॥ शिक्षापत्री सहजानन्दस्वामीविरचिता ॥

॥ ध्यानश्लोकाः ॥ विज्ञाने विलयं गते प्रसरति क्षोण्यां तमस्यान्तरे दिङ्मूढेषु भवाध्वगेषु परितः पीडैकशेषे विधौ । कारुण्यादवतीर्य मुक्तिजननीं शिङ्क्षामदाध्यामिमां साक्षादक्षरदिव्यधामनिलयस्तामन्वहं चिन्तये ॥ १॥ संसारकर्दमविवर्तनपङ्किलानां नैर्मल्यमाकलयितुं रचितावताराम् । आविद्यसन्तमसनिर्हरणे समर्था- मादेशपत्रि भवतीमनुचिन्तयामि ॥ २॥ काऽप्यञ्जनशलाकेयमन्तस्तिमिरहारिणी । प्रज्ञादृष्टिप्रकाशाय शिक्षापत्र्युपसेव्यताम् ॥ ३॥ नानादेशनिवासिशिष्यजनतामुद्दिश्य याऽऽविष्कृता साक्षादक्षरवासिना नृवपुषा नारायणेन स्वयम् । सा त्वं सङ्ग्रथितासि पावनि शतानन्दर्षिणा ग्रन्थतः शिक्षापत्रि भवापहन्त्रि भवतीमम्बान्वहं चिन्तये ॥ ४॥ शतानन्देन मुनिना मध्येसत्सङ्गिजीवनम् । ग्रथितां भगवत्प्रोक्तां शिक्षापत्रीमहं श्रये ॥ ५॥ समस्तशास्त्रदुग्धाब्ध्योद्धृतमनुत्तमम् । शिक्षापत्र्यमृतं किञ्चिदमृतत्वाय कल्पते ॥ ६॥ शिक्षापत्र्यमृतं यदेव सहजानन्दः शरण्यः सता देवः प्राशयदाश्रितानिह मुकुन्दानन्दमुख्यान् पूरा । यत्पीत्वा प्रभवन्ति सम्पदमनायासेन तामासुरी - मुच्छेत्तुं तदुपास्महे भवभयप्रध्वंसनैकौषधम् ॥ ७॥ संसारसागरगतान्स्वयमुद्दिधीर्षुः श्रेयस्तदेकमखिलेष्वभिकाङ्क्षमाणः । आदेशमालिखितुमादृतपत्रलेखो नारायणः स्फुरतु मे हृदि वर्णिवेषः ॥ ८॥ व्यञ्जयन्ताश्रितस्नेहं मुग्धस्मितमुखाम्बुजः । आदेशमालिखन्नस्तु हृदि मे धर्मनन्दनः ॥ ९॥ स्वामिनारायणस्यैतत् स्वरुपमपरं हरेः । शिक्षापत्र्यात्मना भूमौ चकास्त्वखिलमङ्गलम् ॥ १०॥ शिक्षापत्रि समस्तशिष्यनिवहैरभ्यर्थितेनादराद् देवेनाखिलकारणेन सहजानन्देन याऽऽविष्कृता । तां त्वां सर्वफलप्रदां भगवतो देवस्य तस्यापरां मूर्तिं देवि विभावयन्ननुदिनं सेवे मुहुः प्रेमतः ॥ ११॥ शिक्षापत्र्यमृत हिताय जगतामाविष्कृतं यन्मया मद्भक्तैरिदमादरादनुदिनं सेव्यं समस्तैरपि । इत्यादिष्टमनुस्मरन् भगवतः प्रेम्णाऽन्वहं यः पठेत् शिक्षापत्रमिदं स याति परम धामाक्षरं शाश्वतम् ॥ १२॥ ॥ अथ शिक्षापत्री ॥ वामे यस्य स्थिता राधा श्रीश्च यस्यास्ति वक्षसि । वृन्दावनविहारं तं श्रीकृष्णं हृदि चिन्तये ॥ १॥ लिखामि सहजानन्दस्वामी सर्वान्निजाश्रितान् । नानादेशस्वितान् शिक्षापत्रीं वृत्तालयस्थितः ॥ २॥ भ्रात्रो रामप्रतापेच्छारामयोर्धर्मजन्मनोः । यावयोध्याप्रसादाख्यरधुवीराभिधौ सुतौ ॥ ३॥ मुकुन्दानन्दमुख्याश्च नैष्ठिका ब्रह्मचारिणः । गृहस्थाश्च मयारामभट्टाद्या ये मदाश्रयाः ॥ ४॥ सधवा विधवा योषा याश्च मच्छिष्यतां गताः । मुक्तानन्दादयो ये स्युः साधवश्चाखिला अपि ॥ ५॥ स्वधर्मरक्षिका मे तैः सर्वैर्वाच्याः सदाशिषः । श्रीमन्नारायणस्मृत्या सहिताः शास्त्रसम्मताः ॥ ६॥ एकाग्रेणैव मनसा पत्रीलेखः सहेतुकः । अवधार्योऽयमखिलैः सर्वजीवहितावहः ॥ ७॥ ये पालयन्ति मनुजाः सच्छास्त्रप्रतिपादितान् । सदाचारान् सदा तेऽत्र परत्र च महासुखा: ॥ ८॥ तानुऽलङ्घ्याऽत्र वर्तन्ते ये तु स्वैरं कुबुद्धयः । त इहामुत्र व महल्लभन्ते कष्टमेव हि ॥ ९॥ अतो भवद्भिर्मच्छिष्यैः सावधानतयाऽखिलैः । प्रीत्यैतामनुसृत्यैव वर्तितव्यं निरन्तरम् ॥ १०॥ कस्यापि प्राणिनो हिंसा नैव कार्याऽत्र मामकैः । सूक्ष्मयूकामत्कुणादेरपि बुद्धया कदाचन ॥ ११॥ देवतापितृयागार्थमप्यजादेश्च हिंसनम् । न कर्तव्यमहिंसैव धर्मः प्रोक्तोऽस्ति यन्महान् ॥ १२॥ स्त्रिया धनस्य वा प्राप्त्यै साम्राज्यस्यापि वा क्वचित् । मनुष्यस्य तु कस्यापि हिंसा कार्या न सर्वथा ॥ १३॥ आत्मघातस्तु तीर्थेऽपि न कर्तव्यश्च न कुथा । अयोग्याचरणात् क्वापि न विषोद्बन्धनादिना ॥ १४॥ न भक्ष्यं सर्वथा मांसं यज्ञशिष्टमपि क्वचित् । न पेयं च सुरामद्यमपि देवनिवेदितम् ॥ १५॥ अकार्याचरणे क्वापि जाते स्वस्य परस्य वा । अङ्गच्छेदो न कर्तव्यः शस्त्राद्यैश्च क्रुधाऽपि वा ॥ १६॥ स्तेनकर्म न कर्तव्यं धर्मार्थमपि केनचित् । सस्वामिकाष्ठपुष्पादि न ग्राह्यं तदनाज्ञया ॥ १७॥ व्यभिचारो न कर्तव्यः पुम्भिः स्त्रिभिश्च मा श्रितैः । द्यूतादि व्यसन त्याज्यं नाद्यं भङ्गादिमादकम् ॥ १८॥ अग्राह्यान्नेन पक्वं यदन्नं तदुदकं च न । जगन्नाथपुरं हित्वा ग्राह्यं कृष्णप्रसाद्यपि ॥ १९॥ मिथ्यापवादः कस्मिंश्चिदपि स्वार्थस्य सिद्धये । नारोप्यो नापशव्याश्च भाषणीयाः कदाचन ॥ २०॥ देवतातीर्थविप्राणां साध्वीनां च सतामपि । वेदानां न च कर्तव्या निन्दा श्रव्या न च क्वचित् ॥ २१॥ देवतायै भवेद्यस्यै सुरामांसनिवेदनम् । यत्पुरोऽजादिहिंसा च न भक्ष्यं तन्निवेदितम् ॥ २२॥ दृष्ट्वा शिवालयादीनि देवागाराणि वर्त्मनि । प्रणम्य तानि तद्देवदर्शनं कार्यमादरात् ॥ २३॥ स्ववर्णाश्रमधर्मो यः स हातव्यो न केनचित् । परधर्मो न चाचर्यो न च पाखण्डकल्पितः ॥ २४॥ कृष्णभक्तेः स्वधर्माद्धा पतनं यस्य वाक्यतः । स्यात्तन्मुखान्न वै श्रव्याः कथावार्ताश्च वा प्रभोः ॥ २५॥ स्वपरद्रोहजननं सत्यं भाष्यं न कर्हिचित् । कृतघ्नसङ्गस्त्यक्तव्यो लुब्धा ग्राह्या न कस्यचित् ॥ २६॥ चोरपापिव्यसनिनां सङ्गः पाखण्डिनां तथा । कामिनां च न कर्तव्यो जनवञ्चनकर्मणाम् ॥ २७॥ भक्तिं वा ज्ञानमालम्ब्य स्त्रीद्रव्यरसलोलुभाः । पापे प्रवर्तमानाः स्युः कार्यस्तेषां न सङ्गमः ॥ २८॥ कृष्णकृष्णावताराणां खण्डनं यत्र युक्तिभिः । कृतं स्यात्तानि शास्राणि न मान्यानि कदाचन ॥ २९॥ अगालितं न पातव्यं पानीयं च पयस्तथा । स्नानादि नैव कर्तव्यं सूक्ष्मजन्त्तुमयाम्भसा ॥ ३०॥ यदौषधं च सुरया सम्पृक्तं पललेन वा । अज्ञातवृत्तवैद्येन दत्तं चाद्यं न तत् क्वचित् ॥ ३१॥ स्थानेषु लोकशास्त्राभ्यां निषिद्धेषु कदाचन । मलमूत्रोत्सर्जनं च न कार्यं ष्ठीवनं तथा ॥ ३२॥ अद्वारेण न निर्गम्य प्रवेष्टव्यं न तेन च । स्थाने सस्वामिके वासः कार्योऽपृष्ट्रवा न तत्पतिम् ॥ ३३॥ ज्ञानवार्ताश्रुतिर्नार्या मुखात् कार्या न पूरुषैः । न विवादः स्त्रिया कार्यो न राज्ञा न च तज्जनैः ॥ ३४॥ अपमानो न कर्तव्यो गुरूणां च वरीयसाम् । लोके प्रतिष्ठितानां च विदुषां शस्त्रधारिणाम् ॥ ३५॥ कार्यं न सहसा किञ्चित् कार्यो धर्मस्तु सत्वरम् । पाठनीयाऽधीतविद्या कार्यः सङ्गोऽन्वहं सताम् ॥ ३६॥ गुरुदेवनृपेक्षार्थं न गम्यं रिक्तपाणिभिः । विश्वासधातो नो कार्यः स्वश्लाघा स्वमुखेन च ॥ ३७॥ यस्मिन् परिहितेऽपि स्युर्दृयान्यङ्गानि चात्मनः । तद्दूष्यं वसनं नैव परिधार्यं मदाश्रितैः ॥ ३८॥ धर्मेण रहिता कृष्णभक्तिः कार्या न सर्वथा । अज्ञनिन्दाभयानैव त्याज्यं श्रीकृष्णसेवनम् ॥ ३९॥ उत्सवाहेषु नित्यं च कृष्णमन्दिरमागतैः । पुम्भिः स्पृश्या न वनितास्तत्र ताभिश्च पूरुषाः ॥ ४०॥ कृष्णदीक्षां गुरोः प्राप्तैस्तुलसीमालिके गले । धार्ये नित्यं चोर्ध्वपुण्ड्रं ललाटादौ द्विजातिभिः ॥ ४१॥ तत्तु गोपीचन्दनेन चन्दनेनाथवा हरेः । कार्य पूजावशिष्टेन के सरादियुतेन च ॥ ४२॥ तन्मध्य एव कर्तव्यः पुण्ड्रद्रव्येण चन्द्रकः । कुङ्कुमेनाथवा वृत्तो राधालक्ष्मीप्रसादिना ॥ ४३॥ सच्छूद्राः कृष्णभक्ता ये तैस्तु मालोर्ध्वपुण्ड्रके । द्विजातिवद्धारणीये निजधर्मेषु संस्थितैः ॥ ४४॥ भक्तैस्तदितरैर्माले चन्दनादीन्यनोद्भवे । घार्ये कण्ठे ललाटेऽथ कार्यः केवलचन्द्रकः ॥ ४५॥ त्रिपुण्ड्ररुद्राक्षधृतिर्येषां स्यात् स्वकुलागता । तैस्तु विप्रादिभिः क्यापि न त्याज्या सा मदाश्रितैः ॥ ४६॥ ऐकाल्यमेव विज्ञेय नारायणमहेशयोः । उभयोर्ब्रह्मरूपेण वेदेषु प्रतिपादनात् ॥ ४७॥ शास्त्रोक्त आपद्धर्मो यः स त्वल्पापदि कर्हिचित् । मदाश्रितैर्मुख्यतया ग्रहीतव्यो न मानवैः ॥ ४८॥ प्रत्यहं तु प्रबोद्धव्यं पूर्वमेवोदयाद्रवे । विधाय कृष्णस्मरणं कार्यः शौचविधिस्ततः ॥ ४९॥ उपविश्यैव चैकत्र कर्तव्यं दन्तधावनम् । स्नात्वा शुच्यम्बुना धौते परिधार्ये च वाससी ॥ ५०॥ उपविश्य ततः शुद्ध आसने शुचिभूतले । असङ्कीर्णं उपस्पृश्यं प्राङ्मुखं वोत्तरामुखम् ॥ ५१॥ कर्तव्यमूर्ध्वपुण्ड्रं च पुम्भिरेव सचन्द्रकम् । कार्यः सघवनारीभिर्भाले कुङ्कुमचन्द्रकः ॥ ५२॥ पुण्ड्रं वा चन्द्रको भाले न कार्यो मृतनाथया । मनसा पूजनं कार्यं ततः कृष्णस्य चाखिलैः ॥ ५३॥ प्रणम्य राधाकृष्णस्य लेख्यार्चां तत आदरात् । शक्त्या जपित्वा तन्मन्त्रं कर्तव्यं व्यावहारिकम् ॥ ५४॥ ये त्वम्बरिषवद्भक्ताः स्युरिहात्मनिवेदिनः । तैश्च मानसपूजान्तं कार्यमुक्तक्रमेण वै ॥ ५५॥ शैली वा धातुजा मूर्तिः शालग्रामोऽर्च्य एव तैः । द्रव्यैर्यथाप्तैः कृष्णस्य जप्योऽथाष्टाक्षरो मनुः ॥ ५६॥ स्तोत्रादेरथ कृष्णस्य पाठः कायः स्वशक्तितः । तथाऽनधितगीर्वाणैः कार्यं तन्नामकीर्तनम् ॥ ५७॥ हरेर्विधाय नैवेद्यं भोज्यं प्रासादिक ततः । कृष्णसेवापरैः प्रीत्या भवितव्यं च तैः सदा ॥ ५८॥ प्रोक्तास्ते निर्गुणा भक्ता निर्गुणस्य हरेर्यतः । सम्बन्धातत्कियाः सर्वा भवन्त्येव हि निर्गुणाः ॥ ५९॥ भक्तैरेतैस्तु कृष्णायानर्पितं वार्यपि क्वचित् । न पेयं नैव भक्ष्यं च पत्रकन्दफलाद्यपि ॥ ६०॥ सर्वैरशक्तौ वार्धक्याद् गरीयस्यापदाऽथवा । भक्ताय कृष्णमन्यस्मै दत्त्वा वृत्यं यथाबलम् ॥ ६१॥ आचार्येणैव दत्तं यद् यच्च तेन प्रतिष्ठितम् । कृष्णस्वरूपं तत् सेव्यं वन्द्यमेवेतरत्तु यत् ॥ ६२॥ भगवन्मन्दिरं सर्वैः सायं गन्तव्यमन्वहम् । नामसङ्कीर्तनं कार्यं तत्रोच्चै राधिकापतेः ॥ ६३॥ कार्यास्तस्य कथावार्ताः श्रव्याश्च परमादरात् । वादित्रसहितं कार्यं कृष्णकीर्तनमुत्सवे ॥ ६४॥ प्रत्यहं कार्यमित्थं हि सर्वैरपि मदाश्रितैः । संस्कृतप्राकृतग्रन्थाभ्यासश्चापि यथामति ॥ ६५॥ यादृशैर्यो गुणैर्युक्तस्तादृशे स तु कर्मणि । योजनीयो विचार्यैव नान्यथा तु कदाचन ॥ ६६॥ अन्नवस्त्रादिभिः सर्वे स्वकीयाः परिचारकाः । सम्भावनीयाः सततं यथायोग्यं यथाधनम् ॥ ६७॥ यादृग्गुणो यः पुरुषस्तादृशा वचनेन सः । देशकालानुसारेण भाषणीयो न चान्यथा ॥ ६८॥ गुरुभूपालवर्षिष्ठत्यागिविद्वत्तपस्विनाम् । अभ्युत्थानादिना कार्यः सन्मानो विनयान्वितैः ॥ ६९॥ नोरौ कृत्वा पादमेकं गुरुदेवनृपान्तिके । उपवेश्यं सभायां च जानू बद्धवा न वाससा ॥ ७०॥ विवादो नव कर्तव्यः स्वाचार्येण सह क्वचित् । पूज्योऽन्नधनवस्त्राद्यैर्यथाशक्ति स चाखिलैः ॥ ७१॥ तमायान्तं निशम्याशु प्रत्युद्गन्तव्यमादरात् । तस्मिन् यात्यनुगम्यं च ग्रामान्तावधि मच्छ्रितैः ॥ ७२॥ अपि भूरिफलं कर्म धर्मापेतं भवेद्यदि । आचर्यं तर्हि तन्नैव धर्मः सर्वार्थदोऽस्ति हि ॥ ७३॥ पृर्वैर्महद्भिरपि यवधर्माचरणं क्वचित् । कृतं स्यात्तत्तु न ग्राह्यं ग्राह्यो धर्मस्तु तत्कृतः ॥ ७४॥ गुह्यवार्ता तु कस्यापि प्रकाश्या नैव कुत्रचित् । समदृष्ट्या न कार्यश्च यथार्हार्चाव्यतिक्रमः ॥ ७५॥ विशेषनियमो धार्यश्चातुर्मास्येऽखिलैरपि । एकस्मिन् श्रावणे मासि स त्वशक्तैस्तु मानवैः ॥ ७६॥ विष्णोः कथायाः श्रवणं वाचनं गुणकीर्तनम् । महापूजा मन्त्रजपः स्तोत्रपाठः प्रदक्षिणाः ॥ ७७॥ साष्टाङ्गप्रणतिश्चेति नियमा उत्तमा मताः । एतेष्वेकतमो भक्त्या घारणीयो विशेषतः ॥ ७८॥ एकादशीनां सर्वासां कर्तव्यं व्रतमादरात् । कृष्णजन्मदिनानां च शिवरात्रेश्च सोत्सवम् ॥ ७९॥ उपवासदिने त्याज्या दिवानिद्रा प्रयत्नतः । उपवासस्तया नश्येन्मैथुनेनैव यन्नृणाम् ॥ ८०॥ सर्ववैष्णवराजश्रीवल्लभाचार्यनन्दनः । श्रीविठ्ठलेशः कृतवान् यं व्रतोत्सवनिर्णयम् ॥ ८१॥ कार्यास्तमनुसृत्यैव सर्व एव व्रतोत्सवाः । सेवारीतिश्च कृष्णस्य ग्राह्या तदुदितैव हि ॥ ८२॥ कर्तव्या द्वारिकामुख्यतीर्थयात्रा यथाविधि । सर्वैरपि यथाशक्ति भाव्यं दीनेषु वत्सलैः ॥ ८३॥ विष्णुः शिवो गणपतिः पार्वती च दिवाकरः । एताः पूज्यतया मान्या देवताः पञ्च मामकैः ॥ ८४॥ भूताद्युपद्रवे क्वापि वर्म नारायणात्मकम् । जप्यं च हनुमन्मत्रो जप्यो न क्षुद्रदेवतः ॥ ८५॥ रवेरिन्दोश्चोपरागे जायमानेऽपराः क्रियाः । हित्वाशु शुचिभिः सर्वैः कार्यः कृष्णमनोर्जपः ॥ ८६॥ जातायामथ तन्मुक्तौ कृत्वा स्नानं सचेलकम् । देयं दान गृहिजनैः शक्त्याऽन्यैस्त्वर्च्य ईश्वरः ॥ ८७॥ जन्माशौचं मृताशौचं स्वसम्बन्धानुसारतः । पालनीयं यथाशास्त्रं चातुर्वर्ण्यजनैर्मम ॥ ८८॥ भाव्यं शमदमक्षान्तिसन्तोषादिगागान्वितैः । ब्राह्मणैः शौर्यधैर्यादिगुणोपेतैश्च बाहुजैः ॥ ८९॥ वैश्यैश्च कृषिवाणिज्यकुसीदमुखवृत्तिभिः । भवितव्यं तथा शूद्रैर्द्विजसेवादिवृत्तिभिः ॥ ९०॥ संस्काराश्चाह्निकं श्राद्धं यथाकालं यथाधनम् । स्वस्वगृह्यानुसारेण कर्तव्यं च द्विजन्मभिः ॥ ९१॥ अज्ञानाज्ज्ञानतो वाऽपि गुरु वा लघु पातकम् । क्वापि स्यात्तर्हि तत्प्रायश्चित्तं कार्यं स्वशक्तितः ॥ ९२॥ वेदाश्च व्याससूत्राणि श्रीमद्भागवताभिधम् । पुराणं भारते तु श्रीविष्णोर्नामसहस्रकम् ॥ ९३॥ तथा श्रीभगवद्गीता नीतिश्च विकुतरोदिता । श्रीवासुदेवमाहाम्य स्कान्दवैष्णवखण्डगम् ॥ ९४॥ धर्मशास्त्रान्तर्गता च याज्ञवल्क्यऋषेः स्मृतिः । एतान्यष्ट ममेष्टानि सच्छास्राणि भवन्ति हि ॥ ९५॥ स्वहितेच्छुभिरेतानि मच्छिष्यैः सकलैरपि । श्रोतव्यान्यथ पाठ्यानि कथनीयानि च द्विजैः ॥ ९६॥ तत्राचारव्यवहृतिनिष्कृतानां च निर्णये । ग्राह्या मिताक्षरोपेता याज्ञवल्क्यस्य तु स्मृतिः ॥ ९७॥ श्रीमद्भागवतस्यैषु स्कन्धौ दशमपद्यमो । सर्वाधिकतया ज्ञेयौ कृष्णमाहात्म्यबुद्धये ॥ ९८॥ दशमः पञ्चमः स्कन्धो याज्ञवल्क्यस्य च स्मृतिः । भक्तिशास्त्रं योगशास्त्रं घर्मशास्त्रं क्रमेण मे ॥ ९९॥ शारीरकाणां भगवद्गीतायाश्चावगम्यताम् । रामानुजाचार्यकृत भाष्यमाध्वात्मिकं मम ॥ १००॥ एतेषु यानि वाक्यानि श्रीकृष्णस्य वृषस्य च । अत्युत्कर्षपराणि स्युस्तथा भक्तिविरागयोः ॥ १०१॥ मन्तव्यानि प्रमाणानि तान्येवेतरवाक्यतः । धर्मेण सहिता कृष्णभक्तिःकार्येति तद्रहः ॥ १०२॥ धर्मो ज्ञेयः सदाचारः श्रुतिस्मृत्युपपादितः । माहात्म्यज्ञानयुग्भूरिस्तेहो भक्तिश्च माधवे ॥ १०३॥ वैराग्यं ज्ञेयमप्रीतिः श्रीकृष्णेतरवस्तुषु । ज्ञानं च जीवमायेशरूपाणां सुष्ठु वेदनम् ॥ १०४॥ हृत्स्थोऽनुसूक्ष्मश्चिद्रूपो ज्ञाता व्याप्याखिलां तनुम् । ज्ञानशक्त्या स्थितो जीवो ज्ञेयोऽद्छेद्यादिलक्षणः ॥ १०५॥ त्रिगुणात्मा तमः कृष्णशक्तिर्देहस्तदीययोः । जीवस्य चाहं ममताहेतुर्मायावगम्यताम् ॥ १०६॥ हृदये जीववज्जीवे योऽन्तर्यामितया स्थितः । ज्ञेयः स्वतन्त्र ईशोऽसौ सर्वकर्मफलप्रदः ॥ १०७॥ स श्रीकृष्णः परम्ब्रह्म भगवान् पुरुषोत्तमः । उपास्य इष्टदेवो नः सर्वाविर्भावकारणम् ॥ १०८॥ स राधया युतो ज्ञेयो राधाकृष्ण ऽत प्रषुः । रुक्मिण्या रमयोपेतो लक्ष्यीनारायणः स हि ॥ १०९॥ ज्ञेयोऽर्जुनेन युक्तोऽसौ नरनारायणाभिधः । बलभद्रादियोगेन तत्तन्तामोच्यते स च ॥ ११०॥ एते राधादयो भक्तास्तस्य स्युः पार्श्वतः क्वचित् । क्यचित्तदङ्गेऽतिस्नेहात् स तु ज्ञेयस्तदैकलः ॥ १११॥ अतश्चास्य स्वरूपेषु भेदो ज्ञेयो न सर्वथा । चतुरादिभुजत्वं तु द्विबाहोस्तस्य चैच्छिकम् ॥ ११२॥ तस्यैव सर्वथा भक्तिः कर्तव्या मनुजैर्भुवि । निःश्रेयसकरं किञ्च्जित्ततोऽन्यन्नेति दृश्यताम् ॥ ११३॥ गुणिनां गुणवत्ताया ज्ञेयं ह्येतत् परं फलम् । कृष्णे भक्तिश्च सत्सङ्गोऽन्यथा यान्ति विदोऽप्यधः ॥ ११४॥ कृष्णस्तदवताराश्च ध्येयास्तत्त्प्रतिमाऽपि च । न तु जीवा नृदेवाद्या भक्ता ब्रह्माविदोऽपि च ॥ ११५॥ निजात्मानं ब्रह्मरूपं देहत्रयविलक्षणम् । विभाव्य तेन कर्तव्या भक्तिः कृष्णस्य सर्वदा ॥ ११६॥ श्रव्यः श्रीमद्भागवतदशमस्कन्ध आदरात् । प्रत्यहं वा सकृद्बर्षे वर्षे वाच्योऽथ पण्डितैः ॥ ११७॥ कारणीया पुरश्चर्या पुण्यस्थानेऽस्य शक्तितः । विस्तुनामसहस्रादेश्चापि कार्येप्सितप्रदा ॥ ११८॥ दैव्यामापदि कष्टायां मानुष्यां वागवादिषु । यथा स्वपररक्षा स्यात्तथा वृत्यं न चान्यथा ॥ ११९॥ देशकालवयोवित्तजातिशक्त्यनुसारतः । आचारो व्यवहारश्च निष्कृतं चारधार्यताम् ॥ १२०॥ मतं विशिष्टाद्वैतं मे गोलोको धाम चेप्सितम् । तत्र ब्रह्मात्मना कृष्णसेवा मुक्तिश्च गम्यताम् ॥ १२१॥ एते साधारणा धर्माः स्त्रीणां पुसां च सर्वतः । मदाश्रितानां कथिता विशेषानथ कीर्तये ॥ १२२॥ मज्जेष्ठावरभ्रातृसुताभ्यां तु कदाचन । स्वासन्नसम्बन्धहीना नोपदेश्या हि योषितः ॥ १२३॥ न स्प्रष्टव्याश्च ताः क्वापि भाषणीयाश्च ता नहि । क्रौर्यं कार्य न कस्मिंश्चिन्यासो रक्ष्यो न कस्यचित् ॥ १२४॥ प्रतिभूत्वं न कस्यापि कार्य च व्यावहारिकम् । भिक्षयाऽऽपदतिक्रम्या न तु कार्यमृणं क्वचित् ॥ १२५॥ स्वशिष्यार्पितधान्यस्य कर्तव्यो विक्रयो न च । जीर्णं दत्वा नवीनं तु ग्राह्यं तन्नैव विक्रयः ॥ १२६॥ भाद्रशुक्लचतुर्थ्यां च कार्यं विघ्नेशपूजनम् । ईषकृष्णचतुर्दश्यां कार्याऽर्चा च हनूमतः ॥ १२७॥ मदाश्रितानां सर्वेषां धर्मरक्षणहेतवे । गुरुत्वे स्थापिताभ्यां च ताभ्यां दीक्ष्या मुमुक्षवः ॥ १२८॥ यथाधिकारं संस्थाप्याः स्वे स्वे धर्मे निजाश्रिताः । मान्याः सन्तश्च कर्तव्यः सच्छास्त्राभ्यास आदरात् ॥ १२९॥ मया प्रतिष्ठापितानां मन्दिरेषु महत्सु च । लक्ष्मीनारायणादीनां सेवा कार्या यथाविधि ॥ १३०॥ भगवन्मन्दिरं प्राप्तो योऽन्नार्थी कोऽपि मानवः । आदरात् स तु सम्भाव्यो दानेनान्नस्य शक्तितः ॥ १३१॥ संस्थाप्य विप्रं विद्वांसं पाठशालां विधाप्य च । प्रवर्तनीया सद्विद्या भुवि यत्सुकृतं महत् ॥ १३२॥ अथैतयोस्तु भार्याभ्यामाज्ञया पत्युरात्मनः । कृष्णमन्त्रोपदेशश्च कर्तव्यः स्त्रीभ्य एव हि ॥ १३३॥ स्वासन्नसम्बन्धहीना नरास्ताभ्यां तु कर्हिचित् । न स्प्रष्टव्या न भाष्याश्च तेभ्यो पश्य मुख न च ॥ १३४॥ गृहाख्याश्रमिणो ये स्युः पुरुषा मदुपाश्रिताः । स्वासन्नसम्बन्धहीना न स्पृश्या विधवाश्च तैः ॥ १३५॥ मात्रा स्वस्रा दुहित्रा वा विजने तु वयःस्थया । अनापदि न तैः स्थेयं कार्यं दानं न योषितः ॥ १३६॥ प्रसङ्गो व्यवहारेण यस्याः केनापि भूपतेः । भवेत्तस्याः स्त्रियाः कार्यः प्रसङ्गो नैव सर्वथा ॥ १३७॥ अन्नाद्यैः शक्तितोऽभ्यचर्यो ह्यतिथिस्तैर्गृहागतः । दैवं पित्र्यं यथाशक्ति कर्तव्य च यथोचितम् ॥ १३८॥ यावज्जीवं च शुश्रूषा कार्या मातुः पितुर्गुरोः । रोगार्तस्य मनुष्यस्य यथाशक्ति च मामकैः ॥ १३९॥ यथाशक्त्युद्यमः कार्यो निजवर्णाश्रमोचितः । मुष्कच्छेदो न कर्तव्यो वृषस्य कृषिवृत्तिभिः ॥ १४०॥ यथाशक्ति यथाकालं सङ्ग्रहोऽन्नधनस्य तैः । यावद्वययं च कर्तव्यः पशुमद्भिस्तृणस्य च ॥ १४१॥ गवादीनां पशूनां च तृणतोयादिभिर्यदि । सम्भावनं भवेत् स्वेन रक्ष्यास्ते तर्हि नान्यथा ॥ १४२॥ ससाक्ष्यमन्तरा लेखं पुत्रमित्रादिनापि च । भूवित्तदानादानाभ्यां व्यवहार्यं न कर्हिचित् ॥ १४३॥ कार्ये वैवाहिकं स्वस्यान्यस्य वार्णधनस्य तु । भाषाबन्धो न कर्तव्यः ससास्थं लेखमन्तरा ॥ १४४॥ आयद्रव्यानुसारेण व्ययः कार्यो हि सर्वदा । अन्यथा तु महद्दुःखं भवेदित्यवधार्यताम् ॥ १४५॥ द्रव्यस्यायो भवेद्यावान् व्ययो वा व्यावहारिके । तौ संस्मृत्य स्वयं लेख्यौ स्वक्षरैः प्रतिवासरम् ॥ १४६॥ निजवृत्युद्यमप्राप्तधनधान्यादितश्च तः । अर्प्यो दशाशः कृष्णाय विंशोऽशस्त्विह दुर्बलैः ॥ १४७॥ एकादशीमुखानां च व्रतानां निजशक्तितः । उद्यापनं यथाशास्त्रं कर्तव्यं चिन्तितार्थदम् ॥ १४८॥ कर्तव्यं कारणीयं वा श्रावणे मासि सर्वथा । बिल्वपत्रादिभिः प्रीत्या श्रीमहादेवपूजनम् ॥ १४९॥ स्वाचार्यान्न ऋणं ग्राह्यं श्रीकृष्णस्य च मन्दिरात् । ताभ्यां स्वव्यवहारार्थं पात्रभूषांशुकादि च ॥ १५०॥ श्रीकृष्णगुरुसाधूनां दर्शनार्थं गतौ पथि । तत्स्थानेषु च न ग्राह्यं परान्नं निजपुण्यहृत् ॥ १५१॥ प्रतिज्ञातं धनं देयं यत् स्यात्तत् कर्मकारिणे । न गोप्यमृणशुद्धयादि व्यवहार्यं न दुर्जनैः ॥ १५२॥ दुष्कालस्य रिपूणां वा नृपस्योपद्रवेण वा । लज्जाघनप्राणनाशः प्राप्तः स्याद्यत्र सर्वथा ॥ १५३॥ मूलदेशोऽपि स स्वेषां सद्य एव विचक्षणैः । त्याज्यो मदाश्रितैः स्थेयं गत्वा देशान्तरं सुखम् ॥ १५४॥ आढ्यैस्तु गृहिभिः कार्या अहिंसा वैष्णवा मखाः । तीर्थेषु पर्वसु तथा भोज्या विप्राश्च साधवः ॥ १५५॥ महोत्सवा भगवतः कर्तव्या मन्दिरेषु तैः । देयानि पात्रविप्रेभ्यो दानानि विविधानि च ॥ १५६॥ मदाश्रितैर्नृपैर्धर्मशास्त्रमाश्रित्य चाखिलाः । प्रजाः स्वाः पुत्रवत्पाल्या धर्म स्थाप्यो धरातले ॥ १५७॥ राज्याङ्गोपायषड्वर्गा ज्ञेतास्तीर्थानि चाञ्जसा । व्यवहारविदः सभ्या दण्ड्यादण्ड्याश्च लक्षणैः ॥ १५८॥ सभर्तृकाभिर्नारीभिः सेव्यः स्वपतिरीशवत् । अन्धो रोगी दरिद्रो वा षण्ढो वाच्यं न दुर्वचः ॥ १५९॥ रूपयौवनयुक्तस्य गुणिनोऽन्यनरस्य तु । प्रसङ्गो नैव कर्तव्यस्ताभिः साहजिकोऽपि च ॥ १६०॥ नरेक्ष्यनाभ्यूरुकुचाऽनुत्तरीया च नो भवेत् । साध्वी स्वी न च भण्डेक्षा न निर्लज्जादिसङ्गिनी ॥ १६१॥ भूषासदंशुकघृतिः परगेहोपवेशनम् । त्याज्य हास्यादि च स्त्रीभिः पत्यौ देशान्तरं गते ॥ १६२॥ विधवाभिस्तु योषाभिः सेव्यः पतिधिया हरिः । आज्ञायां पितृपुत्रादेर्वृत्यं स्वातन्त्र्यतो न तु ॥ १६३॥ स्वासन्नसम्बन्धहीना नराः स्पृश्या न कर्हिचित् । तरुणैस्तैथ तारुण्ये भाष्यं नावश्यकं विना ॥ १६४॥ स्तनन्धयस्य नुः स्पर्शे न दोषोऽस्ति पशोरिव । आवश्यके च वृद्धस्य स्पर्शे तेन च भाषणे ॥ १६५॥ विद्यानासन्नसम्बन्धात्ताभिः पाठ्या न कापि नुः । व्रतोपवासैः कर्तव्यो मुहुर्देहदमस्तथा ॥ १६६॥ घनं च धर्मकार्येऽपि स्वनिर्वाहोपयोगि यत् । देयं ताभिर्न तत् क्वापि देयं चेदधिकं तदा ॥ १६७॥ कार्यश्च सकृदाहारस्ताभिः स्वापस्तु भूतले । मैथुनासक्तयोर्वीक्षा क्वापि कार्या न देहिनोः ॥ १६८॥ वेषो न धार्यस्ताभिश्च सुवासिन्याः स्त्रियास्तथा । न्यासिन्या वीतरागाया विकृतश्च न कर्हिचित् ॥ १६९॥ सङ्गो न गर्भपातिन्याः स्पर्शः कार्यश्च योषितः । शृङ्गारवार्ता न नृणां कार्याः श्रव्या न वै क्वचित् ॥ १७०॥ निजसम्बन्धिभिरपि तारुण्ये तरुणैर्नरैः । साकं रहसि न स्थेयं ताभिरापदमन्तरा ॥ १७१॥ न होलाखेलनं कार्यं न भूषादेश्च धारणम् । न धातुसूत्रयुक्सूक्ष्मवस्त्रादेरपि कर्हिचित् ॥ १७२॥ सधवाविधवाभिश्च न स्नातव्यं निरम्बरम् । स्वरजोदर्शनं स्वीभिर्गोपनीयं न सर्वथा ॥ १७३॥ मनुष्यं चांशुकादीनि नारी क्वापि रजःस्वला । दिनत्रयं स्पृशेन्नैव स्नात्वा तुर्येऽह्नि सा स्पृशेत् ॥ १७४॥ नैष्ठिकव्रतवन्तो ये वर्णिनो मदुपाश्रयाः । तैः स्पृश्या न स्त्रियो भाष्या न न वीक्ष्याश्च ता धिया ॥ १७५॥ तासां वार्ता न कर्तव्या न श्र्व्याश्च कदाचन । तत्पादचारस्थानेषु न च स्नानादिकाः क्रियाः ॥ १७६॥ देवताप्रतिमां हित्वा लेख्या काष्ठादिजापि वा । न योषित्प्रतिमा स्पृश्या न वीक्ष्या बुद्धिपूर्वकम् ॥ १७७॥ न स्त्रीप्रतिकृतिः कार्या न स्पृश्यं योषितोंऽशुकम् । न वीक्ष्यं मैथुनपरं प्राणिमात्रं च तैर्धिया ॥ १७८॥ न स्पृश्यो नेक्षणीयश्च नारीवेषघरः पुमान् । न कार्यं स्त्रीः समुद्दिश्य भगवदुगुणकीर्तनम् ॥ १७९॥ ब्रह्मचर्यव्रतत्यागपरं वाक्यं गुरोरपि । तैर्न मान्यं सदा स्थेयं धीरैस्तुष्टैरमानिभिः ॥ १८०॥ स्वातिनैकट्यमायान्ती प्रसभं वनिता तु या । निवारणीया साभाष्य तिरस्कृत्यापि वा द्रुतम् ॥ १८१॥ प्राणापद्युपन्नायां स्त्रीणां स्वेषां च वा क्वचित् । तदा स्पृष्ट्वापि तद्रक्षा कार्या सम्भाष्य ताश्च वा ॥ १८२॥ तैलाभ्यङ्गो न कर्तव्यो न धार्यं चायुधं तथा । वेषो न विकृतो धार्यो जेतव्या रसना च तैः ॥ १८३॥ परिवेषणकर्त्री स्याद्यत्र स्त्री विप्रवेश्मनि । न गम्यं तत्र भिक्षार्थं गन्तव्यमितरत्र तु ॥ १८४॥ अभ्यासो वेदशास्त्राणां कार्यश्च गुरुसेवनम् । वर्ज्यः स्त्रीणामिव स्त्रैणपुंसां सङ्गश्च तैः सदा ॥ १८५॥ चर्मवारि न वै पेयं जात्या विप्रेण केनचित् । पलाण्डुलशुनाद्यं च तेन भक्ष्यं न सर्वथा ॥ १८६॥ स्नानं सन्ध्यां च गायत्रीजपं श्रीविष्णुपूजनम् । अकृत्वा वैश्वदेवं च कर्तव्यं नैव भोजनम् ॥ १८७॥ साधवो येऽथ तैः सर्वेनैष्ठिकब्रह्मचारिवत् । स्त्रीस्त्रैणसङ्गादि वर्ण्य जेतव्याश्चान्तरारयः ॥ १८८॥ सर्वेन्द्रियाणि जेयानि रसना तु विशेषतः । न द्रव्यसहग्रहः कार्यः कारणीयो न केनचित् ॥ १८९॥ न्यासो रक्ष्यो न कस्यापि पेय त्याज्यं न कर्हिचित् । न प्रवेशयितव्या च स्वावासे स्त्री कदाचन ॥ १९०॥ न च सङ्घं विना रात्रौ चलितव्यमनापदि । एकाकिभिर्न गन्तव्य तथा क्वापि विनापदम् ॥ १९१॥ अनर्घ्यं चित्रितं वासः कुसुम्भाद्यैश्च रञ्जितम् । न धार्यं च महावस्त्रं प्राप्तमन्येच्छयापि तत् ॥ १९२॥ भिक्षां सभां विना नैव गन्तव्यं गृहिणो गृहम् । व्यर्थः कालो न नेतव्यो भक्तिं भगवतो विना ॥ १९३॥ पुमानेव भवेद्यत्र पक्वान्नपरिवेषणः । ईक्षणादि भवेन्नैव यत्र स्त्रीणां च सर्वथा ॥ १९४॥ तत्र गृहिगृहे भोक्तुं गन्तव्यं साधुभिर्मम । अन्यथामान्नमर्थित्वा पाकः कार्यः स्वयं च तैः ॥ १९५॥ आर्षभो भरतः पूर्वं जडविप्रो यथा भुवि । अवर्ततात्र परमहंसैर्वृत्य तथैव तैः ॥ १९६॥ वर्णिभिः साधुभिश्चैतेर्वर्जनीयं प्रयत्नतः । ताम्बूलस्याहिफेनस्य तमालादेश्च भक्षणम् ॥ १९७॥ संस्कारेषु न भोक्तव्यं गर्भाधानमुखेषु तैः । प्रेतश्राद्धेषु सर्वेषु श्राद्धे च द्वादशाह्निके ॥ १९८॥ दिवास्वापो न कर्तव्यो रोगाद्यापदमन्तरा । ग्राम्यवार्ता न कार्या च न श्रव्या बुद्धिपूर्वकम् ॥ १९९॥ स्वप्यं न तैश्च खट्वायां विना रोगादिमापदम् । निश्छद्म वर्तितव्यं च साधूनामग्रतः सदा ॥ २००॥ गालिदानं ताडनं च कृतं कुमतिभिर्जनैः । क्षन्तव्यमेव सर्वेषां चिन्तनीयं हितं च तैः ॥ २०१॥ दूतकर्म न कर्तव्यं पैशुनं चारकर्म च । देहेऽहन्ता च ममता न कार्या स्वजनादिषु ॥ २०२॥ इति सङ्क्षेपतो धर्माः सर्वेषां लिखिता मया । साम्प्रदायिकग्रन्थेभ्यो ज्ञेय एषां तु विस्तरः ॥ २०३॥ सच्छास्त्राणां समुद्धृत्य सर्वेषां सारमात्मना । पत्रीयं लिखिता नृणामभीष्टफलदायिनी ॥ २०४॥ इमावेव ततो नित्यमनुसृत्य ममाश्रितैः । यतात्मभिर्वर्तितव्यं न तु स्वैरं कदाचन ॥ २०५॥ वर्तिष्यन्ते य इत्थं हि पुरुषा योषितस्तदा । ते घर्मादिचतुर्वर्गसिद्धिं प्राप्स्यन्ति निश्चितम् ॥ २०६॥ नेत्थं य आचरिष्यन्ति ते त्वस्मत्सम्प्रदायतः । बहिर्भूता इति ज्ञेयं स्त्रीपुंसैः साम्प्रदायिकैः ॥ २०७॥ शिक्षापत्र्याः प्रतिदिनं पाठोऽस्या मदुपाश्रितैः । कर्तव्योऽनक्षरज्ञैस्तु श्रवणं कार्यमादरात् ॥ २०८॥ वक्त्रभावे तु पूजैव कार्यास्याः प्रतिवासरम् । मद्रूपमिति मद्वाणी मान्येयं परमादरात् ॥ २०९॥ युक्ताय सम्पदा दैव्या दातव्येयं तु पत्रिका । आसुर्या सम्पदाढ्याय पुंसे देया न कर्हिचित् ॥ २१०॥ विक्रमार्कशकस्याब्दे नेत्राष्टवसुभूमिते । वसन्ताद्यदिने शिङ्क्षापत्रीय लिखिता शुभा ॥ २११॥ निजाश्रितानां सकलार्तिहन्ता सधर्मभक्तेरवन विधाता । दाता सुखानां मनसेप्सितानां तनोतु कृष्णोऽखिलमङ्गलं नः ॥ २१२॥ ॥ इति श्रीसहजानन्दस्वामिलिखिता शिक्षापत्री समाप्ता ॥ आवाहन मन्त्रः ॥ उत्तिष्टोत्तिष्ठ हे नाथ स्वामिनारायण प्रभो । धर्मसूनो दयासिन्धो स्वेषां श्रेयः परं कुरु ॥ आगच्छ भगवन् देव स्वस्थानात् परमेश्वर । अहं पूजां करिष्यामि सदा त्वं सम्मुखो भव ॥ शरण मन्त्रः ॥ कालमायापापकर्मयमदूतभयादहम् । श्रीहरिं शरणं धार्मिं प्रपन्नोऽस्मि स पातु माम् ॥ विसर्जन मन्त्रः ॥ स्वस्थानं गच्छ देवेश पूजामादाय मामकीम् । इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥ स्मरण मन्त्रः ॥ ॐ श्री स्वामिनारायणबापा स्वामीबापा भगवते नमः ॥ Proofread by DPD
% Text title            : shikShApatrI sahajAnandasvAmIvirachitA
% File name             : shikShApatrIsahajAnanda.itx
% itxtitle              : shikShApatrI (sahajAnandasvAmIvirachitA)
% engtitle              : shikShApatrI by Sahajanandaswami
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : sahajAnandasvAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Description-comments  : Shree Swaminarayan Sampradaya
% Indexextra            : (scriptures)
% Latest update         : August 23, 2015
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP