सद्गुरुश्रीत्यागब्रह्मसहस्रनामावली
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्मसहस्रनामावली ॥
ॐ त्यागराजाय विद्महे नाददेवाय धीमहि ।
तन्नो ब्रह्म प्रचोदयात् ॥
अथ सहस्रनामावलिः ।
ॐ
ॐ सङ्गीतालय-प्रतिष्ठित-भगवते नमः ।
ॐ ओंकारविग्रहाय नमः ।
ॐ नादोपासन-लालसा-प्रज्वलित-दीपसन्निधि-देवाय नमः ।
ॐ भक्ताश्र्वभिषिक्त-पावन-मूर्तये नमः ।
ॐ अनुराग्यत्यन्तभक्ति-भाव-चेलावृताय नमः ।
ॐ सुस्वर-सुवासिताय नमः ।
ॐ नादकुसुम-भूषिताय नमः ।
ॐ नामकुसुम-पूजिताय नमः ।
ॐ ध्यानस्थास्वर्चिताय नमः ।
ॐ सहस्रनाम-सामोद-पुष्पाञ्जलि-समर्पिताय नमः ।
ॐ सुस्वरगान-तृष्णात्मताप-धूपार्पिताय नमः ।
ॐ कृताञ्जल्यात्मनिवेदनाभिवन्दिताय नमः । १२
ॐ घन-नय-राग-गान-दीपाराधन-सन्दर्शिताय नमः ।
ॐ झणत्कार-घण्टानाद-मधुरगान-ज्वलत्-
प्रेमहृत्कर्पूर-नीराजिताय नमः ।
ॐ स्वात्मानन्द-नादरूप-दर्शनानन्द-प्रसाददाय नमः ।
ॐ नादब्रह्मानन्द-स्वरूपाय नमः ।
ॐ नादानन्द-नर्तन-रूपाय नमः ।
ॐ उपासक-मनोरङ्ग-नर्तन-सुस्वरदेवतायै नमः ।
ॐ सरिगमपधनि-वर-सप्तस्वरानन्द-लास-लस-सङ्गीतदेवतायै नमः ।
ॐ नादासक्त-हृच्चित्त-कण्ठ-जिह्वस्थ-नाददेवतायै नमः ।
ॐ शोशुभ्यमान-सप्तस्वर-स्फुरत्-प्रभामण्डल-वलयिताय नमः ।
ॐ सङ्गीतानन्द-सुप्रभ-सुमुखाय नमः ।
ॐ नादरूप-श्रीराम-तिलकित-सुललाटूलाय नमः ।
ॐ ज्ञानोद्वह्नि-नयनदीप्तये नमः । २४
ॐ सुस्वर-सौरभ्य-श्वसत्-सुनसे नमः ।
ॐ सप्तस्वर-घण्टिका-मण्डित-कोदण्डपाणि-नामोच्चारणोष्ठाय नमः ।
ॐ मङ्गलवाण्यानन्द-नटन-मधुजिह्वाय नमः ।
ॐ घन-नय-रव-गान-सुधास्पर्धि-मधुरकण्ठाय नमः ।
ॐ स्वराक्षरमालालङ्कृत-कन्धराय नमः ।
ॐ स्वराक्षमालाशोभित-सुहृद्देशाय नमः ।
ॐ तुम्बर-ताल-सुनादन-करारविन्दाय नमः ।
ॐ नाभीहृत्कण्ठरसन-नासाभ्रमण-नादात्मकाय नमः ।
ॐ नादोपासन-सुस्वर-पुष्पापूजित-पदपुण्डरीकाय नमः ।
ॐ ओंकारावर्त्यन्तर्बीजाय नमः ।
ॐ ओंकारगूढ-नादमूल-प्रशान्तये नमः ।
ॐ प्रशान्ति-मूलक-दिव्य-प्रणवनाद-स्वरूपिणे नमः । ३६
ॐ ओंकारान्तस्थ-सुनादस्वरूप-भक्तान्तरीक्ष-व्यापिने नमः ।
ॐ सुनादभृत्-पर्याप्त-परमानन्द-प्रशान्तये नमः ।
ॐ सुस्वरान्तस्थित-सूक्ष्मरूपाय नमः ।
ॐ सुखश्रव-मधुर-नादरूप-सर्वव्यापिने नमः ।
ॐ मधुरस्वर-वीणा-प्रक्वण-स्थायिने नमः ।
ॐ अक्षर-सुस्वर-सञ्चर-सङ्गीतवाण्यै नमः ।
ॐ निश्शब्दोत्पन्न-सुशब्द-स्वरूपाय नमः ।
ॐ नीरव-श्रुति-सहित-गाथ-कलघोषाय नमः ।
ॐ ओंकार-श्रुति-सहित-कलोत्ताल-गानस्वरूपाय नमः ।
ॐ अखण्ड-नादानन्द-महाकाशाय नमः ।
ॐ अगाध-नाद-महोदधये नमः ।
ॐ अपार-नादार्णव-पाराय नमः । ४८
ॐ मौनाब्ध्युत्पन्न-मृदुतर-मधुस्वर-तरङ्गाय नमः ।
ॐ श्रीरामनाम-श्रुतिसहित-गीततरङ्ग-पूरित-नाद-नीरधये नमः ।
ॐ श्रीरामनामोर्मि-संसारतीरोपक्रमण-सङ्गीतानन्दपुरणाय नमः ।
ॐ अमृतमय-सुस्वरार्णव-क्षितिजोदित-सितरश्मये नमः ।
ॐ सङ्गीत-समीच-विद्योतन-हिमद्युतये नमः ।
ॐ सङ्गीतपयोनिध्यानन्दलहर्युत्थापन-राकाहिमकराय नमः ।
ॐ सुस्वरसुधाब्धि-मुदावीचि-स्फुरद्रजत-
धवलप्रकाशन-शरच्चन्द्रिकायै नमः ।
ॐ समुद्रतट-ज्योत्स्न्यानन्दद-सङ्गीतकौमुद्यै नमः ।
ॐ सङ्गीतानन्दामृत-वर्षण-मधुरगान-पीयूषनिधये नमः ।
ॐ सङ्गीत-भुविस्तीर-प्रवात-शीतल-सुवास-सुस्वर-समीराय नमः ।
ॐ अमृतत्व-पूरित-सङ्गीत-रसानुभवमयाय नमः ।
ॐ अमृत-सेचन-दया-पयोधर-वाक्प्रभवाय नमः । ६०
ॐ मधुरगान-तडित्वते नमः ।
ॐ परिधीर-गम्भीर-नाद-पयोभृते नमः ।
ॐ दिव्यगान-धारावाहिने नमः ।
ॐ सङ्गीतसीमारुणोदयाय नमः ।
ॐ सङ्गीतव्योम-नानाराग-रञ्जनकर-पिञ्जर-भासवे नमः ।
ॐ सुस्वरार्णव-विरोचन-विभाकराय नमः ।
ॐ विशाल-विपुल-गानगगन-भ्राजिष्णु-भास्करतेजसे नमः ।
ॐ शुष्क-मनोमरु-सङ्गीत-स्रोतसात्कर्त्रे नमः ।
ॐ सङ्गीततृष्णा-संतुष्टि-करोत्साय नमः ।
ॐ सङ्गीत-सुगन्ध-पुष्पारामामोद-सुस्वर-मन्दमारुताय नमः ।
ॐ सुखश्रव-गान-सौगन्ध्य-वहन-मलयमारुताय नमः ।
ॐ गानकुञ्ज-गुञ्जन्-मधुकराय नमः । ७२
ॐ गान-कानन-निलयाय नमः ।
ॐ गानगङ्गा-रयाय नमः ।
ॐ गाननिर्झर-नाम-मधुधारायै नमः ।
ॐ सङ्गीत-विपिन-सुस्वर-कूजित-वसन्तघोषिणे नमः ।
ॐ सङ्गीतज्ञान-नदी-भक्ति-मूलस्रोतसे नमः ।
ॐ सङ्गीत-नभोमण्डल-दीदिवि-देवभूयाय नमः ।
ॐ रागहिमालय-रौप्यमयकर-रामचन्द्रपादाय नमः ।
ॐ श्रीरामसूर्यारुणीकृत-सुस्वर-हिमाद्रिशिखराय नमः ।
ॐ श्रीरामसरोवर-प्रतिबिम्बित-सङ्गीतमूर्तये नमः ।
ॐ सङ्गीतसरोवर-प्रतिबिम्बिताय साक्षात् श्रीराममूर्तये नमः ।
ॐ परावर-विबोभुवन्-नादभाससे नमः ।
ॐ कूपार-व्योमदघ्न-नादाकृतये नमः । ८४
ॐ नगाधिराज-हिमालयोत्तुङ्गतर-गानाधिराजाय नमः ।
ॐ भक्ति-हिमवत्प्रभव-दिव्यसङ्गीत-ज्ञानगङ्गायै नमः ।
ॐ स्मृतमात्र-मुक्तिद-गानगङ्गोद्भेदाय नमः ।
ॐ विगाह-ह्लादक-कृतिगङ्गा-प्रवाहाय नमः ।
ॐ क्लान्त-मनःशरीरौषध-दैविक-कीर्तनगङ्गायै नमः ।
ॐ कोप-ताप-पाप-यापनोत्पवन-पुण्य-गीतगङ्गायै नमः ।
ॐ मनःपावक-दिव्य-वाग्गङ्गाप्रवाहिणे नमः ।
ॐ ज्ञानपिङ्गाश-रागमय-गानगङ्गाप्लावाय नमः ।
ॐ परब्रह्मस्वरूप-गङ्गापावित्र्यापररूपाय नमः ।
ॐ प्रदोषरमणीय-गङ्गातीर-गभीरप्रशान्तये नमः ।
ॐ गङ्गास्नानफलप्रद-श्रीरामध्यान-विधायिने नमः ।
ॐ प्रणव-व्योम-प्रभूत-पञ्चनदक्षेत्र-विभूत-
सङ्गीतोपासनहृत्- पुष्पानुराग-मधुसागर-सङ्गमित-
सङ्गीत-सुरगङ्गायै नमः । ९६
ॐ सङ्गीतमय-जीवनाधारश्रुतये नमः ।
ॐ सङ्गीत-कल्पद्रुमाय नमः ।
ॐ सङ्गीतसुम-भक्तिसौरभ्याय नमः ।
ॐ सङ्गीतज्ञानफलाय नमः ।
ॐ सङ्गीतस्वादाय नमः ।
ॐ पर्याप्त-स्वादुमयाय नमः ।
ॐ स्वादु-फलप्रदाय नमः ।
ॐ सांसिद्धिक-सङ्गीतवरदाय नमः ।
ॐ सङ्गीतोपासनाखण्डानन्द-सौमङ्गल -संवर्धकाय नमः ।
ॐ सुस्वरधाम्ने नमः ।
ॐ सङ्गीतापरनाम्ने नमः ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । १०८
ॐ सस्मित-सङ्गीतदेवाय नमः ।
ॐ सदानन्द-सङ्गीतसत्त्वाय नमः ।
ॐ सङ्गीत-सत्त्वसाराय नमः ।
ॐ सदातन-सङ्गीतानन्दकाराय नमः ।
ॐ सद्यःप्राणकर-सङ्गीत-सञ्जीवनौषधये नमः ।
ॐ समुन्नत-नादाचल-शिखराय नमः ।
ॐ समुन्नत-नादाचलशिखर-भासकाय नमः ।
ॐ सौदामनीय-नादभाससे नमः ।
