भगवती लक्ष्मीः
(नरेन्द्रनाथ शर्मा चौधुरी)
In this article the learned author has discussed the various
aspects of Goddess lakShmI and her relation with viShNu,
sarasvatI and uShA. lakShmI is regarded as the wife of viShNu,
and sarasvatI has also been regarded as her co-wife. In the
Rigveda Goddess uShA has been conceived both as gold-coloured
(हिरण्यवर्णा) and white coloured (शुभ्रा); gold-colour
signifying her gold giving capacity, and the white colour her
knowledge-bestowing capacity. In course of time the Vedic deity
uShA evolved into the purANic and tAntric goddesses lakShmI
(conceived as gold-coloured and wealth-bestowing), and sarasvatI
(conceived as white-coloured, and bestower of knowledge).
The worship of lakShmI has been prescribed on the occasions
of the kojAgara-pUrNimA of the lunar month Ashvina, and
the dIpAvalI-amAvasyA (of the kArtika month). The author
has criticised the custom of gambling on the occasions of
lakShmI-worship, although it has been prescribed by Raghunandana
in his Tithitattva. The custom might be due to a confusion
between the akShas (the casts of gambling) and the akShamAlA
(which really means 'rosary') of Goddess lakShmI. On account of
her wealth-bestowing capacity lakShmI has also been associated
with Kubera whose worship is recommended along with the worship
of lakShmI.
भगवत्या लक्ष्म्याः प्रसिद्धिरस्मिन् भारते वर्षे सुतरां सर्वत्रैव
वर्तते । ऋग्वेदस्य खिले श्रीसूक्ते, सौभाग्यलक्ष्म्युपनिषदादिषु
च देवीयं सम्यक् समाम्नायते । अस्याः पूजनं माहात्म्यं च पुराणे
तन्त्रेऽपि विशेषेण वर्णितमस्ति । ``लक्ष्मीः पद्मालया पद्मा कमला
श्रीर्हरिप्रिया'' (१-४-५४) इत्यादयोऽस्या अमरकोषधृता वाचकाः
शब्दाः । तेषु च श्रीरिति नाम नितरां प्रसिद्ध्यति ।
अथास्याः पुराणे तन्त्रे च वर्णनं कीदृशम् ? किं वा तस्य
तात्पर्यम् ? कश्चास्याः सम्बन्धः सरस्वत्या, विष्णुना, उषसा च?
किञ्चास्यास्तत्त्वं रहस्यं च ? इत्येतत्सर्वमत्र समासेन विविच्यते ।
लक्ष्मीः खलु समुद्रमन्थनसमये प्रादुरभूदिति शास्त्रे समीरितम् ।
अत्र भारतम् - ``श्रीरनन्तरमुत्पन्ना घृतात् पाण्डुरवासिनी'' ।
(१-१८-३५) अत्र भागवतं च ।
``ततश्चाविरभूत्साक्षाच्छ्री रमा भगवत्प्रिया'' । (८-८-८)
अथ कीदृशमस्या रूपमित्यत्र स्मार्त-रघुनन्दनस्य तिथितत्त्वे
कोजागरकृत्ये आदित्यपुराणधृतं ध्यानं यथा -
``पाशाक्षमालिकाम्भोजसृणिभिर्याम्यसौम्ययोः ।
पद्मासनस्थां ध्यायेच्च श्रियं त्रैलोक्यमातरम् ॥
गौरवर्णां सुरूपां च सर्वालङ्गारभूषिताम् ।
रौक्मपद्मव्यग्रकरां वरदां दक्षिणेन तु'' ॥
(चण्डीचरणस्मृतिभूषणप्रकाशितं तिथितत्त्वं, कोजागर-कृत्यम्,
पृष्ठाङ्काः ३८१)
