शिक्षापत्री सहजानन्दस्वामीविरचिता
॥ ध्यानश्लोकाः ॥
विज्ञाने विलयं गते प्रसरति क्षोण्यां तमस्यान्तरे
दिङ्मूढेषु भवाध्वगेषु परितः पीडैकशेषे विधौ ।
कारुण्यादवतीर्य मुक्तिजननीं शिङ्क्षामदाध्यामिमां
साक्षादक्षरदिव्यधामनिलयस्तामन्वहं चिन्तये ॥ १॥
संसारकर्दमविवर्तनपङ्किलानां
नैर्मल्यमाकलयितुं रचितावताराम् ।
आविद्यसन्तमसनिर्हरणे समर्था-
मादेशपत्रि भवतीमनुचिन्तयामि ॥ २॥
काऽप्यञ्जनशलाकेयमन्तस्तिमिरहारिणी ।
प्रज्ञादृष्टिप्रकाशाय शिक्षापत्र्युपसेव्यताम् ॥ ३॥
नानादेशनिवासिशिष्यजनतामुद्दिश्य याऽऽविष्कृता
साक्षादक्षरवासिना नृवपुषा नारायणेन स्वयम् ।
सा त्वं सङ्ग्रथितासि पावनि शतानन्दर्षिणा ग्रन्थतः
शिक्षापत्रि भवापहन्त्रि भवतीमम्बान्वहं चिन्तये ॥ ४॥
शतानन्देन मुनिना मध्येसत्सङ्गिजीवनम् ।
ग्रथितां भगवत्प्रोक्तां शिक्षापत्रीमहं श्रये ॥ ५॥
समस्तशास्त्रदुग्धाब्ध्योद्धृतमनुत्तमम् ।
शिक्षापत्र्यमृतं किञ्चिदमृतत्वाय कल्पते ॥ ६॥
शिक्षापत्र्यमृतं यदेव सहजानन्दः शरण्यः सता
देवः प्राशयदाश्रितानिह मुकुन्दानन्दमुख्यान् पूरा ।
यत्पीत्वा प्रभवन्ति सम्पदमनायासेन तामासुरी -
मुच्छेत्तुं तदुपास्महे भवभयप्रध्वंसनैकौषधम् ॥ ७॥
संसारसागरगतान्स्वयमुद्दिधीर्षुः
श्रेयस्तदेकमखिलेष्वभिकाङ्क्षमाणः ।
आदेशमालिखितुमादृतपत्रलेखो
नारायणः स्फुरतु मे हृदि वर्णिवेषः ॥ ८॥
व्यञ्जयन्ताश्रितस्नेहं मुग्धस्मितमुखाम्बुजः ।
आदेशमालिखन्नस्तु हृदि मे धर्मनन्दनः ॥ ९॥
स्वामिनारायणस्यैतत् स्वरुपमपरं हरेः ।
शिक्षापत्र्यात्मना भूमौ चकास्त्वखिलमङ्गलम् ॥ १०॥
शिक्षापत्रि समस्तशिष्यनिवहैरभ्यर्थितेनादराद्
देवेनाखिलकारणेन सहजानन्देन याऽऽविष्कृता ।
तां त्वां सर्वफलप्रदां भगवतो देवस्य तस्यापरां
मूर्तिं देवि विभावयन्ननुदिनं सेवे मुहुः प्रेमतः ॥ ११॥
शिक्षापत्र्यमृत हिताय जगतामाविष्कृतं यन्मया
मद्भक्तैरिदमादरादनुदिनं सेव्यं समस्तैरपि ।
इत्यादिष्टमनुस्मरन् भगवतः प्रेम्णाऽन्वहं यः पठेत्
शिक्षापत्रमिदं स याति परम धामाक्षरं शाश्वतम् ॥ १२॥
॥ अथ शिक्षापत्री ॥
वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि ।
वृन्दावनविहारं तं श्रीकृष्णं हृदि चिन्तये ॥ १॥
लिखामि सहजानन्दस्वामी सर्वान्निजाश्रितान् ।
नानादेशस्वितान् शिक्षापत्रीं वृत्तालयस्थितः ॥ २॥
भ्रात्रो रामप्रतापेच्छारामयोर्धर्मजन्मनोः ।
यावयोध्याप्रसादाख्यरधुवीराभिधौ सुतौ ॥ ३॥
मुकुन्दानन्दमुख्याश्च नैष्ठिका ब्रह्मचारिणः ।
गृहस्थाश्च मयारामभट्टाद्या ये मदाश्रयाः ॥ ४॥
सधवा विधवा योषा याश्च मच्छिष्यतां गताः ।
मुक्तानन्दादयो ये स्युः साधवश्चाखिला अपि ॥ ५॥
स्वधर्मरक्षिका मे तैः सर्वैर्वाच्याः सदाशिषः ।
श्रीमन्नारायणस्मृत्या सहिताः शास्त्रसम्मताः ॥ ६॥
एकाग्रेणैव मनसा पत्रीलेखः सहेतुकः ।
अवधार्योऽयमखिलैः सर्वजीवहितावहः ॥ ७॥
ये पालयन्ति मनुजाः सच्छास्त्रप्रतिपादितान् ।
सदाचारान् सदा तेऽत्र परत्र च महासुखा: ॥ ८॥
तानुऽलङ्घ्याऽत्र वर्तन्ते ये तु स्वैरं कुबुद्धयः ।
त इहामुत्र व महल्लभन्ते कष्टमेव हि ॥ ९॥
अतो भवद्भिर्मच्छिष्यैः सावधानतयाऽखिलैः ।
प्रीत्यैतामनुसृत्यैव वर्तितव्यं निरन्तरम् ॥ १०॥
कस्यापि प्राणिनो हिंसा नैव कार्याऽत्र मामकैः ।
सूक्ष्मयूकामत्कुणादेरपि बुद्धया कदाचन ॥ ११॥
देवतापितृयागार्थमप्यजादेश्च हिंसनम् ।
न कर्तव्यमहिंसैव धर्मः प्रोक्तोऽस्ति यन्महान् ॥ १२॥
