श्रीमद्वेङ्कटनाथगुरुस्तोत्रम्

श्रीमद्वेङ्कटनाथगुरुस्तोत्रम्

॥ श्रीरस्तु ॥ श्रीमते हयग्रीवाय नमः । अस्मद्गुरुपरम्पराभ्यो नमः । श्रीकाञ्ची प्रतिवादिभयङ्करं जगदाचार्यसिंहासनाधीश श्रीमदण्णङ्गराचार्यकृतिषु श्रीमद्वेङ्कटनाथगुरुस्तोत्रम् । श्रीमान्वेङ्कटनाथार्य इति पद्याक्षरक्रमात् । श्रीमद्वेङ्कटनाथार्यस्तोत्रं वच्मि सतां मुदे ॥ श्रीमद्वेङ्कटनाथदेशिकमणिश्शेषाद्रिभूषामणे- र्घण्टांशः कुशिकात्मजान्वयसुधासिन्धोस्सुधादीधितिः । श्रीरामानुजसूरिवर्यकरुणासम्प्राप्तविद्योत्करो- ऽनन्तार्याह्वयसोमसुत्सुतमणिर्मे सन्निधत्तां हृदि ॥ १॥ मानातीतमहागुणौघजलधिः मायीभकण्ठीरवः मातङ्गाचलमौलिमण्डनमणेः मान्यो महादेशिकः । मग्नान् संसृतिसागरे मितमतीन् मादृग्जनान् रक्षितुं मर्त्याकारमुपेयिवान् गुरुवरो मे सन्निधत्तां हृदि ॥ २॥ वेतण्डाचलमण्डनस्य वरदस्याङ्घ्री सदा संश्रयन् तस्यैवाद्भुतमाभिरूप्यमनिशं चित्तेऽनुभूय स्वयम् । वैकुण्ठेऽपि न मेऽभिलाष इति यः प्रोचे महादेशिकः सोऽयं पण्डितमण्डलीपरिबृढो मे सन्निधत्तां हृदि ॥ ३॥ कल्पन्ते किल यस्य देशिकमणेः श्रीसूक्तिरत्नोत्कराः सर्वेषामपि देहिनां भवभयोद्विग्नात्मनां मुक्तये । सोऽयं वेदशिरोगुरुर्यतिपतेस्सिद्धान्तमत्यद्भुतं भूयोभिः कृतिसञ्चयैर्विशदयन् मे सन्निधत्तां हृदि ॥ ४॥ टङ्काद्यैर्बहुभिः पुराणगुरुभिः प्रागेव दृष्टं ततः पश्चात् श्रीयुतनाथयामुनयतिक्ष्माभृन्मुखैर्वर्धितम् । सिद्धान्तं गुरुराडसौ बहुतमैस्सद्ग्रन्थवृन्दैर्निजैः संवृद्धं कलयन् कलिप्रमथनो मे सन्निधत्तां हृदि ॥ ५॥ नाहं बोद्धुमलं भवामि निगमान्तार्यस्य दिव्योक्तिषु प्राज्ञैकानुभवार्हमद्भुततमं दिव्यार्थसारं स्वयम् । कारुण्येन सुदुर्वचेन भरितस्सोऽयं महादेशिकः सर्वार्थान् स्वयमेव साधु गमयन् मे सन्निधत्तां हृदि ॥ ६॥ ``थासस्से''-``ढकि लोप''-``ऋत्यक''-``इको यण्''-``कुत्सिते''-``डस्सिधुट्'' ``झेर्झस्''-``झोऽन्त'' इतीदृशानि सततं सूत्राणि सङ्क्रन्दताम् । श्रेयः किञ्चन नोदियादिति धिया सूक्तीस्सुहृद्या अदात् यो वेदान्तमहागुरुस्स कृपया मे सन्निधत्तां हृदि ॥ ७॥ यः कारुण्यनिधिर्यमाह भगवान् वेदान्तसद्देशिकं येनेदं भुवनं सनाथमभवत् यस्मै नतिः श्रेयसी । यस्माद्दिव्यसुधोदयस्समभवत् यस्य प्रभावोऽद्भुतः, यस्मिन् सर्वगुणा बभुः स गुरुराण्मे सन्निधत्तां हृदि ॥ ८॥ कन्यामासि फणीन्द्रशैलशिखरालङ्कारतीर्थोडुनि प्रादुर्भूय भवाब्धिमग्नजनतासंरक्षणैकव्रती । यः प्रोवाच शताधिकान् सुमधुरान् सारार्थरत्नाकरान् सद्ग्रन्थान् स गुरुर्गुणामृतनिधिर्मे सन्निधतां हृदि ॥ ९॥ विश्वत्राणविचक्षणस्स भगवान् घण्टां स्वकीयां शुभां तोताद्र्याह्वयदिव्ययोषिदुदरे न्यस्यन् समा द्वादश । प्रादुर्भाव्य यदात्मना विभवनाम्न्यब्दे नभस्ये निजे नक्षत्रे जगतीं ररक्ष स गुरुर्मे सन्निधत्तां हृदि ॥ १०॥ तातो मे भुवनप्रसिद्धमहिमा विद्यानिषद्यात्मकः यस्य श्रीनिगमान्तदेशिकमणेः श्रीसूक्तिरत्नावलीः । आबाल्यान्मम कण्ठभूषणतया विन्यास्थत् अन्यादृशः सोऽयं देशिक आत्मनः करुणया मे सन्निधत्तां हृदि ॥ ११॥ किञ्चिज्ज्ञानमुपेयुषामपि सतां यस्य त्रयीशेखरा- चार्यस्याद्भुतसूक्तिवृन्दमनघं हृद्यं हि विद्योतते । भक्तिं भूरितमां विरक्तिमनघां विज्ञानमुच्चावचं बिभ्राणस्स महागुरुर्गुणनिधिर्मे सन्निधत्तां हृदि ॥ १२॥ कल्लोला इव सागरे गुरुवरे यस्मिन् सदा सूक्तयः प्रादुर्भावमनर्गलं जनिजुषां सौभाग्यभूम्ना दधुः । सोऽयं सर्वकलाविहारनिलयः सर्वज्ञचूडामणिः सर्वानन्दनसद्गुणौघजलधिर्मे सन्निधत्तां हृदि ॥ १३॥ के वा सन्ति महीतलेऽत्र विपुले वेदान्तसूरेर्गिर- स्सर्वास्साधु विमृश्य तस्य हृदयं गाढं ग्रहीतुं क्षमाः । सोऽयं देशिकसार्वभौम इह मामेकं कृपावैभवात् स्वीयान्तःकरणज्ञमाशु कलयन् मे सन्निधत्तां हृदि ॥ १४॥ सत्यं सत्यमहं ब्रवीमि भुवने नान्योऽवतीर्णो गुरुः चारित्रं परमं पवित्रमतुलास्सूक्तीश्च सन्दर्शयन् । एकोऽयं श्रुतिमौलिदेशिकमणिः सर्वात्मना शोभनः सोऽयं सीमदरिद्रया करुणया मे सन्निधत्तां हृदि ॥ १५॥ रीङ्कारं कलयन्ति शीधुकणिकां पीत्वा द्विरेफा वने सोऽहं वेदशिरोगुरोर्हि फणितीः पीयूषकल्पा मुहुः । पायम्पायमनर्गलं विरचये तौर्यत्रिकं चत्वरे सोऽयं सर्वकलानिधिर्गुरुवरो मे सन्निधत्तां हृदि ॥ १६॥ वेदानां पठनं पुराणकथनं स्मृत्यादिसंशीलनं सर्वं यस्य गुरोर्गिरां परिचयैः पुष्णाति शोभां पराम् । सोऽयं सर्वपथीनधीविलसितो वैराग्यवारान्निधिः श्रीमान् वेदशिरोगुरुः प्रतिकलं मे सन्निधत्तां हृदि ॥ १७॥ दान्तिश्शान्तिरिति द्वयं हि सकलैस्सम्पादनीयो निधिः सोऽयं यस्य बभौ स्वभावनियतो लक्ष्मीशसङ्कल्पतः । वाजिग्रीवकृपाकटाक्षविभवोदञ्चत्प्रभावोज्ज्वलः सोऽयं देशिकतल्लजः स्वकृपया मे सन्निधत्तां हृदि ॥ १८॥ तातोऽयं तनयोऽयमेष सहजस्सैषा प्रसूः पत्न्यसौ क्षेत्रं मामकमेतदित्यनवधि प्रोज्जृम्भमाणा तृषा । सर्वा मे समभूद्यदीयफणितिष्वेव प्रसिद्धप्रथ- स्सोऽयं निस्तुलवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ १९॥ चार्वाकादिमदुर्मतान्धतमसध्वंसार्थमुद्यन् रविः श्रीमद्वैष्णवमण्डलीकुवलयोल्लासाय भास्वान् विधुः । सोऽयं वेदशिरोगुरुस्स भगवानित्येवमत्यादरात् सर्वैस्साधुगणैः प्रशस्यमहिमा मे सन्निधत्तां हृदि ॥ २०॥ यज्ञे धातुरुदित्वरस्स वरदः श्रीहस्तिशैलेश्वरः स्वीये वाहनमण्डपे परमया प्रीत्या यमास्थापयन् । वारंवारमनुग्रहं प्रकटयन् विद्योतते तादृश- प्रख्यातामितवैभवो गुरुवरो मे सन्निधत्तां हृदि ॥ २१॥ वर्गे वैष्णवशुद्धसन्ततिजुषां श्लाघ्यान् अथान्यैरपि प्राज्ञैर्भूरितमैः प्रशस्य विभवान् ग्रन्थान् गरिष्ठान् बहून् । श्रीमद्वाजिमुखस्य दिव्यकृपया नित्यं सृजन् निर्मल- प्रज्ञो देशिक एष दोषविधुरो मे सन्निधत्तां हृदि ॥ २२॥ योग्यानामयमग्रगण्य इति भुव्याख्यामिहेप्सुर्जनः यस्याचार्यमणेर्विशुद्धफणितिष्वत्यादरं प्राप्नुयात् । सोऽयं श्रीशतदूषणीमुखमहाग्रन्थावलीख्यापित- प्रज्ञाशेवधिरादरेण महता मे सन्निधत्तां हृदि ॥ २३॥ मेदिन्यामिह सर्वतः प्रसृमरा विख्यातिरन्यादृशी यस्य श्रीनिगमान्तदेशिकमणेर्नित्यं समुज्जृम्भते । यस्याहुस्सकलेऽपि तन्त्रनिचये स्वातन्त्र्यमत्यङ्कुशं श्रीमानेष गुणालयो गुरुवरो मे सन्निधत्तां हृदि ॥ २४॥ सन्देहान् सकलान् हतान् विदधतः पीयूषसन्देहदान् गङ्गापूरसधर्मणश्शुभतमान् दिव्यान्निबन्धान् बहून् । उद्घाटय क्षितिमण्डलं निरुपमं निष्कल्मषं चादधत् वेदान्तार्यगुरूत्तमः करुणया से सन्निधत्तां हृदि ॥ २५॥ नित्याराधनपेटिकां मम गृहे धन्यां वितन्वंश्चिरात् सर्वासामपि सम्पदां मम कुले बीजायमानो महान् । ज्ञानानुष्ठितिसम्पदा सुमहितः कण्ठीरवो वादिनां त्रय्यन्तार्यमहागुरुश्शुभमतिर्मे सन्निधत्तां हृदि ॥ २६॥ धन्यो नान्य इहास्ति केवलमहं धन्याग्रणीरित्यमुं गर्वं निर्वहति प्रसिद्धमहिमा यो देशिको मामकम् । सोऽयं धन्यतमां धरां विदधतीस्सूक्तीरमेयास्सृजन् श्रीमान् वेदशिरोगुरुर्मदजुषो मे सन्निधत्तां हृदि ॥ २७॥ ताम्यद्भिर्बहुधा जनैः परिवृते भूमण्डलेऽस्मिन्नहं यस्यानुग्रहपात्रतामनितरप्राप्यामिह प्राप्नुवन् । सन्तुष्टस्सततं प्रफुल्लहृदयो दुःखोक्तिवैदेशिको वर्तेः सोऽयममेयधीर्गुरुवरो मे सन्निधत्तां हृदि ॥ २८॥ सद्वृन्दैस्सह नित्यवासरसिकं सङ्ख्यातिगैर्भावुकैः संश्राव्योक्तिपरम्परं च कृपया यो मां व्यधाद्देशिकः । सोऽयं द्राविडसंस्कृतादिसकलब्राह्मीषु कूलङ्कष- प्रज्ञो वेदशिरोगुरुर्मधुरवाक् मे सन्निधत्तां हृदि ॥ २९॥ दारिद्र्यं क्षपयन् यशो विशदयन् विज्ञानमुज्जृम्भयन् आचारं परिपोषयन् शुभमतिं सर्वत्र संवर्धयन् । भक्तिं मेदुरयन् हरौ किमधिकैः सर्वान् गुणान् जृम्भयन् श्रीमद्वेदशिरोगुरुर्महितवाक् मे सन्निधत्तां हृदि ॥ ३०॥ हृद्यैर्नित्यमवद्यगन्धविधुरैरुच्चावचैर्मामक- ग्रन्थैर्भूमिमिमां सदा सुरभयन् वेदान्तसूरिर्गुरुः । पूर्वाचार्यसदुक्तिरत्नसततास्वादैकसक्ताशयं कुर्वन्मां कमनीयदिव्यवपुषा मे सन्निधत्तां हृदि ॥ ३१॥ दिव्याकारजितस्मरः सुकविताचातुर्यलीलागृहं शुद्धानुष्ठितिकेलिसद्म भगवद्भक्त्याकरोऽत्यद्भुतः । सन्दिग्धार्थविनिर्णयेषु चतुरस्सर्वार्थसिद्ध्यादिका- नेकग्रन्थकृदेष देशिकमणिर्मे सन्निधत्तां हृदि ॥ ३२॥ इत्थं वादिभयङ्करवंशीयाण्णङ्गरार्यसङ्कलितम् । श्रीमद्वेङ्कटनाथस्तोत्रं पठतां समृद्धिरखिला स्यात् ॥ इति श्रीकाञ्ची प्रतिवादिभयङ्करं श्रीमदण्णङ्गराचार्यकृतिषु श्रीमद्वेङ्कटनाथगुरुस्तोत्रं समाप्तम् ॥ Proofread by Aruna Narayanan
% Text title            : Venkatanatha Guru Stotram
% File name             : venkaTanAthagurustotram.itx
% itxtitle              : veNkaTanAthagurustotram
% engtitle              : venkaTanAthagurustotram
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Indexextra            : (Scan)
% Latest update         : April 3, 2022
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org