ध्यानादस्मादवगम्यते यद् भगवतीयं पद्मासनस्था, गौरवर्णा,
हस्तद्वयेन केषांचिन्मते हस्तचतुष्टयेन वा पाशं,
रुद्राक्षजपमालां, पद्ममङ्कुशं च बिभर्ति । परमेतत्
सर्वमेतस्याः कर्मजातं हि प्रकटीकरोति । तथा हि लक्ष्मीतो जनानां
भायाबन्धनं पाशेन, धर्मादिकर्म च रुद्राक्षजपमालया,
सौन्दर्यसम्पदानन्द-वर्धनं च पद्मेन, दुःखोत्पादनं चाङ्कुशेन
व्यज्यते । एवं च भगवतीयं धनादिदेवता वर्तते । ततश्च धनाद्
यथा बन्धनं दुःखं च भवति, तथा धर्मः सुखमानन्दं च
सञ्जायते । इत्येव ध्यानेनानेन सूचितम् ।
इयं हि देवी लक्षयति पश्यति प्रसन्ना प्रपन्नमिति लक्ष्मीः,
श्रयति वा विष्णुमिति श्रीश्च निगद्यते ।
``श्रीं'' इत्यस्याः प्रसिद्धो बीजमन्त्रः । ध्यानेन
यद्रूपमुपतिष्ठते तदेव बीजमन्त्रार्थः ।
एषा तावद् विष्णोर्नारायणस्य पत्नीति गीयते । अस्याः सपत्नी वाग्देवी
सरस्वती वर्तते ।
अथ लक्ष्मीः खलु चान्द्राश्विनमासस्य कोजागरपौर्णमास्यां विशेषेण
समर्च्यते । तस्यां रात्रौ अक्षैर्जागरणं च शास्त्रे विहितम् । यथा
तिथितत्त्वे कोजागर-कृत्ये रघुनन्दनः - ``अक्षैर्जागरणं
चरेत्'' (चण्डीचरणस्मृतिभूषणप्रकाशितं तिथितत्त्वं
कोजागरकृत्यम्, पृष्ठाङ्काः ३८०) यथा च पुनस्तत्रैव -
``निशीथे वरदा लक्ष्मीः को जागर्तीति भाषिणी ।
तस्मै वित्तं प्रयच्छामि अक्षैः क्रीडां करोति यः । (पृ० ३८०-३८१)
परं विधानमेतत् दुर्विधानमिवाभाति । तथा हि ऋग्वेदेऽपि
अक्षसूक्तं वर्तते, सत्यम्, किन्तु तत्र अक्षनिन्दैव कृता
वेदपुरुषेण, अक्षक्रीडा च निषिद्धा; यथा - ``अक्षैर्मा
दीव्यः कृषिभित् कृषस्व'' (१०-३४-१३) । श्रीमहाभारतेऽपि
सभापर्वणि अष्टपञ्चादशाऽध्याये दुरोदरस्य निन्दैव विहिता
भगवता व्यासेन; यथा - ``द्यूतमनर्थमूलम्'', यथा
च पुनस्तत्रैव एकोनषष्टितमेऽध्याये- ``देवनं पापम्'';
तथापि कोजागर-रात्रौ कथङ्कारं विहिताक्षक्रीडेति विचित्रमिवैतत्
प्रतिभाति । परमत्रैतत् सम्भाव्यते यत् पुराणे वर्णिताया लक्ष्मीदेव्या
हस्ते स्थिताक्षमालिकैव विधानस्यास्य हेतुः । किन्तु पूर्वमेतदुक्तमेव
यत् साक्षमालिका तत्त्वतो रुद्राक्षमालैवास्ति, न तु द्यूताक्षाः । अतएव
विधिरयं श्रुतिभारतादिस्मृतिविरुद्धः स्वार्थसिद्ध्यर्थं केनचित्
प्रक्षिप्त इवेति समामनन्ति विद्वांसः ।
एवं च लक्ष्मीः दीपान्वितायाममावास्यायामपि प्रदोषे पूज्यते,
यतस्तस्यामेव रात्रौ महाप्रलयात् परं महाशक्तिः पुनः सृष्ट्यर्थं
प्रादुरभूत् ।
अथ लक्ष्मीदेव्या साकं कुबेरस्यापि शाखे पूजा विहिता ।
कुबेरः खलु मुनेर्विश्रवसः ``इडविडा''-नामधेयायां
``मिलविला''-नामधेयायां वा भार्यायां जातः पुत्रः । अयं
हि धनाधिपस्त्र्यम्बकसखो यक्षराजश्चास्ति । निकषा-नन्दनत्य
राक्षसराजस्य रावणस्यायं वैमात्रेयो भ्राता च वर्तते । कुत्सिताङ्गः
कुष्ठी चेति कुबेर इति नाम्नायं व्यपदिश्यते । परन्तु लक्ष्मीदेव्याः
भाषाकथायामुक्तं यत् कुबेरः लक्ष्मीनारायणयोः पुत्रोऽस्तीति । किमिदम्?