ॐ सौवर्णपर्ण-नादकलहंसाय नमः ।
ॐ सौरभ्यगाढ-सङ्गीतब्रह्मकमलाय नमः ।
ॐ सङ्गीतकूटावतीर्ण-ज्ञानगङ्गायै नमः ।
ॐ सनातन-परब्रह्म-सगुणोपासन-सङ्गीतमार्ग-संज्ञापनार्थावतीर्ण-
परमपावनाय नमः । १२०
ॐ परिपूर्णावतार-श्रीराम-ध्यान-नामभजन-सुगुणगान-
परिपूर्णार्थाय नमः ।
ॐ नादरूप-श्रीरामनुति-नादावताराय नमः ।
ॐ श्रीरामाचलोद्भूत-सुरगान-द्युसरिते नमः ।
ॐ श्रीरामभक्तिमूलक-नाद-नभोनद्यै नमः ।
ॐ श्रीरामभक्त्युल्लोल-सङ्गीत-कल्लोलिन्यै नमः ।
ॐ श्रीरामपावननाम-गानप्रवाहाय नमः ।
ॐ श्रीरामनामावलि-स्फुरन्-नादपर्जन्याय नमः ।
ॐ श्रीरामनामनर्दन-जीमूतस्वनाय नमः ।
ॐ श्रीरामनाम-मधुतमगान-जीमूतवर्षिणे नमः ।
ॐ श्रीरामभक्ति-गानसुधाप्लावाय नमः ।
ॐ श्रीराम-नामाविरामगान-मधुगङ्गा-प्रवाहिणे नमः ।
ॐ श्रीरामामृत-प्रसृमर-गानामृत-प्रसराय नमः । १३२
ॐ श्रीरामसागर-सङ्गम-सङ्गीतगङ्गायै नमः ।
ॐ श्रीरामशयन-सङ्गीत-क्षीरसागराय नमः ।
ॐ श्रीरामभक्त्युदरथि-सङ्गीतवीचये नमः ।
ॐ श्रीराममाहात्म्य-साभ्र-सङ्गीतवियते नमः ।
ॐ श्रीरामभक्तिसरोवर-सङ्गीतसौगन्धिकाय नमः ।
ॐ श्रीरामनाम-सरसीरुह-भृङ्गाय नमः ।
ॐ श्रीराम-भृङ्ग-विलसित-सङ्गीत-सरोरुहाय नमः ।
ॐ श्रीरामनाम-मधुमन्--नादकुसुमाय नमः ।
ॐ श्रीरामभक्ति-मधुगन्धिक--नाममधुश्च्युत्-सुस्वर-सुमाय नमः ।
ॐ श्रीराम-स्तुतिगीत-मधु-घांषिणे नमः ।
ॐ श्रीराम-वाङ्माधुर्य-प्रकीर्तन-मधुकण्ठाय नमः ।
ॐ श्रीरामतारक-नामोन्नाद-नाद-मधुघोषाय नमः । १४४
ॐ श्रीरामोद्यान-नामकूजित-गान-कलघोषाय नमः ।
ॐ श्रीरामनाम-नीडाश्रित-गानखगाय नमः ।
ॐ श्रीरामरामकृष्णाहोरात्र-कूजित-जितकोकिलरव-माधुर्याय नमः ।
ॐ श्रीरामसपक्षोड्डीन-गान-काकलिरवाय नमः ।
ॐ श्रीरामनाम-तारकित-सङ्गीताकाशाय नमः ।
ॐ श्रीरामभक्ति-सागर-पाराय नमः ।
ॐ श्रीरामभक्तिसागर-सम्प्लुत-सङ्गीत-मत्स्यावताराय नमः ।
ॐ श्रीरामभक्तिभाग्य-सुधानिधि-प्लवनरामाय नमः ।
ॐ श्रीरामनाम-सङ्कीर्तनारमणाय नमः ।
ॐ श्रीरामानन्त-कल्याणगुण-प्रकीर्तन-देवगायनाय नमः ।
ॐ श्रीरामनाममधुपाय नमः ।
ॐ श्रीराम-मधुतमनाम-गान-मदालापिने नमः । १५६
ॐ श्रीरामनाम-मञ्जुगुञ्जत्समीर-कलरवाय नमः ।
ॐ श्रीरामनाम-काकलि-क्वणित-कायवेणवे नमः ।
ॐ श्रीरामराम-मधुरस्वरित-तनुवीणायै नमः ।
ॐ श्रीरामपूजन-वीणागान-श्रीराग-गिष्णवे नमः ।
ॐ श्रीरामनाम-पूरक-कुम्भक-रेचक-प्राणायाम-नादयोगिने नमः ।
ॐ श्रीराम-नादोपासन-मार्ग-गामिकाय नमः ।
ॐ श्रीराम-सुप्रभात-गान-मधुरालापिने नमः ।
ॐ श्रीराम-सीतारामात्यन्त-वात्सल्याकूजनाय नमः ।
ॐ श्रीराम-स्वगानमधुरित-भक्तिक्षीर-पाययित्रे नमः ।
ॐ श्रीराम-स्वज्ञान-नवनीताशयित्रे नमः ।
ॐ श्रीरामाभिनन्दन-तुम्बरसहित-श्रुतिसुख-
मधुमय-गानार्पयित्रे नमः ।
ॐ श्रीरामगान-स्वानुभूति-ध्यान-समाधिगताय नमः । १६८
ॐ श्रीराम-सुपदध्यान-सुरगङ्गाजल-स्नानशीलाय नमः ।
ॐ श्रीराम-सम्प्रतिष्ठान-स्थिरचित्त-चामीकर-पीठाय नमः ।
ॐ श्रीराम-तेजोमय-विग्रह-ध्यानपराय नमः ।
ॐ श्रीरामाभिषेक-गानामृत-रसाय नमः ।
ॐ श्रीराम-परिधानानुराग-कनकमयचेलाय नमः ।
ॐ श्रीरामावरण-दिव्य-वाक्चेलाय नमः ।
ॐ श्रीरामालङ्करण-नामगानाशोष-कुसुममालाय नमः ।
ॐ श्रीरामाभूषण-स्फुरत्सहस्र-कीर्तन-रत्नावलये नमः ।
ॐ श्रीरामार्पण-स्तुतिभक्ति-धूपदीपाय नमः ।
ॐ श्रीरामार्चन-नामस्मरण-सुमाय नमः ।
ॐ श्रीरामभोग्य-दास्य-वात्सल्य-मधुर-प्रेम-
भक्तिभावस्यन्द-चित्र-दिव्य-कीर्तनाय नमः ।
ॐ श्रीराम-नैवेद्य-स्वपूजाफलाय नमः । १८०
ॐ श्रीरामात्यन्तिकसुख-पूजाताम्बूलाय नमः ।
ॐ श्रीराम-स्वात्म-दीपाराधनाय नमः ।
ॐ श्रीरामदर्शन-दीपाराधनानन्दिताय नमः ।
ॐ श्रीसीताराम-सन्निधि-प्रणिपतित-सङ्गीताकृतये नमः ।
ॐ श्रीराम-सर्वसारत्व-प्रगात्रे नमः ।
ॐ श्रीराम-सर्वसाक्षित्व-साक्षिणे नमः ।
ॐ श्रीरामस्वानुभूति-सम्प्रपात-सङ्गीत-दिव्यवाण्यै नमः ।
ॐ श्रीरामलालन-मधुश्च्युद्गान-भासुराय नमः ।
ॐ श्रीरामलासकाभिरुत-रामराम-गोविन्द-मुकुन्दाय नमः ।
ॐ श्रीरामरामक-वैचित्र्य-चित्रीकृत-गेयचतुराय नमः ।
ॐ श्रीरामानन्द-नर्तन-गाथपतये नमः ।
ॐ श्रीरामानन्द-नर्तित-गानमूर्तये नमः । १९२
ॐ श्रीरामानुरागेक्षुचाप-सप्तस्वर-सुमशर-सङ्गीतलोल-
हृदयहारिणे नमः ।
ॐ श्रीरामसुगुणगानलोलाय नमः ।
ॐ गानलोलश्रीरामलोलाय नमः ।
ॐ मोहनराममोहिताय नमः ।
ॐ गतकामश्रीरामकामिताय नमः ।
ॐ जितरामजितमानसाय नमः ।
ॐ लावण्यरामलालकाय नमः ।
ॐ श्रीसीतारामपूजकाय नमः ।
ॐ जगदात्मश्रीरामस्वात्मारामाय नमः ।
ॐ रमणीयनाम-रामाभिराम-श्रोत्राभिराम-गानलीनाय नमः ।
ॐ सङ्गीतलोल-श्रीरघुवर-लुब्ध-मानसाय नमः ।
ॐ स्वमानस-लासि-श्रीराम-सङ्गीत-सम्परिरब्ध्रे नमः । २०४
ॐ सुधाकरानन-श्रीराम-गानसुधाकराय नमः ।
ॐ सुधामाधुर्य-श्रीरामभाषणापायिने नमः ।
ॐ सुधारसपूर्ण-श्रीराम-पायन-गान-सुधारसपूर्णाय नमः ।
ॐ मधुर-लालिगान-श्रीराम-योगनिद्रा-स्वापकाय नमः ।
ॐ नादरूप-श्रीराम-स्वान-वन्दथाय नमः ।
ॐ सुगुणालय-श्रीराम-सेवन-सुस्वरालयाय नमः ।
ॐ सप्तस्वर-समस्त-श्रीराम-नुति-सुस्वरविग्रहाय नमः ।
ॐ श्रीरामनाम-मौक्तिकसर-लसत्-सङ्गीतमूर्तये नमः ।
ॐ सङ्गीतपुष्पासार-प्रसाधितश्रीराममूर्तये नमः ।
ॐ श्रीरामचन्द्रमूर्ति-सँल्लीन-सङ्गीतानन्दमूर्तये नमः ।
ॐ नादब्रह्मानन्दरूप-श्रीराम-निवास-नादालयाय नमः ।
ॐ नादावतारश्रीत्यागब्रह्मसद्गुरुनाथाय नमो नमः । २१६
ॐ श्रीरामचैतन्याय नमः ।
ॐ श्रीरामप्रेमावताराय नमः ।
ॐ श्रीरामानुरागमूर्तये नमः ।
ॐ श्रीरामालयाकाराय नमः ।
ॐ श्रीरामाकार-हृदय-भावुकाय नमः ।
ॐ श्रीरामभूषण-प्रेमहृदयाय नमः ।
ॐ श्रीरामसुसदन-हृदयायतनाय नमः ।
ॐ श्रीराम-स्वान्तरारामाय नमः ।
ॐ श्रीराम-स्वानुभूति-समाहिताय नमः ।
ॐ श्रीरामभक्ति-योगारूढाय नमः ।
ॐ श्रीरामभक्ति-रसानुभवमयाय नमः ।
ॐ श्रीरामतारकमन्त्र-गानस्वरूपाय नमः । २२८
ॐ श्रीरामांशुजालावृताय नमः ।
ॐ श्रीरामध्यान-लीन-विभ्राजमानाननाय नमः ।
ॐ श्रीरामरेखा-भालाङ्काय नमः ।
ॐ श्रीराम-दिव्यरूप-विकाश-विकाशदुत्पल-चक्षुषे नमः ।
ॐ श्रीरामनामकुसुम-सुवासान-सुनसे नमः ।
ॐ श्रीरामनाम-मधुरस-मधुर-रसनाय नमः ।