स्त्रिया धनस्य वा प्राप्त्यै साम्राज्यस्यापि वा क्वचित् ।
मनुष्यस्य तु कस्यापि हिंसा कार्या न सर्वथा ॥ १३॥
आत्मघातस्तु तीर्थेऽपि न कर्तव्यश्च न कुथा ।
अयोग्याचरणात् क्वापि न विषोद्बन्धनादिना ॥ १४॥
न भक्ष्यं सर्वथा मांसं यज्ञशिष्टमपि क्वचित् ।
न पेयं च सुरामद्यमपि देवनिवेदितम् ॥ १५॥
अकार्याचरणे क्वापि जाते स्वस्य परस्य वा ।
अङ्गच्छेदो न कर्तव्यः शस्त्राद्यैश्च क्रुधाऽपि वा ॥ १६॥
स्तेनकर्म न कर्तव्यं धर्मार्थमपि केनचित् ।
सस्वामिकाष्ठपुष्पादि न ग्राह्यं तदनाज्ञया ॥ १७॥
व्यभिचारो न कर्तव्यः पुम्भिः स्त्रिभिश्च मा श्रितैः ।
द्यूतादि व्यसन त्याज्यं नाद्यं भङ्गादिमादकम् ॥ १८॥
अग्राह्यान्नेन पक्वं यदन्नं तदुदकं च न ।
जगन्नाथपुरं हित्वा ग्राह्यं कृष्णप्रसाद्यपि ॥ १९॥
मिथ्यापवादः कस्मिंश्चिदपि स्वार्थस्य सिद्धये ।
नारोप्यो नापशव्याश्च भाषणीयाः कदाचन ॥ २०॥
देवतातीर्थविप्राणां साध्वीनां च सतामपि ।
वेदानां न च कर्तव्या निन्दा श्रव्या न च क्वचित् ॥ २१॥
देवतायै भवेद्यस्यै सुरामांसनिवेदनम् ।
यत्पुरोऽजादिहिंसा च न भक्ष्यं तन्निवेदितम् ॥ २२॥
दृष्ट्वा शिवालयादीनि देवागाराणि वर्त्मनि ।
प्रणम्य तानि तद्देवदर्शनं कार्यमादरात् ॥ २३॥
स्ववर्णाश्रमधर्मो यः स हातव्यो न केनचित् ।
परधर्मो न चाचर्यो न च पाखण्डकल्पितः ॥ २४॥
कृष्णभक्तेः स्वधर्माद्धा पतनं यस्य वाक्यतः ।
स्यात्तन्मुखान्न वै श्रव्याः कथावार्ताश्च वा प्रभोः ॥ २५॥
स्वपरद्रोहजननं सत्यं भाष्यं न कर्हिचित् ।
कृतघ्नसङ्गस्त्यक्तव्यो लुब्धा ग्राह्या न कस्यचित् ॥ २६॥
चोरपापिव्यसनिनां सङ्गः पाखण्डिनां तथा ।
कामिनां च न कर्तव्यो जनवञ्चनकर्मणाम् ॥ २७॥
भक्तिं वा ज्ञानमालम्ब्य स्त्रीद्रव्यरसलोलुभाः ।
पापे प्रवर्तमानाः स्युः कार्यस्तेषां न सङ्गमः ॥ २८॥
कृष्णकृष्णावताराणां खण्डनं यत्र युक्तिभिः ।
कृतं स्यात्तानि शास्राणि न मान्यानि कदाचन ॥ २९॥
अगालितं न पातव्यं पानीयं च पयस्तथा ।
स्नानादि नैव कर्तव्यं सूक्ष्मजन्त्तुमयाम्भसा ॥ ३०॥
यदौषधं च सुरया सम्पृक्तं पललेन वा ।
अज्ञातवृत्तवैद्येन दत्तं चाद्यं न तत् क्वचित् ॥ ३१॥
स्थानेषु लोकशास्त्राभ्यां निषिद्धेषु कदाचन ।
मलमूत्रोत्सर्जनं च न कार्यं ष्ठीवनं तथा ॥ ३२॥
अद्वारेण न निर्गम्य प्रवेष्टव्यं न तेन च ।
स्थाने सस्वामिके वासः कार्योऽपृष्ट्रवा न तत्पतिम् ॥ ३३॥
ज्ञानवार्ताश्रुतिर्नार्या मुखात् कार्या न पूरुषैः ।
न विवादः स्त्रिया कार्यो न राज्ञा न च तज्जनैः ॥ ३४॥
अपमानो न कर्तव्यो गुरूणां च वरीयसाम् ।
लोके प्रतिष्ठितानां च विदुषां शस्त्रधारिणाम् ॥ ३५॥
कार्यं न सहसा किञ्चित् कार्यो धर्मस्तु सत्वरम् ।
पाठनीयाऽधीतविद्या कार्यः सङ्गोऽन्वहं सताम् ॥ ३६॥
गुरुदेवनृपेक्षार्थं न गम्यं रिक्तपाणिभिः ।
विश्वासधातो नो कार्यः स्वश्लाघा स्वमुखेन च ॥ ३७॥
यस्मिन् परिहितेऽपि स्युर्दृयान्यङ्गानि चात्मनः ।
तद्दूष्यं वसनं नैव परिधार्यं मदाश्रितैः ॥ ३८॥
धर्मेण रहिता कृष्णभक्तिः कार्या न सर्वथा ।
अज्ञनिन्दाभयानैव त्याज्यं श्रीकृष्णसेवनम् ॥ ३९॥
उत्सवाहेषु नित्यं च कृष्णमन्दिरमागतैः ।
पुम्भिः स्पृश्या न वनितास्तत्र ताभिश्च पूरुषाः ॥ ४०॥
कृष्णदीक्षां गुरोः प्राप्तैस्तुलसीमालिके गले ।
धार्ये नित्यं चोर्ध्वपुण्ड्रं ललाटादौ द्विजातिभिः ॥ ४१॥
तत्तु गोपीचन्दनेन चन्दनेनाथवा हरेः ।
