श्रीमच्छङ्कराचार्यशरणागतिः

श्रीमच्छङ्कराचार्यशरणागतिः

(शिखरिणीवृत्तम्) न जानेऽहं तत्त्वं न च खलु तथा तच्छ्रुतिशिरो न योगे मद्बुद्धिर्न च खलु तथा शास्त्रनिपुणः । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ १॥ न कर्मानुष्ठानं न च तपसि लीनं मम मनो न वैराग्यं तावत्कठिनतरमाऽश्रित्य जयति । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ २॥ न भक्त्यार्चां चक्रे यत इह विभुस्तारयति मां न गीता व्याख्याता किमपि न च शक्यं जड़मतेः । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ३॥ प्रभो नोपेक्ष्योऽयं स्फुरति हृदये कापि च दया । समुद्धर्तुं दीनं त्वमिह यत एकोऽसि भगवन् । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा । विनात्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ४॥ मतानां वैचित्र्यं किमपि न तथा प्रीणयति मां प्रवक्तारं तं वा मतमपि यतस्तस्य कलये । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ५॥ अविद्याच्छन्नोऽपि त्वदुदितमिहाकर्णयति यः परित्यज्याज्ञानं न च किल यतः पूर्ववदयम् । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ६॥ अहो माया मोहस्तमपि तव पादाब्जनिरतः तृणीकुर्वन्मायां भवति च यतो ब्रह्म भगवन् । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ७॥ समायातं यातु स्फुरतु मम चित्ते किमपि वा जगत्पूज्यो वा नो तदपि न च खिन्नो न मुदितः । भवाब्धिं सन्तर्तुं भवति न च नौः कापि सुदृढा विना त्वत्पादाब्जं श्रितमिह दृढं शङ्करगुरो ॥ ८॥ पृथिव्यां दातारः प्रथितविभवाः सन्ति बहवः न मन्येऽहं तान्वै निजपदसुदाने बलभृतः । निजात्मैक्यं दातुं प्रभवसि यतस्त्वं बुधतं क्षितौ त्वच्छ्रेष्ठः कथय कमहं यामि शरणम् ॥ ९॥ अयच्छन्मां कोऽसौ किमपि हि तरेद्यो भवनदीं जगत्सेतो त्वं मां वदसि यदि मन्ये त्वयि न तत् । स्वयं पूर्णस्त्वं भो निरवधिनिजानन्दनिरतो न ते प्राप्यं स्वामिन् किमपि हि जगत्तारणविधौ ॥ १०॥ अयःपिण्डः स्पर्शात् सपदि लभते हेमपदवीं पुनर्नैवायस्त्वं व्रजति च तथापि स्फुटमिदम् । ददाति स्पर्शोयं किल न निजरूपं क्वचिदपि ददासि त्वद्रूपं सपदि निजशिष्याय विमलम् ॥ ११॥ यथा चण्डे सूर्ये तपति न च कल्पेत तिमिरं न माया दैन्यं मां यदि समुदिता त्वत्पदकृपा । अहो माया वैरं तदपि तृणवद्यस्य कृपया त्वदैक्यं प्राप्तोऽहं यत इह न भीः शङ्करगुरो ॥ १२॥ पयः पिण्डः क्षिप्तो द्रवति च यथा सप्तकिरणैः समुद्रेसङ्गच्छन्न मम तथाहङ्कृतिरपि । पतन् बिन्दुः सिन्धौ झटिति भजते सिन्धुपदवीं तथा जाता भूमौ त्वयि निरवधौ मत्स्थितिरपि ॥ १३॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचिता श्रीशङ्कराचार्यशरणागतिः सम्पूर्णा । गुरुपूर्णिमा, रचनास्थानं - काफी उद्यानं, चिक्कमगळूरु संवत्सरः १९४३ Proofread by Manish Gavkar
% Text title            : Shrimat Shankaracharya Sharanagatih
% File name             : shankarAchAryasharaNAgatiH.itx
% itxtitle              : shaNkarAchAryasharaNAgatiH (shrIdharasvAmIvirachitA)
% engtitle              : shankarAchAryasharaNAgatiH
% Category              : deities_misc, gurudev, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org