अद्रिराजकृतं महादेवीस्तोत्रम्
सौन्दर्यसिन्धुसम्भूतचन्द्ररेखामिव स्थिताम् ।
उपसृत्य महादेवीं भीतभीत इवाद्रिराट् ॥ ४६॥
प्रणम्य शिरसा भूमौ भूयो भूयः प्रसादयन् ।
तुष्टावाशेषजननीं विशेषविदुषीमिमाम् ॥ ४७॥
अम्ब विश्वम्भरे मातः प्रसीद परमेश्वरि ।
प्रसीद करुणापाङ्गसंरक्षितचराचरे ॥ ४८॥
ब्रह्मोपेन्द्ररुद्राद्यैः स्तूयमानमहोदये ।
समस्तभुवनापायव्यपोहनकृतोद्यमे ॥ ४९॥
नमस्तुभ्यं महादेवि मायामोहितदानवे ।
पापभञ्जनपाण्डित्यपादाम्बुजरजःकणे ॥ ५०॥
सर्गादौ जगतां साक्षात्कथ्यते प्रकृतिः परा ।
वैखरीति ततो भासि वाचि वाचस्पतेरपि ॥ ५१॥
वैखारिकाणीन्द्राय त्वया दृष्टानि चात्मनः ।
त्वयाऽऽदौ विहितो ब्रह्मा रजसा सर्गसिद्धये ॥ ५२॥
त्वां वदन्ति पुनर्वेदाः स्थित्यै नारायणात्मिकाम् ।
विश्वविध्वंसनविधौ महारुद्रकलात्मिकाम् ॥ ५३॥
कलाकाष्ठमुहूर्ताश्च राशिनक्षत्रपङ्क्तयः ।
त्वदंशविहिता वेदाः तत्त्ववाक्यप्रमाणतः ॥ ५४॥
भोगीनां भोगजननी मुमूक्षाणां च मोक्षदा ।
कर्मकालगुणातीता मर्यादाव्यक्तरूपिणी ॥ ५५॥
त्वयि सर्वमिदं विश्वं त्वदाज्ञागौरवाश्रयम् ।
यजन्ति त्वां सुरास्सर्वे ध्यायन्ति हृदि योगिनः ॥ ५६॥
आराधयन्ति कर्मिष्ठाः द्रव्यैः तत्त्वसमुद्भवैः ।
अन्विष्यमाणा निगमैः आगमैर्मन्त्रगर्भितैः ॥ ५७॥
लब्धैव भासि दुर्लभ्या सुलभ्या परमेशितुः ।
एवं त्वमधुना भासि मादृशां दृष्टिगोचरा ॥ ५८॥
आश्चर्यमिव पश्यामि ह्यन्धलब्धो मणिर्यथा ।
अम्ब भीतोऽस्मि नितरां त्वद्रूपालोकनादहम् ॥ ५९॥
त्वामहं दारिकां लब्ध्वा वाञ्छामि सुखमासितुम् ।
तथा प्रसीद मातस्त्वं एष एव वरो मम ॥ ६०॥
इति ताम्रपर्णीमाहात्म्ये प्रथमाध्यायान्तर्गतं
अद्रिराजकृतं महादेवीस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय १/४६-६०॥
tAmraparNImAhAtmya . adhyAya 1/46-60..
Proofread by PSA Easwaran