श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामावलिः १
निगमान्तगुरोर्नाम्नां प्रभावो येन वर्णितः ।
तं वेङ्कटार्यमनिशं तातार्यतनयं भजे ॥
विदुषा वेङ्कटार्येण तातार्यतनुजन्मना ।
वेदान्तार्यगुरोर्नाम्नां प्रभावो वर्ण्यतेतराम् ॥
सुदर्शनकृपालब्ध वेदतत्त्वार्थसागरम् ।
अनुष्ठितः क्रतुशतं वन्देऽस्मत्पितरं गुरुम् ॥ १ ॥
कुमारतातयाचार्य सदाचारपरं सदा ।
वेदान्ताचार्यसिद्धान्तविजयध्वजमाश्रये ॥ २ ॥
साङ्ख्यसौगतचार्वाकशाङ्करादितमोनुदम् ।
त्रय्यन्तदेशिकं वन्दे वेङ्कटेशाह्वयं महः ॥ ३ ॥
श्रीमद्वेङ्कटनाथस्य नाम्नामष्टोत्तरं शतम् ।
सङ्गृह्य तत्प्रसादाय वक्ष्ये सर्वार्थसिद्धिदम् ॥ ४ ॥
अथ नामावलिः ।
ॐ घण्टावताराय नमः ।
ॐ अनन्तार्यतनयाय नमः ।
ॐ वेङ्कटाधिपाय नमः ।
ॐ श्रीमल्लक्ष्मणयोग्यंशाय नमः ।
ॐ वरदाचार्यवीक्षिताय नमः ।
ॐ रामानुजार्यसन्दृष्टाय नमः ।
ॐ सौपर्णमनुचिन्तकाय नमः ।
ॐ तार्क्ष्यदत्तवराय नमः ।
ॐ शुद्धाय नमः ।
ॐ प्रसादितहयाननाय नमः । १०
ॐ अधीतसाङ्गसकलश्रुतये नमः ।
ॐ स्मृतिविदे नमः ।
ॐ अग्रण्ये नमः ।
ॐ इतिहासपुराणज्ञाय नमः ।
ॐ सुकवये नमः ।
ॐ तर्कतत्त्वविदे नमः ।
ॐ भाष्यकाराय नमः ।
ॐ भयहराय नमः ।
ॐ सुधाशिने नमः ।
ॐ दुग्धराशिकृते नमः । २०
ॐ प्रधानप्रतितन्त्रज्ञाय नमः ।
ॐ देवतापारमार्थ्यविदे नमः ।
ॐ श्रुतविद्याय नमः ।
ॐ श्रावयित्रे नमः ।
ॐ श्रुतपालाय नमः ।
ॐ श्रुतप्रदाय नमः ।
ॐ श्रिताय नमः ।
ॐ पाण्डित्यदात्रे नमः ।
ॐ कृतकृत्याय नमः ।
ॐ कृतिने नमः । ३०
ॐ सुधिये नमः ।
ॐ निरस्तसाङ्ख्याय नमः ।
ॐ प्रत्युक्तयोगाय नमः ।
ॐ काणादभञ्जनाय नमः ।
ॐ अचिच्छैतन्यवादघ्नाय नमः ।
ॐ क्षणिकाणुमतार्दनाय नमः ।
ॐ साकारधीनिराकर्त्रे नमः ।
ॐ शून्यवादतमोनुदाय नमः ।
ॐ कुदृष्ट्युरगपक्षीशाय नमः ।
ॐ सप्तभङ्गीविलोपनाय नमः । ४०
ॐ भेदाभेदमतच्छेत्रे नमः ।
ॐ धूतयादवकल्पनाय नमः ।
ॐ अनीशवादिदम्भोलये नमः ।
ॐ पाषण्डमतखण्डनाय नमः ।
ॐ संरक्षितागमाय नमः ।
ॐ शङ्खचक्रधारणरक्षित्रे नमः ।
ॐ ऊर्ध्वपुण्ड्राङ्कनत्रात्रे नमः ।
ॐ शुद्धसत्त्वमयाकृतये नमः ।
ॐ यत्याचारप्रतिष्ठात्रे नमः ।
ॐ सर्वतन्त्रस्वतन्त्रधिये नमः । ५०
ॐ अवताररहस्यज्ञाय नमः ।
ॐ अर्चासौन्दर्यसक्तधिये नमः ।
ॐ अर्थपञ्चकतत्त्वज्ञाय नमः ।
ॐ तत्त्वत्रयविशेषविदे नमः ।
ॐ भक्तियोगविरोधिघ्नाय नमः ।
ॐ भक्तिमते नमः ।
ॐ भगवत्प्रियाय नमः ।
ॐ ज्ञानैकसाराय नमः ।
ॐ द्वयविदे नमः ।
ॐ विभक्ताधिकृतित्रयाय नमः । ६०
ॐ चतुश्लोक्यर्थसारज्ञाय नमः ।
ॐ संयग्ज्ञाताङ्गपञ्चकाय नमः ।
ॐ षडङ्गयोग निर्णेत्रे नमः ।
ॐ सप्ततन्तुकृदुत्तमाय नमः ।
ॐ अष्टाक्षरैकनिरताय नमः ।
ॐ नवमैकरसाश्रयाय नमः ।
ॐ दशतात्पर्यविज्ञात्रे नमः ।
ॐ शतकृते नमः ।
ॐ सहस्रविदे नमः ।
ॐ स्थूललक्षाय नमः । ७०
ॐ अनेकनानाकोटिज्ञाननिवर्तकाय नमः ।
ॐ धर्मशङ्कवे नमः ।
ॐ साधुबृन्दवन्दिताङ्घ्रिसरोरुहाय नमः ।
ॐ पद्माक्षानन्दजनकाय नमः ।
ॐ अनन्तगुणाकराय नमः ।
ॐ त्यागशब्दार्थविदे नमः ।
ॐ धर्मवेदिने नमः ।
ॐ विधिविशेषविदे नमः ।
ॐ उत्तमश्लोकभावज्ञाय नमः ।
ॐ पञ्चकालपरायणाय नमः । ८०
ॐ सुरसेव्याय नमः ।
ॐ पूर्णमनसे नमः ।
ॐ सूरीन्द्रप्रतिरूपकाय नमः ।
ॐ कवितार्किकपञ्चास्याय नमः ।
ॐ निगमाञ्चलदेशिकाय नमः ।
ॐ वैद्याय नमः ।
ॐ मुनीन्द्राय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ उपकर्त्रे नमः ।
ॐ सत्सम्प्रदायाय नमः । ९०
ॐ स्थिरधिये नमः ।
ॐ अनघाय नमः ।
ॐ सत्यवाचे नमः ।
ॐ साधुवृत्तये नमः ।
ॐ मुक्तडम्भाय नमः ।
ॐ जिताक्षाय नमः ।
ॐ दीर्घबन्धुमते नमः ।
ॐ दयालवे नमः ।
ॐ शासित्रे नमः ।
ॐ सर्वहिताचरणतत्पराय नमः । १००
ॐ महागुरवे नमः ।
ॐ स्वर्णवर्णाय नमः ।
ॐ सुबाहवे नमः ।
ॐ पुण्डरीकदृशे नमः ।
ॐ पवित्रपाणये नमः ।
ॐ व्याख्यानमुद्राङ्कितकराम्बुजाय नमः ।
ॐ सव्यपाणितलन्यस्तदिव्यपुस्तकभूषणाय नमः ।
ॐ परशीर्षन्यस्तवामपादाब्जकटकोज्ज्वलाय नमः । १०८
इतीदं देशिकेन्द्रस्य नाम्नामष्टोत्तरं शतम् ।
सङ्कीर्तयेदनुदिनं सर्वपापापनुत्तये ॥
पठन्नामशतं भक्त्या श्रुत्वा गुरुमुखाम्बुजात् ।
प्रसादाद्देशिकेन्द्रस्य भुक्तिमुक्ति समश्नुते ॥
एकैकमपि तन्नाम कीर्तयन् सकृदुत्तमम् ।
सर्वान् कामानवाप्नोति किमुताष्टोत्तरं शतम् ॥
इति श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामावलिः सम्पूर्णा ।
Proofread by Aruna Narayanan