ॐ श्रीरामगायन-मधुरकण्ठाय नमः ।
ॐ श्रीराममूर्ति-मुद्रित-सुहृदयाय नमः ।
ॐ श्रीरामपूजन-नामकुसुम-पाणिने नमः ।
ॐ श्रीरामप्रीणन-दिव्यगानोत्थान-मणिपूरक-चक्राय नमः ।
ॐ श्रीरामस्वरूप-प्रणवनादोद्भाव-मूलाधार-चक्राय नमः ।
ॐ श्रीरामनाम-सङ्कीर्तयत्-पावित-पञ्चनदक्षेत्र-
पङ्कजचरणाय नमः । २४०
ॐ श्रीरामसंयुक्त-प्राणाय नमः ।
ॐ श्रीरामप्रेष्ठ-दिव्यवाणाय नमः ।
ॐ श्रीराममय-लपिताय नमः ।
ॐ श्रीरामनाम-शर्करामिश्रित-मिष्टभाषिणे नमः ।
ॐ श्रीरामनाम-पुष्पावल्यामोदितोरस्काय नमः ।
ॐ श्रीरामभक्ति-चन्दनिने नमः ।
ॐ श्रीरामभक्त-मुद्रिताय नमः ।
ॐ श्रीरामनाम-खड्गधारिणे नमः ।
ॐ श्रीरामस्मरण-रोमाञ्चन-कञ्चुकिने नमः ।
ॐ श्रीरामभक्तिमार्ग-प्रत्यूहन-कामक्रोधादि-शत्रून्मूलनाय नमः ।
ॐ श्रीरामभक्तिलक्ष्मणे नमः ।
ॐ श्रीरामोपसेविने नमः । २५२
ॐ श्रीराम-दास्यभाव-वन्दिने नमः ।
ॐ श्रीरामदास-दास-स्व-मानिने नमः ।
ॐ श्रीराम-सतताश्रित-मनस्विने नमः ।
ॐ श्रीरामभक्ति-स्थेष्ठ-तपस्विने नमः ।
ॐ श्रीरामसद्भक्ति-पदवि-तेजस्विने नमः ।
ॐ श्रीरामानुभूत्यानन्द-सुत्वने नमः ।
ॐ श्रीराममय-सर्व-दृश्वने नमः ।
ॐ श्रीराम-स्वान्तरनवरत-दृष्टिने नमः ।
ॐ श्रीरामप्रेम-चिरस्थायिने नमः ।
ॐ श्रीरामनाम-स्मरणसुखिने नमः ।
ॐ श्रीरामसन्निधि-सेवसुखिने नमः ।
ॐ श्रीराम-सुकीर्तन-नुतये नमः । २६४
ॐ श्रीरामनाम-गानैकवृत्तये नमः ।
ॐ श्रीराम-सुगुणार्चत्रये नमः ।
ॐ श्रीराम-स्व-हृद्राजीवार्चित्रे नमः ।
ॐ श्रीरामैकान्ताराधयित्रे नमः ।
ॐ श्रीरामनिकट-लोक-तृणमात्रावेक्षित्रे नमः ।
ॐ श्रीरामापर्यन्त-प्रताप-विस्मयिने नमः ।
ॐ श्रीरामचरणोपगूढ-विस्मृतात्मने नमः ।
ॐ श्रीरामालिङ्गन-रोमहर्षिणे नमः ।
ॐ श्रीराम-चिन्तितमात्रोद्धर्षिणे नमः ।
ॐ श्रीराम-चिन्तनाच्छिन्नाय नमः ।
ॐ श्रीरामचिन्तन-गतचिन्तनाय नमः ।
ॐ श्रीरामनाम-जप-स्मरण-व्रतपरायण-पूतात्मने नमः । २७६
ॐ श्रीराममय-जीवनाचरित-महाज्ञानिने नमः ।
ॐ श्रीरामपद-पूजन-गान-प्रणेत्रे नमः ।
ॐ श्रीराम-परमोत्तमगुण-प्रतिज्ञेयाय नमः ।
ॐ श्रीरामानुग्रह-बल-दृढप्रत्ययाय नमः ।
ॐ श्रीराम-दृढबद्धाय नमः ।
ॐ श्रीराम-परिष्टवन-विशिष्टाय नमः ।
ॐ श्रीराम-सपर्या-पर्यायाय नमः ।
ॐ श्रीमद्रामायण-पारायण-परायणाय नमः ।
ॐ श्रीमद्रामायण-प्रतिसान्धानिकाय नमः ।
ॐ श्रीराम-सुचरित्र-समुद्र-विमङ्क्त्रे नमः ।
ॐ श्रीमद्रामायण-सुरस-घटन-बहुल-मुक्ताफल-
स्फुरत्-कीर्तनावलिकर्त्रे नमः ।
ॐ श्रीरामपरत्व-द्योतन-भूयिष्ठ-कृतिरत्नाय नमः । २८८
ॐ श्रीराम-नामालुप्ताभिलेखन-गीतपत्राय नमः ।
ॐ श्रीरामतारकनाम-वैभव-विभावकाय नमः ।
ॐ श्रीरामतारकरूप-निजतत्त्व-ज्ञापकाय नमः ।
ॐ श्रीरामस्तुतिस्तोम-कीर्तनोरुकीर्तये नमः ।
ॐ श्रीराम-भजनानन्द-कीर्तन-वनिने नमः ।
ॐ श्रीराम-सदातन-गानाञ्जलि-विश्रुताय नमः ।
ॐ श्रीराम-नेत्रानन्द-रूपलावण्य-वर्णन-गायनललमाय नमः ।
ॐ श्रीराम-दिव्यनामसङ्कीर्तन-प्रीणित-प्रबुधाय नमः ।
ॐ श्रीरामनाम-श्रुतमात्र-रोमोद्गमाय नमः ।
ॐ श्रीराम-सुपद-चेतोध्र-गेयधन्याय नमः ।
ॐ श्रीरामपादार्चन-गीतपुष्पामोद-वाहिने नमः ।
ॐ श्रीरामनाम-गान-कदम्बानिलाय नमः । ३००
ॐ श्रीराममय-कलत्व-क्वणित-सुस्वरवीणायै नमः ।
ॐ श्रीरामसमर्पण-सङ्गीत-तनुषे नमः ।
ॐ श्रीरामप्रेम-सङ्गीतज्ञान-समष्टि-वपुषे नमः ।
ॐ श्रीराममोद-नादित-नामरूपाय नमः ।
ॐ श्रीरामनाम-मोदसार-नादरूपाय नमः ।
ॐ श्रीरामचन्द्र-गानकिरणाय नमः ।
ॐ श्रीरामसूर्य-नामरश्मये नमः ।
ॐ श्रीरामाभिन्नाय नमः ।
ॐ श्रीरामनामावस्थिताय नमः ।
ॐ श्रीरामतारकमन्त्रगोचराय नमः ।
ॐ श्रीरामतारकमन्त्रगम्याय नमः ।
ॐ श्रीरामतारकमन्त्रोपदेशन-गुरुदेवाय नमः । ३१२
ॐ श्रीरामतारकमन्त्र-गुह्यार्थ-प्रज्ञानदाय नमः ।
ॐ श्रीराम-नादब्रह्मैक्य-व्यक्तीकरण-कृतिदात्रे नमः ।
ॐ श्रीरामभक्त्यत्यूर्मि-सुकीर्तन-हृत्पूर्व-गाथिकाग्राविर्भूताय नमः ।
ॐ श्रीरामानुग्रह-निर्वपण-सङ्गीतानुग्रह-मूर्तये नमः ।
ॐ श्रीरामतारकमन्त्र-जप-दीपज्योतिर्-विरोचिष्णवे नमः ।
ॐ श्रीरामैकान्तचिन्तन-धूपाधिवासिताय नमः ।
ॐ श्रीरामप्रेम-कुड्मलित-हृत्-पुष्पार्चनप्रियाय नमः ।
ॐ श्रीरामानन्यशरणागति-भाव-मधु-नैवेद्यप्रियाय नमः ।
ॐ श्रीरामनामसङ्कीर्तन-भजन-दीपाराधनप्रियाय नमः ।
ॐ श्रीरामतारकनामानवरत-जपपरायण-शिष्यप्रियाय नमः ।
ॐ श्रीरामप्रसाद-सङ्गीतज्ञानदाय नमः ।
ॐ श्रीरामभक्तसमूहपूजनीयसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ३२४
ॐ अनन्यगुरवे नमः ।
ॐ अनन्त्य-नादशक्तये नमः ।
ॐ अनिमान-नादोर्जाय नमः ।
ॐ अनधिक-नादव्योम-विस्तृताय नमः ।
ॐ अत्यादित्य-नादौजसे नमः ।
ॐ अभिरोरुद-नादात्मने नमः ।
ॐ अभ्यर्हित-नादगुरवे नमः ।
ॐ अनातप-नादतरवे नमः ।
ॐ अतिगहन-नादारण्याय नमः ।
ॐ अमितानन्दौजस-नादमहार्णवाय नमः ।
ॐ अभिविमान-सङ्गीत-सुमहते नमः ।
ॐ अनन्तनादब्रह्मणे नमः । ३३६
ॐ अक्षर-सुस्वर-लय-नादात्मने नमः ।
ॐ अक्षर-सुस्वर-पुष्पार्चिताय नमः ।
ॐ अव्याज-नादमूर्तये नमः ।
ॐ अनन्त-नादानन्द-कन्दाय नमः ।
ॐ अखण्डगानानन्दकाराय नमः ।
ॐ अनित्यलोक-नित्यैकवस्तुने नमः ।
ॐ अचिन्त्यरूपाय नमः ।
ॐ अघल-पदयुगलाय नमः ।
ॐ अनन्यभक्तोद्दितानन्ताय नमः ।
ॐ अनन्तश्रीरामोद्दान-मधुरगानाय नमः ।
ॐ अन्तरात्मश्रीरामगानात्मने नमः ।
ॐ अपरिमित-सङ्गीतानन्द-लहर्यै नमः । ३४८
ॐ अनायासोद्भूत-नादामृत-स्रुतये नमः ।
ॐ अविघात-गानगतये नमः ।
ॐ अमृतवागधिपतये नमः ।
ॐ अमितमाधुर्य-पदप्रयोग-विचक्षणाय नमः ।
ॐ अविश्रान्तनादवर्षाय नमः ।
ॐ अतिस्वादुतर-गानप्रक्षरणाय नमः ।
ॐ असमान-कृतिकाराय नमः ।
ॐ अद्भुत-कविवराय नमः ।
ॐ अनुरागामोदित-सप्तस्वरदल-नादकुसुमाय नमः ।
ॐ अतिसौरभ-सहस्रदल-नामकुसुमाय नमः ।
ॐ अत्यूष-सुस्वर-गानोपासनीयाय नमः ।
ॐ अनुदिन-समर्पणीयाविच्छिन्न-गानाञ्जलये नमः । ३६०
ॐ अविच्युत-नित्योपासन-प्रीताय नमः ।
ॐ अविरत-स्मरणार्द्रीभूतानन्य-भक्ताध्यक्षाय नमः ।
ॐ अनवरत-प्रार्थिकानारत-नादरूप-सहवर्तकाय नमः ।
ॐ अभिरक्तोपासित्रभिरक्षित्रे नमः ।
ॐ अनन्यगतिक-करुणावेक्षणाय नमः ।
