अगस्त्यकृतं रुद्राणीस्तोत्रम्
अगस्त्य उवाच ।
अम्ब जृम्भत्कृपापूरे दूरीकृतपराभवे ।
भवभञ्जनि रुद्राणि प्रसीद मम शाम्भवि ॥ ३०॥
यान्त्वामाहुः सदा मातः चिरन्तनगिरां ततिः ।
अक्षरामक्षराकारां आद्यामीडे पुरातनीम् ॥ ३१॥
महामातरसम्भाव्यकर्मकालविकल्पने ॥ ३३॥
कलाकलितमर्यादे तुभ्यं देव्यै नमो नमः ॥ ३४॥
एकामनेकामेकस्थां शोकापायां निरामयीम् ।
त्वामाहुः श्रुतयो वाचां तान्त्वामन्तरुपास्महे ॥ ३५॥
स्तुत्यं सत्यं परं प्राप्य ध्येयमर्च्यमहर्निशम् ॥ ३६॥
यन्महस्तरुणीरूपं स्रोतामाराधये पुरः ॥ ३७॥
मय्यनन्यगते मातः प्रसीद परदेवते ।
प्रसीद विश्वजननि प्रसीद प्रणवात्मिके ॥ ३८॥
विभक्तननाविधचक्रकोणे पाणिस्थलालङ्कृतपञ्चबाणे ।
प्रपन्नसन्तानलते प्रसीद प्रकृष्टपाशाङ्कुशपद्महस्ते ॥ ३९॥
मातः प्रसीद मलयाचलपद्मपीठे मायाविशेषकलया रचितप्रपञ्चे ।
पञ्चप्रपञ्चेश्वरमञ्चसंस्थे मह्यं महः कल्पय मातराशु ॥ ४०॥
इति ताम्रपर्णीमाहात्म्ये दशमाध्यायान्तर्गतं
अगस्त्यकृतं रुद्राणीस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय १०/३०-४०॥
tAmraparNImAhAtmya . adhyAya 10/30-40..
Proofread by PSA Easwaran