सर्पसूक्तम् ३

सर्पसूक्तम् ३

नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ (TS) १ इ॒दꣳ स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्ट᳚म् । आ॒श्रे॒षा येषा॑मनु॒यन्ति॒ चेतः॑ ॥ (३। १। १। ५॥ TS) ये अ॒न्तरि॑क्षं पृथि॒वीं क्षि॒यन्ति॑ । ते नः॑ स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑ सं॒चर॑न्ति । येषा॑माश्रे॒षा अ॑नु॒यन्ति॒ काम᳚म् । तेभ्यः॑ स॒र्पेभ्यो॒ मधु॑मज्जुहोमि । (३। १। १। ६॥) (TS) २ नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इन्द्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युः श्वेत॑सिकद्रु॒कः । सं॒व॒थ्स॒रो वि॑षू॒वर्णैः᳚ । नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सु॑ब्रह्म॒ण्योम् । (०।१।१२। ५८) (TA) ३ स्वररहितम् । नमो अस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ या इषवो यातुधानानां ये वा वनस्पतीꣳरनु । ये वा वटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ४। २। ८॥ (TS) १ इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः ॥ (३। १। १। ५॥) ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनु संचरन्ति । येषामाश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । (३। १। १। ६॥) (TS) २ निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्रायाहि सहस्रयुक् । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवथ्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ सुब्रह्मण्योम् । (०।१।१२। ५८) (TA) ३ These are from Taittiriya Samhita (TS) 4.2.8, portion of 3.1.1 5 and 6, and Taittiriya Aranyaka (TA) 0.1.12 58.
% Text title            : sarpasUktam 3
% File name             : sarpasUktam3.itx
% itxtitle              : sarpasUktam 3 (taittirIya saMhitA evaM AraNyakAntargatam)
% engtitle              : sarpasUktam 3
% Category              : deities_misc, sUkta, svara
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Taittiriya Samhita 4.2.8 portions of 3.1.1 5 and 6, and Taittiriya Aranyaka 0.1.12 58
% Indexextra            : (Video chanting)
% Latest update         : June 20, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org