ॐ अनन्यभाक्-सङ्गीत-शिक्षागुरवे नमः ।
ॐ अनानुदाय नमः ।
ॐ अक्षितवसवे नमः ।
ॐ अक्षय्य-नादविद्या-दधाय नमः ।
ॐ अन्तरहित-सङ्गीतानन्द-वरप्रसाददाय नमः ।
ॐ अनन्यदृष्टि-नादब्रह्मज्ञानदाय नमः ।
ॐ अनन्यार्थ-नादोपासनापवृक्तिदाय नमः । ३७२
ॐ अनन्यशरणागताभ्युपपादयित्रे नमः ।
ॐ अभयाञ्जल्यविदूराय नमः ।
ॐ अनुशयि-जिगत्नवे नमः ।
ॐ अनुकम्पाकृतये नमः ।
ॐ अनानुकृत्याय नमः ।
ॐ अवगाढ-शम-महोदधये नमः ।
ॐ अखण्डनामसङ्कीर्तनप्रियाय नमः ।
ॐ अनन्यभक्ताप्ताय नमः ।
ॐ अनुराग-राग-संयोगाय नमः ।
ॐ अनुराग्यन्तरात्म-स्वरूप-रागरूपाय नमः ।
ॐ अविज्ञ-भक्तात्मतापार्चिताय नमः ।
ॐ अशक्त-भक्तानुराग-मनो-वचन-कर्म-पूज्यमान-गुरवे नमः । ३८४
ॐ आसक्तोपासकात्मसात्कर्त्रे नमः ।
ॐ आविर्भूत-नादौजसे नमः ।
ॐ आपृक्त-नादान्तरीक्ष-दिव्यतेजसे नमः ।
ॐ आद्यन्त-रहितानुराग-परञ्ज्योतिषे नमः ।
ॐ आसङ्ग-सङ्गीतानन्दावृताय नमः ।
ॐ आराधक-हृदयकमल-निवासाय नमः ।
ॐ आयुत-भक्तचित्ताय नमः ।
ॐ आत्मसनये नमः ।
ॐ आश्रितैकनिधये नमः ।
ॐ आत्मनिवेदि-हृदयपूर्वानुराग-कार्त्स्न्याय नमः ।
ॐ आनन्दक-सङ्गीतातिगुरवे नमः ।
ॐ आचार्यदेवाय नमः । ३९६
ॐ आयुरारोग्यप्रदाय नमः ।
ॐ आलस्य-क्षोभणकराय नमः ।
ॐ आह्लादक-गानविद्या-वरदाय नमः ।
ॐ आगाध-रागताल-वित्तिदाय नमः ।
ॐ आत्मज्ञानावबोधकाय नमः ।
ॐ आत्मतत्त्व-ज्ञानदाय नमः ।
ॐ आत्मीभाव-हेतुकाय नमः ।
ॐ इष्टदैवताय नमः ।
ॐ इयसा-व्यपाकर्त्रे नमः ।
ॐ इयक्षु-नादविद्याभिनिष्पत्ति-वित्तापयित्रे नमः ।
ॐ इक्षुरसस्रव-सुकवित्व-दात्रे नमः ।
ॐ इष्टार्थ-शुभ-सङ्गीतानन्ददुहे नमः । ४०८
ॐ इहभोग-ज्ञान-मोक्ष-प्रदात्रे नमः ।
ॐ ईहित-सङ्गीत-लयानुसम्पत्ति-समीरयित्रे नमः ।
ॐ ईश्वरप्रसाद-नादविद्या-सौक्ष्म्योपदेष्ट्रे नमः ।
ॐ उत्तमश्लोक-सङ्गीतगुरवे नमः ।
ॐ उदात्त-सङ्गीतमय-जीवनोदाहृतये नमः ।
ॐ उत्थित-नादावभासाय नमः ।
ॐ उद्वेल-नाद-सिद्धसिन्धवे नमः ।
ॐ उत्तमसङ्गीतसिद्धाय नमः ।
ॐ उत्सवसम्प्रदायकीर्तनापराय नमः ।
ॐ उत्सवसम्प्रदाय-मधुरकीर्तन-श्रीराम-नूपुर-
झाङ्कृति-श्रावयित्रे नमः ।
ॐ उदात्त-सुस्वर-रामरामोत्कूजित-गानकोकिलाय नमः ।
ॐ उषोगानाराधन-विधायिने नमः । ४२०
ॐ उषोपगापितानुरागार्द्रैकान्तोपासकाय नमः ।
ॐ उपासकोत्तारकाय नमः ।
ॐ उपासकान्तस्थिताय नमः ।
ॐ ऊर्ध्वोड्डीन-सुस्वर-सपक्षाय नमः ।
ॐ ऋग्म्यूमाय नमः ।
ॐ ऋजुवनये नमः ।
ॐ ऋणानुबन्ध-विमोक्त्रे नमः ।
ॐ ऋतन्ये नमः ।
ॐ ऋतधीतये नमः ।
ॐ ऋतधाम्ने नमः ।
ॐ एकदृश्याय नमः ।
ॐ एकान्तभक्तिपुष्पोपासितसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ४३२
ॐ एकान्तभक्तिप्रतीतसद्गुरवे नमः ।
ॐ एकाग्रध्यानगम्याय नमः ।
ॐ एकाग्रभक्तान्तर्ज्ञानचक्षुर्विकाशकाय नमः ।
ॐ एकाग्रध्यातृ-श्रोत्रगोचर-सुस्वरामृत-वाण्यै नमः ।
ॐ एकनिष्ठ-ध्यानस्थान्तरीक्षोत्थान-नादोदर्चिषे नमः ।
ॐ एकमनः-सपर्यु-सङ्गीतापवर्गदाय नमः ।
ॐ ऐकाग्र्यप्रदाय नमः ।
ॐ ओंकारनादरूपिणे नमः ।
ॐ औजस्यनादशक्तये नमः ।
ॐ कदनादकाय नमः ।
ॐ कलस्वनानुग्राहिणे नमः ।
ॐ करुणाकटाक्षेक्षणाय नमः । ४४४
ॐ कल्मषनाशनोद्द्योतवीक्षणाय नमः ।
ॐ कष्टनिवारिणे नमः ।
ॐ कर्मकौशलप्रदायिने नमः ।
ॐ कर्मबन्धन-विदलनकराय नमः ।
ॐ कालकालाय नमः ।
ॐ कारुण्यमीराय नमः ।
ॐ कार्यसिद्धिप्रदाय नमः ।
ॐ कार्तस्वरस्वराय नमः ।
ॐ किरद्-रामचन्द्रांशुजाल-सुस्वर-पूर्णचन्द्राय नमः ।
ॐ कीर्तनाचार्याय नमः ।
ॐ कुण्डलीशशयन-कीर्तनानन्दनाय नमः ।
ॐ कूर्मावतार-गानामोदनाय नमः । ४५६
ॐ कृष्णवसन-सुकीर्तन-वायकाय नमः ।
ॐ कृष्णलीलारसिक-गायकाय नमः ।
ॐ केशवकीर्तन-केवलज्ञानदाय नमः ।
ॐ कैवल्यप्रद-कल्याणराम-कीर्तन-निदेशिने नमः ।
ॐ कोलाहल-सप्तस्वर-गृहीत-देहाय नमः ।
ॐ कोदण्डराम-गानाराधनानन्दनाय नमः ।
ॐ कौतुकित-जानकीजान्युपगायनाय नमः ।
ॐ क्रवण-भक्तृ-स्पर्त्रे नमः ।
ॐ क्वणत्-सुस्वरमय-कलत्व-शिष्यतनुवीणाय नमः ।
ॐ क्षणमप्यविस्मृताय नमः ।
ॐ क्षरान्तस्थाक्षरात्मने नमः ।
ॐ क्षान्तिमते नमः । ४६८
ॐ क्षिप्रोद्धर्त्रे नमः ।
ॐ क्षीरसागर-विहारातिललित-रमणीय-गान-सुभूषण-विहारिणे नमः ।
ॐ क्षीरसागरशयन-श्रीराम-स्वगानसागरशायनाय नमः ।
ॐ क्षुब्धार्णव-मन-उपशमनाय नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षैप्र-कवित्वदाय नमः ।
ॐ खगतुरङ्ग-गानतुङ्गाय नमः ।
ॐ ख्यापितोद्दण्डरामाय नमः ।
ॐ गरिष्ठाय नमः ।
ॐ गम्भीरध्वनये नमः ।
ॐ गभीरात्मने नमः ।
ॐ गभीरवेध-नाद-सूक्ष्मशक्तये नमः । ४८०
ॐ गङ्गापावन-नामतीर्थ-प्रोक्षण-गानलहर्यै नमः ।
ॐ गानगहनाय नमः ।
ॐ गाहित-गानार्णवाय नमः ।
ॐ गिरा-माधुर्य-वरदाय नमः ।
ॐ गीर्देवी-निरन्तरवास-जिह्वाग्र-भक्ताग्र्याय नमः ।
ॐ गुणमय-श्रीराम-गानानन्दमय-गुण्याय नमः ।
ॐ गुञ्जित-रामराम-नामकुसुम-गान-मधुलोलुपाय नमः ।
ॐ गुष्पितानन्यशिष्यात्मांशुकाय नमः ।
ॐ गुम्फित-गुणाक्षरमाला-सुशोभयितृ-गुरुनाथाय नमः ।
ॐ गुरुतमाय नमः ।
ॐ गुरूत्तमाय नमः ।
ॐ गूढात्मशक्तये नमः । ४९२
ॐ गृहदैवत्याय नमः ।
ॐ गेयज्ञाय नमः ।
ॐ गोविन्दनामसङ्कीर्तन-गेयेन्द्राय नमः ।
ॐ गौरवार्थ-भावाढ्य-गाथपतये नमः ।
ॐ घननिभ-देह-श्रीराम-गानानन्दघनाय नमः ।
ॐ घोरासुरहर-श्रीरामहर-सुस्वराय नमः ।
ॐ घ्राणतर्पण-नामकुसुम-रामपूजन-चोदनाय नमः ।
ॐ चरणपतित-सर्वच्छन्दकाय नमः ।
ॐ चलचित्त-स्थिरकराय नमः ।
ॐ चकितशिरा-धृतिकराय नमः ।
ॐ चकासित-सुस्वरद्युतये नमः ।
ॐ चन्द्रवदन-रामचन्द्र-गानानन्द-चन्द्रवदनाय नमः । ५०४
ॐ चमत्कृति-पदरम्य-माधुर्य-कविचञ्चवे नमः ।
ॐ चराचर-व्यापकोंकारान्तर्गर्भ-वेदयित्रे नमः ।
ॐ चारुसार-सङ्गीतस्वराय नमः ।
ॐ चारुनेत्र-श्रीराम-गानानन्द-क्लिन्ननेत्राय नमः ।
ॐ चित्रपदार्थ-भावस्निग्ध-मधुरगीत-श्रीराम-रोचुकाय नमः ।
ॐ चिद्घन-श्रीराम-गानपर-चिदानन्दरूपाय नमः ।
ॐ चिरस्थायि-सङ्गीतानन्द-सुकीर्तन-प्रदात्रे नमः ।
ॐ चित्तसङ्ख्य-सद्गुरुनाथाय नमः ।
ॐ चित्तवृत्ति-निरोधकाय नमः ।
ॐ चिच्छक्त्युत्तेजकाय नमः ।
ॐ चिन्तितार्चिताय नमः ।
ॐ चित्तशोधन-नामतारकाय नमः । ५१६
ॐ चीर्ण-रामतारकनाम-स्रग्विणे नमः ।
