्छायाय नमः ।
ॐ त्रिगुणातीताय नमः ।
ॐ त्रिताप-रहिताय नमः ।
ॐ त्रुटिमपि भक्ताया अनपेताय नमः ।
ॐ त्रैलोक्यातीत-नाद-विबुधाय नमः ।
ॐ त्वेषद्युम्नाय नमः ।
ॐ दयालवाल-श्रीरामानुराग-गानालवालाय नमः ।
ॐ दान्त-संरक्षक-गानसँल्लीनाय नमः ।
ॐ दिनमणिवंश-तिलकानुदिन-गान-पुलकाय नमः ।
ॐ दीनजनावन-गान-संस्तावनाय नमः ।
ॐ दीनार्ति-भञ्जन-दिनरात्रि-भजनाय नमः । २४०
ॐ दुःख-शोक-परित्राणाय नमः ।
ॐ दूर-प्रसारित-कीर्तन-श्रवसे नमः ।
ॐ दृढभक्त-स्वीयाय नमः ।
ॐ देह-मन-आरोग्यप्रदाय नमः ।
ॐ दैविक-गान-प्रसाददाय नमः ।
ॐ दोलोत्सव-दिव्यगान-प्रसिद्धाय नमः ।
ॐ दौर्बल्यापहाय नमः ।
ॐ द्युम्नवते नमः ।
ॐ द्युक्षाक्ष-दीक्षागुरवे नमः ।
ॐ द्योतित-स्वरार्णवाय नमः ।
ॐ द्रष्टुकामि-सम्यताञ्जल्यन्तरात्म-प्रकाशीभूताय नमः ।
ॐ द्राक्षापाक-सांसिद्धिक-सुकीर्तन-भावकाय नमः । २५२
ॐ द्रुतमानसोपसेवकावसादावसारणाय नमः ।
ॐ द्वन्द्व-दुःख-चातनाय नमः ।
ॐ द्वन्द्वातीताय नमः ।
ॐ द्वारका-निलय-नाम-तारक-निलयाय नमः ।
ॐ द्विकरेहपरार्थ-सङ्गीत-ज्ञानमूलाय नमः ।
ॐ धर्मात्म-श्रीराम-भक्त्यात्मकाय नमः ।
ॐ धारणायोग-प्राप्याय नमः ।
ॐ धाराधराभ-शरीर-श्रीराम-गानवार-वर्षण-
स्वर-धाराधराय नमः ।
ॐ धिक्कृत-विषयासक्त-फलेहित-भिन्न-मानस-पूजाय नमः ।
ॐ धीर-सङ्गीतसमीराय नमः ।
ॐ धुनिमद्गान-सरिद्वरायै नमः ।
ॐ धूपित-मानसात्मताप-धूपिताय नमः । २६४
ॐ धृतमानसानुसारणासङ्ग-सङ्गीतानन्ददाय नमः ।
ॐ धेष्ठगुरुवराय नमः ।
ॐ धैर्यधाय नमः ।
ॐ धोरण-मधुर-गान-नित्याञ्जलीप्सा-परिपूरकाय नमः ।
ॐ धौतात्म-गानाराधन-प्रीताय नमः ।
ॐ ध्यायमान-गुरुदेवाय नमः ।
ॐ ध्यान-तत्पर-दृष्टि-गोचराय नमः ।
ॐ ध्रणित-ध्यान-धन्यताय नमः ।
ॐ ध्रुव-सङ्गीत-सिद्धये नमः ।
ॐ ध्वनित-रामराम-पटुस्वर-स्वाकारालयाय नमः ।
ॐ नव-तुलसी-दल-रागानुरागार्चित-रामाय नमः ।
ॐ नवनीत-सम-रवाय नमः । २७६
ॐ नन्दित-नाम-कीर्तनाय नमः ।
ॐ नर्दित-नाम-श्रेयसे नमः ।
ॐ नर्तित-नाम-कीर्तनानन्दाय नमः ।
ॐ नदित-नाम-तारकाय नमः ।
ॐ नाद-मार्गाग्र्याय नमः ।
ॐ निरालम्बन-नाद-विद्यार्थ्यैक-गतये नमः ।
ॐ निराकारोंकार-गूढाय नमः ।
ॐ निर्भासित-नाद-नभसे नमः ।
