बीजषोडशार्णमकरन्दस्तोत्रम् अथवा श्रीमकरन्दस्तवराजः
श्रीगणेशाय नमः ॥
विनियोगः -
ॐ अस्य श्रीमकरन्द-स्तव-राज-मन्त्रस्य ब्रह्म-विद्यायाः
श्रीदक्षिणामूर्ति ऋषिः, अव्यक्त गायत्री छन्दः,
श्रीमन्महा-त्रिपुर-सुन्दरी देवता, अं बीजं, आं शक्तिः, सौः
कीलकं, दश-मुद्रा-ब्रह्मोपासन-सौभाग्यं चतुर्वर्गाप्तये
विनियोगः॥
ऋष्यादि-न्यासः -
ॐ श्रीदक्षिणामूर्ति-ऋषये नमः शिरसि। अव्यक्त-गायत्री-छन्दसे
नमः मुखे। श्रीमन्महा-त्रिपुर-सुन्दरी-देवतायै नमः हृदि।
अं-बीजाय नमः लिङ्ग-योनौ वा। आं-शक्तये नमः नाभौ।
सौ-कीलकाय नमः पादयोः। दश-मुद्रा-ब्रह्मोपासन-सौभाग्याय
चतुर्वर्गाप्तये विनियोगाय नमः सर्वाङ्गे। । । कर-न्यास-श्रीं
ह्रीं क्लीं ऐं सौः अङ्गुष्ठाभ्यां नमः। ॐ ह्रीं श्रीं तर्जनीभ्यां
नमः। कए-ई-ल-ह्रीं मध्यमाभ्यां नमः। -स-क-ह-ल-ह्रीं
अनामिकाभ्यां नमः। स-क-ल-ह्रीं कनिष्ठिकाभ्यां नमः । सौः ऐं
क्लीं ह्रीं श्रीं करतल-कर-पृष्ठाभ्यां नमः।
षडङ्ग-न्यासः -
श्रीं ह्रीं क्लीं ऐं सौः हृदयाय नमः। ॐ ह्रीं श्रीं शिरसे स्वाहा।
क-ए- ई-ल-ह्रीं शिखायै वषट्। ह-स-क-ह-ल-ह्रीं कवचाय
हुम्। स-क-ल-ह्रीं नेत्र-त्रयाय वौषट्। सौः ऐं क्लीं ह्रीं श्रीं
अस्त्राय फट्।
ध्यानम् -
बालार्कायुत-तेजसं त्रि-नयनां रक्ताम्बरोल्लासिनीम्।
नानालंकृति-राजमान-वपुषे बालोडुराट्-शेखराम्॥
हस्तैरिक्षु-धनुः सृणिं सुमशरं पाशं मुदा विभ्रतीम्।
श्रीचक्र-स्थित-सुन्दरीं त्रि-जगतामाधार-भूतां स्मरेत्॥१
बालार्क-मण्डलाभासां, चतुर्बाहां त्रि-लोचनाम्।
पाशाङ्कुश-शरांश्चापं, धारयन्तीं शिवां भजे॥२
मानस-पूजनम् -
``लं पृथिव्यात्मकङ्गन्धं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां
नमः अनुकल्पयामि।'' यह पढ़कर अधो-मुख
कनिष्ठा-अङ्गुष्ठ-योग से गन्ध-मुद्रा दिखाए। ``हं
आकाशात्मकं पुष्पं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां
नमः अनुकल्पयामि।'' यह पढ़कर अधो-मुख
तर्जनी-अङ्गुष्ठ-योग से पुष्प-मुद्रा दिखाए। ``यं वाय्वात्मकं
धूपं श्रीमहा-त्रिपुर-सुन्दरी-पादुकाभ्यां नमः अनुकल्पयामि।''
यह पढ़कर ऊर्ध्व-मुख-तर्जनी-अङ्गुष्ठ-योग से धूप-मुद्रा
दिखाए।
अथ स्तोत्रम् ।