कार्य पूजावशिष्टेन के सरादियुतेन च ॥ ४२॥
तन्मध्य एव कर्तव्यः पुण्ड्रद्रव्येण चन्द्रकः ।
कुङ्कुमेनाथवा वृत्तो राधालक्ष्मीप्रसादिना ॥ ४३॥
सच्छूद्राः कृष्णभक्ता ये तैस्तु मालोर्ध्वपुण्ड्रके ।
द्विजातिवद्धारणीये निजधर्मेषु संस्थितैः ॥ ४४॥
भक्तैस्तदितरैर्माले चन्दनादीन्यनोद्भवे ।
घार्ये कण्ठे ललाटेऽथ कार्यः केवलचन्द्रकः ॥ ४५॥
त्रिपुण्ड्ररुद्राक्षधृतिर्येषां स्यात् स्वकुलागता ।
तैस्तु विप्रादिभिः क्यापि न त्याज्या सा मदाश्रितैः ॥ ४६॥
ऐकाल्यमेव विज्ञेय नारायणमहेशयोः ।
उभयोर्ब्रह्मरूपेण वेदेषु प्रतिपादनात् ॥ ४७॥
शास्त्रोक्त आपद्धर्मो यः स त्वल्पापदि कर्हिचित् ।
मदाश्रितैर्मुख्यतया ग्रहीतव्यो न मानवैः ॥ ४८॥
प्रत्यहं तु प्रबोद्धव्यं पूर्वमेवोदयाद्रवे ।
विधाय कृष्णस्मरणं कार्यः शौचविधिस्ततः ॥ ४९॥
उपविश्यैव चैकत्र कर्तव्यं दन्तधावनम् ।
स्नात्वा शुच्यम्बुना धौते परिधार्ये च वाससी ॥ ५०॥
उपविश्य ततः शुद्ध आसने शुचिभूतले ।
असङ्कीर्णं उपस्पृश्यं प्राङ्मुखं वोत्तरामुखम् ॥ ५१॥
कर्तव्यमूर्ध्वपुण्ड्रं च पुम्भिरेव सचन्द्रकम् ।
कार्यः सघवनारीभिर्भाले कुङ्कुमचन्द्रकः ॥ ५२॥
पुण्ड्रं वा चन्द्रको भाले न कार्यो मृतनाथया ।
मनसा पूजनं कार्यं ततः कृष्णस्य चाखिलैः ॥ ५३॥
प्रणम्य राधाकृष्णस्य लेख्यार्चां तत आदरात् ।
शक्त्या जपित्वा तन्मन्त्रं कर्तव्यं व्यावहारिकम् ॥ ५४॥
ये त्वम्बरिषवद्भक्ताः स्युरिहात्मनिवेदिनः ।
तैश्च मानसपूजान्तं कार्यमुक्तक्रमेण वै ॥ ५५॥
शैली वा धातुजा मूर्तिः शालग्रामोऽर्च्य एव तैः ।
द्रव्यैर्यथाप्तैः कृष्णस्य जप्योऽथाष्टाक्षरो मनुः ॥ ५६॥
स्तोत्रादेरथ कृष्णस्य पाठः कायः स्वशक्तितः ।
तथाऽनधितगीर्वाणैः कार्यं तन्नामकीर्तनम् ॥ ५७॥
हरेर्विधाय नैवेद्यं भोज्यं प्रासादिक ततः ।
कृष्णसेवापरैः प्रीत्या भवितव्यं च तैः सदा ॥ ५८॥
प्रोक्तास्ते निर्गुणा भक्ता निर्गुणस्य हरेर्यतः ।
सम्बन्धातत्कियाः सर्वा भवन्त्येव हि निर्गुणाः ॥ ५९॥
भक्तैरेतैस्तु कृष्णायानर्पितं वार्यपि क्वचित् ।
न पेयं नैव भक्ष्यं च पत्रकन्दफलाद्यपि ॥ ६०॥
सर्वैरशक्तौ वार्धक्याद् गरीयस्यापदाऽथवा ।
भक्ताय कृष्णमन्यस्मै दत्त्वा वृत्यं यथाबलम् ॥ ६१॥
आचार्येणैव दत्तं यद् यच्च तेन प्रतिष्ठितम् ।
कृष्णस्वरूपं तत् सेव्यं वन्द्यमेवेतरत्तु यत् ॥ ६२॥
भगवन्मन्दिरं सर्वैः सायं गन्तव्यमन्वहम् ।
नामसङ्कीर्तनं कार्यं तत्रोच्चै राधिकापतेः ॥ ६३॥
कार्यास्तस्य कथावार्ताः श्रव्याश्च परमादरात् ।
वादित्रसहितं कार्यं कृष्णकीर्तनमुत्सवे ॥ ६४॥
प्रत्यहं कार्यमित्थं हि सर्वैरपि मदाश्रितैः ।
संस्कृतप्राकृतग्रन्थाभ्यासश्चापि यथामति ॥ ६५॥
यादृशैर्यो गुणैर्युक्तस्तादृशे स तु कर्मणि ।
योजनीयो विचार्यैव नान्यथा तु कदाचन ॥ ६६॥
अन्नवस्त्रादिभिः सर्वे स्वकीयाः परिचारकाः ।
सम्भावनीयाः सततं यथायोग्यं यथाधनम् ॥ ६७॥
यादृग्गुणो यः पुरुषस्तादृशा वचनेन सः ।
देशकालानुसारेण भाषणीयो न चान्यथा ॥ ६८॥
गुरुभूपालवर्षिष्ठत्यागिविद्वत्तपस्विनाम् ।
अभ्युत्थानादिना कार्यः सन्मानो विनयान्वितैः ॥ ६९॥
नोरौ कृत्वा पादमेकं गुरुदेवनृपान्तिके ।
उपवेश्यं सभायां च जानू बद्धवा न वाससा ॥ ७०॥
विवादो नव कर्तव्यः स्वाचार्येण सह क्वचित् ।
पूज्योऽन्नधनवस्त्राद्यैर्यथाशक्ति स चाखिलैः ॥ ७१॥
तमायान्तं निशम्याशु प्रत्युद्गन्तव्यमादरात् ।
तस्मिन् यात्यनुगम्यं च ग्रामान्तावधि मच्छ्रितैः ॥ ७२॥