ॐ नीरधर-स्वरगाम्भीर्याय नमः ।
ॐ नुतिगीत-सहस्र-जनकाय नमः ।
ॐ नूतन-कीर्तन-सुमार्चित-रामाय नमः ।
ॐ नृत्य-गीत-रूप-रागदैवताय नमः । २८८
ॐ नेत्रानन्द-श्रीराम-रूप-लावण्य-गानानन्द-मयाय नमः ।
ॐ नैत्य-गानाञ्जलि-प्रतीताय नमः ।
ॐ नोदित-नादोपासनाय नमः ।
ॐ नौकाचरित्र-गेयनाटक-श्रीकृष्णलीला-स्तवित्रे नमः ।
ॐ न्युङ्ख-कृति-पुष्पोपासन-प्रीताय नमः ।
ॐ पवनज-सतत-सेवित-भजनानन्द-कीर्तन-सेवितरामाय नमः ।
ॐ पवनज-स्तुतिपात्र-प्रमोदन-पावन-नुतिगात्रे नमः ।
ॐ पावन-श्रीराम-भक्ति-श्रेयः-प्रमाणीकर्त्रे नमः ।
ॐ पिपासित-नामामृत-पानाय नमः ।
ॐ पीत-नामकीर्तनानन्दताय नमः ।
ॐ पुण्यरूप-श्रीराम-दर्शनानन्द-पुण्यरूपाय नमः ।
ॐ पूज्यगुरवे नमः । ३००
ॐ पृक्त-भक्तप्राणाय नमः ।
ॐ पृष्टिदीक्षागुरवे नमः ।
ॐ पेषित-नादार्थ-वरदाय नमः ।
ॐ पैतामह-श्रीसीताराममूर्ति-सङ्गीतेज्यापर-यजताय नमः ।
ॐ पोतन-श्रीरामनाम-मधुरगान-मदयित्नवे नमः ।
ॐ पौनरुक्त-नादोपासन-गरिम्णे नमः ।
ॐ प्यायन-स्वरामृत-स्रुते नमः ।
ॐ प्रतिक्षण-नामस्मरणातिजागराय नमः ।
ॐ प्रातस्तरां तुम्बर-सहित-सुस्वर-गानाञ्जल्यामोदिने नमः ।
ॐ प्राञ्जलि-तथ्योपचार-प्राण-प्रसून-पुष्पोपहार-प्रमोदिने नमः ।
ॐ प्रियभाषिणे नमः ।
ॐ प्रियङ्कर-गुरुनाथाय नमः । ३१२
ॐ प्रीतिमय-गुरुदेवाय नमः ।
ॐ प्रीति-रसायन-सुकीर्तन-बोधकाय नमः ।
ॐ प्रुषित-मानसपुष्पावश्यायबिन्द्वश्र्वार्द्रगुरवे नमः ।
ॐ प्रुषित-पुष्पासवानुराग-गानार्द्रीभूत-गुरवे नमः ।
ॐ प्रेमार्द्र-मधुर-मय-गीत-श्रीराम-परिष्वङ्गाय नमः ।
ॐ प्रैय-विग्रह-सद्गुरुमूर्तये नमः ।
ॐ प्रोक्षित-श्रीरामचरणोदक--गानामृतकाय नमः ।
ॐ प्रौढ-रामभक्ति-चन्द्राय नमः ।
ॐ प्रौढ-नामकुसुम-नाद-पारिजाताय नमः ।
ॐ प्लुत-नाम-दिव्यगन्ध-नादानन्द-समीरणाय नमः ।
ॐ प्लाव्य-दिव्यगान-देवकुल्यायै नमः ।
ॐ फणिनाथ-तल्पग-सान्निध्यग-गाननाथ-
श्रीत्यागराजगुरुनाथाय नमो नमः ॥३२४
ॐ फलदातृ-सद्गुरवे नमः ।
ॐ फल-निष्पत्तिद-सङ्गीत-योगमार्ग-नीथाय नमः ।
ॐ फलनिर्वृत्तिदाय नमः ।
ॐ फलित-परब्रह्म-श्रीरामाय नमः ।
ॐ फाल-प्रभान-भक्तानुराग-तिलकाय नमः ।
ॐ फुल्ल-नामानन्दारविन्द-नयनाय नमः ।
ॐ बंहिष्ठानुराग-प्रसृमराय नमः ।