ॐ चुम्बित-नामकुसुम-नादवेल-गान-समीराय नमः ।
ॐ चूषित-नामसुम-नाद-मधुकृते नमः ।
ॐ चेतोहर-चारुगिरे नमः ।
ॐ चैतन्यपरब्रह्मणे नमः ।
ॐ चोक्ष-कविताशक्तये नमः ।
ॐ च्युत-नामामृत-गान-कनककलश-पाणिने नमः ।
ॐ च्योत-कीर्तनामृत-सङ्गीतदैवताय नमः ।
ॐ छन्दन-रघुनन्दन-वन्दन-भक्तचन्दनाय नमः ।
ॐ छाय-गुरुवराय नमः ।
ॐ छिद्रान्वितानन्यचोदित-शिष्यावसात्रे नमः ।
ॐ छिन्नमानसोपशमनाय नमः । ५२८
ॐ छुरित-रामरत्न-गान-कनकचेलावृत-नाददैवताय नमः ।
ॐ छेकाद्यनुप्रासालङ्कारोत्कट-सुरस-कृतिवार-
श्रीरामालङ्करिष्णवे नमः ।
ॐ जनकजाभाग्य-गेय-भाग्यवते नमः ।
ॐ जलेशशयन-कीर्तनामोदन-कवीशाय नमः ।
ॐ जाजीसुमधर-श्रीराम-नामकुसुमार्चनपराय नमः ।
ॐ जानकीप्राणनायक-नामस्मरण-युक्तप्राण-गायकाय नमः ।
ॐ जानकीनायक-घन-नय-रागालापनाराधकाय नमः ।
ॐ जितपुष्पासव-स्वर-माधुर्याय नमः ।
ॐ जिज्ञासु-श्राय-सुकीर्तनकाराय नमः ।
ॐ जीवल-कृतिप्रकरकराय नमः ।
ॐ जीवशक्तये नमः ।
ॐ जीवात्मसीता-शोकवन-पीडन-वासनावृत्ति-दानवसमूह-कर्मानुबन्ध-
रावणहर-रामनामबाण-सत्कीर्तनकोदण्डपाणि-परमात्मने नमो नमः । ५४०
ॐ जुष्य-सङ्गीतस्वामिने नमः ।
ॐ ज्ञानमयाय नमः ।
ॐ ज्यायिष्ठ-गायकाय नमः ।
ॐ ज्युतिमते नमः ।
ॐ ज्योतिष्ट्वाय नमः ।
ॐ ज्योत्स्नानन्दाय नमः ।
ॐ झणत्कार-सुस्वर-पटुघण्टा-नाम-मधुरतायै नमः ।
ॐ टङ्कार-ज्याघोषण-रामबाण-त्राण-शौर्य-गान-गान्धर्वकाय नमः ।
ॐ टाङ्कृत-रामनामघोष-सुस्वर-कोदण्डपाणिने नमः ।
ॐ तन्त्रीलय-स्थिताय नमः ।
ॐ तत्त्वदर्शकाय नमः ।
ॐ तपोनाथाय नमः । ५५२
ॐ तमोनुद-भाकोषाय नमः ।
ॐ तमोमयशिष्य-चित्तोत्तेजकाय नमः ।
ॐ तारक-सुकीर्तन-बोधकाय नमः ।
ॐ तापस-मानस-सञ्चर-ब्रह्मणे नमः ।
ॐ तितीर्ष्वेकाश्रयाय नमः ।
ॐ तीर्थतमाय नमः ।
ॐ तीव्रोद्यम्युन्नेत्रे नमः ।
ॐ तुरग-घनौघाशुगाय नमः ।
ॐ तुष्टिजननाय नमः ।
ॐ तुर्यातीताय नमः ।
ॐ तूर्णजलाष-भववैद्याय नमः ।
ॐ तृष्णाक्षयकराय नमः । ५६४
ॐ तृषित-सङ्गीतार्थानुग्राहिणे नमः ।
ॐ तेजोबल-संयुक्तिदाय नमः ।
ॐ तैर्थिक-सुकीर्तन-प्रसाददाय नमः ।
ॐ तोषद-सङ्गीतज्ञानदाय नमः ।
ॐ तौर्यत्रिक-प्रसादस्थाय नमः ।
ॐ त्यक्तसङ्गाय नमः ।
ॐ त्रात्रे नमः ।
ॐ दमशमदात्रे नमः ।
ॐ दशरथनन्दनालोकनानन्दिने नमः ।
ॐ दासजनाग्रेसराय नमः ।
ॐ दिव्य-वागम्बर-धराय नमः ।
ॐ दिननक्त-निध्यात-गुरुनाथाय नमः । ५७६
ॐ दीनचित्त-खद्योताय नमः ।
ॐ दीप्त-ज्ञानाग्नये नमः ।
ॐ दुस्स्वप्ननाशनाय नमः ।
ॐ दुवसन-नादगुरवे नमः ।
ॐ दूरपार-सङ्गीत-सुरसरिते नमः ।
ॐ दृढनिश्चय-पादावपातात्मसात्कर्त्रे नमः ।
ॐ देहवन्नादसुप्रभायै नमः ।
ॐ दैविकगानवर्षिणे नमः ।
ॐ दोलारोपित-श्रीरामोत्सवमूर्ति-संस्तावन-मधुरमय-गानाय नमः ।
ॐ दौर्ग्य-विद्रावकाय नमः ।
ॐ द्युमद्गान-वरिवस्या-वरदाय नमः ।
ॐ द्युमन्नादयोगिने नमः । ५८८
ॐ द्रुतनादयोगसिद्धिप्रदाय नमः ।
ॐ द्रुतिकर-गानगङ्गोद्भेदाय नमः ।
ॐ द्वन्द्वनिगड-विमोक्त्रे नमः ।
ॐ द्वयातिगाय नमः ।
ॐ द्वारकानाथ-लीलावैचित्र्य-चित्रगानालापिने नमः ।
ॐ द्विकर-श्रीरामसुपद-भक्तिप्रचोदिने नमः ।
ॐ द्वैताद्वैत-तत्त्वार्थोद्द्योतन-कीर्तन-वनिने नमः ।
ॐ धरणिजालोल-निन्दास्तुतिनन्दिने नमः ।
ॐ धारासार-नामावलिगान-धाराधराय नमः ।
ॐ धिषणावर्धकाय नमः ।
ॐ धीधये नमः ।
ॐ धीरस्वराय नमः । ६००
ॐ धुतानित्यताय नमः ।
ॐ धूनमानसाप्यायन-गान-सरिद्वरायै नमः ।
ॐ धृतहस्तानन्यभक्त-नादोपासन-सुनीथाय नमः ।
ॐ धेय-सत्कीर्तन-सार-सन्दोह-सन्दोहाय नमः ।
ॐ धेष्ठ-नादधनिने नमः ।
ॐ ध्यातव्याय नमः ।
ॐ ध्यानगम्याय नमः ।
ॐ ध्रुवाक्षरान्तस्थाय नमः ।
ॐ ध्वनित-नामाक्षर-सङ्गीतशङ्खाय नमः ।
ॐ ध्वनयन्-नादश्रेयः-सुकृतिवार-कविवराय नमः ।
ॐ ध्वान्तमनो-ज्ञानसूर्याय नमः ।
ॐ नम्यगुरुदेवाय नमः । ६१२
ॐ नादलोलुभ-परिमार्गित-परमगुरवे नमः ।
ॐ नादविद्यार्थ्याधाराय नमः ।
ॐ नादोपासक-लक्ष्याय नमः ।
ॐ नादोपासकोच्छ्वसिताय नमः ।
ॐ नादयोगाध्यवसायि-सिद्धिबीजाय नमः ।
ॐ नादोपासन-निभृतात्मैकाश्रयाय नमः ।
ॐ नादोपासन-संशितव्रताच्छिद्रोतये नमः ।
ॐ नादानन्दवर्षण-सुमधुर-कीर्तन-जालकिने नमः ।
ॐ नादोपासक-वाङ्माधुर्यस्थाय नमः ।
ॐ नामगान-सुधारस-पानापायिने नमः ।
ॐ नादोद्यान-नामावचायिने नमः ।
ॐ नामपुष्पार्चितानन्दित-रामाय नमः । ६२४
ॐ नामप्रताप-ऋग्मिणे नमः ।
ॐ नारायण-हरिनाम-सङ्कीर्तन-परितोषिताय नमः ।
ॐ निरन्तर-नुत-रामतारकनाम्ने नमः ।
ॐ निगमागम-शास्त्र-पुराण-सार-सुकीर्तन-प्रतिपादयित्रे नमः ।
ॐ निजभक्तिबुधानाय नमः ।
ॐ निजभक्तरक्षकाय नमः ।
ॐ निर्वेद-निर्यापकाय नमः ।
ॐ निद्रालस्यारातये नमः ।
ॐ नित्यत्व-वरदाय नमः ।
ॐ नित्यानन्दरूपाय नमः ।
ॐ निरन्तर-नादानन्ददाय नमः ।
ॐ निर्मल-निश्चल-चित्ताय नमः । ६३६
ॐ निर्मल-निश्चल-चित्तस्थाय नमः ।
ॐ निर्मल-चित्ताकाश-विकाश-नादब्रह्म-तिग्मरुचे नमः ।
ॐ निरवधि-सङ्गीतसुखद-सद्गुरवे नमः ।
ॐ निःसन्देह-निवृत्तिद-पदयुगाय नमः ।
ॐ निरुपायैकश्राय-चरणयुगलाय नमः ।
ॐ निजभक्त-स्वाश्लिष्ट-पवित्रचरणाय नमः ।
ॐ नित्य-नूतन-गान-विचक्षणाय नमः ।
ॐ नीलाकृति-घनश्याम-श्रीराम-रूपलावण्य-वर्णनातिरिक्ताय नमः ।
ॐ नुतश्रीरामाय नमः ।
ॐ नूतन-क्षीर-नवनीत-दिव्यगान-प्रत्यूष-प्राशित-श्रीरामाय नमः ।
ॐ नृसिंहदर्शन-पुलकित-प्रह्लादमुख-विवृत-स्वानुभूतये नमः ।
ॐ नृपोत्तमश्रीरामगानापरभागवतोत्तमसद्गुरुश्रीत्यागराज-
स्वामिने नमो नमः । ६४८
ॐ नेमिवृत्ति-नादवृद्धिद-सद्गुरवे नमः ।
ॐ नैराश्यापोहनाय नमः ।
ॐ नैष्कर्म्यसिद्धिप्रद-ज्ञानाचार्याय नमः ।
ॐ नैत्यद-नादोपासन-प्राप्तिदाय नमः ।
ॐ नैसर्गिक-सङ्गीत-वरदाय नमः ।
ॐ नैःश्रेयसिक-नादयोगाचार्याय नमः ।
ॐ नैष्ठिक-वाग्गेयकाराय नमः ।
ॐ न्यक्त-सुस्वरचन्दनानुरागाकाराय नमः ।
ॐ न्यूनध्युद्यम्युत्कर्षकाय नमः ।
ॐ परमात्मज्ञानावबोधकाय नमः ।
ॐ परार्ध्यगुरवे नमः ।
ॐ परमानन्दार्चये नमः । ६६०
ॐ परमानन्दजलधि-श्रीराम-गानानन्दजलधये नमः ।
ॐ परलोकसाधन-श्रीराम-भजन-गान-मार्गण्ये नमः ।
ॐ पराकृत-भक्तिरहित-सङ्गीतज्ञानाय नमः ।
ॐ परिचरित-श्रीसीतारामार्चावतारमूर्तये नमः ।