श्रीं-बीजे नादबिन्दुद्वितयशशिकलाकाररूपे स्वरूपे
मातर्मे देहि बुद्धिं जहि जहि दुरितं पाहि मां दीननाथे ।
अज्ञानध्वान्तनाशे क्षयरुचिरुचिरे प्रोल्लसत्पादपद्मे
ब्रह्मेशाद्यैः सुरेन्द्रैः सुरगणनमिते संस्तुतां त्वां नमामि ॥ १॥
लज्जाबीजस्वरूपे त्रिजगति वरदव्रीडया या स्थितेयं
तां नित्यां शम्भुशक्तिं त्रिभुवनजननीं विश्वसम्पालनीं च ।
सर्वासां तां निदानं सकलगुणमयीं सच्चिदानस्वरूपां
तेजोरूपां प्रदीप्तां त्रिभुवननमितां ज्ञानदात्रीं नमामि ॥ २॥
क्लीं-बीजे कामरूपधृतकुसुमधनुर्बाणपाशाङ्कुशां तां
वन्दे भास्वत्सरोजोदरविभवदृशं मोहयन्तीं त्रिलोकीम् ।
काञ्चीमञ्जीरहाराङ्गदमुकुटलसत्स्वर्णमाणिक्यरत्नै-
र्भास्वन्तीमिन्दुवक्त्रां स्तनभरनमितां क्षीणमध्यां त्रिनेत्राम् ॥ ३॥
ऐं-वाणीबीजरूपे त्रिभुवनजडताध्वान्तविध्वंसिनी त्वं
शब्दव्रह्मस्वरूपां श्रुतिभिरनुपदं गीयमाना त्वमेव ।
मातर्मे देहि बुद्धिं मम सदसि परद्वन्द्वसङ्क्षोभकर्त्रोमैन्द्रीं
वाचस्पतेरप्यतिविविधपदं त्वत्पदाम्भोजमीडे ॥ ४॥
सौः-शक्त्या कामरूपे घटपटप्रभृतौ दृष्टहेतौ सदा या
माया काचिन्महत्वत्प्रभृतिपरिणतौ शूलभूता त्वमेव ।
केचिद्बाह्यप्रपञ्चा मणिमिव हि तनौ तन्तुभूतात्मविद्या-
विद्याविभ्रान्तिवृन्दं क्षपयति जगतां मेनिरे शुद्धभावाः ॥ ५॥
ओम्मातस्ते नमस्ते श्रुतिपथगुरुत्र्यक्षरब्रह्मरूपे
मिथ्यामोहान्धकारे पतितमनुदिनं पाहि मां मन्दहीनम् ।
मोहक्रोधप्रलोभप्रमथमदचयैः शत्रुभिः पीड्यतेऽसौ
पत्नीपुत्रादिभृत्यैर्नतविविधजनैः शृङ्खलाभिर्निबद्धम् ॥ ६॥
ह्रीङ्कारे ह्रीस्वरूपे मम दह दुरितं व्याधिदारिद्र्यबीजं
मातस्त्वत्पादपद्मं द्वितयपरिसते प्रार्थये भक्तिलेशम् ।
त्वं वाणी त्वं च लक्ष्मीस्त्वमसि गिरिसुता ब्रह्मविष्णुस्मरारेश्चित्तं
नित्यं स्मराख्ये कृतमिह जननि हृत्कटाक्षैकवृन्देः ॥ ७॥
श्रीङ्कारे श्रीस्वरूपे वितर मयि धनं धान्यहस्त्यश्वयुक्तं
स्वर्णं माणिक्यरत्नाद्यभिलषितयुतं त्वत्पदार्थैः सुयोग्यम् ।
विद्यां त्वं देहि मोक्षं मयि भवदहने देवि दन्दह्यमाने
योगीन्द्रैः सेव्यमाना भृतकलुषचयैर्मोक्षमन्वेषयद्भिः ॥ ८॥
कामो योनिश्चतुर्थस्वरत्रिदशपतिर्भौवनेशीवबीजं
तावद्वर्णावली त्वं नतजनवरदे लास्यदे भक्तिप्रीते ।