ॐ बाष्पकण्ठ-भक्ताग्र-प्रादुर्भावाय नमः ।
ॐ बिठद्वयस-नादाकृतये नमः ।
ॐ बीजाक्षरोंकारान्तस्थ-नादशक्तये नमः ।
ॐ बुद्धियोगोपाश्रित-भक्त-चित्त-सतताश्रिताय नमः ।
ॐ बृहद्भास-सङ्गीत-ज्योतिषे नमः । ३३६
ॐ बोधगुरवे नमः ।
ॐ ब्रह्मज्ञानिने नमः ।
ॐ ब्रह्मस्वरूपाय नमः ।
ॐ ब्राह्ममुहूर्त-नादोपासन-प्रियाय नमः ।
ॐ भक्तिपूर्व-सुस्वर-गानानन्दिताय नमः ।
ॐ भगवद्गुण-गानलोलाय नमः ।
ॐ भाव-समाहिताय नमः ।
ॐ भिन्नहृद्-भिषजे नमः ।
ॐ भीतगायनोच्छ्वासयित्रे नमः ।
ॐ भुजगशयन-भजनानन्दिताय नमः ।
ॐ भूजामनोहराध्युषित-सुमानसाय नमः ।
ॐ भृतोत्तम-भक्तये नमः । ३४८
ॐ भेषज्य-सङ्गीताचार्याय नमः ।
ॐ भैरवीराग-सुकीर्तनानन्दितागाधादिदेव-दर्शन-भाग्याय नमः ।
ॐ भोगमोक्ष-प्रद-कीर्तनोपदेशकाय नमः ।
ॐ भौलीरागालापन-मधुरगान-श्रीराम-प्रातर्गेयाय नमः ।
ॐ भ्रमि-मानस-बाधा-निधनाय नमः ।
ॐ भ्रान्तिहराय नमः ।
ॐ भ्रूमध्यैक्यान्तरीक्षण-विलसित-नादशक्तये नमः ।
ॐ मङ्गलकर-दिव्यवाण्यै नमः ।
ॐ मङ्गलवपुषे नमः ।
ॐ मङ्गलायन-दिव्य-गानाचार्याय नमः ।
ॐ मानित-गानविद्या-प्रमात्रे नमः ।
ॐ मिष्ट-गीत-प्रसादिने नमः । ३६०
ॐ मीर-रहित-सुस्वरार्णवाय नमः ।
ॐ मुखजित-सुधाकर-श्रीराम-गानजित-सुधामाधुर्याय नमः ।
ॐ मुनिजीवन-श्रीराम-गान-जीवन-मुनये नमः ।
ॐ मूकवच्छिष्य-पञ्चशतिनामावल्यर्चित-गुरवे नमः ।
ॐ मृदुतर-मधुर-त-वाग्भूषणाय नमः ।
ॐ मेघश्याम-गीर्मेघाय नमः ।
ॐ मैत्रीमयाय नमः ।
ॐ मोक्षोपायाय नमः ।
ॐ मौनगुरवे नमः ।
ॐ मौनोदीर्ण-नाद-दीधितये नमः ।
ॐ मौनश्रुति-श्वासाखण्ड-गानार्पिताय नमः ।
ॐ म्नात-सद्गुरुदेवाय नमः । ३७२
ॐ म्रक्षित-तारकनाम-धनाय नमः ।
ॐ यशस्कर-नादविद्या-भाग्यधेयाय नमः ।
ॐ याचिताचार्य-दर्शन-सहवर्तन-वरदाय नमः ।
ॐ युक्तमानस-शिष्य-लोकान्तरङ्ग-मर्म-वेदयित्रे नमः ।
ॐ युक्त-नामयोगाय नमः ।
ॐ येष्ठ-नाम-धारावाहिने नमः ।
ॐ योगेश्वर-नामजप-योग-पथकाय नमः ।
ॐ यौगिक-सङ्गीत-भक्तजा-भक्तजीवनाय नमः ।
ॐ रक्षितानन्यभक्ताय नमः ।
ॐ रघुवर-नुति-कृतिवाराय नमः ।
ॐ रागहराय नमः ।
ॐ रागवरदाय नमः । ३८४
ॐ राजराजवर-रामगानपर-त्यागराजगुरुवराय नमः ।
ॐ राजाधिप-रामनुति-गानाधिपाय नमः ।