ॐ परिगत-नामानन्द-द्युतये नमः ।
ॐ परिगलित-नामकीर्तनानन्द-स्वानुभूतये नमः ।
ॐ परिमृष्ट-भक्तिपरिमलाय नमः ।
ॐ परिच्छन्न-श्रीरामभक्तितेजसाय नमः ।
ॐ परिरम्भित-श्रीराममूर्तये नमः ।
ॐ परिमार्गि-प्रत्यक्ष-प्रसत्तये नमः ।
ॐ परिभ्रमित-मायावृत-वावातृ-नादोपासन-प्रणेन्ये नमः ।
ॐ पर्युपासकात्यन्तमाङ्गलिक-सङ्गीतामृतोपनिवापिने नमः । ६७२
ॐ पादपतितपावनाय नमः ।
ॐ पावन-नामतीर्थ-प्रोक्षणाय नमः ।
ॐ पादस्पर्शन-तृषालु-क्रोडीकरण-हृदयालवे नमः ।
ॐ पिपासालुभक्त-स्वगानामृत-पायनाय नमः ।
ॐ पिन्वमान-नादामृत-स्रोतसे नमः ।
ॐ पीयूषवर्षण-गान-नभ्राजे नमः ।
ॐ पुष्ट-नाद-पीयूषलहर्यै नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुष्पसुवासित-मानसपुष्पार्चिताय नमः ।
ॐ पूजार्हाय नमः ।
ॐ पूजकैकबन्धवे नमः ।
ॐ पृशनभक्तानवसादद-भद्रचरणाय नमः । ६८४
ॐ पेलव-भक्तिपुष्पार्चित-पदयुगलाय नमः ।
ॐ पेशल-सुकवित्वदाय नमः ।
ॐ पैतृकधन-प्रतिमागत-श्रीसीताराम-नैत्यक-
पूजाराधन-गानपरावतारपुरुषाय नमः ।
ॐ पोतन-भागवतोत्तमाय नमः ।
ॐ पौनःपुनिक-नाममहिम-गीत-कदम्ब-प्रतिभानाय नमः ।
ॐ प्यायित-भक्तामृतकीर्तनाय नमः ।
ॐ प्रगीत-नाममहिम्ने नमः ।
ॐ प्रकम्पित-गमक-स्थायिने नमः ।
ॐ प्रकटीभूत-नाददैवताय नमः ।
ॐ प्रणवरूप-सर्वव्यापि-नादशक्तये नमः ।
ॐ प्रतिचिन्तन-भक्त-प्रत्यक्ष-नाद-प्रवृत्तये नमः ।
ॐ प्रदीप्त-नादतेजसे नमः । ६९६
ॐ प्रतीक्ष्यमाण-सङ्गीतगुरवे नमः ।
ॐ प्रणत-भक्त-परित्रात्रे नमः ।
ॐ प्राणदात्रे नमः ।
ॐ प्रारब्ध-बन्ध-प्रतिमोचनाय नमः ।
ॐ प्राणनाथ-श्रीकृष्ण-लीलागान-घाण्टिकाय नमः ।
ॐ प्रियतम-गुरुदेवाय नमः ।
ॐ प्रीति-जनकाय नमः ।
ॐ प्रीतिस्निग्ध-दिव्य-दृष्ट्यावृत-भक्ताय नमः ।
ॐ प्रेङ्खोल-भजनानन्द-परिधये नमः ।
ॐ प्रेक्षणीय-सुन्दरतर-श्रीराम-रूपलावण्य-गानानतिक्रान्ताय नमः ।
ॐ प्रोक्षणीय-नामामृत-गान-कनकाक्षयकलश-कीर्तनायुताय नमः ।
ॐ प्रोन्नत-तत्त्वार्थाढ्य-गान-विदाराय नमः । ७०८
ॐ प्रौढत्वद-सद्गुरवे नमः ।
ॐ प्रौण-कविराजाय नमः ।
ॐ प्लुत-नामामृत-गानानन्दरूपाय नमः ।
ॐ फणिपतिशायि-भजन-गानपतये नमः ।
ॐ फलित-रामानन्द-गीतशाखा-नादमूलाश्वत्थाय नमः ।
ॐ फुप्फुस-फुल्लन-सुस्वर-दिव्यगन्धाहराय नमः ।
ॐ बद्धधार-रागरस-प्रसराय नमः ।
ॐ बद्धदृष्ट्यनुगृहीत-भक्ताय नमः ।
ॐ बद्धानुरागि-स्वैकात्म्य-प्रसादस्थाय नमः ।
ॐ बालरामलीला-स्वानुभूत-भावुकाय नमः ।
ॐ बिल्वपत्र-तुलसीदल-नानाविध-सुम-नामकुसुम-
श्रीराम-पूजार्चन-प्रहृष्ट-रूपाय नमः ।
ॐ बीजमति-प्रदाय नमः । ७२०
ॐ बुद्ध्यतीताय नमः ।
ॐ बृहच्छ्रवसे नमः ।
ॐ बृहन्मतये नमः ।
ॐ बोधातीत-परमात्म-श्रीराम-मृदुतर-मधुरगान-बोधकराय नमः ।
ॐ ब्रह्मज्योतिषे नमः ।
ॐ ब्रह्मज्ञानदाय नमः ।
ॐ भक्तिभिक्षादात्रे नमः ।
ॐ भक्तिसागर-पार-दर्शयित्रे नमः ।
ॐ भक्तपाप-भस्मसात्कर्त्रे नमः ।
ॐ भक्तातङ्कान्ताय नमः ।
ॐ भक्त-मान-रक्षकाय नमः ।
ॐ भक्त-भागधेयाय नमः । ७३२
ॐ भक्त-दृढगृहीत-पदयुगलाय नमः ।
ॐ भक्त-हृदयायतन-स्थिर-प्रतिष्ठित-भद्र-चरणाय नमः ।
ॐ भक्तहृदय-सुसदनाय नमः ।
ॐ भक्तहृदयालय-स्फुरन्-नाददीप-ज्योतिषे नमः ।
ॐ भगवदर्चन-गानाराधन-नामतारकानन्दोपतारकाय नमः ।
ॐ भगवन्नाम-सङ्कीर्तन-सन्निविष्टाय नमः ।
ॐ भक्तिरसानुभवमयाय नमः ।
ॐ भक्ति-योगमार्ग-बोधिन्मनसे नमः ।
ॐ भक्तिपरिमलित-स्तुतिपुष्पानन्दिने नमः ।
ॐ भक्तानुराग-प्रवाह-प्लुताय नमः ।
ॐ भक्त-जीवनकलश-सङ्गीतमधु-पूरिणे नमः ।
ॐ भद्रङ्कराय नमः । ७४४
ॐ भरण्यवे नमः ।
ॐ भर्गस्वते नमः ।
ॐ भगदात्रे नमः ।
ॐ भवरोग-प्रतियोगाय नमः ।
ॐ भवातीताय नमः ।
ॐ भावगम्याय नमः ।
ॐ भावपुष्पार्चिताय नमः ।
ॐ भामण्डलवलयिताय नमः ।
ॐ भासमान-सुस्वरमूर्तये नमः ।
ॐ भिक्षित-सुस्वरविद्या-वरदाय नमः ।
ॐ भूयिष्ठ-भावस्निग्ध-भक्त्यतिसौरभाक्षय-
कीर्तनपुष्पानुग्राहिणे नमः ।
ॐ भूरितेजस्सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ७५६
ॐ भृत-सङ्गीतानन्द-सद्गुरुस्वामिने नमः ।
ॐ भृमिमानसैकीकरण-सुश्रुतये नमः ।
ॐ भ्राजत्-सङ्गीतसूर्याय नमः ।
ॐ मङ्गलगानमूर्तये नमः ।
ॐ मञ्जुगिरे नमः ।
ॐ मञ्जुलतम-सुस्वरानन्द-लहर्यै नमः ।
ॐ मञ्जरित-नाममञ्जूषक-दिव्यगान-व्रततये नमः ।
ॐ मनोगह्वर-गह्वरित-मङ्गल-गान्तवे नमः ।
ॐ मनीषित-सङ्गीत-फलप्रदाय नमः ।
ॐ मनस्स्वाधीन-प्रचोदि-महस्वते नमः ।
ॐ मन्त्रदात्रे नमः ।
ॐ मन्धात्रे नमः । ७६८
ॐ मन्दभाग्य-प्रतिहर्त्रे नमः ।
ॐ मङ्गलकर-कलवचसे नमः ।
ॐ मंहिष्ठ-सङ्गीत-वसवे नमः ।
ॐ मन्तव्य-तत्त्वार्थ-परिपिञ्ज-सुकीर्तन-निचय-प्रतिपादन-
सङ्गीतपरिपूर्णावताराय नमः ।
ॐ महानुभावाय नमः ।
ॐ महितगुरुदेवाय नमः ।
ॐ माहिन-गान-घनाय नमः ।
ॐ मानघनाय नमः ।
ॐ मानसोल्लसित-श्रीराम-रम्यरूप-गानोल्लसिताय नमः ।
ॐ मार्गण-मानस-प्रतिभासाय नमः ।
ॐ मार्जित-मार्जित-मार्गण-मानसाय नमः ।
ॐ माप्ताप्ताय नमः । ७८०
ॐ मिन्वित-माधुर्यतमभाषण-श्रीराम-माधुर्यमयगायनाय नमः ।
ॐ मिष्ट-नाममिश्रित-स्वर-रागलय-सुधारस-मन्दिने नमः ।
ॐ मीनादि-दशावतार-प्रभाव-प्रगातृ-गानावताराय नमः ।
ॐ मुनिमनोधाम-धाम-धाम्ने नमः ।
ॐ मुरखरहर-हर-हरिभक्ताय नमः ।
ॐ मुमुक्षु-नाधसे नमः ।
ॐ मूलाधारजोंकार-नादमयाय नमः ।
ॐ मूलायतनाय नमः ।
ॐ मृदुस्वर-मधुरतायै नमः ।
ॐ मेरुसमान-मेधाविलासिने नमः ।
ॐ मोदकर-नादगुरवे नमः ।
ॐ मोहनाङ्ग-मोहाङ्काय नमः । ७९२
ॐ मोक्षद-नानाराग-सुकीर्तन-जनकाय नमः ।
ॐ मोक्षकाय नमः ।
ॐ मौनमनन-गम्याय नमः ।
ॐ म्लान-मनो-महौषधये नमः ।
ॐ यतमानसाय नमः ।
ॐ यतिश्रेष्ठाय नमः ।
ॐ यशस्विने नमः ।
ॐ यशस्कराय नमः ।
ॐ यातायात-कालगत्यतीताय नमः ।
ॐ युक्ताय नमः ।
ॐ येष्ठ-गानगङ्गायै नमः ।
ॐ योज्याय नमः । ८०४
ॐ योगसार-नादविद्या-सागराय नमः ।
ॐ यौक्तिकोपदेशक-गुरुदेवाय नमः ।
ॐ रक्तिरूपक-रागदेवाय नमः ।
ॐ रक्तकण्ठिने नमः ।
ॐ रणित-रामरक्तये नमः ।
ॐ रघुनन्दनानन्दगानवन्दिने नमः ।
ॐ रङ्गशायि-दिव्यरूप-हृद्भूषणाय नमः ।
ॐ रजतगिरीश-नगजोक्त-स्वरार्णव-मर्मजिते नमः ।
ॐ रमारमण-रमित-मानसाय नमः ।
