श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम्

श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम्

श्रीः । अथ श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रम् । निगमान्तगुरोर्नाम्नां प्रभावो येन वर्णितः । तं वेङ्कटार्यमनिशं तातार्यतनयं भजे ॥ विदुषा वेङ्कटार्येण तातार्यतनुजन्मना । वेदान्तार्यगुरोर्नाम्नां प्रभावो वर्ण्यतेतराम् ॥ सुदर्शनकृपालब्ध वेदतत्त्वार्थसागरम् । अनुष्ठितः क्रतुशतं वन्देऽस्मत्पितरं गुरुम् ॥ १॥ कुमारतातयाचार्य सदाचारपरं सदा । वेदान्ताचार्यसिद्धान्तविजयध्वजमाश्रये ॥ २॥ साङ्ख्यसौगतचार्वाकशाङ्करादितमोनुदम् । त्रय्यन्तदेशिकं वन्दे वेङ्कटेशाह्वयं महः ॥ ३॥ श्रीमद्वेङ्कटनाथस्य नाम्नामष्टोत्तरं शतम् । सङ्गृह्य तत्प्रसादाय वक्ष्ये सर्वार्थसिद्धिदम् ॥ ४॥ अथ स्तोत्रम् । ॐ घण्टावतारोऽनन्तार्यतनयो वेङ्कटाधिपः । श्रीमल्लक्ष्मणयोग्यंशो वरदाचार्यवीक्षितः ॥ ५॥ रामानुजार्यसन्दृष्टस्सौपर्णमनुचिन्तकः । तार्क्ष्यदत्तवरश्शुद्धः प्रसादितहयाननः ॥ ६॥ अधीतसाङ्गसकलश्रुतिस्मृतिविदग्रणीः । इतिहासपुराणज्ञस्सुकविस्तर्कतत्त्ववित् ॥ ७॥ भाष्यकारो भयहरस्सुधाशीदुग्धराशिकृत् । प्रधानप्रतितन्त्रज्ञो देवतापारमार्थ्यवित् ॥ ८॥ श्रुतविद्यश्श्रावयिता श्रुतपालश्श्रुतप्रदः । श्रितः पाण्डित्यदाता च कृतकृत्यः कृती सुधीः ॥ ९॥ निरस्तसाङ्ख्यः प्रत्युक्तयोगः काणादभञ्जनः अचिच्चैतन्यवादघ्नः क्षणिकाणुमतार्दनः ॥ १०॥ साकारधी निराकर्ता शून्यवादतमोनुदः । कुदृष्ट्युरगपक्षीशः सप्तभङ्गीविलोपनः ॥ ११॥ भेदाभेदमतछेत्ता धूतयादवकल्पनः । अनीशवादिदम्भोलिः पाषण्डमतखण्डनः ॥ १२॥ संरक्षितागमश्शङ्खचक्रधारणरक्षिता । ऊर्ध्वपुण्ड्राङ्कनत्राता शुद्धसत्त्वमयाकृतिः ॥ १३॥ यत्याचारप्रतिष्ठाता सर्वतन्त्रस्वतन्त्रधीः । अवतार रहस्यज्ञस्त्वर्चासौन्दर्यसक्तधीः ॥ १४॥ अर्थपञ्चक तत्त्वज्ञः तत्त्वत्रयविशेषवित् । भक्तियोग विरोधिघ्नो भक्तिमान् भगवत्प्रियः ॥ १५॥ ज्ञानैकसारो द्वयविद्विभक्ताधिकृतित्रयः । चतुश्श्लोक्यर्थ सारज्ञः सम्यग्ज्ञाताङ्गपञ्चकः ॥ १६॥ षडङ्गयोग निर्णेता सप्ततन्तुकृदुत्तमः । अष्टाक्षरैकनिरतो नवमैकरसाश्रयः ॥ १७॥ दशतात्पर्यविज्ञाता शतकृच्च सहस्रवित् स्थूललक्षोऽनेकनानाकोटिज्ञाननिवर्तकः ॥ १८॥ धर्मशङ्कुस्साधुबृन्दवन्दिताङ्घ्रिसरोरुहः । पद्माक्षानन्दजनकस्तथाऽनन्तगुणाकरः ॥ १९॥ त्यागशब्दार्थविद्धर्मवेदी विधिविशेषवित् । उत्तमश्लोकभावज्ञः पञ्चकालपरायणः ॥ २०॥ सुरसेव्यः पूर्णमनास्सूरीन्द्रप्रतिरूपकः । कवितार्किकपञ्चास्यो निगमाञ्चलदेशिकः ॥ २१॥ वैद्यो मुनीन्द्रस्सर्वज्ञः उपकर्ता तथैव च । सत्सम्प्रदायस्थिरधीरनघस्सत्यवागपि ॥ २२॥ साधुवृत्तिर्मुक्तडम्भो जिताक्षो दीर्घबन्धुमान् । दयालुश्शासिता सर्वहिताचरणतत्परः ॥ २३॥ महागुरुस्स्वर्णवर्णस्सुबाहुः पुण्डरीकदृक् । पवित्रपाणिर्व्याख्यानमुद्राङ्कितकराम्बुजः ॥ २४॥ सव्यपाणितलन्यस्तदिव्यपुस्तकभूषणः । परशीर्षन्यस्तवामपादाब्जकटकोज्ज्वलः ॥ २५॥ फलश्रुतिः - इतीदं देशिकेन्द्रस्य नाम्नामष्टोत्तरं शतम् । सङ्कीर्तयेदनुदिनं सर्वपापापनुत्तये ॥ २६॥ पठन्नामशतं भक्त्या श्रुत्वा गुरुमुखाम्बुजात् । प्रसादाद्देशिकेन्द्रस्य भुक्तिमुक्ति समश्नुते ॥ २७॥ एकैकमपि तन्नाम कीर्तयन् सकृदुत्तमम् । सर्वान्कामानवाप्नोति किमुताष्टोत्तरं शतम् ॥ २८॥ इति श्रीमद्वेदान्तदेशिकाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Vedanta Deshika Ashtottarashatanama Stotram 1
% File name             : vedAntadeshikAShTottarashatanAmastotram1.itx
% itxtitle              : vedAntadeshikAShTottarashatanAmastotram 1
% engtitle              : vedAntadeshikAShTottarashatanAmastotram 1
% Category              : deities_misc, gurudev, aShTottarashatanAma, vedAnta-deshika
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : See corresponding nAmAvalI
% Indexextra            : (1, 2, 3, 4, Info 1, 2, nAmAvalI)
% Latest update         : November 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org