ॐ राजित-रामचन्द्र-रागसुधाम्बुधये नमः ।
ॐ राजीवलोचन-रागार्द्रलोचनाय नमः ।
ॐ रिक्थ-कुलधन-राममूर्तये नमः ।
ॐ रीण-रामभक्ति-रोमकूपाय नमः ।
ॐ रुचित-राम-रूपरुचये नमः ।
ॐ रुत-रामभक्तिश्रेयसे नमः ।
ॐ रूढ--रामानुराग-रागरागिणे नमः ।
ॐ रूषित-रामरत्न-राग-कनक-माला-धराय नमः ।
ॐ रेभित-रामनाम-गानानन्दाय नमः ।
ॐ रैवत-राग-राधस्पतये नमः । ३९६
ॐ रोगहर-राग-निर्झराय नमः ।
ॐ रोमाञ्चनकर-गुरुवराय नमः ।
ॐ ललितपद-रचित-रागसुधा-स्यन्न-सुकीर्तनोद्भावकाय नमः ।
ॐ लाञ्छित-लाघव-सुकवित्वाय नमः ।
ॐ लिप्त-वासित-रामनाम-चन्दनसाराय नमः ।
ॐ लीन-सुस्वराय नमः ।
ॐ लुलित-मानस-शमन-सङ्गीतस्वनाय नमः ।
ॐ लून-मानसपुष्पार्पकान्तर्-नभोद्गम-प्ररोहाय नमः ।
ॐ लेश्यामयाय नमः ।
ॐ लोकातिग-नादशक्तये नमः ।
ॐ वर-सुस्वर-मूलकन्दाय नमः ।
ॐ वाग्वरदाय नमः । ४०८
ॐ वाचामगोचराय नमः ।
ॐ विद्याशयाय नमः ।
ॐ वीणावादन-वित्तिदाय नमः ।
ॐ वेदसन्नुत-श्रीराम-सन्नुतये नमः ।
ॐ वेदसार-श्रीरामनाम-नादसाराय नमः ।
ॐ वैदेहीभाग्य-गेय-भाग्यवते नमः ।
ॐ वैभोगरङ्ग-रङ्ग-गानरङ्गणाय नमः ।
ॐ व्याप्त-सुस्वरगानाय नमः ।
ॐ व्यालीन-भवारण्य-तारकाय नमः ।
ॐ शङ्ख-चक्रादि-धर-स्व-हृद्-धराय नमः ।
ॐ शङ्करप्रिय-प्रिय-शङ्करगेयाय नमः ।
ॐ शस्त-तारकनाम-महिम्ने नमः । ४२०
ॐ शस्त-नादशक्तये नमः ।
ॐ शाश्वतिक-सङ्गीत-वरप्रसाददाय नमः ।
ॐ शिष्ट-नादोपासन-शुभचरिताय नमः ।
ॐ शीकित-सुस्वरानन्द-वरानन्द-कीर्तनाय नमः ।
ॐ शुभस्वराय नमः ।
ॐ शुभकराक्षय-कीर्तन-पुष्पोपमादाय नमः ।
ॐ शून्यवाद-व्यपरोपण-नामकीर्तन-बुधानाय नमः ।
ॐ शृङ्गारशेखर-श्रीराम-गानानन्दशेखराय नमः ।
ॐ शेखरित-रामरत्न-ज्योतिषे नमः ।
ॐ शैलसार-दृढभक्तानुग्राहिणे नमः ।
ॐ शोधन-सङ्गीतशुभ्रायै नमः ।
ॐ शौभश्रीत्यागराजस्वामिने नमो नमः । ४३२
ॐ श्यामसुन्दरमूर्ति-गायन-सुन्दर-सप्तस्वरमूर्तये नमः ।
ॐ श्रद्धालु-गोप्त्रे नमः ।
ॐ श्रमिशिष्यान्तस्थामितात्मशक्ति-दीप-सन्धुक्षयित्रे नमः ।
ॐ श्रवस्य-प्रदाय नमः ।
ॐ श्रान्तमनस्-संवाहन-गीतामृत-परीवाहिणे नमः ।
ॐ श्रितानन्यभक्तावनाय नमः ।
ॐ श्रीरामतारक-महिमास्पदाय नमः ।
ॐ श्रुतिशुद्धात्मानन्द-गानाविष्याय नमः ।
ॐ श्रेष्ठतम-नाद-ब्रह्मवर्चसाय नमः ।