किं वा चास्य मूलम् ! उच्यते । धनसम्बन्धाद् धनाधिपः कुबेरोऽपि
धनाधिदेवताया लक्ष्म्याः कालक्रमेण लोके पुत्रत्वं लम्भित इत्येव
सङ्गच्छते । अन्यथा यक्षराजस्य नरवाहनस्य मनुष्यधर्मणः
कुबेरस्य लक्ष्मीनारायणयोः पुत्रत्वं दुरुपपादमेव विद्यते । किञ्च
ऋग्वेदस्य खिले श्रीसूक्ते देवसखः (शिवसखः) इति नाम्ना कुबेरः
श्रूयते ``श्रीद'' इति नाम कश्चिद् ऋषिश्च लक्ष्म्याः
पुत्र इति चाम्नायते । ``श्रीद'' इति कुबेरस्य नामान्तरमिति
च कोषतो ज्ञायते । अतः कुबेरस्यापि कथञ्चित् लक्ष्म्याः पुत्रत्वं
श्रुतिसिद्धमेवास्तीति मा वोचः, यतः श्रीदस्य श्रीसूक्ते ऋषित्वेन
श्रुतत्वात् , कुबेरस्य तु तथा प्रसिद्धत्वाच्चेति दिक् ।
अथ कुत्रेयं लक्ष्मीः प्रतिवसतीति प्रश्ने श्रीमहाभारते,
अनुशासनपर्वणि, एकादशेऽध्याये लक्ष्मीवाक्यम् -
``वसामि नित्यं सुभगे प्रगल्-भे, दक्षे नरे कर्मसु विद्यमाने ।
अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्त्वे ॥'' (६)
यथार्थमेतत् । ईदृश एव जनो लक्ष्म्याः परं भाजनं भवति ।
जगत्यस्मिन समृद्धये सत्यं प्रणिधातव्यमेतदस्ति ।
अथ तन्त्र-शास्त्रे श्रीर्लक्ष्मीः कमला वा, काल्यादिमहाविद्यास्वन्यतमा
विद्यते । इयं हि काञ्चनसन्निभा, सिन्दूरारुणकान्तिर्वा चकास्ति ।
चतुर्भिर्गजैर्हृस्ताक्षिप्त-हिरण्यकृतघटैरासिच्यमाना,
चतुर्भुजा च वर्तते । अस्या अष्टौ शक्तयः सन्ति । तासु च उषा
देवी सरस्वती चान्यतमा विद्यते । यथा वैष्णवचरणप्रकाशिते
कृष्णानन्दस्य तन्त्रसारे महालक्ष्मीमन्त्रप्रकरणे -
``उमाद्याः पत्रमध्यस्था शक्तीरष्टौ यजेत् क्रमात् ।
अथोमा श्रीसरस्वत्यौ दुर्गा धरणिसंयुता ।
गायत्री देव्युषा चेति पद्महस्ता सुशोभना ॥ इति (पृष्ठाङ्का १३०)
न केवलं धनार्थिना, विद्यार्थिनापि सदेयं सेव्या ध्यातव्या चार्कमण्डले
इत्यपि तन्त्रसारे लक्ष्मीकवचे, लक्ष्मीप्रयोगे चोक्तम् (पृष्ठाङ्काः
४१९, ४७३)
अथ सरस्वत्या अपि मार्तण्डमण्डल एव ध्यानं तन्त्रसारे सरस्वतीप्रयोगे
(पृष्ठाङ्काः ४७३) विहितम् । इयं च सरस्वती देवी शुभ्रकान्तिः,
सिताब्जे निषण्णा, विद्याधिदेवता, विद्यादायिनी, सकलविभव-सिद्धिदा
च प्रोक्ता । यथा सरस्वती लक्ष्म्याः शक्तिस्तथा लक्ष्मीरपि
सरस्वत्यास्तनुर्वर्तते । यथा तिथितत्त्वे पञ्चमीप्रकरणे -
``लक्ष्मीर्मेधा धरा पुष्टि गौरी तुष्टिः प्रभा धृतिः
एताभिः पाहि तनुभिरष्टाभिर्मां सरस्वति ॥`` (पृष्ठा० १३८-१३९)
अपि च श्रीशब्दो यथा लक्ष्मीवाचकस्तथा सरस्वतीवाचकोऽपि । अत्र खलु