अपि भूरिफलं कर्म धर्मापेतं भवेद्यदि ।
आचर्यं तर्हि तन्नैव धर्मः सर्वार्थदोऽस्ति हि ॥ ७३॥
पृर्वैर्महद्भिरपि यवधर्माचरणं क्वचित् ।
कृतं स्यात्तत्तु न ग्राह्यं ग्राह्यो धर्मस्तु तत्कृतः ॥ ७४॥
गुह्यवार्ता तु कस्यापि प्रकाश्या नैव कुत्रचित् ।
समदृष्ट्या न कार्यश्च यथार्हार्चाव्यतिक्रमः ॥ ७५॥
विशेषनियमो धार्यश्चातुर्मास्येऽखिलैरपि ।
एकस्मिन् श्रावणे मासि स त्वशक्तैस्तु मानवैः ॥ ७६॥
विष्णोः कथायाः श्रवणं वाचनं गुणकीर्तनम् ।
महापूजा मन्त्रजपः स्तोत्रपाठः प्रदक्षिणाः ॥ ७७॥
साष्टाङ्गप्रणतिश्चेति नियमा उत्तमा मताः ।
एतेष्वेकतमो भक्त्या घारणीयो विशेषतः ॥ ७८॥
एकादशीनां सर्वासां कर्तव्यं व्रतमादरात् ।
कृष्णजन्मदिनानां च शिवरात्रेश्च सोत्सवम् ॥ ७९॥
उपवासदिने त्याज्या दिवानिद्रा प्रयत्नतः ।
उपवासस्तया नश्येन्मैथुनेनैव यन्नृणाम् ॥ ८०॥
सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनः ।
श्रीविठ्ठलेशः कृतवान् यं व्रतोत्सवनिर्णयम् ॥ ८१॥
कार्यास्तमनुसृत्यैव सर्व एव व्रतोत्सवाः ।
सेवारीतिश्च कृष्णस्य ग्राह्या तदुदितैव हि ॥ ८२॥
कर्तव्या द्वारिकामुख्यतीर्थयात्रा यथाविधि ।
सर्वैरपि यथाशक्ति भाव्यं दीनेषु वत्सलैः ॥ ८३॥
विष्णुः शिवो गणपतिः पार्वती च दिवाकरः ।
एताः पूज्यतया मान्या देवताः पञ्च मामकैः ॥ ८४॥
भूताद्युपद्रवे क्वापि वर्म नारायणात्मकम् ।
जप्यं च हनुमन्मत्रो जप्यो न क्षुद्रदेवतः ॥ ८५॥
रवेरिन्दोश्चोपरागे जायमानेऽपराः क्रियाः ।
हित्वाशु शुचिभिः सर्वैः कार्यः कृष्णमनोर्जपः ॥ ८६॥
जातायामथ तन्मुक्तौ कृत्वा स्नानं सचेलकम् ।
देयं दान गृहिजनैः शक्त्याऽन्यैस्त्वर्च्य ईश्वरः ॥ ८७॥
जन्माशौचं मृताशौचं स्वसम्बन्धानुसारतः ।
पालनीयं यथाशास्त्रं चातुर्वर्ण्यजनैर्मम ॥ ८८॥
भाव्यं शमदमक्षान्तिसन्तोषादिगागान्वितैः ।
ब्राह्मणैः शौर्यधैर्यादिगुणोपेतैश्च बाहुजैः ॥ ८९॥
वैश्यैश्च कृषिवाणिज्यकुसीदमुखवृत्तिभिः ।
भवितव्यं तथा शूद्रैर्द्विजसेवादिवृत्तिभिः ॥ ९०॥
संस्काराश्चाह्निकं श्राद्धं यथाकालं यथाधनम् ।
स्वस्वगृह्यानुसारेण कर्तव्यं च द्विजन्मभिः ॥ ९१॥
अज्ञानाज्ज्ञानतो वाऽपि गुरु वा लघु पातकम् ।
क्वापि स्यात्तर्हि तत्प्रायश्चित्तं कार्यं स्वशक्तितः ॥ ९२॥
वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम् ।
पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥ ९३॥
तथा श्रीभगवद्गीता नीतिश्च विकुतरोदिता ।
श्रीवासुदेवमाहाम्य स्कान्दवैष्णवखण्डगम् ॥ ९४॥
धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः ।
एतान्यष्ट ममेष्टानि सच्छास्राणि भवन्ति हि ॥ ९५॥
स्वहितेच्छुभिरेतानि मच्छिष्यैः सकलैरपि ।
श्रोतव्यान्यथ पाठ्यानि कथनीयानि च द्विजैः ॥ ९६॥
तत्राचारव्यवहृतिनिष्कृतानां च निर्णये ।
ग्राह्या मिताक्षरोपेता याज्ञवल्क्यस्य तु स्मृतिः ॥ ९७॥
श्रीमद्भागवतस्यैषु स्कन्धौ दशमपद्यमो ।
सर्वाधिकतया ज्ञेयौ कृष्णमाहात्म्यबुद्धये ॥ ९८॥
दशमः पञ्चमः स्कन्धो याज्ञवल्क्यस्य च स्मृतिः ।
भक्तिशास्त्रं योगशास्त्रं घर्मशास्त्रं क्रमेण मे ॥ ९९॥
शारीरकाणां भगवद्गीतायाश्चावगम्यताम् ।
रामानुजाचार्यकृत भाष्यमाध्वात्मिकं मम ॥ १००॥
एतेषु यानि वाक्यानि श्रीकृष्णस्य वृषस्य च ।
अत्युत्कर्षपराणि स्युस्तथा भक्तिविरागयोः ॥ १०१॥
मन्तव्यानि प्रमाणानि तान्येवेतरवाक्यतः ।