ॐ श्रैष्ठ्यद-नादाचार्याय नमः ।
ॐ श्रोत्रपेय-पेयूष-वाचे नमः ।
ॐ श्रौष्टि-सेवन-प्रीत-श्रीरामाय नमः । ४४४
ॐ श्लक्ष्णगिरे नमः ।
ॐ श्लाखित-सङ्गीतान्तरीक्षाय नमः ।
ॐ श्लाघित-सङ्गीतोपासनाय नमः ।
ॐ श्लिष्ट-श्लिष्टनिजभक्ताय नमः ।
ॐ श्लील-गानराजाय नमः ।
ॐ श्लेष-कविवराय नमः ।
ॐ श्लोकित-नादकीर्तये नमः ।
ॐ श्लोक्य-गानमूर्तये नमः ।
ॐ श्लोकित-गुरुवराय नमः ।
ॐ श्वसित-सुस्वराहराय नमः ।
ॐ श्वान्त-सुस्वर-सरोवराय नमः ।
ॐ श्वोवसीयसाय नमः । ४५६
ॐ षड्जाधार-श्रुतिमूलक-सङ्गीत-स्रोतसे नमः ।
ॐ षाडवौडव-सम्पूर्ण-रागसार-गृहीतदेहाय नमः ।
ॐ षोडशोपचाररूप-श्रीराम-नित्य-गान-
पूजापर-परमभागवताय नमः ।
ॐ सङ्गीतप्रियाय नमः ।
ॐ सङ्गीतसद्मने नमः ।
ॐ सर्वत्र-सत्त्वाय नमः ।
ॐ सार-रामनाम-महिम-रहस्योपदेशन-सद्गुरवे नमः ।
ॐ सितराम-प्रेमबन्धनाय नमः ।
ॐ सीताराम-सततनिवास-सुकीर्तनजालाय नमः ।
ॐ सुमधुर-सप्तस्वरोपनिवेशिने नमः ।
ॐ सुस्वर-सुधारस-पूर्णाय नमः ।
ॐ सुस्वरामृत-रसायनाय नमः । ४६८
ॐ सुस्वराकाश-स्फुरन्-मेघदीपाय नमः ।
ॐ सुस्वरारण्यकाय नमः ।
ॐ सुस्वरविद्यासक्तैकाकि-मार्गिताय नमः ।
ॐ सुस्वरार्थि-मनोव्योम-वैयुष्टार्चिषे नमः ।
ॐ सूत्रधारि-श्रीराम-गान-सिद्धमानसाय नमः ।
ॐ सृष्ट-सूनृत-श्रीरामार्चन-सुकीर्तनायुताय नमः ।
ॐ सेवित-सुकवित्वाय नमः ।
ॐ सेवित-श्रीराम-सेवाकाराय नमः ।
ॐ सोत्कृष्ट-रामराम-मधुर-स्वराय नमः ।
ॐ सौमित्रि-सहित-श्रीराम-यागरक्षण-दर्शन-मधुर-गानाय नमः ।
ॐ स्तुतिगीत-मण्डल-शोभित-श्रीरामाय नमः ।
ॐ स्तोत्र-पुष्पावलि-मण्डित-सद्गुरवे नमः । ४८०
ॐ स्थित-श्रीरामप्रज्ञाय नमः ।
ॐ स्थिर-प्रतिष्ठित-भक्तप्रज्ञाय नमः ।
ॐ स्निग्धदृष्टि-सङ्गीतशास्त्र-ज्ञान-सारूप्यदाय नमः ।
ॐ स्नात-रामगानगङ्गाय नमः ।
ॐ स्नेहितासङ्ग्यनुराग-चन्दनसाराय नमः ।
ॐ स्नेहलाय नमः ।
ॐ स्पष्टार्थ-तत्त्वाढ्य-गान-ज्ञानावबोधकाय नमः ।
ॐ स्पृहावन्-नादवरदाय नमः ।
ॐ स्फुरत्-सहस्रायुत-भास्कर-तेजाय नमः ।
ॐ स्फुट-रामनामचन्द्र-सुस्वरतारक-सङ्गीतपुष्कराय नमः ।
ॐ स्फूर्तिमन्-नामगानानन्दाय नमः ।
ॐ स्फूर्तिहेतुकाय नमः । ४९२
ॐ स्मृत-सुन्दर-रघुरामाय नमः ।