ॐ रामचन्द्र-दयित-गेयज्ञाय नमः ।
ॐ रामदैव-सुलब्धृ-वरभक्ताय नमः ।
ॐ रामनाम-रक्षामन्त्रोपदेशिने नमः । ८१६
ॐ राजराजशिरोमणि-श्रीराम-गानपर-भागवतशिरोमणये नमः ।
ॐ रागरसिक-श्रीरामरसिकाय नमः ।
ॐ रागस्वरूपाय नमः ।
ॐ रागद्वेष-रहिताय नमः ।
ॐ रामरामगोविन्दमुकुन्द-नामसङ्कीर्तनानन्दमयाय नमः ।
ॐ रिप्तराम-रागलेपनाय नमः ।
ॐ रुक्षाक्षाय नमः ।
ॐ रुचिर-रामकिरणमालि-रागरुचिधाम्ने नमः ।
ॐ रुचिरानन-श्रीराम-रूपलावण्य-रक्तिराग-रोचनाय नमः ।
ॐ रूपवद्-रागरुचे नमः ।
ॐ रोचमान-रागातिदेवाय नमः ।
ॐ रोमाञ्चनकर-श्रीरामाञ्जलि-गाथकाराय नमः । ८२८
ॐ लक्ष्यगुरवे नमः ।
ॐ लक्ष्मीरमणारमण-गानरवणाय नमः ।
ॐ लक्ष्मणसहित-श्रीसीतारामार्चानन्तराय-
गानाराधन-सन्निविष्टाय नमः ।
ॐ लक्षणान्वित-श्रीराम-प्रदक्षिणाकारणाय नमः ।
ॐ लगनीयगुरुदेवाय नमः ।
ॐ लगिताभियोगि-धारणाय नमः ।
ॐ लब्धवर्णाय नमः ।
ॐ लयरङ्गण-रागरङ्गित-भावक्षरण-कृतिवृन्द-
भावक-कलावते नमः ।
ॐ लयशुद्धिप्रदाय नमः ।
ॐ लयवरदाय नमः ।
ॐ लालितक-श्रीराममूर्ति-लालिगान-लालनाय नमः ।
ॐ लावण्यमय-श्रीरामचन्द्र-प्रेममयाय नमः । ८४०
ॐ लिखित-गानरूप-नामकीर्ति-नादमूर्तये नमः ।
ॐ लीलावतार-श्रीरामानुराग-प्रौढाय नमः ।
ॐ लीलाचतुर-श्रीकृष्णललन-गातुचतुराय नमः ।
ॐ लोकावनचतुर-श्रीराम-गान-संस्तावनाय नमः ।
ॐ वनजनयन-निन्दास्तुतिनन्दाय नमः ।
ॐ वन्दनीयाय नमः ।
ॐ वन्दारु-वरगान-वरदाय नमः ।
ॐ वारिजनयन-जप-नवनिधिवाचिने नमः ।
ॐ वासित-रामनाम-मधुवाचे नमः ।
ॐ विकच-नादकुसुमाय नमः ।
ॐ विमल-नामकुसुम-मधुरगान-पुष्पार्चन-प्रतीताय नमः ।
ॐ विमलचन्द्र-रामचन्द्र-गेयचन्द्राय नमः । ८५२
ॐ विमलहृदयाय नमः ।
ॐ विरक्ति-स्वाकाराय नमः ।
ॐ विश्वसनीयाय नमः ।
ॐ विषयवासनाद्युपमार्जनाय नमः ।
ॐ विख्यात-रामभक्ताय नमः ।
ॐ वित्त-वेदार्थ-नादग्रन्थाय नमः ।
ॐ विदूरग-गानविभायै नमः ।
ॐ वीणागान-विभ्वने नमः ।
ॐ वृन्दारक-श्रीराम-वरगानालोकन-वन्दारु-वृन्दारकाय नमः ।
ॐ वेङ्कटेशनाम-सोपान-सन्मार्गोन्नेत्रे नमः ।
ॐ वेद-शास्त्र-तत्त्वार्थ-नादरूपवेदकाय नमः ।
ॐ वेदान्तवेदिनादयोगिसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ८६४
ॐ व्यासक्तोपासक-समुद्धरण-सद्गुरवे नमः ।
ॐ शब्दब्रह्मणे नमः ।
ॐ शब्दातीताय नमः ।
ॐ शमशर्मदाय नमः ।
ॐ शान्तमनस्सौख्याय नमः ।
ॐ शातकुम्भ-लिखितव्य-सङ्गीतश्रेयसे नमः ।
ॐ शिष्यमनःक्लेशेनैवार्चिताय नमः ।
ॐ शिष्यवत्सलाय नमः ।
ॐ शिष्यापराधक्षमित्रे नमः ।
ॐ शिष्यमनोऽहंकारहन्त्रे नमः ।
ॐ शिष्यमनोऽन्धकारापवोढ्रे नमः ।
ॐ शिवताति-भवकाय नमः । ८७६
ॐ शिवंकर-दिव्यगान-काम्यगिरे नमः ।
ॐ शिवनाम-भजन-बिल्वार्चन-हृज्जलज-पूजनोत्तेजनाय नमः ।
ॐ शुश्रूषु-मृडन-सुस्वरमुखराय नमः ।
ॐ शुच्यवताराय नमः ।
ॐ शुभाकर-श्रीराम-नामाकराय नमः ।
ॐ शूर-श्रीराम-गानपर-सुस्वराकाराय नमः ।
ॐ शृङ्गारगुणधाम-श्रीराम-भक्तिधाम्ने नमः ।
ॐ शेषशयन-गान-व्यसनिने नमः ।
ॐ शैथिल्य-प्रतिहर्त्रे नमः ।
ॐ शोकहिम-सूर्याय नमः ।
ॐ शोकोद्भूत-श्लोक-प्रियाय नमः ।
ॐ शोषितमानसाश्वासन-सुस्वरशीकरि--सङ्गीतशीतवाताय नमः । ८८८
ॐ शोभित-सप्तस्वर-सुरधनुषे नमः ।
ॐ शौर्योदार्यमय-श्रीराम-सुगुणगान-शौण्डाय नमः ।
ॐ श्यामलगात्र-श्रीराम-नुतिगात्रे नमः ।
ॐ श्रद्ध-प्रयताश्रित-स्वदर्शन-फलदात्रे नमः ।
ॐ श्रमयु-स्वरविद्या-सिद्धि-विधात्रे नमः ।
ॐ श्रयि-सम्परिरक्षकाय नमः ।
ॐ श्रवणहारि-सुस्वर-माधुर्यस्थ-वसुलाय नमः ।
ॐ श्रवणसुभग-सुस्वराय नमः ।
ॐ श्रवस्यु-सङ्गीतप्रवाहाय नमः ।
ॐ श्रविष्ठ-सङ्गीतशक्तये नमः ।
ॐ श्रावणसुख-श्रुतिस्वरूपाय नमः ।
ॐ श्रियन्ददाय नमः । ९००
ॐ श्रीकान्त-श्रीकर-वल्गुनादाय नमः ।
ॐ श्रीरम्यगात्र-रम्य-गायत्राय नमः ।
ॐ श्रीहरिकीर्तन-गतदेहेन्द्रियचेतः-सोहंस्वभाव-समाधिस्थाय नमः ।
ॐ श्रुतिलयस्वरूपाय नमः ।
ॐ श्रुतिसुख-सुस्वर-सङ्गीत-पुष्पार्चिताय नमः ।
ॐ श्रेयस्कराय नमः ।
ॐ श्रोत्रहारि-वाङ्माधुर्याय नमः ।
ॐ श्लवनोद्यमि-करालम्बन-सद्गुरवे नमः ।
ॐ श्लिष्ट-नादोपासन-व्रतेष्टसिद्धि-भवक-गुरवे नमः ।
ॐ श्लोकभुवे नमः ।
ॐ श्वान्तमानसाविष्य-नादब्रह्मणे नमः ।
ॐ षड्रिपु-सूदनाय नमः । ९१२
ॐ सङ्गीतार्थ-साधनाय नमः ।
ॐ सङ्गीतपरमाचार्याय नमः ।
ॐ सङ्गीत-समुच्चयास्पदाय नमः ।
ॐ सप्तस्वर-समष्ट्यै नमः ।
ॐ सप्तस्वर-सन्निविष्टाय नमः ।
ॐ सप्तस्वर-सञ्चराय नमः ।
ॐ सङ्गीतावताराय नमः ।
ॐ सङ्गीतयोग-कूटस्थाय नमः ।
ॐ सङ्गीतज्ञान-भक्ति-परिसीम्ने नमः ।
ॐ सत्कीर्तन-सत्सङ्ग-वनिने नमः ।
ॐ सत्कीर्तन-सन्मार्ग-बोधि-महर्षये नमः ।
ॐ सद्भक्त-मानससदन-संस्थापित-सद्गुरवे नमः । ९२४
ॐ सङ्गीतोपासक-संसक्ति-प्रतिबिम्बाय नमः ।
ॐ सङ्गीतभाषिणे नमः ।
ॐ सङ्गीतज्ञान-भिक्षादात्रे नमः ।
ॐ सङ्गीतज्ञानसागर-पारगमयित्रे नमः ।
ॐ संयताञ्जल्यन्तस्-सर्वदावसत्त्वाय नमः ।
ॐ संसक्तमानस-सर्वस्वाय नमः ।
ॐ सद्भक्ताजीवन-जीवाय नमः ।
ॐ सर्वसमर्पित-चरणावलम्बि-गोप्त्रे नमः ।
ॐ संसारदुःख-तप्तात्म-श्रीरामतारकमन्त्र-वितरित्रे नमः ।
ॐ संसाराब्भ्र-स्वर्णप्रान्ताय नमः ।
ॐ संसारसागर-निमग्नक-होडाय नमः ।
ॐ सप्तस्वर-क्षिपणि-रामनाम-नौका-संसारसागर-तारकाय नमः । ९३६
ॐ सकलार्णमय-सङ्गीतार्णवाय नमः ।
ॐ सकलार्थ-श्रीराम-गानार्थ-मुखराय नमः ।
ॐ सदनस्वान्त-संस्थापित-सकलजगदवन-श्रीरामाय नमः ।
ॐ सकललोकाभिराम-श्रीराम-मधुरगानाभिरामाय नमः ।
ॐ सकलमन्त्रतन्त्ररूप-श्रीराम-तारकमन्त्रप्रियाय नमः ।
ॐ सकलवेदसार-श्रीराम-बोधसाराय नमः ।
ॐ सत्त्वरूप-श्रीरामभक्ति-तत्त्वरूपाय नमः ।
ॐ सत्यसन्ध-श्रीरामसन्धाय नमः ।
ॐ सत्त्वचित्त-श्रीरामासक्तचित्ताय नमः ।
ॐ सर्वसारश्रीरामानुभूतिसाराय नमः ।
ॐ सर्वग्रहाधारभूत-श्रीरामगानाधारभूताय नमः ।
ॐ सर्वजीवजीवन-श्रीराम-नामाविरामस्मरण-जीवनाय नमः । ९४८
ॐ सर्वसाक्षि-श्रीराम-भक्तिप्राप्य-ब्रह्मानन्दसाक्षिणे नमः ।
ॐ सर्वोन्नत-श्रीराम-गानोन्नत-हिमालयाय नमः ।
ॐ सद्गङ्गाजनक-श्रीराम-गानगङ्गाजनकाय नमः ।
ॐ सर्वलोकशरण्य-श्रीराम-चरणयुगल-लालनापर्यन्तानन्द-
स्वरसमुद्र-स्मितरुचिर-कोलाहल-लहर्यै नमः ।