तिथितत्त्वे - (पृष्ठाङ्काः १३६) ``पञ्चम्यां श्रीरपि श्रियम् ॥'' इति,
``पञ्चम्यां पूजयेल्लक्ष्मीं पुष्पधूपान्नवारिभिः ।
मस्याधारं लेखनीं च पूजयेन्न लिखेत्ततः ॥
माघे मासि सिते पक्षे पञ्चमी या श्रियः प्रिया ।
तस्यां पूर्वाह्ण एवेह कार्यः सारस्वतोत्सवः ॥``
(पृष्ठाङ्काः, १३६-१३८) इति च शास्त्रवचनं समुद्धृत्य,
``लक्ष्मी-सरस्वती-धी-त्रिवर्ग-सम्पद्-विभूति-शोभासु ।
उपकरण-वेशरचनासु च श्रीरिति प्रथिता ॥``
इति व्याडिकोषं च प्रदर्श्य स्मार्तेन रघुनन्दनेनापि श्रीशब्दस्य
सरस्वतीपरत्वमपि सुप्रतिपादितमस्ति ।
अथैतेभ्यो वचनादिभ्यः स्पष्टमिदं प्रतीयते यद् वेदस्य काचित्
सूर्यमण्डल सम्बन्धिनी प्रसिद्धैव देवी महाभाग्यात् कर्मपृथक्त्वात्
पुराणे तन्त्रे च लक्ष्मीनाम्ना सरस्वतीनाम्ना च रूपभेदेन
च पृथक् पूज्यते । परं नास्त्यनयोस्तत्त्वतः कश्चिद् भेदः ।
अन्यथानयोरुभयोः सूर्यमण्डलसम्बन्धः श्रीप्रभृति - नामधेयसाम्यं
कर्मविशेषादिसाम्यं च नोपपद्यते ।
अथ कासौ महाभागा वैदिकी देवी या पुराणे तन्त्रे च लक्ष्मीः सरस्वती
च सञ्जातेति प्रश्ने प्रोच्यते-वैदिकी उषा एव सा देवता चकास्ति
। कथम् ? श्रूयताम् । ऋग्वेदे लक्ष्मीशब्दः खलु ``सक्तुमिव
तितउना'' इत्यादिमन्त्रे ``भद्रैषां लक्ष्मीर्निहिताधिवाचि
।'' (१०-७१-२) इत्यत्र सकृदेव श्रूयते । न तत्रास्ति श्रीसूक्तं
न वा लक्ष्मीसूक्तम् । यत्सरस्वतीसूक्तं ऋग्वेदे दृश्यते तत्तु
नदीपरं न तु विद्यादेवी परमिति तु निर्विवादमेव । परं तत्र
खिलभागे श्रीसूक्तमेकमवश्यं वर्तते । तत्तु पश्चात् संयोजितमिति
तस्य खिलनाम्ना सिद्धमेव । परन्तु ऋग्वेदे भगवती उषादेवी खलु
सुप्रसिद्धा । सा च ``हिरण्यवर्णा'' (७-७०-२) ``शुभ्रा''
(४-५१-६) चेति, ``रेवती'' (३-६१-६) ``प्रचेताश्चेति''
(३-६१-१), ``सूर्यस्य योषा'' (७-७५-५) चेति च वर्ण्यते
। अतएव दृश्यते यत् उषा लक्ष्मीवत् सुवर्णवर्णा, सरस्वतीवत्
शुभ्रवर्णा च । इयं न केवलं धनाधिदेवता, ज्ञानाधिदेवता
च । लक्ष्मीवदस्याः प्रधानं कर्म न केवलं धनदानं, परन्तु
सरस्वतीवत् ज्ञानदानं च । इयं च सूर्यस्य पत्नी । अतोऽस्या अपरं
नाम ``सूर्या'' इति श्रूयते । अत्र यास्कः - ``सूर्या सूर्यस्य
पत्नी । एषैवाभि सृष्टकालतमा ।'' (निरुक्तम् , १२-७-२)
अस्य व्याख्याने दुर्गः - ``एषैव उषाः अभिसृष्टकालतमा यथा
सूर्यस्योदयकालं प्रत्यभिसृष्टतमा भवति गततमा भवति, तथा
तथा सैषा उषाः सूर्या सम्पद्यते । इत्थमवदातमेतद् यत् उषा देवी,
वैदिकस्य विष्णोःपत्नी, ध्यानादिसौकर्यार्थं पूजादिसौकर्यार्थें च,