धर्मेण सहिता कृष्णभक्तिःकार्येति तद्रहः ॥ १०२॥
धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपादितः ।
माहात्म्यज्ञानयुग्भूरिस्तेहो भक्तिश्च माधवे ॥ १०३॥
वैराग्यं ज्ञेयमप्रीतिः श्रीकृष्णेतरवस्तुषु ।
ज्ञानं च जीवमायेशरूपाणां सुष्ठु वेदनम् ॥ १०४॥
हृत्स्थोऽनुसूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याखिलां तनुम् ।
ज्ञानशक्त्या स्थितो जीवो ज्ञेयोऽद्छेद्यादिलक्षणः ॥ १०५॥
त्रिगुणात्मा तमः कृष्णशक्तिर्देहस्तदीययोः ।
जीवस्य चाहं ममताहेतुर्मायावगम्यताम् ॥ १०६॥
हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः ।
ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ १०७॥
स श्रीकृष्णः परम्ब्रह्म भगवान् पुरुषोत्तमः ।
उपास्य इष्टदेवो नः सर्वाविर्भावकारणम् ॥ १०८॥
स राधया युतो ज्ञेयो राधाकृष्ण ऽत प्रषुः ।
रुक्मिण्या रमयोपेतो लक्ष्यीनारायणः स हि ॥ १०९॥
ज्ञेयोऽर्जुनेन युक्तोऽसौ नरनारायणाभिधः ।
बलभद्रादियोगेन तत्तन्तामोच्यते स च ॥ ११०॥
एते राधादयो भक्तास्तस्य स्युः पार्श्वतः क्वचित् ।
क्यचित्तदङ्गेऽतिस्नेहात् स तु ज्ञेयस्तदैकलः ॥ १११॥
अतश्चास्य स्वरूपेषु भेदो ज्ञेयो न सर्वथा ।
चतुरादिभुजत्वं तु द्विबाहोस्तस्य चैच्छिकम् ॥ ११२॥
तस्यैव सर्वथा भक्तिः कर्तव्या मनुजैर्भुवि ।
निःश्रेयसकरं किञ्च्जित्ततोऽन्यन्नेति दृश्यताम् ॥ ११३॥
गुणिनां गुणवत्ताया ज्ञेयं ह्येतत् परं फलम् ।
कृष्णे भक्तिश्च सत्सङ्गोऽन्यथा यान्ति विदोऽप्यधः ॥ ११४॥
कृष्णस्तदवताराश्च ध्येयास्तत्त्प्रतिमाऽपि च ।
न तु जीवा नृदेवाद्या भक्ता ब्रह्माविदोऽपि च ॥ ११५॥
निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् ।
विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा ॥ ११६॥
श्रव्यः श्रीमद्भागवतदशमस्कन्ध आदरात् ।
प्रत्यहं वा सकृद्बर्षे वर्षे वाच्योऽथ पण्डितैः ॥ ११७॥
कारणीया पुरश्चर्या पुण्यस्थानेऽस्य शक्तितः ।
विस्तुनामसहस्रादेश्चापि कार्येप्सितप्रदा ॥ ११८॥
दैव्यामापदि कष्टायां मानुष्यां वागवादिषु ।
यथा स्वपररक्षा स्यात्तथा वृत्यं न चान्यथा ॥ ११९॥
देशकालवयोवित्तजातिशक्त्यनुसारतः ।
आचारो व्यवहारश्च निष्कृतं चारधार्यताम् ॥ १२०॥
मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् ।
तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् ॥ १२१॥
एते साधारणा धर्माः स्त्रीणां पुसां च सर्वतः ।
मदाश्रितानां कथिता विशेषानथ कीर्तये ॥ १२२॥
मज्जेष्ठावरभ्रातृसुताभ्यां तु कदाचन ।
स्वासन्नसम्बन्धहीना नोपदेश्या हि योषितः ॥ १२३॥
न स्प्रष्टव्याश्च ताः क्वापि भाषणीयाश्च ता नहि ।
क्रौर्यं कार्य न कस्मिंश्चिन्यासो रक्ष्यो न कस्यचित् ॥ १२४॥
प्रतिभूत्वं न कस्यापि कार्य च व्यावहारिकम् ।
भिक्षयाऽऽपदतिक्रम्या न तु कार्यमृणं क्वचित् ॥ १२५॥
स्वशिष्यार्पितधान्यस्य कर्तव्यो विक्रयो न च ।
जीर्णं दत्वा नवीनं तु ग्राह्यं तन्नैव विक्रयः ॥ १२६॥
भाद्रशुक्लचतुर्थ्यां च कार्यं विघ्नेशपूजनम् ।
ईषकृष्णचतुर्दश्यां कार्याऽर्चा च हनूमतः ॥ १२७॥
मदाश्रितानां सर्वेषां धर्मरक्षणहेतवे ।
गुरुत्वे स्थापिताभ्यां च ताभ्यां दीक्ष्या मुमुक्षवः ॥ १२८॥
यथाधिकारं संस्थाप्याः स्वे स्वे धर्मे निजाश्रिताः ।
मान्याः सन्तश्च कर्तव्यः सच्छास्त्राभ्यास आदरात् ॥ १२९॥
मया प्रतिष्ठापितानां मन्दिरेषु महत्सु च ।
लक्ष्मीनारायणादीनां सेवा कार्या यथाविधि ॥ १३०॥