त्वत्पादाम्भोजयुग्मं हृदयसरसिजे सन्निधायैकचित्ते
ध्यात्वा त्वत्कर्मबन्धं त्वतिविमलधियो मुक्तवन्तो मुनीन्द्रः ॥ ९॥
ब्रह्मेन्दुः कामदेवो वियदमरगुरुर्भौवनेशीवबीजं
तावद्वर्णस्वरूपैर्घटितकनकलतां त्वां प्रसन्नोऽस्मि मातः ।
विष्णुब्रह्मेशमूर्धस्थितमुकुटमणिप्रोल्लसत्पादपद्मां
योगीन्द्रैर्ध्येयपादाम्बुरुहनखशशिद्योतविद्योतितां त्वाम् ॥ १०॥
इन्दुः कामः सुरेशो विदथनलसृग्वामनेत्रार्धचन्द्रैर्युक्तं
यद्बीजमेतत्तदपि तव वपुः सच्चिदानन्दरूपम् ।
बाला त्वं भैरवी त्वं त्रिभुवनजननी वारिणी नीलवर्णा
त्वं गौरी त्वं च काली सकलमनुमयी त्वं महामोक्षदात्री ॥ ११॥
सौःकारा बीजराजस्त्रिभुवनजननी शक्तिराद्या त्वमेव
त्वद्युक्तः शम्भुरेव प्रभवति चलितुं त्वां विना जाड्यवान् सः ।
ब्रह्मा विष्णुः कपर्दी जननि तव कृपालेशमात्राच्छरीरं
गृह्णन्तः सृष्टिरक्षाप्रलयमविचलच्चक्रिरे त्वद्वशस्थाः ॥ १२॥
ऐम्बीजं वाग्भवाख्यं त्वमिह जडमतिध्वान्तचक्षुःप्रकाशा
मातः कारुण्यधाराभववलितदृशा पश्य भां दीननाथे ।
मोह्यन्ते मोहितास्ते तव जननि महामायया बद्धचित्ताः
कारुण्यं प्रार्थयन्ते तव पदयुगले ज्ञानवन्तो मुनीन्द्रः ॥ १३॥
क्लीङ्कारो बीजरूपस्तव जननि मनुश्रेष्ठमध्यप्रदेशः
साक्षाद्ब्रह्मस्वरूपो मदनतनुलता ब्रह्मणो मोहकर्त्री ।
सुज्ञानस्मेरवक्त्राम्बुजकुहपलसत्सत्सु पीयूषधारा
वेदाश्चत्वार एते तुहिनगिरिसुते प्राप्तमीनेन्द्ररूपे ॥ १४॥
ह्रीङ्कारोङ्काररूपा त्वमिह शशिमुखी ह्रींस्वरूपा त्वमेव
क्षान्तिस्त्वं त्वं च कान्तिर्हरिहरकमलोद्भूतरूपा त्वमेव ।
त्वं सिद्धिस्त्वं च ऋद्धिः स्मररिपुमनसस्त्वं च सम्मोहयन्ती
विद्या त्वं मुक्तिहेतुर्भवजलधिजदुःखस्य हन्त्री त्वमेका ॥ १५॥
श्रीं-बीजे श्रीस्वरूपे मधुरिपुमनसो मध्यमध्यासिता त्वं
मातस्त्वद्भक्तिलेशादमरपतिरसौ प्राप्तवान् बुद्धिमेषाम् ।
इत्येवं षोडशार्णः पठितमनुदिनं स्वर्गमोक्षैकहेतुः
सिद्धीरष्टौ लभन्ते य इह न तु वरं श्रेष्ठमेते भजन्ते ॥ १६॥
पूजयित्वा विधानेन महात्रिपुरसुन्दरीम् ।
इमं स्तवं पठित्वा तु देवीसायुज्यमाप्नुयात् ॥ १७॥
इति विष्णुयामले शिवोक्तं बीजषोडशार्णमकरन्दस्तोत्रं सम्पूर्णम् ॥
Proofread by PSA Easwaran psaeaswaran at gmail.com