व्यासाष्टोत्तरशतनामस्तोत्रम्
॥ ध्यानम् ॥
अभ्र-श्यामः पिङ्ग-जटा-बद्ध-कलापः
प्रांशुर्दण्डीकृष्णमृग-त्वक्-परिधानः ।
सर्वान् लोकान् पावयमानः कवि-मुख्यः
पाराशर्यः पर्व-सुरूपं विवृणोतु ॥ १॥
व्यासं वसिष्ठ-नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ २॥
कृष्ण-द्वैपायनं व्यासं सर्व-भूत-हितेरतम् ।
वेदाब्ज-भास्करं वन्दे शमादि-निलयं मुनिम् ॥ ३॥
अथ स्तोत्रम् ।
ॐ नारायणकुलोद्भूतो नारायणपरो वरः ।
नारायणावतारश्च नारायणवशंवदः ॥ १॥
स्वयम्भूवंशसम्भूतो वसिष्ठकुलदीपकः ।
शक्तिपौत्रः पापहन्ता पराशरसुतोऽमलः ॥ २॥
द्वैपायनो मातृभक्तः शिष्टः सत्यवतीसुतः ।
स्वयमुद्भूतवेदश्च चतुर्वेदविभागकृत् ॥ ३॥
महाभारतकर्ता च ब्रह्मसूत्रप्रजापतिः ।
अष्टादशपुराणानां कर्ता श्यामः प्रशिष्यकः ॥ ४॥
शुकतातः पिङ्गजटः प्रांशुर्दण्डीमृगाजिनः ।
वश्यवाग् ज्ञानदाता च शङ्करायुःप्रदः शुचिः ॥ ५॥
मातृवाक्यकरो धर्मी कर्मी तत्त्वार्थ दर्शकः ।
सञ्जयज्ञानदाता च प्रतिस्मृत्युपदेशकः ॥ ६॥
सर्वधर्मोपदेष्टा च मृतदर्शनपण्डितः ।
विचक्षणः प्रहृष्टात्मा पर्वपूज्यः प्रभुर्मुनिः ॥ ७॥
वीरो विश्रुतविज्ञानः प्राज्ञश्चाज्ञाननाशनः ।
ब्राह्मकृत् पाद्मकृद् धीरो विष्णुकृच्छिवकृत् तथा ॥ ८॥
श्रीभागवतकर्ता च भविष्यरचनादरः ।
नारदाख्स्य कर्ता च मार्कण्डेयकरोऽग्निकृत् ॥ ९॥
ब्रह्मवैवर्तकर्ता च लिङ्गकृच्च वराहकृत् ।
स्कान्दकर्ता वामनकृत् कूर्मकर्ता च मत्स्यकृत् ॥ १०॥
गरुडाख्यस्य कर्ता च ब्रह्माण्डाख्यपुराणकृत् ।
उपपुराणानां कर्ता पुराणः पुरुषोत्तमः ॥ ११॥
काशिवासी ब्रह्मनिधिर्गीतादाता महामतिः ।
सर्वज्ञः सर्वसिद्धिश्च सर्वशास्त्रप्रवर्तकः ॥ १२॥
सर्वाश्रयः सर्वहितः सर्वः सर्वगुणाश्रयः ।
विशुद्धः शुद्धिकृद् दक्षो विष्णुभक्तः शिवार्चकः ॥ १३॥
देवीभक्तः स्कन्दरुचिर्गणेशादृच्च योगवित् ।
पैलाचार्य रुचः कर्ता शाकल्यार्यश्च याजुषः ॥ १४॥
जैमिन्यार्यः सामकर्ता सुमन्त्वार्योऽप्यथर्वकृत् ।
रोमहर्षणसूतार्यो लोकाचार्यो महामुनिः ॥ १५॥
व्यासकाशीरतिर्विश्वपूज्यो विश्वेशपूजकः ।
शान्तः शान्ताकृतिः शान्तचित्तः शान्तिप्रदस्तथा ॥ १६॥
॥ इति व्यासाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan