श्रीविश्वकर्मा कवचम्

श्रीविश्वकर्मा कवचम्

श्रीमत्परात्पर विश्वकर्मपरब्रह्मणे नमः । अथ श्रीविश्वकर्मा कवच प्रारम्भः । अस्य श्रीविश्वकर्म परब्रह्म कवचस्तोत्र चतुर्विंशत्य क्षरमूलमहामन्त्रस्यानुग्रहार्थं परब्रह्मऋषिः । गायत्रीछन्दः । सदाशिवो देवता । ॐ बीजम् ॥ विश्वकर्म ब्रह्मशक्तिः । प्रपञ्चाक्षरं कीलकम् । श्रीमद्विश्वकर्मपरब्रह्ममूलमन्त्र जपे विनियोगः ॥ ॐ अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्याम नमः । ॐ ह्रीं मध्यमाभ्यां नमः । ॐ अं अनामिकाभ्यां नमः । ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ ह्रीं करतलकर पृष्ठाभ्यां नमः ॥ एवं हृदयादिषडङ्गन्यासः । ॐ अं सद्यो जात मुखोद्भवायमनु विश्वब्रह्म सान मात्यने हृदयाय नमः । ॐ क्लीं वामदेव मुखोद्धवायमय विश्व ब्रह्म सनातनात्मनेः शिरसे स्वाहा । ॐ ह्रीं अघोरमुखजन्मनेत्वष्ट्र विश्वब्रह्माहमूनात्मने शिरषायै वषट् । ॐ क्लीं तत्पुरुषमुख जन्मनेशिल्पि विश्वब्रह्म प्रत्यात्मने कवचायहुम् । ॐ ह्रीं ईशानमुख जन्मने अर्क विश्वब्रह्मसपूर्णात्मने नेत्रत्रयाय वौषट् । ॐ अं कश्यप विश्वकर्म विराटस्वरूपमित्यस्त्राय फट् । भूर्भुवः सुवरोमितिदिग्बन्धः । अथ ध्यानं - सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् ॥ आदिपुरुष ईशान आदिब्रह्मकुलोद्भव ॥ १॥ विश्वकर्मा सदाध्येयोनील मेघो परिस्थित । सर्वाभरणसंयुक्तो रत्नसिंहासनस्थितः ॥ इति ध्यात्वा ॥ ॥ मानसोपचार सम्पूजयेत् ॥ तच्चेयं लं पृथ्वीतत्वात्मेनगन्धतन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । गन्धंसमर्पयामि ॥ हं आकाशतत्वात्मने शब्द तन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । दीपन्दर्शयामि ॥ वं आपतत्वात्मनेरस तन्मात्रप्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । अमृतनैवेद्यं समर्पयामि ॥ सं सर्वतत्वात्मने प्रकृत्यानन्दात्मने श्रीगुरुविश्वकर्मपरब्रह्मणे नमः । मार्वो पवाशन् समर्पयामि ॥ अथ मूलमन्त्रः । ॐ ॐ क्लीं ह्रीं विश्वकर्म ब्रह्मोविशक्तिः । सर्वकार्यमेव शङ्कुस हुं फट् स्वाहा । वैदलक्षपुरश्चरणनासिद्धिः । ४००००० उत्तरन्यासः ॥ ॐ अं सद्योजात मुखोद्भवायमनु विश्वब्रह्मसानगात्मने हृदयाय नमः । ॐ क्लीं वामदेवमुखोद्भवायमय विश्वब्रह्म सनात्मने शिरसे स्वाहा । ॐ ह्रीं अघोरमुख जन्मनेत्वष्ट्र विश्वब्रह्माहभूतात्मने शिखायै वौषट् । ॐ अं तत्पुरुष मुख जन्मने शिल्पि विश्वब्रह्मप्रत्नात्मने कवचायहुम् । ॐ ईशान्मुख जन्मने अर्कब्रह्म सुपर्णात्मने नेत्रत्रयाय वौषट् । ॐ अं कश्यप विश्वकर्म विराट्स्वरूपमित्यस्रायफट् । भूर्भुवः स्वरोमिविदिग्बन्धः । अथ ध्यानं - सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् । आदिपुरुष ईशान आदि ब्रह्मकुलोद्भवः ॥ १॥ यस्यस्मृत्या चनामोक्त्याजप-पूजादिकर्मसु । न्यूनसम्पूर्णतांयाति नमस्तद्विश्व कर्मणे ॥ २॥ ब्रह्मोवाच । देवदेव महादेव भक्तानुग्रह कारक । सुचितैकमनो ब्रह्मकवचङ्कथयस्वमे ॥ ३॥ ईश्वर उवाच । अपातः सम्प्रवक्ष्यामिकबचदेव दुर्लभम् । अप्रकाशपरं गुह्यं सर्वाभिष्टस्य सिद्धिदम् ॥ ४॥ विश्वकर्माख्य कवचं श्रृणुष्वचतुरानन । अस्यकवचस्य सम्प्रोक्ता ऋषयः सानगादयः ॥ ५॥ अनुष्टुप् छन्द सञ्चैवपर ब्रह्मादि दैवतम् । धर्मज्ञानार्थसिध्यर्थं विनियोगः प्रकीर्तितः ॥ ६॥ अस्य श्रीविश्वकर्मपरब्रह्मकवचस्तोत्रमन्त्रस्य सनकादि पञ्चऋषयः । अनुष्टुप्छन्दः । विश्वकर्मपरब्रह्मदेवता । अं बीजम् । क्ली शक्तिः । ह्रीं कीलकम् । ममधर्मज्ञानार्थसिद्ध्यर्थं विश्वकर्मपरब्रह्मप्रसादसिद्ध्यर्थं कवचस्तोत्रपारायणेविनियोगः ॥ मूलेन पूर्ववन्न्यासङ्कृत्वा ॥ ध्यानं - पञ्चकत्रन्दशभुजं त्रिनेत्रं दण्डधारिणम् । ध्यात्वाश्रीविश्वकर्माणां वारिवाहो परिस्थितिम् ॥ १॥ मानसै रेवसम्पूज्यहयु पचारैद्वष्टाभिः । शुचिः ततः पठेदिव्यं कवचं विश्वकर्मणः ॥ २॥ विश्वकर्माशिरः पातु ललाटम्पातु मेमनुः । कालदेशम्मयः पातुत्वष्टानेत्रयुगन्तथा ॥ ३॥ शिल्पी गण्डद्वयम्पातु दैवज्ञः पातुवोष्टकौ । अं बीजं वदनम्पातः क्लीं बीजं कण्ठदेशकं ४॥ ह्रीं बीजं हृदयम्पातु चोदरम्पातुमहीश्वरः । ब्रह्मातुनाभिदेशंव मध्यम्पातुमनोभवः ॥ ५॥ कटथ्सौज्ञपतिः पातु पातुचोरुमहेश्वरः ॥ जानुदेशेपर ब्रह्मानन्धे पातु विराट् प्रभुः ॥ ६॥ पदौददेनो सदापातु सर्वाङ्ग विश्वकर्मकः । सद्योजात पूर्वदिशिवामदेवन्तु दक्षिणे ॥ ७॥ अघोरम्पश्चिमेपातु तत्पुरुषञ्चोत्तरे तथा । ईशानम्पातुचोर्ध्वाया धःपातुमहीश्वरः ॥ ८॥ आनेय्याम्पातुचेशा नोनैॠत्ये गिरिजापतिः । वायव्येपातुमान्धावाचेशान्येपातु विश्वभुक् ॥ ९॥ पृथिव्यांसानगः पातु जले पातु सनातनः । आकाशे चाहभूनो माम्पातु प्रलस्क्वसर्वतः ॥ १०॥ सुपर्णः सर्वदा पातुसर्वसङ्कटनाशनः । य इदं ब्रह्मकवचं त्रैलोक्येचापिदुर्लभम् ॥ ११॥ शुचिर्भूत्वपठे नित्यं कवचं पापनाशनम् । भूतप्रेतापिशाचादि कूष्माण्ड ब्रह्मराक्षसाः ॥ १२॥ दिवाचरात्रिचरामहाभूतगणाः खगाः । सुकृदुच्चारणादेव नाशंयातिनसंशयः ॥ १३॥ महादरिद्रयुक्तोवायुक्तोवा सर्वपातकैः । मुच्यते सर्वपापेभ्यः श्रीमान् सर्वसुखीभवेत् ॥ १४॥ गच्छेद् ब्रह्ममयं देहाविश्वकर्म मुजोदूतय । विश्वकर्मा व्यकवचं यः पठोसततन्नरः ॥ १५॥ अन्नपानसदासष्टिर्धनधान्यादि जायते । अनेन सहशोमन्त्रोनभूतो न भविष्यति ॥ १६॥ जलं पिबेदुषः काले कवचे नाभिमङ्गितम् । बाल ग्रहामहारोगा नाशमायातितत्क्षसात् ॥ १७॥ सन्ततिः कनङ्कचायुरारोग्यैश्वय-मङ्गलम् । कवचं यः पठेतस्य वर्द्धते शुक्ल चन्द्रवत् ॥ १८॥ गुरुभक्ता यदातव्यन्ना भक्तायकदाचनः । गुह्याद्गुत्यतरङ्ग गुह्यं गुणेरात्मदर्शनम् ॥ १९॥ इति कवचं पठित्वा पुनः लं पृथ्वी तत्वामन इत्यादिपि गन्धादि सर्वोपचारान् मनसासभर्षयामीत्युतत त्वा प्रार्थयेत ॥ यस्यस्मृत्या चना मोक्त्याजप पूजादि कर्मसु । न्यूनं सम्पूर्ण तोपातिनभस्त विश्व कर्मणी ॥ २०॥ इति श्री विश्वसारोद्धारतन्त्रे शिव ब्रह्मसंवादे विश्वकर्मपरब्रह्मकवचस्तोत्रं सम्पूर्णमस्तु । ॐ तस्सादिविश्वकर्मपरब्रह्मार्पणामस्तु ॥
% Text title            : vishvakarmAkavacham
% File name             : vishvakarmAkavacham.itx
% itxtitle              : vishvakarmAkavacham
% engtitle              : vishvakarmAkavacham
% Category              : deities_misc, kavacha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Divya KS, Jagannardtha Rao
% Indexextra            : (Scan)
% Latest update         : January 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org