ॐ समानरहित-श्रीराम-गान-समानरहिताय नमः ।
ॐ सप्तस्वरचारि-श्रीराम-नामगानचारिणे नमः ।
ॐ सङ्गीतप्रिय-श्रीराम-सुगुण-गानप्रियाय नमः ।
ॐ सद्गुणसान्द्र-श्रीरामानन्दन-सुस्वरसान्द्राय नमः ।
ॐ सरसगुण-श्रीराम-वर्णन-सरसकवये नमः ।
ॐ सरसविनोद-श्रीराम-गानविनोदाय नमः ।
ॐ सरसीरुहानन-श्रीराम-गानानुरक्ताननाय नमः ।
ॐ सरसीरुहनयन-श्रीराम-कटाक्षोद्बाष्पनयनाय नमः । ९६०
ॐ सामगानलोल-श्रीरामनामलोलाय नमः ।
ॐ सामादि-निगम-सञ्चार-श्रीराम-गुणविशेष-सञ्चाराय नमः ।
ॐ साकेतधाम-श्रीराम-भक्तिसङ्गीतधाम्ने नमः ।
ॐ साक्षिभावित-विषयविरक्त-निजभक्त-सहोराय नमः ।
ॐ साक्षिभावितानन्दमय-श्रीरामानुदिनालोकनाभिरुचिताय नमः ।
ॐ सिद्धजनप्रिय-श्रीराम-सुचरित्र-गान-प्रसिद्धाय नमः ।
ॐ सीतावर-गानापर-कविवराय नमः ।
ॐ सीताराम-संस्तवान-साधुश्रेष्ठाय नमः ।
ॐ सीताराम-सङ्गीतोपासन-सन्निविष्टाय नमः ।
ॐ सुपवित्र-श्रीराम-दिव्यरूपध्यानपर-पवित्रात्मने नमः ।
ॐ सुगुणमणिकोश-श्रीराम-विभूषण-सुकीर्तन-स्वर्णकोशाय नमः ।
ॐ सुप्रकाशश्रीरामसुस्वरगाननीराजनप्रकाशन-
सङ्गीतसद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ९७२
ॐ सुमुख-श्रीराम-सुस्वरगाननुति-सुमुखिने नमः ।
ॐ सुमति-श्रीराम-सुकीर्तनसुखि-सुमतये नमः ।
ॐ सुखास्पद-श्रीराम-गाथि-सुस्वरास्पदाय नमः ।
ॐ सुधारसपूर्ण-श्रीराम-सुरसपूर्ण-गानसुधाभिवर्षिणे नमः ।
ॐ सुधामय-राग-स्रावकाय नमः ।
ॐ सुधामय-नाममाधुर्याय नमः ।
ॐ सुस्वरधार-नामसुधा-गडेराय नमः ।
ॐ सुधास्यन्द-सुगीतवृन्दाय नमः ।
ॐ सुमधुर-स्वरामोदोत्किर-प्राणप्रसून-गानप्रसूनाराधित-रामाय नमः ।
ॐ सुरसेव्य-सेवन-सेवित-सुस्वराय नमः ।
ॐ सूर्यकुलचन्दन-वन्दन-सुस्वरसूर्याय नमः ।
ॐ सूक्ष्मरूप-सर्वव्यापिने नमः । ९८४
ॐ सूक्ष्म-नादशक्ति-स्थूलरूपकाय नमः ।
ॐ सृष्ट-सृष्टिस्थित्यन्तकारक-परमेश्वर-स्तुतिगीतकूटाय नमः ।
ॐ सृप्र-सुस्वराय नमः ।
ॐ सेतुबन्धन-श्रीराम-सुगान-बन्धीकृते नमः ।
ॐ सेव्यसद्गुरवे नमः ।
ॐ सेवकैकाधीताय नमः ।
ॐ सेवक-दुःख-विरामाय नमः ।
ॐ सेवित-सुस्वरोपासकाय नमः ।
ॐ सोत्कण्ठ-सङ्गीत-पेयूष-पोषयित्नवे नमः ।
ॐ सोत्सुक-शिष्याप्रयुतमधुरगानधारा-प्राप्तिदाय नमः ।
ॐ सौभाग्यफलाय नमः ।
ॐ सौमङ्गलप्राप्त्याशीर्गेयाय नमः । ९९६
ॐ स्तिमितमानस-तडागतीर-ध्यातव्याय नमः ।
ॐ स्तिमितप्रवाह-नादनदी-मूलाय नमः ।
ॐ स्तिमितोद्भव-नादाखण्डशक्तये नमः ।
ॐ स्तोतव्याय नमः ।
ॐ स्तुतिपुष्पार्चन-विरोचिष्णवे नमः ।
ॐ स्पृहित-दर्शन-चरणस्पर्शन-दिव्यगानश्रवण-
भाग्यद-सद्गुरवे नमः ।
ॐ स्फटिकप्रभ-गानमूर्तये नमः ।
ॐ स्फुट-नाददीप्तये नमः ।
ॐ स्मितरामचन्द्र-सुकीर्तनसान्द्राय नमः ।
ॐ स्मेररामानन्द-सुस्वरहाससे नमः ।
ॐ स्यन्दत्-सङ्गीतसुधांशु-रामानन्दचन्द्राय नमः ।
ॐ स्रवत्-सुस्वरानन्दसाराय नमः । १००८
ॐ स्वच्छहृत्-सम्प्रभातये नमः ।
ॐ स्वयंप्रकाशिने नमः ।
ॐ स्फुरत्-तारकनामाभरणाय नमः ।
ॐ स्फुरत्-सहस्रनामावलि-सुशोभिताय नमः ।
ॐ स्वरलयलयाय नमः ।
ॐ स्वरलयवरदाय नमः ।
ॐ स्वरशुद्ध-गानाञ्जल्युद्भावकाय नमः ।
ॐ स्वारसिक-भावाढ्य-नानाराग-गान-ज्ञानोद्बोधकाय नमः ।
ॐ स्वादुतर-गान-गान्धर्वकाय नमः ।
ॐ स्वादुतम-सङ्गीत-सुधोद्गारमयाय नमः ।
ॐ स्वर्य-मधुद्रव-सङ्गीतवाण्यै नमः ।
ॐ स्वाशुकवये नमः । १०२०
ॐ स्वर-जित-सारङ्गाय नमः ।
ॐ स्वहृत्-सञ्चारि-श्रीराम-निदर्शयित्रे नमः ।
ॐ स्थावरजङ्गमेश्वरदर्शकाय नमः ।
ॐ स्वायुष्प्रदाय नमः ।
ॐ स्वानन्यभक्तानुराग-मानसपुष्पान्तस्-समासीनामोदाय नमः ।
ॐ स्वीकृतानन्यभक्ताय नमः ।
ॐ स्वरामृत-सिद्धस्थालिधर-सङ्गीत-वपुनाय नमः ।
ॐ स्वर-स्वर्णाकराय नमः ।
ॐ हंसगुह्य-प्रद्योतनकाय नमः ।
ॐ हर्षकर-गुरुदेवाय नमः ।
ॐ हर्यर्पण-कृतिकाराय नमः ।
ॐ हरिदास-शिरोमणये नमः । १०३२
ॐ हरिनामसङ्कीर्तनप्रियाय नमः ।
ॐ हरिनामसङ्कीर्तनानन्दविग्रहाय नमः ।
ॐ हरिनामसङ्कीर्तन-सानन्द-वर्णकाय नमः ।
ॐ हरिभजनानन्द-परिवाहाय नमः ।
ॐ हरिपरिवार-गायन-सुस्वरपरिवाराय नमः ।
ॐ हरिनामस्मरणमय-जीवनाचाराय नमः ।
ॐ हरिसमर्पणजीवनाय नमः ।
ॐ हरिपादारविन्द-भावक-भावुकाय नमः ।
ॐ हरिचरण-हृद्धराय नमः ।
ॐ हरिसात्म-सङ्गीत-सात्मीकृते नमः ।
ॐ हरिहरैकता-गानरूप-निदर्शकाय नमः ।
ॐ हरिनामसङ्कीर्तन-सन्निधिस्थाय नमः । १०४४
ॐ हनुमल्लक्ष्मणभरतशत्रुघ्नसमेत-श्रीसीतारामविग्रह-
गान-पूजापर-पुण्यचरिताय नमः ।
ॐ हाटकमय-सीतारामचन्द्रोदय-सङ्गीत-क्षितिजाय नमः ।
ॐ हार्द-विग्रहाय नमः ।
ॐ हार्दिने नमः ।
ॐ हितकराय नमः ।
ॐ हितानुबन्धि-गीतकाचार्याय नमः ।
ॐ हितोपदेष्ट्रे नमः ।
ॐ हिमोपचार-गानवार-वर्षिणे नमः ।
ॐ हिमकरकिरण-दिव्यवाचे नमः ।
ॐ हिरण्मय-सुम-सौरभ-तुल्य-सुस्वर-
सुरभिताशुकविताशक्ति-विधात्रे नमः ।
ॐ हीर-रामनाम-स्फुरण-सङ्गीत-हिरणिने नमः ।
ॐ हुत-विषयासक्ति-रामासक्त्यग्नये नमः । १०५६
ॐ हृत्तापापहाय नमः ।
ॐ हृदयङ्गम-कृतिकराय नमः ।
ॐ हृदयहारि-श्रीराम-मधुरगान-हारिणे नमः ।
ॐ हृद्यतम-श्रीराम-मृदुभाषणास्वादिने नमः ।
ॐ हृदय्यानुरागपुष्पापूजितगुरवे नमः ।
ॐ हृदयोन्मादकर-नादगुरवे नमः ।
ॐ हृष्टरोम-रामरमाय नमः ।
ॐ हृष्टिद-नाद-वसुधारायै नमः ।
ॐ हृदयात्यन्तरोद्भूतेदम्भक्त-बालालाप-
स्तुति-महाप्रमोदाङ्गीकर्त्रे नमः ।
ॐ हेतुहेतुमते नमः ।
ॐ हैतुकोंकारनादब्रह्मणे नमः ।
ॐ अक्षर-सुस्वर-सहस्रनाम-पुष्पाञ्जलि-समर्पण-सेवित-
श्रीसद्गुरवे नमो नमः । १०६८
ॐ श्रीकराय नमः ।
ॐ त्यागयुताय नमः ।
ॐ गमकगाय नमः ।
ॐ रागमूलाय नमः ।
ॐ जागर्तये नमः ।
ॐ यथानाम्ने नमः ।
ॐ सद्गुरवे नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ रक्तिरागप्रियाय नमः ।
ॐ वेदसारकृतिकराय नमः ।
ॐ नमोगुरवे नमः ।
ॐ मङ्गलसुस्वरपुष्पार्चितश्रीत्यागब्रह्म-
सद्गुरुस्वामिने नमो नमः । १०८०
ॐ
इति सद्गुरुश्रीत्यागराजस्वामिन एव शिष्यया भक्तया
सद्गुरुचरणयुगलदृढग्राहिण्या सद्गुरोरनन्योपासिकया
पुष्पया कृता बालालापस्तुतिः सहस्रनामपुष्पावली
गुरोरङ्घ्रिपद्मे समर्पिता ।
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan