ऋषिभिः कृतं पार्वतीस्तोत्रम् ७
ऋषय ऊचुः ।
जय देवि महादेवि महामङ्गलदायिनि ।
प्रसीद सीदतां नस्त्वं परित्राणाय पार्वति ॥ २३॥
शूलखट्वाङ्गमुसलविनिष्पिष्टारिसैनिके ।
प्रसीद सीदतां नस्त्वं परित्राणाय पार्वति ॥ २४॥
त्वयाम्ब सकला दैत्याः भक्षिता रणसङ्कटे ।
प्रसीदत सीदतां नस्त्वं परित्राणाय पार्वति ॥ २५॥
त्वत्कराग्रलसत्शूलदलिता दानवाः पुरा ।
रक्षणायैव लोकानं सा कृपा क्व गताम्बिके ॥ २६॥
सिंहनादविनादेन मोहिता दैत्यदानवाः ।
रक्षणायैव लोकानां सा कृपा क्व गताम्बिके ॥ २७॥
दंष्ट्राकरालवदनं दृष्ट्वा ते मूर्च्छिताः परे ।
रक्षणायैव लोकानां सा कृपा क्व गताम्बिके ॥ २८॥
अस्मान् पाहि भयाद्भीताननाथान् भक्तवत्सले ।
अविलम्बं दयापात्रं विधेहि भुवनत्रयम् ॥ २९॥
लीलयैव विहन्त्रि त्वं दैत्यानां कीर्तिभञ्जनी ।
अविलम्बं दयापात्रं विधेहि भुवनत्रयम् ॥ ३०॥
त्वदस्त्रवित्रस्तबलं दैत्यानां क्षणभङ्गुरम् ।
तानुदस्यासि दुर्गे त्वं भक्तानां हितकाम्यया ॥ ३१॥
त्वया जगदिदं विश्वं समये पाल्यते भयात् ।
तथा नः पाहि कल्याणि प्रसूः पुत्रानिव स्वयम् ॥ ३२॥
तुभ्यं नमः सर्वजगत्सवित्री वित्रास्य पापानमरारिवर्गान् ।
आप्तं जनं पाहि भवानि भद्रे रुद्राणि भद्रे करुणे पुराणि ॥ ३३॥
इति ताम्रपर्णीमाहात्म्ये पञ्चमाध्यायान्तर्गतं
ऋषिभिः कृतं पार्वतीस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय १/२३-३३॥
tAmraparNImAhAtmya . adhyAya 1/23-33..
Proofread by PSA Easwaran