अदितिकृतं मलयजास्तोत्रम्
अदितिरुवाच ।
या शक्तिरन्तर्जागर्ति लोकानां प्राणरूपिणी ।
या पुनर्जीवनाख्या स्यात् तां त्वाहं शरणं गता ॥ ५५॥
गायन्ति श्रुतयो नित्यं तीर्थरूपां मरुद्वृताम् ।
तां त्वामखिलतत्त्वार्थां माहेयीमाश्रये श्रियम् ॥ ५६॥
हेतुरादावशेषस्य जीवनत्वे व्यवस्थिता ।
मृत्युः प्राणभृतां भूयो यदंशेन प्रवर्तितः ॥ ५७॥
अनादिशक्तिरव्यग्रा निग्रहानुग्रहक्षमा ।
सा त्वं लोकहितायैव जाता हि मलयात्मजा ॥ ५८॥
मन्त्रशक्तिं प्रशंसन्ति सन्तः कर्मकलां पुनः ।
त्वमेव फलदा लोके तीर्थमातर्नमोऽस्तु ते ॥ ५९॥
शिवः शिवान्वितो भूरि तपसाऽऽराध्य माधवि ।
त्वामेव लब्धवानादौ तस्मात्त्वां शरणं व्रजे ॥ ६०॥
मालेयी मलयानन्दा गङ्गा भागीरथीति च ।
घृतधारा परुष्णीति पठ्यसे त्वं पुरातनैः ॥ ६१॥ (पयोष्णीति?)
प्रसीद मलयानन्दे ताम्रे मातः प्रसीद मे ।
अब्धिपत्नि नमस्तुभ्यं नमस्तुभ्यं नमो नमः ॥ ६२॥
इति ताम्रपर्णीमाहात्म्ये अष्टाविंशाध्यायान्तर्गतं
अदितिकृतं मलयजास्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय २८/५५-६२॥
tAmraparNImAhAtmya . adhyAya 28/55-62..
Proofread by PSA Easwaran