श्रीभद्रकालीकवचम्

श्रीभद्रकालीकवचम्

ॐ श्रीदेव्युवाच । ॐ भगवन्करुणाम्भोधे शास्त्राम्भो निधिपारगः । त्रैलोक्यसारयेत्तत्त्वं जगद्रक्षणकारकः ॥ १॥ भद्रकाल्या महादेव्याः कवचं मन्त्रगर्भकम् । जगन्मङ्गलदं नाम वद शम्भो दयानिधे ॥ २॥ श्री भैरवः उवाच । भैम्भद्रकाली कवचं जगत्मङ्गलनामकम् । गुह्यं सनातनं पुण्यं गोपनीयं विशेषतः ॥ ३॥ जगत्मङ्गलनाम्नोस्य कवचस्य ऋषिः शिवः । उष्णिक्छन्दः समाख्यातं देवता भद्रकालिका ॥ ४॥ भैं बीजं हूं शक्तिः तथा स्वाहा कीलकमुच्यते । धर्मार्थ काम मोक्षार्थे विनियोगः प्रकीर्तितः ॥ ५॥ अस्य श्री जगत्मङ्गल नाम्नो भद्रकाली कवचस्य शिवऋषिः, उष्णिक् छन्दः, श्रीभद्रकाली देवता, भैं बीजं, हूं शक्तिः, स्वाहा कीलकं, धर्मार्थकाममोक्षार्थे कवच पाठे विनियोगः । अथ ध्यानम् । उद्यश्चन्द्रकलावतंसित शिखां क्रीङ्कार वर्णूज्वलाम् । श्यामां श्याममुखीं रवीन्दु नयनां हूं वर्ण रक्ताधराम् ॥ ६॥ भैं बीजाङ्कित मानसां शवगतां नीलाम्बरोद्भासिताम् । स्वाहालङ्कृत सर्व गात्र लतिकां भैं भद्रकालीं भजे ॥ ७॥ ॐ भैं पातु मे शिरो नित्यं देवी भद्रकालिका । ललाटं क्रीं सदा पातु महारत्नेश्वरी तथा ॥ ८॥ क्रीं भ्रुवौ पातु मे नित्यं महाकामेश्वरी तथा । नेत्रेव्यात् क्रीं च मे नित्यं नित्यानन्दमयी शिवा ॥ ९॥ गण्डौ मे पातु भैं नित्यं सर्वलोकमहेश्वरी । श्रुती ह्रीं पातु मे नित्यं सर्वमङ्गलमङ्गला ॥ १०॥ नासां ह्रीं पातु मे नित्यं महात्रिभुवनेश्वरी । अधरे हूं सदाव्यान्मे सर्वमन्त्रमयी तथा ॥ ११॥ जिह्वां क्रीं मे सदा पातु विशुद्धेश्वररूपिणी । भैं ह्रीं ह्रीं मे रदान्पातु नित्या क्रीं कुलसुन्दरी ॥ १२॥ ह्रीं हूं क्रीं मे गलं पातु ज्वालामण्डलमण्डना । ह्रीं हूं क्रीं मे भुजौ पातु भवमोक्षप्रदाम्बिका ॥ १३॥ ह्रीं हूं क्रीं मे करौ पातु सर्वानन्दमयी तथा । स्तनौ क्रीं हूं सदा पातु नित्या नीलपताकिनी ॥ १४॥ क्रीं भैं ह्रीं मम वक्षोव्यात् ब्रह्मविद्यामयी शिवा । भैं हूं कुक्षिं मे सदा पातु महात्रिपुरसुन्दरी ॥ १५॥ ऐं सौः भैं पातु मे पार्श्वौ विद्या चतुर्दशात्मिका । ऐं क्लीं भैं पातु मे पृष्ठं सर्वमन्त्रविभूषिता ॥ १६॥ ॐ क्रीं ऐं सौः सदाव्यान्मे नाभिं भैं बैन्दवेश्वरी । ॐ ह्रीं हूं पातु शिश्नं मे देवता भगमालिनी ॥ १७॥ ह्रीं ह्रीं ह्रीं मे कटिं पातु देवता भगरूपिणी । हूं हूं भैं भैं सदाव्यान्मे देवी ब्रह्मस्वरूपिणी ॥ १८॥ ॐ क्रीं हूं पातु मे जानू महात्रिपुरभैरवी । ॐ क्रीं ऐं सौः पातु मे जङ्घे बालाश्रीत्रिपुरेश्वरी ॥ १९॥ गुल्फौ मे क्रीं सदा पातु शिवशक्तिस्वरूपिणी । क्रीं ऐं सौः पातु मे पादौ पायाद् श्रीकुलसुन्दरी ॥ २०॥ भैं क्रीं हूं श्रीं सदा पातु पादाधः कुलशेखरा । ॐ क्रीं हूं श्रीं सदाव्यान्मे पादपृष्ठं महेश्वरी ॥ २१॥ क्रीं हूं श्रीं भैं वपु पायात् सर्वं मे भद्रकालिका । क्रीं ह्रीं ह्रीं पातु मां प्रातर्देवेन्द्री वज्रयोगिनी ॥ २२॥ हूं भैं मां पातु मध्यान्हे नित्यमेकादशाक्षरी । ॐ ऐं सौः पातु मां सायन्देवता परमेश्वरी ॥ २३॥ निशादौ क्रीं च मां पातु देवी श्रीषोडशाक्षरी । अर्धरात्रे च मां पातु क्रीं हूं भैं छिन्नमस्तका ॥ २४॥ निशावसान समये पातु मां क्रीं च पञ्चमी । पूर्वे मां पातु श्रीं ह्रीं क्लीं राज्ञी राज्यप्रदायिनी ॥ २५॥ ॐ ह्रीं हूं मां पश्चिमेव्यात्सर्वदा तत्त्वरूपिणी । ऐं सौः मां दक्षिणे पातु देवी दक्षिणकालिका ॥ २६॥ ऐं क्लीं मामुत्तरे पातु राजराजेश्वरी तथा । व्रजन्तं पातु मां श्रीं हूं तिष्ठन्तं क्रीं सदावतु ॥ २७॥ प्रबुधं हूं सदा पातु सुप्तं मां पातु सर्वदा । आग्नेये क्रीं सदा पातु नैरृत्ये हूं तथावतु ॥ २८॥ वायव्ये क्रीं सदा पायादैशान्यां भैं सदावतु । उर्ध्वं क्रीं मां सदा पातु ह्यधस्ता ह्रीं तथैवतु ॥ २९॥ चौरतोपाप्तिभीतिभ्यः पायान्मां श्रीं शिवेश्वरी । यक्षभूतपिशाचादि राक्षसेभ्योवतात्सदा ॥ ३०॥ ऐं क्लीं सौः हूं च मातङ्गीचोच्छिष्ठपदरूपिणी । दैत्यभूचरभीतिभ्योवताद् द्वाविंशदक्षरी ॥ ३१॥ विस्मारितं तु यत्स्थानं यत्स्थानं नामवर्जितम् । तत्सर्वं पातु मे नित्यं देवी भैं भद्रकालिका ॥ ३२॥ इतीदं कवचं देवि सर्वमन्त्रमयं परम् । जगत्मङ्गलनामेदं रहस्यं सर्व कामिकम् ॥ ३३॥ रहस्याति रहस्यं च गोप्यं गुप्ततरं कलौ । मन्त्रगर्भं च सर्वस्वं भद्रकाल्या मयास्मृतम् ॥ ३४॥ अदृष्टव्यमवक्तव्यं अदातव्यमवाचिकम् । अश्रोतव्यमिदं वर्म दीक्षाहीनाय पार्वति ॥ ३५॥ अभक्तेभ्योपिपुत्रेभ्यो दत्वा नरक माप्नुयात् । दातव्यमभक्तेभ्यो भक्तेभ्यो दीयते सदा ॥ ३६॥ महादारिद्र्य शमनं महामङ्गलवर्धनम् । भूर्जत्वचि लिखेद्देवि रोचना चन्दनेन च ॥ ३७॥ श्वेतसूत्रेण संवेष्ट्य धारयेन्मूर्ध्नि वा भुजे । मूर्ध्नि धृत्वा च कवचं त्रैलोक्यविजयं भवेत् ॥ ३८॥ भुजे धृत्वा रिपुञ्जित्वा रणे जयमवाप्नुयात् । इतीदं कवचं देवि मूलमन्त्रैक साधनम् ॥ ३९॥ गुह्यं गोप्यं परं पुण्यं गोपनीय स्वयोनिवत् । ॥ इति श्रीभैरवीतन्त्रे भद्रकालीकवचं सम्पूर्णम् ॥ Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : bhadrakAlIkavacham 2
% File name             : bhadrakAlIkavacham2.itx
% itxtitle              : bhadrakAlIkavacham 2 (bhairavItantrAntargatam OM bhaiM pAtu me shiro)
% engtitle              : bhadrakAlIkavacham 2
% Category              : kavacha, devii, dashamahAvidyA, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : bhairavItantra
% Indexextra            : (Manuscript)
% Latest update         : September 2
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org