ॐ स्मेर-नाद-कुसुम-नाम-सुगन्धाय नमः ।
ॐ स्योनकृत्-सङ्गीतातिदेवाय नमः ।
ॐ स्मृत-मात्रावभासिने नमः ।
ॐ स्वच्छ-दिव्य-सङ्गीत-पुष्करिण्यै नमः ।
ॐ स्वरविद्यानिधये नमः ।
ॐ स्वरशुद्धि-प्रदाय नमः ।
ॐ स्वतन्त्रत्व-वरदाय नमः ।
ॐ स्वराक्षर-कदम्बक-सुवासिताय नमः ।
ॐ स्वादित-पूजक-भावाकूत-नैवेद्याय नमः ।
ॐ स्वीकृतानन्दित-निजभक्त-गानाञ्जलये नमः ।
ॐ स्वीयानन्यभक्तानन्त्योंकार-नादरूप-वृतिंकराय नमः । ५०४
ॐ हरिनामसङ्कीर्तन-हारिकण्ठाय नमः ।
ॐ हरिनामसङ्कीर्तन-श्रेयोपश्वसिताय नमः ।
ॐ हरिभक्ति-स्रवत्-सुकीर्तन-बोधि-चित्तये नमः ।
ॐ हास्यरसानुविद्ध-निन्दास्तुतिराजाय नमः ।
ॐ हितोपदेशसार-सुकीर्तनानुग्राहिणे नमः ।
ॐ हीनशक्तैकभक्तैकपर्त्रे नमः ।
ॐ हृद्गतसद्गुरवे नमः ।
ॐ हृदयपूर्व-भक्ति-पुष्पाञ्जल्यामोदिताय नमः ।
ॐ ह्लादुक-दिव्यस्वराय नमः ।
ॐ ह्लादित-भक्तानुराग-गानाय नमः ।
ॐ हेमकुम्भ-हृत्पूर्णानुराग-मध्वर्पिताय नमः ।
ॐ हैमन-सुस्वरार्णव-बालार्काय नमः । ५१६
ॐ श्रीरामबालार्क-सुवर्णीकृत-सुस्वरार्णवाय नमः ।
ॐ सर्वानन्द-सुख-रम्य-रमणीय-लावण्य-सञ्चयास्पदाय नमः ।
ॐ भक्तान्तःकरण-परिपूर्ण-व्यापिने नमः ।
ॐ भक्तान्तःकरण-भावित-सुवास-पुष्पार्पिताय नमः ।
ॐ भक्तिपुष्प-सङ्गीत-क्षिपण्यवे नमः ।
ॐ भक्तिसुरभित-गानमधुरित-निश्चलचित्त-पुष्पार्चिताय नमः ।
ॐ भक्त-हृद्गुहा-विकाशित-नादस्फूर्तये नमः ।
ॐ स्वर्णवन्नादतेजसे नमः ।
ॐ एकान्तयेवानुभूयमानाय स्वरोचिषे नमः ।
ॐ सुनादमूलातिगहन-प्रशान्तये नमः ।
ॐ नादब्रह्म-सूक्ष्मरूप-प्राणशक्तये नमः ।
ॐ स्वच्छ-प्रशान्त-मनःस्फुट-नादब्रह्मणे नमः । ५२८
ॐ नादबिन्दवे नमः ।
ॐ नादवलयिताय नमः ।
ॐ नादलयाय नमः ।
ॐ नादालयाय नमः ।
ॐ नादालयज्ञानदीपाय नमः ।
ॐ नादालयहृद्दैवताय नमः ।
ॐ नादार्चये नमः ।
ॐ नादार्चिताय नमः ।
ॐ नादसिद्धये नमः ।
ॐ नादातिशक्तये नमः ।
ॐ नादोपासक-स्वैकीभावक-नादातिगुरवे नमो नमः ।
ॐ नादब्रह्मानन्दसद्गुरुश्रीत्यागराजस्वामिने नमो नमः ॥ ५४०
ॐ
इति सद्गुरुश्रीत्यागराजस्वामिनः सुपादयुग्मपुष्पे
गुरुपादयुक्तपुष्पया तथ्योपचारोपहारीकृता
पञ्चशतीनामावलिः ।
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan