अगस्त्यकृतं मलयात्मजास्तोत्रम्
इति वाचा कुम्भयोनिः बहुमान्य पुनःपुनः ।
नत्वैवाञ्जलिना देवीं तुष्टाव मलयात्मजाम् ॥ ६०॥
नमस्तुभ्यमाब्रह्मकीटं विश्वं पापात्पालयन्ती पयोभिः ।
तीर्थाकारा त्वं दृश्यसे त्वं प्रकृत्या
सूक्ष्माकारा दृश्यसे वेदवाग्भिः ॥ ६१॥
त्रेधा भङ्क्त्वा स्वां तनुं द्योतयन्तीं
गङ्गा कृष्णा भारतीति प्रशस्तिम् ।
भक्तानस्मान् पापतः पाहि मातस्ताम्रे
सम्पत्साधने त्वं समर्था ॥ ६२॥
आशैलाब्धिं स्रोतसां यो दधारा पीयूषेण प्राज्यकूलद्वये ते ।
स्तन्यक्षीरेणैव लोकं पुनाना मातस्ताम्रे देवि नित्या भव त्वम् ॥ ६३॥
इत्यभिष्टूय ताम्रां देवीमत्रिः परमधर्मवित् ।
अनसूयासमायुक्तो ध्यानारूढोऽभवत् पुनः ॥ ६४॥
इति ताम्रपर्णीमाहात्म्ये सप्तमामाध्यायान्तर्गतं
अगस्त्यकृतं मलयात्मजास्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ७/६०-६४॥
tAmraparNImAhAtmya . adhyAya 7/60-64..
Proofread by PSA Easwaran