शबरीशगीताञ्जलिः

शबरीशगीताञ्जलिः

खण्डः १ प्रार्थना ।

अयि शबरीश्वर विश्वमनोहर, विश्वजनाभयदानरते त्वयि गतमस्तु निरस्तसमाधि समाधि समाधि मनो महिते । दयिततमं तव मानसपूजमानतमौलिरसौ तनुते मयिकरुणां कुरु पङ्कजलोचन, पङ्कविनाशन, पुण्यगते! ॥

खण्डः २ पद्यगीतम् १ । ध्यानप्रतिष्ठा ।

शबरिकेश्वरं शान्तसुन्दरं पतितपावनं पापनाशनम् । भवनभावकं भूतिदायकं शरणमाश्रये भूतनायकम् ॥ १॥ अयि विभो मुदा कल्पितं हृदा भवदुपासनं भावशोधनम् । वरद, गृह्रतां; नाथ, दासतामनुगृहण मे; शान्तिरस्तु मे ॥ २॥ अरुणसुप्रभामण्डलावृतिं कनकचम्पकापाटलद्युतिम् । मनुचिन्तये सत्यसद्गतिं भुवननाथ, ते मङ्गलाकृतिम् ॥ ३॥ जलदकोमलं नीलकुन्तलं, विमलफालकं वीरलासकम् । ललितचञ्जलं भ्रूलताञ्चलं, नलिनशोभनं धीरलोचनम् ॥ ४॥ तिलसुमोपमा नालिका,ऽधरस्फुरितसुस्मितं शूरसुन्दरम् । कनककुण्डलं गण्डमण्डनं, मुखमिदं विभो, तापखण्डनम् ॥ ५॥ मणिवरोज्वलत्कण्ठभूषणं, विपुलवक्षसा वैरिभीषणम् । करतलोल्लसद्वाणकार्मुकं, सजलनीरदानीलचेलकम् ॥ ६॥ सुदृढजङ्घया साधुशोभितं चरणपङ्कजे सज्जनार्चितम् । अरिविमर्दने नित्यदीक्षितं त्रिदशपूजितं व्याघ्रसंस्थितम् ॥ ७॥ वपुरिदं मनःकाननान्तरे लसतु मामके भक्तिमन्दिरे । महितसन्निधिप्राभवोदिता मनसि भासतां देव, शान्तता ॥ ८॥

खण्डः ३ पद्यगीतम् २ । सन्निधिप्राप्तिः ।

मम तु चेतना वेपिता परं भृगुमये पथि क्लेशिता चिरम् । द्रुतहृदन्तरा ते कृपामृतं शरणमाश्रिता देवसेवितम् ॥ १॥ भवदुपायनं जिवितात्मकं मधुरतिक्तकाकीर्णभाण्डकम् । शिरसि गृह्णती भक्तिपाविता हरिहरात्मज, त्वामुपागता ॥ २॥ तव च सन्निधौ हर्षसङ्कुला नवनवोन्मिषन्मूच्र्छनाकुला । शरणकीर्तनोन्मादिताशया पुलकपूरिता नृत्यतीह या ॥ ३॥ निहितमग्रतो नालिकेरकं मम मनोमयं भिद्यते स्वयम् । मधुरनिर्मलं तद्रसं सृतं परिगृहाण ते पाद्यमर्पितम् ॥ ४॥ दुरितसञ्चयं भक्तिदीपितं ज्वलति हन्त कर्पूरमर्पितम् । प्रसरतां ततः सौरभं तथा ज्वलितपूतनावर्ष्मणो यथा ॥ ५॥

खण्डः ४ पद्यगीतम् ३ । मानसपूजा ।

अहमबात्मना कल्पयामि ते जलसमर्चनं भूतसत्पते । तरलवीचिकैर्मन्त्रसुस्वरैर्नदनदीशतैर्नैकसागरैः ॥ १॥ पुनरिदं पृथिव्यात्मना विभो विरचयाम्यहं गन्धकल्पनम् । कलितकुङ्कुमैश्वन्दनैर्महीकनकभाजने गन्धयुक्तिभिः ॥ २॥ वितनुते च ते पुष्पपूजनं गगनतन्मयीभावभावना । मरतकस्फुरद्भाजने चितैः शबलकान्तिभिः सूनसञ्चयैः ॥ ३॥ पवनरूपवान् भावनाबलाद् भुवननाथ, ते कल्पयाम्यहम् । ललितवीजनैर्भक्तिपावनैः प्रियतमं प्रभो, धूपतर्पणम् ॥ ४॥ परमुपास्महे तैजसात्मना शरणदायकं त्वामिहात्मना । दिवि च भूतले दीप्तिवर्षिभिर्दिविषदां पते, दीपकोटिभिः ॥ ५॥ अमृतमस्मि यद् भूतनिह्युतं विरचयामि नैवेद्यमत्र तत् । अमृतरूप, ते सच्चिदात्मनि त्वयि निलीयते भेदभावना ॥ ६॥

