श्रीधरकवचस्तोत्रम्

श्रीधरकवचस्तोत्रम्

अथातः सम्प्रवक्षामि कवचं श्रीधरं गुरुम् । यस्य स्मरणमात्रेण मुच्यते पातकैर्नराः ॥ १॥ श्रीगुरुश्रीधरकवचस्तोत्रमन्त्रस्य परमात्मा ऋषिः । अनुष्टुप् छन्दः । श्रीगुरु श्रीधरो देवता । गुं बीजम् । रुं शक्तिः । श्रीधरेति कीलकम् । अथ करन्यासः - श्रीं अगुष्ठाभ्यां नमः । धं तर्जनीभ्यां नमः । रं मध्यमाभ्यां नमः । श्रीं अनामिकाभ्यां नमः । धं कनिष्ठिकाभ्यां नमः । रं करतलकरपृष्ठाभ्यां नमः । (एवं हृदयादि न्यासः) भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ अथ ध्यानं - ध्यायेद् ब्रह्मसनातनं गुरुवरं मोक्षश्रियाधारिणं ब्रह्मानन्दरसार्णवं सुखधनं भक्तेष्टकल्पद्रुमम् । अज्ञानान्धनिवारणं गुणनिधिं भक्तप्रियं सुन्दरं जीवानां तरणार्थमेव सततं ज्ञानप्रदं श्रीधरम् ॥ इति ध्यानम् । श्रीधरः पातु मूर्धानं सहस्रारेण शोभितः । भालं पातु गुरुर्देवः चन्द्रमण्डलमण्डितम् ॥ १॥ अक्षौपात्वक्षयः श्रीमान् अच्युतानन्तरूपकः । भूमध्यं पातु सर्वज्ञः मोक्षानन्दस्वरूपिणः ॥ २॥ ओङ्कारात्मश्रुतिः पातु श्रुतिसिद्धान्तगोचरः । नासिकां पातु विश्वात्मा विश्वातीतः परात्मनः ॥ ३॥ मुखं मुक्तिकरः पातु भक्तकैरवचन्द्रमाः । चिबुक चिन्मयः पातु चिदानन्दस्वयंप्रभः ॥ ४॥ जिव्हां वेदनिधिः पातु वेदवेदान्तगोचरः । दन्तान्पातु दानवारि धर्मरक्षणदक्षकः ॥ ५॥ ओष्ठं पातु परिव्राजः वैराग्यज्ञानसागरः । कपोलं श्रीकरः पातु कमलाम्बातनोभवः ॥ ६॥ कण्ठं दण्डधरः पातु ज्ञानदण्डसुशोभित ॥ स्कन्धौ चन्द्राननः पातु चन्द्रकोटिप्रकाशकः ॥ ७॥ भूमानन्दर्भुजौ पातु ब्रह्मानन्दप्रदायकः । करो कारुणिकः पातु कमण्डलुधरः प्रभुः ॥ ८॥ वक्षस्थलं हरिः पातु सर्वपापप्रणाशनः । हृदयं श्रीगुरुः पातु मोक्षश्रीधारणादीपः ॥ ९॥ उदरं वरदः पातु ब्रह्माण्डोदरव्यापकः । नाभिं पातु नराकारो नामरूपविवर्जितः ॥ १०॥ गुह्यं पातु गुह्यरूपः हृदयाब्जनिवासिनः । ऊरू गुरुवरः पातु ऊहापोषविवर्जितः ॥ ११॥ जङ्घे ज्ञाननिधिः पातु ज्ञानमात्रैकनिर्मलः । मूलाधारं गुरुः पातु मायाऽविद्याविनाशकः ॥ १२॥ पादौ पातु पूज्यपादः पापविध्वंसरूपकः । चर्म चर्माम्बरः पातु चारुकाषायभूषणः ॥ १३॥ अङ्गुलीन्देशिकः पातु मोक्षपाणि गुरोत्तमः । रक्तं भक्तप्रियः पातु भक्तानुग्रहशीलकः ॥ १४ मांसं मीमांसकः पातु मातृवत्सलवत्सितः । मज्जान्तु अजरः पातु जन्मकर्मनिवर्तकः ॥ १५॥ अस्थीनि स्थिरधीः पातु कूटस्थमचलध्रुवः । मेदो वेदान्तिनः पातु मेधाबुद्धिप्रदीपकः ॥ १६॥ शुक्र सुखकरः पातु सुखशान्तिप्रचोदकः । मनो बुद्धिमहङ्कारं रक्षयेदन्तरात्मनः ॥ १७॥ कर्मेन्द्रियाणि पात्वीशः कैवल्यसुखदेश्वरः । ज्ञानेन्द्रियाण्यजः पातु अव्याजकरुणाकरः ॥ १८॥ प्राणान्पातु प्रधानज्ञो पुराणपुरुषोत्तमः । सवाङ्गं पातु सर्वात्मा सच्चिदानन्दविग्रहः ॥ १९॥ गृहारामधनक्षेत्रपुत्रादीन् रक्ष मे द्विभुः । भूम्यादीन् पातु धर्मज्ञः धर्मोद्धारावतारकः ॥ २०॥ आत्मानन्दः सुखं पातु स्वानन्दामृततृप्तकः । दुःखापातु निजानन्दः ब्रह्मानन्दस्वरूपकः ॥ १२॥ प्राच्यां पातु परब्रह्म पात्वाग्नेयां परात्मनः । याम्यां धर्मात्मकः पातु नैरृत्यां पातु विश्वजित् ॥ २२॥ प्रतीच्यां पुरुषः पातु वायव्यां पातु प्राणदः । कौबेर्यां भगवान्पातु पात्वेशान्यां सदाशिवः ॥। ५३॥ ऊर्ध्वाधोदेशकः पातु त्रिमूर्तिस्वस्वरूपकः । पञ्चभूतात्मकः पातु पञ्चभूतानि भीतितः ॥ २४॥ दिवा चिदम्बरः पातु रात्रौ चन्द्रनिभाननः । यक्षराक्षसभूताद्यात् पातु मां श्रीधरेश्वरः ॥ २५॥ सर्वज्ञः पातु सर्वत्र सर्वमङ्गलदायकः । षड्भावविकृतिं पातु षडूर्मिरहितः परः ॥ २६॥ षण्णामरीणां वर्गं च पातु ज्ञानेश्वरः पुमान् । रोगान्निरामयः पातु नित्यशुद्धनिरञ्जनः ॥ २७॥ द्वन्द्वदुःखाद्विभुः पातु द्वन्द्वातीत्येकमद्वयः । व्याघ्रचोरादिभीतीश्च पातु मां सर्वरूपकः ॥ २८॥ श्रीधरानुग्रहादुक्तं मया कवचमुत्तमम् । संसारामयतप्तानां शाश्वतं मोक्षदं शुभम् ॥ २९॥ यः सदा धारयेत् भक्त्या स्तोत्रं कवचमुत्तमम् । न तस्य जायते क्वापि अशुभं गुर्वनुग्रहात् ॥ ३०॥ धर्मार्थकाममोक्षाणां इदमेवपरायणम् । पुत्रमित्रकलत्रादि सर्वसन्तोषसाधकम् ॥ ३१॥ त्रिसन्ध्यां पठतीयस्तु श्रद्धाभक्त्यामतन्द्रितः । सर्वरोगाः प्रणश्यन्ति सर्वाबाधाविनश्यति ॥ ३२॥ बहुना किमिहोक्तेन यद्यन्मनसिवर्तते । श्रीगुरोनुग्रहादेव तत्तत्सर्वं भवेदिह ॥ ३३॥ इति श्रीमत् परमहंस परव्राजकाचार्य श्रीसच्चिदानन्दस्वामिना विरचितं भगवान् सद्गुरु श्री श्रीधरकवचस्तोत्रं सम्पूर्णम् ॥ श्रीधर सन्देश
% Text title            : Shridhara Kavacha Stotram
% File name             : shrIdharakavachastotram.itx
% itxtitle              : shrIdharakavachastotram (sachchidAnandasvAmIvirachitam)
% engtitle              : shrIdhara kavacha stotram
% Category              : deities_misc, gurudev, kavacha, shrIdharasvAmI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sachchidAnandasvAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Description/comments  : From shrIdhara sandesha
% Indexextra            : (Collection 1, 2)
% Latest update         : November 10, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org