आर्द्रानन्दलक्ष्मीव्रतनिरूपणम्
शृणु लक्ष्मि व्रतं चान्यत्तवैव दशमीदिने ।
आषाढे शुक्लपक्षे वै चातुर्मास्याऽग्रगे दिने ॥ २२॥
प्रातरेव समुत्थाय स्नात्वा ध्यायेद्धरिं प्रभुम् ।
ततश्चार्द्रानन्दलक्ष्मीं सौवर्णीं पूजयेद्व्रती ॥ २३॥
अङ्गुष्ठमात्रां सद्वस्त्रां भूषाशृङ्गारशोभिताम् ।
नारायणीश्रियं दर्भगन्धोदकैः सुचन्दनैः ॥ २४॥
स्नापयेच्छुक्लपुष्पैश्च कुङ्कुमाक्षतभोजनैः ।
नैवेद्यैर्भोजयेच्चापि नीराजयेत् क्षमापयेत् ॥ २५॥
अनादिश्रीकृष्णनारायणेन सहितां श्रियम् ।
प्रार्थयेद्भावहृदयैः स्वेष्टदं स्वेष्टदां तदा ॥ २६॥
महालक्ष्म्यै नमः पादौ महाविष्णो नमोऽस्तु ते ।
शोकहन्त्र्यै नमो जङ्घे सुखदाय नमोऽस्तु ते ॥ २७॥
कमलायै नमश्चोरू आनन्दाय नमो हरे ।
ईश्वरिण्यै नमः कटिं सम्पत्प्रदाय ते नमः ॥ २८॥
माधव्यै च नमो नाभौ स्वर्णवर्णाय ते नमः ।
स्तनौ पोषणकारिण्यै नमो विश्वम्भराय ते ॥ २९॥
कण्ठे नमः सरस्वत्यै नीलकण्ठाय ते नमः ।
करौ कमलधारिण्यै नारायणाय ते नमः ॥ ३०॥
बाहू नमो रक्षयित्र्यै सुदर्शनधराय च ।
चान्द्र्यै चन्द्रानने नौमि हरिं वह्निमुखाय च ॥ ३१॥
नेत्रे कृपाप्रवर्षिण्यै करुणानिलयाय च ।
भ्रुवौ नमः क्षेमदायै कुशलकारिणे नमः ॥ ३२॥
ललाटे धनरूपायै स्वर्णवर्णाय ते नमः ।
मुकुटे सर्वरत्नायै सकौस्तुभाय ते नमः ॥ ३३॥
सर्वकायौ सर्ववासौ सर्वैश्वर्यसमन्वितौ ।
सर्वकामप्रदौ वन्दे आर्द्राश्र्यानन्दमाधवौ ॥ ३४॥
सम्पदा चोपकरणैर्धनैर्धान्यै रसादिभिः ।
भूषाम्बरादिभिश्चापि गृहमार्द्रं प्रपूरितम् ॥ ३५॥
कुरुतं स्त्रीदासदासीभृत्यापत्यसुशोभितम् ।
दिव्यसाधनशोभं च धेनुवाजिगजान्वितम् ॥ ३६॥
उद्यानवाटीक्षेत्राढ्यं यशोमानप्रवर्धितम् ।
यानविमानवाहाढ्यं शिष्यप्रशिष्यसत्प्रजम् ॥ ३७॥
मोदप्रमोदसौख्याढ्यं समुत्साहोत्सवान्वितम् ।
वाद्यगीतिमहासत्रदानपानसमन्वितम् ॥ ३८॥
धर्मकर्माऽध्वरयुक्तं नित्यं च बहुदक्षिणम् ।
विघ्नशून्यं पञ्चयज्ञपरं कुरुतं मद्गृहम् ॥ ३९॥
स्नुषाभिः परितो रम्यां साधुसाध्वीविराजितम् ।
परमेशमहाभक्तिप्रवाहितं निरन्तरम् ॥ ४०॥
अन्ते दिव्यरसाढ्ये वामक्षरे वसतिं च मे ।
एवमभ्यर्थ्य च पुष्पाञ्जलिं दत्वा विसर्जयेत् ॥ ४१॥
लक्ष्मीं नारायणं चार्द्रानन्दौ श्रीगुरवे दिशेत् ।
रत्नहीरकधान्यानि द्विजातिभ्यो दिशेत्तथा ॥ ४२॥
भोजयेद्बालबालाद्या दिशेच्च दक्षिणाः शुभाः ।
शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् ॥ ४३॥
दद्यात् सत्पुरुषायाऽपि मिष्टान्नाम्बरकाणि च ।
घृतपात्राणि पात्राणि सहिरण्यकानि सन्दिशेत् ॥ ४४॥
शर्करासक्तुपात्राणि चतुर्मासं दिशेत्तथा ।
तिलपात्राणि पूर्णानि रसपात्राणि यानि च ॥ ४५॥
गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् ।
अपक्वं दधि दुग्धं च गोशृङ्गोदकमित्यपि ॥ ४६॥
तुलसीं कमलं दद्याच्चातुर्मास्ये सदार्चने ।
दाने सर्वं प्रदद्याच्च वदेच्चापि श्रियाः पुरः ॥ ४७॥
लक्ष्मी मे प्रीयतां नित्यं पापनाशाय माधवी ।
सौभाग्याय प्रसन्नाऽस्तु ललिता मे सुखाय च ॥ ४८॥
एवमुक्त्वा दिशेत्सर्वं कार्तिके दशमीदिने ।
हिरण्यकमलं दत्वा चैकादश्यां प्रगे पुनः ॥ ४९॥
पूजयित्वा व्रतं पूर्णं कुर्याद्दिशेद्द्विजातये ।
सतूलावरणां शय्यां लक्ष्मीर्मे प्रीयतामिति ॥ ५०॥
आर्द्राननरमानारायणव्रतं त्विदं महत् ।
तेनेहाऽमुत्र च सदानन्दमाप्नोति सम्पदः ॥ ५१॥
भुक्त्वा स्वर्गान् चिरस्थाँश्च परं पदमवाप्नुयात् ।
श्रोतुर्वक्तुश्च संस्मर्तुश्चाप्यानन्दो भवेद्ध्रुवः ॥ ५२॥
गृहे स्वे महदानन्दशतानि चानुभूय च ।
भूयो लक्ष्मीपदं याति श्रीपुरं धाम चैश्वरम् ॥ ५३॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१३८-अध्यायान्तर्गतं आर्द्रानन्दलक्ष्मीव्रतनिरूपणं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३८/२२-५३॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 138/22-53..
Proofread by PSA Easwaran