खण्डः ५ पद्यगीतम् ४ । शरणकीर्तनम् ।

देवदेव, ते शरणकीर्तनं भावबन्धुरं श्रवणसुन्दरम् । वारिराशिभिस्तलवीचिभिस्तारनिस्वनं वरद, गीयते ॥ १॥ मन्द्रमर्मरैर्मलयमारुतास्त्वामुपासते शरणगीतकैः । गानमाधुरीतरलतारकं नाथ, निश्चलं गगनमण्डलम् ॥ २॥ पावनोपया विहगनिस्वनैः स्तूयसे विभो, शरणकीर्तनैः । अच्र्यसे तया कनकपङ्कजैरुच्चितैर्नभोमहितमानसात् ॥ ३॥ गानवैखरीतुमुलसङ्करस्तालरञ्जितो हृदयढक्कया । नन्दना मया समनुगीयते प्रीयतां भवान् सुमनसां पते! ॥ ४॥

खण्डः ६ पद्यगीतम् ५ । शरणकीर्तनम् ।

कान्तविग्रहं शान्तमानसं पन्तलाधिपोपान्तसेवितम् । दान्तसद्गतिं विन्तितप्रदं भूतनायकं देवमाश्रये ॥ १॥ धर्मबोधकं कर्मसाक्षिणं शर्मसाधकं दुर्मदान्तकम् । निर्ममार्चितं निर्मलात्मकं भूतपालकं देवमाश्रये ॥ २॥ इन्द्रवापिकातीरवासिनं सान्द्रचन्द्रिकाहाससुन्दरम् । मन्द्रचापनिर्घोषभीषणं भूतभावनं देवमाश्रये ॥ ३॥ वेदबोधितं भेदवर्जितं खेदनाशनं मोददायिनम् । श्रीदसेवितं नादरूपिणं भूतिभूषणं देवमाश्रये ॥ ४॥ सक्तिनाशकं रक्तिदारकं भक्तिवर्धकं भुक्तिसाधकम् । मुक्तिदायकं व्यक्तवैभवं भूतिपुष्कलं देवमाश्रये ॥ ५॥

खण्डः ७ पद्यगीतम् ६ । शरणकीर्तनम् ।

अरुणकोमलं तरुणसुन्दरं करणयाकुलं वरुणपूजितम् । तरणितेजसं मरणप्रोचकं शरणमाश्रये शवरिकेश्वरम् ॥ १॥ मदनमोहनं मदविनाशनं कदनभोदिनं गदविमोचनम् । रदनशोभिनं हृदधिवासिनं शरणमाश्रये शबरिकेश्वरम् ॥ २॥ सुजनपालकं कुजनभीषकं पतनवारकं मननसाधकम् । जनननाशकं भुवननायकं शरणमाश्रये शबरिकेश्वरम् ॥ ३॥ हरिहरात्मजं हरिवरासनं कलिदुरासदं कलितराजसम् । परपराक्रमं परतराश्रयं शरणमाश्रये शबरिकेश्वरम् ॥ ४॥ शकलितद्विषं शशधरत्विषं शमलनाशनं शमविभूषणम् । शतमखार्चितं शनिनिवारकं शरणमाश्रये शबरिकेश्वरम् ॥ ५॥

खण्डः ८ पद्यगीतम् ६ । ब्रह्मार्पणम् ।

सकलदेवतागीतकीर्तये शैववैष्णवाद्वैतमूर्तये । विहितसज्जनाभीष्टपूर्तये हा! नमोऽस्तु ते नाशितार्तये ॥ १॥ सर्वमङ्गलं दिव्यकोमलं शर्वनन्दनं भुवननन्दनम् । गर्वनाशकं भव्यदायकं सर्वथा विभुं समनुचिन्तये ॥ २॥ भक्तपालनासक्तमानसं दिनकरायुतोद्वामतेजसम् । मोहनाकृतिं मोहिनीसुतं विमलचेतसा नौमि सन्ततम् ॥ ३॥ सुखचिदात्मके भुवनभासके नित्यभासुरे सत्यसुन्दरे । परिसमर्पितं भवति मत्कृतं धर्मशास्तरि ब्रह्महृन्मये ॥ ४॥ तरलमुद्बणं करणजालकं परमतेजसि ब्रह्मसंज्ञके । परिसमप्र्यते त्वयि जगत्प्रभो, निरघनिर्भमे पर्युपासिते ॥ ५॥ दिव्यशाबराकारधारिणे शरणकीर्तनश्रवणतोषिणे । अर्पयामि ते धर्मरक्षिणे हृदयमात्मना कमनरूपिणे ॥ ६॥ देवदेव, ते वपुरिदं जगत् सततविस्मयोत्पुलकदर्शनम् । अर्चयाभ्यथो विगलितव्यथो विनिहिताशयस्त्वयि चिदात्मके ॥ ७॥ इति श्रीवासुदेवन् एलयथेन विरचिता शबरीशगीताञ्जलिः समाप्ता ।
% Text title            : Shabarisha Gitanjali
% File name             : shabarIshagItAnjaliH.itx
% itxtitle              : shabarIshagItAnjaliH (vAsudevan elayathena virachitA)
% engtitle              : shabarIshagItAnjaliH
% Category              : deities_misc, vAsudevanElayath, ayyappa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : ayyappa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath
% Indexextra            : (Thesis, Text 1, 2)
% Latest update         : December 25, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org