भगवन्मन्दिरं प्राप्तो योऽन्नार्थी कोऽपि मानवः ।
आदरात् स तु सम्भाव्यो दानेनान्नस्य शक्तितः ॥ १३१॥
संस्थाप्य विप्रं विद्वांसं पाठशालां विधाप्य च ।
प्रवर्तनीया सद्विद्या भुवि यत्सुकृतं महत् ॥ १३२॥
अथैतयोस्तु भार्याभ्यामाज्ञया पत्युरात्मनः ।
कृष्णमन्त्रोपदेशश्च कर्तव्यः स्त्रीभ्य एव हि ॥ १३३॥
स्वासन्नसम्बन्धहीना नरास्ताभ्यां तु कर्हिचित् ।
न स्प्रष्टव्या न भाष्याश्च तेभ्यो पश्य मुख न च ॥ १३४॥
गृहाख्याश्रमिणो ये स्युः पुरुषा मदुपाश्रिताः ।
स्वासन्नसम्बन्धहीना न स्पृश्या विधवाश्च तैः ॥ १३५॥
मात्रा स्वस्रा दुहित्रा वा विजने तु वयःस्थया ।
अनापदि न तैः स्थेयं कार्यं दानं न योषितः ॥ १३६॥
प्रसङ्गो व्यवहारेण यस्याः केनापि भूपतेः ।
भवेत्तस्याः स्त्रियाः कार्यः प्रसङ्गो नैव सर्वथा ॥ १३७॥
अन्नाद्यैः शक्तितोऽभ्यचर्यो ह्यतिथिस्तैर्गृहागतः ।
दैवं पित्र्यं यथाशक्ति कर्तव्य च यथोचितम् ॥ १३८॥
यावज्जीवं च शुश्रूषा कार्या मातुः पितुर्गुरोः ।
रोगार्तस्य मनुष्यस्य यथाशक्ति च मामकैः ॥ १३९॥
यथाशक्त्युद्यमः कार्यो निजवर्णाश्रमोचितः ।
मुष्कच्छेदो न कर्तव्यो वृषस्य कृषिवृत्तिभिः ॥ १४०॥
यथाशक्ति यथाकालं सङ्ग्रहोऽन्नधनस्य तैः ।
यावद्वययं च कर्तव्यः पशुमद्भिस्तृणस्य च ॥ १४१॥
गवादीनां पशूनां च तृणतोयादिभिर्यदि ।
सम्भावनं भवेत् स्वेन रक्ष्यास्ते तर्हि नान्यथा ॥ १४२॥
ससाक्ष्यमन्तरा लेखं पुत्रमित्रादिनापि च ।
भूवित्तदानादानाभ्यां व्यवहार्यं न कर्हिचित् ॥ १४३॥
कार्ये वैवाहिकं स्वस्यान्यस्य वार्णधनस्य तु ।
भाषाबन्धो न कर्तव्यः ससास्थं लेखमन्तरा ॥ १४४॥
आयद्रव्यानुसारेण व्ययः कार्यो हि सर्वदा ।
अन्यथा तु महद्दुःखं भवेदित्यवधार्यताम् ॥ १४५॥
द्रव्यस्यायो भवेद्यावान् व्ययो वा व्यावहारिके ।
तौ संस्मृत्य स्वयं लेख्यौ स्वक्षरैः प्रतिवासरम् ॥ १४६॥
निजवृत्युद्यमप्राप्तधनधान्यादितश्च तः ।
अर्प्यो दशाशः कृष्णाय विंशोऽशस्त्विह दुर्बलैः ॥ १४७॥
एकादशीमुखानां च व्रतानां निजशक्तितः ।
उद्यापनं यथाशास्त्रं कर्तव्यं चिन्तितार्थदम् ॥ १४८॥
कर्तव्यं कारणीयं वा श्रावणे मासि सर्वथा ।
बिल्वपत्रादिभिः प्रीत्या श्रीमहादेवपूजनम् ॥ १४९॥
स्वाचार्यान्न ऋणं ग्राह्यं श्रीकृष्णस्य च मन्दिरात् ।
ताभ्यां स्वव्यवहारार्थं पात्रभूषांशुकादि च ॥ १५०॥
श्रीकृष्णगुरुसाधूनां दर्शनार्थं गतौ पथि ।
तत्स्थानेषु च न ग्राह्यं परान्नं निजपुण्यहृत् ॥ १५१॥
प्रतिज्ञातं धनं देयं यत् स्यात्तत् कर्मकारिणे ।
न गोप्यमृणशुद्धयादि व्यवहार्यं न दुर्जनैः ॥ १५२॥
दुष्कालस्य रिपूणां वा नृपस्योपद्रवेण वा ।
लज्जाघनप्राणनाशः प्राप्तः स्याद्यत्र सर्वथा ॥ १५३॥
मूलदेशोऽपि स स्वेषां सद्य एव विचक्षणैः ।
त्याज्यो मदाश्रितैः स्थेयं गत्वा देशान्तरं सुखम् ॥ १५४॥
आढ्यैस्तु गृहिभिः कार्या अहिंसा वैष्णवा मखाः ।
तीर्थेषु पर्वसु तथा भोज्या विप्राश्च साधवः ॥ १५५॥
महोत्सवा भगवतः कर्तव्या मन्दिरेषु तैः ।
देयानि पात्रविप्रेभ्यो दानानि विविधानि च ॥ १५६॥
मदाश्रितैर्नृपैर्धर्मशास्त्रमाश्रित्य चाखिलाः ।
प्रजाः स्वाः पुत्रवत्पाल्या धर्म स्थाप्यो धरातले ॥ १५७॥
राज्याङ्गोपायषड्वर्गा ज्ञेतास्तीर्थानि चाञ्जसा ।
व्यवहारविदः सभ्या दण्ड्यादण्ड्याश्च लक्षणैः ॥ १५८॥
सभर्तृकाभिर्नारीभिः सेव्यः स्वपतिरीशवत् ।
अन्धो रोगी दरिद्रो वा षण्ढो वाच्यं न दुर्वचः ॥ १५९॥
