श्रीत्यागब्रह्मगुर्वष्टकम्
ॐ
। श्रीरामजयम् ।
। ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
अथ गुर्वष्टकम् ।
गुरुरामसुभक्त्युतगाननिधिः गुरुसन्त्यजनायुतनामनिधिः ।
गुरुतेजजितायुतभासनिधिः गुरुरेवमदाश्रयतत्त्वनिधिः ॥ १॥
गुरुगद्यसुपद्यनुताशुकविः गुरुनामसुकीर्तनदिव्यसरिः ।
गुरुसत्कृतिकीर्तननव्यरुचिः गुरुरेवमदाश्रयसत्त्वनिधिः ॥ २॥
गुरुवाणिसुकीर्तनमिष्टवचः गुरुसुस्वरहृद्गतनामजपः ।
गुरुतथ्यनुतप्रभुभक्तिशयः गुरुरेवमदाश्रयतथ्यनिधिः ॥ ३॥
गुरुपञ्चनदप्रियगीतसुखी गुरुवाञ्छितसर्वदरामसुधीः ।
गुरुलाञ्छितलाघवकाव्यरसी गुरुरेवमदाश्रयनित्यनिधिः ॥ ४॥
गुरुगेयसुशिल्पितरामहरिः गुरुकीर्तनमन्दिरपूजितसः ।
गुरुनादलयालयभासुरसः गुरुरेवमदाश्रयनादनिधिः ॥ ५॥
गुरुपामरदूरसुनादहिमः गुरुपामरबोधनसत्कृतिदः ।
गुरुमानसपावननामसुगः गुरुरेवमदाश्रयबोधनिधिः ॥ ६॥
गुरुपावनगीःसुरनद्यसुखः गुरुपावनगानसुवर्गसुखः ।
गुरुजन्मनिवारणनैत्यसुखः गुरुरेवमदाश्रयरामनिधिः ॥ ७॥
गुरुरागविराजसुराजवरः गुरुरामसुपूजनगानवरः ।
गुरुभक्तिसमर्पितपुष्पपदः गुरुरेवमदाश्रयमङ्गलधिः ॥ ८॥
ॐ
शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan