श्रीविश्वकर्मा कवचम्
श्रीमत्परात्पर विश्वकर्मपरब्रह्मणे नमः ।
अथ श्रीविश्वकर्मा कवच प्रारम्भः ।
अस्य श्रीविश्वकर्म परब्रह्म कवचस्तोत्र चतुर्विंशत्य
क्षरमूलमहामन्त्रस्यानुग्रहार्थं परब्रह्मऋषिः ।
गायत्रीछन्दः । सदाशिवो देवता । ॐ बीजम् ॥
विश्वकर्म ब्रह्मशक्तिः । प्रपञ्चाक्षरं कीलकम् ।
श्रीमद्विश्वकर्मपरब्रह्ममूलमन्त्र जपे विनियोगः ॥
ॐ अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं तर्जनीभ्याम नमः ।
ॐ ह्रीं मध्यमाभ्यां नमः ।
ॐ अं अनामिकाभ्यां नमः ।
ॐ क्लीं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रीं करतलकर पृष्ठाभ्यां नमः ॥
एवं हृदयादिषडङ्गन्यासः ।
ॐ अं सद्यो जात मुखोद्भवायमनु विश्वब्रह्म सान मात्यने हृदयाय नमः ।
ॐ क्लीं वामदेव मुखोद्धवायमय विश्व ब्रह्म सनातनात्मनेः शिरसे स्वाहा ।
ॐ ह्रीं अघोरमुखजन्मनेत्वष्ट्र विश्वब्रह्माहमूनात्मने शिरषायै वषट् ।
ॐ क्लीं तत्पुरुषमुख जन्मनेशिल्पि विश्वब्रह्म प्रत्यात्मने कवचायहुम् ।
ॐ ह्रीं ईशानमुख जन्मने अर्क विश्वब्रह्मसपूर्णात्मने नेत्रत्रयाय वौषट् ।
ॐ अं कश्यप विश्वकर्म विराटस्वरूपमित्यस्त्राय फट् ।
भूर्भुवः सुवरोमितिदिग्बन्धः ।
अथ ध्यानं -
सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् ॥
आदिपुरुष ईशान आदिब्रह्मकुलोद्भव ॥ १॥
विश्वकर्मा सदाध्येयोनील मेघो परिस्थित ।
सर्वाभरणसंयुक्तो रत्नसिंहासनस्थितः ॥
इति ध्यात्वा ॥
॥ मानसोपचार सम्पूजयेत् ॥
तच्चेयं
लं पृथ्वीतत्वात्मेनगन्धतन्मात्रप्रकृत्यानन्दात्मने
श्रीगुरुविश्वकर्मपरब्रह्मणे नमः ।
गन्धंसमर्पयामि ॥
हं आकाशतत्वात्मने शब्द तन्मात्रप्रकृत्यानन्दात्मने
श्रीगुरुविश्वकर्मपरब्रह्मणे नमः ।
दीपन्दर्शयामि ॥
वं आपतत्वात्मनेरस तन्मात्रप्रकृत्यानन्दात्मने
श्रीगुरुविश्वकर्मपरब्रह्मणे नमः ।
अमृतनैवेद्यं समर्पयामि ॥
सं सर्वतत्वात्मने प्रकृत्यानन्दात्मने
श्रीगुरुविश्वकर्मपरब्रह्मणे नमः ।
मार्वो पवाशन् समर्पयामि ॥
अथ मूलमन्त्रः ।
ॐ ॐ क्लीं ह्रीं विश्वकर्म ब्रह्मोविशक्तिः ।
सर्वकार्यमेव शङ्कुस हुं फट् स्वाहा ।
वैदलक्षपुरश्चरणनासिद्धिः । ४००००० उत्तरन्यासः ॥
ॐ अं सद्योजात मुखोद्भवायमनु विश्वब्रह्मसानगात्मने हृदयाय नमः ।
ॐ क्लीं वामदेवमुखोद्भवायमय विश्वब्रह्म सनात्मने शिरसे स्वाहा ।
ॐ ह्रीं अघोरमुख जन्मनेत्वष्ट्र विश्वब्रह्माहभूतात्मने शिखायै वौषट् ।
ॐ अं तत्पुरुष मुख जन्मने शिल्पि विश्वब्रह्मप्रत्नात्मने कवचायहुम् ।
ॐ ईशान्मुख जन्मने अर्कब्रह्म सुपर्णात्मने नेत्रत्रयाय वौषट् ।
ॐ अं कश्यप विश्वकर्म विराट्स्वरूपमित्यस्रायफट् ।
भूर्भुवः स्वरोमिविदिग्बन्धः ।
अथ ध्यानं -
सहस्रवदनोद्बाहुः सहस्राक्षः सहस्रपात् ।
आदिपुरुष ईशान आदि ब्रह्मकुलोद्भवः ॥ १॥
यस्यस्मृत्या चनामोक्त्याजप-पूजादिकर्मसु ।
न्यूनसम्पूर्णतांयाति नमस्तद्विश्व कर्मणे ॥ २॥
ब्रह्मोवाच ।
देवदेव महादेव भक्तानुग्रह कारक ।
सुचितैकमनो ब्रह्मकवचङ्कथयस्वमे ॥ ३॥
ईश्वर उवाच ।