रूपयौवनयुक्तस्य गुणिनोऽन्यनरस्य तु ।
प्रसङ्गो नैव कर्तव्यस्ताभिः साहजिकोऽपि च ॥ १६०॥
नरेक्ष्यनाभ्यूरुकुचाऽनुत्तरीया च नो भवेत् ।
साध्वी स्वी न च भण्डेक्षा न निर्लज्जादिसङ्गिनी ॥ १६१॥
भूषासदंशुकघृतिः परगेहोपवेशनम् ।
त्याज्य हास्यादि च स्त्रीभिः पत्यौ देशान्तरं गते ॥ १६२॥
विधवाभिस्तु योषाभिः सेव्यः पतिधिया हरिः ।
आज्ञायां पितृपुत्रादेर्वृत्यं स्वातन्त्र्यतो न तु ॥ १६३॥
स्वासन्नसम्बन्धहीना नराः स्पृश्या न कर्हिचित् ।
तरुणैस्तैथ तारुण्ये भाष्यं नावश्यकं विना ॥ १६४॥
स्तनन्धयस्य नुः स्पर्शे न दोषोऽस्ति पशोरिव ।
आवश्यके च वृद्धस्य स्पर्शे तेन च भाषणे ॥ १६५॥
विद्यानासन्नसम्बन्धात्ताभिः पाठ्या न कापि नुः ।
व्रतोपवासैः कर्तव्यो मुहुर्देहदमस्तथा ॥ १६६॥
घनं च धर्मकार्येऽपि स्वनिर्वाहोपयोगि यत् ।
देयं ताभिर्न तत् क्वापि देयं चेदधिकं तदा ॥ १६७॥
कार्यश्च सकृदाहारस्ताभिः स्वापस्तु भूतले ।
मैथुनासक्तयोर्वीक्षा क्वापि कार्या न देहिनोः ॥ १६८॥
वेषो न धार्यस्ताभिश्च सुवासिन्याः स्त्रियास्तथा ।
न्यासिन्या वीतरागाया विकृतश्च न कर्हिचित् ॥ १६९॥
सङ्गो न गर्भपातिन्याः स्पर्शः कार्यश्च योषितः ।
शृङ्गारवार्ता न नृणां कार्याः श्रव्या न वै क्वचित् ॥ १७०॥
निजसम्बन्धिभिरपि तारुण्ये तरुणैर्नरैः ।
साकं रहसि न स्थेयं ताभिरापदमन्तरा ॥ १७१॥
न होलाखेलनं कार्यं न भूषादेश्च धारणम् ।
न धातुसूत्रयुक्सूक्ष्मवस्त्रादेरपि कर्हिचित् ॥ १७२॥
सधवाविधवाभिश्च न स्नातव्यं निरम्बरम् ।
स्वरजोदर्शनं स्वीभिर्गोपनीयं न सर्वथा ॥ १७३॥
मनुष्यं चांशुकादीनि नारी क्वापि रजःस्वला ।
दिनत्रयं स्पृशेन्नैव स्नात्वा तुर्येऽह्नि सा स्पृशेत् ॥ १७४॥
नैष्ठिकव्रतवन्तो ये वर्णिनो मदुपाश्रयाः ।
तैः स्पृश्या न स्त्रियो भाष्या न न वीक्ष्याश्च ता धिया ॥ १७५॥
तासां वार्ता न कर्तव्या न श्र्व्याश्च कदाचन ।
तत्पादचारस्थानेषु न च स्नानादिकाः क्रियाः ॥ १७६॥
देवताप्रतिमां हित्वा लेख्या काष्ठादिजापि वा ।
न योषित्प्रतिमा स्पृश्या न वीक्ष्या बुद्धिपूर्वकम् ॥ १७७॥
न स्त्रीप्रतिकृतिः कार्या न स्पृश्यं योषितोंऽशुकम् ।
न वीक्ष्यं मैथुनपरं प्राणिमात्रं च तैर्धिया ॥ १७८॥
न स्पृश्यो नेक्षणीयश्च नारीवेषघरः पुमान् ।
न कार्यं स्त्रीः समुद्दिश्य भगवदुगुणकीर्तनम् ॥ १७९॥
ब्रह्मचर्यव्रतत्यागपरं वाक्यं गुरोरपि ।
तैर्न मान्यं सदा स्थेयं धीरैस्तुष्टैरमानिभिः ॥ १८०॥
स्वातिनैकट्यमायान्ती प्रसभं वनिता तु या ।
निवारणीया साभाष्य तिरस्कृत्यापि वा द्रुतम् ॥ १८१॥
प्राणापद्युपन्नायां स्त्रीणां स्वेषां च वा क्वचित् ।
तदा स्पृष्ट्वापि तद्रक्षा कार्या सम्भाष्य ताश्च वा ॥ १८२॥
तैलाभ्यङ्गो न कर्तव्यो न धार्यं चायुधं तथा ।
वेषो न विकृतो धार्यो जेतव्या रसना च तैः ॥ १८३॥
परिवेषणकर्त्री स्याद्यत्र स्त्री विप्रवेश्मनि ।
न गम्यं तत्र भिक्षार्थं गन्तव्यमितरत्र तु ॥ १८४॥
अभ्यासो वेदशास्त्राणां कार्यश्च गुरुसेवनम् ।
वर्ज्यः स्त्रीणामिव स्त्रैणपुंसां सङ्गश्च तैः सदा ॥ १८५॥
चर्मवारि न वै पेयं जात्या विप्रेण केनचित् ।
पलाण्डुलशुनाद्यं च तेन भक्ष्यं न सर्वथा ॥ १८६॥
स्नानं सन्ध्यां च गायत्रीजपं श्रीविष्णुपूजनम् ।
अकृत्वा वैश्वदेवं च कर्तव्यं नैव भोजनम् ॥ १८७॥
साधवो येऽथ तैः सर्वेनैष्ठिकब्रह्मचारिवत् ।
स्त्रीस्त्रैणसङ्गादि वर्ण्य जेतव्याश्चान्तरारयः ॥ १८८॥
