शचिकृतं गुरुस्तोत्रम्
सर्वेषां तु गुरूणां च जन्मदाता परो गुरुः ।
पितुः शतगुणा माता पूज्या वन्द्या गरीयसी ॥ १२४॥
विद्यादाता मन्त्रदाता ज्ञानदो हरिभक्तिदः ।
पूज्यो वन्द्यश्च सेव्यश्च मातुः शतगुणो गुरुः ॥ १२५॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥ १२६॥
जन्मदाताऽन्नदाता च तथाऽन्ये गुरुवो मताः ।
आरोपिताश्च गुरवः प्रसह्य गुरुवस्तथा ॥ १२७॥
तथोपगुरवः सन्ति शिक्षका गुरुवोऽपि च ।
पारं कर्तुं न शक्तास्ते घोरसंसारसागरे ॥ १२८॥
विद्यामन्त्रज्ञातदाता निपुणः पारकर्मणि ।
स शक्तः शिष्यमुद्धर्तुमीश्वरश्चेश्वरेश्वरः ॥ १२९॥
गुरुर्विष्णुर्गुरुर्ब्रह्मा गुरुर्देवो महेश्वरः ।
गुरुर्धर्मो गुरुः शेषः सर्वात्मा केशवो गुरुः ॥ १३०॥
सर्वतीर्थाधिवासश्च सर्वदेवाधिवासितः ।
सर्वदेवात्मको दिव्यो गुरुरूपी हरिः स्वयम् ॥ १३१॥
अभीष्टदेवे वै रुष्टे गुरुः शक्तो हि रक्षितुम् ।
गुरौ रुष्टेऽभीष्टदेवो न वै शक्तश्च रक्षितुम् ॥ १३२॥
गुरौ रुष्टे ग्रहा रुष्टा रुष्टा देवाश्च सर्वथा ।
भाग्यान्यपि च रुष्टानि गुरुं रुष्टं न कारयेत् ॥ १३३॥
न गुरोरधिकश्चात्मा प्रियः पुत्रः प्रियोऽपि न ।
धनं पत्नी तपो धर्मः पुण्यं सत्यं न वै प्रियम् ॥ १३४॥
गुरोः परो न वै शास्ता राजा बन्धुर्न वै परः ।
मन्त्रो विद्या गुरुर्देवः पूर्वलब्धः पतिस्तथा ॥ १३५॥
परात्परः स विज्ञेयः सर्वेषामुपरि स्थितः ।
माता वन्द्या पिता वन्द्यो वन्द्यश्च त्वादृशो गुरुः ॥ १३६॥
विप्राणां त्वं वरिष्ठोऽसि गरिष्ठश्च तपस्विनाम् ।
ब्रह्मिष्ठोऽसि ब्रह्मवित्सु धर्मिष्ठः सर्वधर्मिणाम् ॥ १३७॥
देवानां सर्वथा पूज्य इति जानामि सर्वदा ।
ततः क्षमां ययाचेऽहं शपामि नैव मद्गुरुम् ॥ १३८॥
तुष्टो भव मुनिश्रेष्ठ! शक्रमानय मा चिरम् ।
नहुषं त्विन्द्रभवनाच्छीघ्रं प्रक्षिप भूतले ॥ १३९॥
इत्युक्त्वा त्वान्तरे तृप्ता बहिः सौम्या शची तदा ।
मौनमालम्ब्य धैर्येण फलं चेयेष सत्त्वरम् ॥ १४०॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ३७४-अध्यायान्तर्गतं
शचिकृतं गुरुस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय ३७४/१२४-१४०॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 374/124-140..
Proofread by PSA Easwaran