अपातः सम्प्रवक्ष्यामिकबचदेव दुर्लभम् ।
अप्रकाशपरं गुह्यं सर्वाभिष्टस्य सिद्धिदम् ॥ ४॥
विश्वकर्माख्य कवचं श्रृणुष्वचतुरानन ।
अस्यकवचस्य सम्प्रोक्ता ऋषयः सानगादयः ॥ ५॥
अनुष्टुप् छन्द सञ्चैवपर ब्रह्मादि दैवतम् ।
धर्मज्ञानार्थसिध्यर्थं विनियोगः प्रकीर्तितः ॥ ६॥
अस्य श्रीविश्वकर्मपरब्रह्मकवचस्तोत्रमन्त्रस्य
सनकादि पञ्चऋषयः । अनुष्टुप्छन्दः ।
विश्वकर्मपरब्रह्मदेवता । अं बीजम् । क्ली शक्तिः ।
ह्रीं कीलकम् । ममधर्मज्ञानार्थसिद्ध्यर्थं
विश्वकर्मपरब्रह्मप्रसादसिद्ध्यर्थं
कवचस्तोत्रपारायणेविनियोगः ॥
मूलेन पूर्ववन्न्यासङ्कृत्वा ॥
ध्यानं -
पञ्चकत्रन्दशभुजं त्रिनेत्रं दण्डधारिणम् ।
ध्यात्वाश्रीविश्वकर्माणां वारिवाहो परिस्थितिम् ॥ १॥
मानसै रेवसम्पूज्यहयु पचारैद्वष्टाभिः ।
शुचिः ततः पठेदिव्यं कवचं विश्वकर्मणः ॥ २॥
विश्वकर्माशिरः पातु ललाटम्पातु मेमनुः ।
कालदेशम्मयः पातुत्वष्टानेत्रयुगन्तथा ॥ ३॥
शिल्पी गण्डद्वयम्पातु दैवज्ञः पातुवोष्टकौ ।
अं बीजं वदनम्पातः क्लीं बीजं कण्ठदेशकं ४॥
ह्रीं बीजं हृदयम्पातु चोदरम्पातुमहीश्वरः ।
ब्रह्मातुनाभिदेशंव मध्यम्पातुमनोभवः ॥ ५॥
कटथ्सौज्ञपतिः पातु पातुचोरुमहेश्वरः ॥
जानुदेशेपर ब्रह्मानन्धे पातु विराट् प्रभुः ॥ ६॥
पदौददेनो सदापातु सर्वाङ्ग विश्वकर्मकः ।
सद्योजात पूर्वदिशिवामदेवन्तु दक्षिणे ॥ ७॥
अघोरम्पश्चिमेपातु तत्पुरुषञ्चोत्तरे तथा ।
ईशानम्पातुचोर्ध्वाया धःपातुमहीश्वरः ॥ ८॥
आनेय्याम्पातुचेशा नोनैॠत्ये गिरिजापतिः ।
वायव्येपातुमान्धावाचेशान्येपातु विश्वभुक् ॥ ९॥
पृथिव्यांसानगः पातु जले पातु सनातनः ।
आकाशे चाहभूनो माम्पातु प्रलस्क्वसर्वतः ॥ १०॥
सुपर्णः सर्वदा पातुसर्वसङ्कटनाशनः ।
य इदं ब्रह्मकवचं त्रैलोक्येचापिदुर्लभम् ॥ ११॥
शुचिर्भूत्वपठे नित्यं कवचं पापनाशनम् ।
भूतप्रेतापिशाचादि कूष्माण्ड ब्रह्मराक्षसाः ॥ १२॥
दिवाचरात्रिचरामहाभूतगणाः खगाः ।
सुकृदुच्चारणादेव नाशंयातिनसंशयः ॥ १३॥
महादरिद्रयुक्तोवायुक्तोवा सर्वपातकैः ।
मुच्यते सर्वपापेभ्यः श्रीमान् सर्वसुखीभवेत् ॥ १४॥
गच्छेद् ब्रह्ममयं देहाविश्वकर्म मुजोदूतय ।
विश्वकर्मा व्यकवचं यः पठोसततन्नरः ॥ १५॥
अन्नपानसदासष्टिर्धनधान्यादि जायते ।
अनेन सहशोमन्त्रोनभूतो न भविष्यति ॥ १६॥
जलं पिबेदुषः काले कवचे नाभिमङ्गितम् ।
बाल ग्रहामहारोगा नाशमायातितत्क्षसात् ॥ १७॥
सन्ततिः कनङ्कचायुरारोग्यैश्वय-मङ्गलम् ।
कवचं यः पठेतस्य वर्द्धते शुक्ल चन्द्रवत् ॥ १८॥
गुरुभक्ता यदातव्यन्ना भक्तायकदाचनः ।
गुह्याद्गुत्यतरङ्ग गुह्यं गुणेरात्मदर्शनम् ॥ १९॥
इति कवचं पठित्वा पुनः लं पृथ्वी तत्वामन इत्यादिपि गन्धादि
सर्वोपचारान् मनसासभर्षयामीत्युतत त्वा प्रार्थयेत ॥
यस्यस्मृत्या चना मोक्त्याजप पूजादि कर्मसु ।
न्यूनं सम्पूर्ण तोपातिनभस्त विश्व कर्मणी ॥ २०॥
इति श्री विश्वसारोद्धारतन्त्रे शिव ब्रह्मसंवादे
विश्वकर्मपरब्रह्मकवचस्तोत्रं सम्पूर्णमस्तु ।
ॐ तस्सादिविश्वकर्मपरब्रह्मार्पणामस्तु ॥