सर्वेन्द्रियाणि जेयानि रसना तु विशेषतः ।
न द्रव्यसहग्रहः कार्यः कारणीयो न केनचित् ॥ १८९॥
न्यासो रक्ष्यो न कस्यापि पेय त्याज्यं न कर्हिचित् ।
न प्रवेशयितव्या च स्वावासे स्त्री कदाचन ॥ १९०॥
न च सङ्घं विना रात्रौ चलितव्यमनापदि ।
एकाकिभिर्न गन्तव्य तथा क्वापि विनापदम् ॥ १९१॥
अनर्घ्यं चित्रितं वासः कुसुम्भाद्यैश्च रञ्जितम् ।
न धार्यं च महावस्त्रं प्राप्तमन्येच्छयापि तत् ॥ १९२॥
भिक्षां सभां विना नैव गन्तव्यं गृहिणो गृहम् ।
व्यर्थः कालो न नेतव्यो भक्तिं भगवतो विना ॥ १९३॥
पुमानेव भवेद्यत्र पक्वान्नपरिवेषणः ।
ईक्षणादि भवेन्नैव यत्र स्त्रीणां च सर्वथा ॥ १९४॥
तत्र गृहिगृहे भोक्तुं गन्तव्यं साधुभिर्मम ।
अन्यथामान्नमर्थित्वा पाकः कार्यः स्वयं च तैः ॥ १९५॥
आर्षभो भरतः पूर्वं जडविप्रो यथा भुवि ।
अवर्ततात्र परमहंसैर्वृत्य तथैव तैः ॥ १९६॥
वर्णिभिः साधुभिश्चैतेर्वर्जनीयं प्रयत्नतः ।
ताम्बूलस्याहिफेनस्य तमालादेश्च भक्षणम् ॥ १९७॥
संस्कारेषु न भोक्तव्यं गर्भाधानमुखेषु तैः ।
प्रेतश्राद्धेषु सर्वेषु श्राद्धे च द्वादशाह्निके ॥ १९८॥
दिवास्वापो न कर्तव्यो रोगाद्यापदमन्तरा ।
ग्राम्यवार्ता न कार्या च न श्रव्या बुद्धिपूर्वकम् ॥ १९९॥
स्वप्यं न तैश्च खट्वायां विना रोगादिमापदम् ।
निश्छद्म वर्तितव्यं च साधूनामग्रतः सदा ॥ २००॥
गालिदानं ताडनं च कृतं कुमतिभिर्जनैः ।
क्षन्तव्यमेव सर्वेषां चिन्तनीयं हितं च तैः ॥ २०१॥
दूतकर्म न कर्तव्यं पैशुनं चारकर्म च ।
देहेऽहन्ता च ममता न कार्या स्वजनादिषु ॥ २०२॥
इति सङ्क्षेपतो धर्माः सर्वेषां लिखिता मया ।
साम्प्रदायिकग्रन्थेभ्यो ज्ञेय एषां तु विस्तरः ॥ २०३॥
सच्छास्त्राणां समुद्धृत्य सर्वेषां सारमात्मना ।
पत्रीयं लिखिता नृणामभीष्टफलदायिनी ॥ २०४॥
इमावेव ततो नित्यमनुसृत्य ममाश्रितैः ।
यतात्मभिर्वर्तितव्यं न तु स्वैरं कदाचन ॥ २०५॥
वर्तिष्यन्ते य इत्थं हि पुरुषा योषितस्तदा ।
ते घर्मादिचतुर्वर्गसिद्धिं प्राप्स्यन्ति निश्चितम् ॥ २०६॥
नेत्थं य आचरिष्यन्ति ते त्वस्मत्सम्प्रदायतः ।
बहिर्भूता इति ज्ञेयं स्त्रीपुंसैः साम्प्रदायिकैः ॥ २०७॥
शिक्षापत्र्याः प्रतिदिनं पाठोऽस्या मदुपाश्रितैः ।
कर्तव्योऽनक्षरज्ञैस्तु श्रवणं कार्यमादरात् ॥ २०८॥
वक्त्रभावे तु पूजैव कार्यास्याः प्रतिवासरम् ।
मद्रूपमिति मद्वाणी मान्येयं परमादरात् ॥ २०९॥
युक्ताय सम्पदा दैव्या दातव्येयं तु पत्रिका ।
आसुर्या सम्पदाढ्याय पुंसे देया न कर्हिचित् ॥ २१०॥
विक्रमार्कशकस्याब्दे नेत्राष्टवसुभूमिते ।
वसन्ताद्यदिने शिङ्क्षापत्रीय लिखिता शुभा ॥ २११॥
निजाश्रितानां सकलार्तिहन्ता
सधर्मभक्तेरवन विधाता ।
दाता सुखानां मनसेप्सितानां
तनोतु कृष्णोऽखिलमङ्गलं नः ॥ २१२॥
॥ इति श्रीसहजानन्दस्वामिलिखिता शिक्षापत्री समाप्ता ॥
आवाहन मन्त्रः ॥
उत्तिष्टोत्तिष्ठ हे नाथ स्वामिनारायण प्रभो ।
धर्मसूनो दयासिन्धो स्वेषां श्रेयः परं कुरु ॥
आगच्छ भगवन् देव स्वस्थानात् परमेश्वर ।
अहं पूजां करिष्यामि सदा त्वं सम्मुखो भव ॥
शरण मन्त्रः ॥
कालमायापापकर्मयमदूतभयादहम् ।
श्रीहरिं शरणं धार्मिं प्रपन्नोऽस्मि स पातु माम् ॥
विसर्जन मन्त्रः ॥
स्वस्थानं गच्छ देवेश पूजामादाय मामकीम् ।
इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥
स्मरण मन्त्रः ॥
ॐ श्री स्वामिनारायणबापा स्वामीबापा भगवते नमः ॥
Proofread by DPD