सुवर्णवर्णेन समं सुवर्णादिरूपस्य धनस्य, शुभ्रवर्णेन च समं
निर्मलस्य ज्ञानस्य च संयोजनेन, पुराणे तन्त्रे च लक्ष्मीः सरस्वती
च सम्पन्ना । तेन च, वेदे सत्यामपि प्रसिद्ध्यौ, उषादेवी पुराणे
तन्त्रे च, तेन रूपेण न पूज्यते न वा दृश्यते, यतः खल्वियं तत्र
रूपान्तरमेव प्राप्ता, अतएव पुनस्तत्र उषोरूपेणाविर्भावस्यावश्यकतैव
नालोक्यते ।
मतस्यास्य पुष्टिः खलु ऋग्वेदस्य खिलात् श्रीसूक्तात् सुतरां जायते ।
तथा च श्रीसूक्ते श्रूयते -
``चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।''
अन्यचच-``श्रियं देवीमुपह्वये ।''
अपरं च - ``आदित्यवर्णे ।''
किञ्च - ``सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ।''
अपि च - महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ।
अथैतेभ्यः श्रीसूक्तश्रुतिवाक्येभ्यो विज्ञायते यत्
श्रीर्लक्ष्मीर्महालक्ष्मीश्चैका एव देवता । इयं हि हिरण्यवर्णा,
आदित्यवर्णा, शुभ्रवर्णा च । इयं पुनः सूर्यस्य पत्नी सूर्या,
विष्णुपत्नी च ।
एवञ्चानेन लक्ष्म्या वैशिष्ट्येन सममत्र द्रष्टव्यं यन्महाभागा
भगवती उषादेव्यपि नभसि, प्रकृत्या, प्रतिदिनं, प्रत्युषः,
हिरण्यवर्णा, ततश्चादित्यवर्णा, तदनन्तरं च शुभ्रवर्णा
समालोक्यते । इयं पुनर्मध्याकाशवर्तिनो विष्णुसंज्ञकस्य सूर्यस्य
पत्नी सूर्या इति च श्रूयते । अपि च भगवतीयं विभातसमये
सवनादिकर्मसु प्रेरणाद् धनं, ततश्च स्वाध्यायादिकर्मसु
प्रेरणाच्च ज्ञानं जनयति । अतएव इयमेव वर्णक्रमादिभेदाद्
उषसि लक्ष्मीरूपं, ततश्च सरस्वतीरूपं प्रतिपद्यते
तेन च लक्ष्मीसरस्वत्योः सूर्यमण्डलसम्बन्धिदेवतात्वं,
परस्परशक्तित्वं, नामाद्यभेदश्चोपपद्यते । एवञ्च
लक्ष्म्याः काञ्चनकान्तित्वं, सिन्दूरारुणकान्तित्वं च, तथा
प्रभातकिरणतोयैर्दिग्गजासिच्यमानमूर्तित्वम्, उषसः शक्तित्वं च
सर्वं सुसमञ्जसमेव भवति । अपरं च तमः-समुद्रात् प्रातरुषसः
प्रादुर्भाव एव समुद्रमन्थनात् लक्ष्म्या आविर्भावरूपेण पुराणे
वर्णित एव इति यत् तदपि सुवचमेव भवति । इत्थं च ``इदं
विष्णुर्विचक्रमे त्रेधा निदधे पदम्'' इति श्रुत्या ऋग्वेदस्थया
(१-२२-१७) प्रतिपादितो मध्याकाशवर्तिसूर्याभिन्नो विष्णुरेव पुराणे
उषसः खल्वभिन्नाया लक्ष्म्याः सरस्वत्याश्च पतिरूपेणोपवर्ण्यते ।
अथ किं स्वरूपः खलु पौराणिकोऽयं विष्णुरिति प्रश्ने प्रसिद्धायां
पूजापद्धतौ विष्णोर्ध्यानं यथा -
``विष्णुं पीतवाससं चतुर्भुजं वनमालविभूषितम् ।
लक्ष्मीसरस्वतीकान्तं गरुडासनमाश्रमे`` ॥
एवं च पौराणिकस्य विष्णोः सूर्याभिन्नत्वं विष्णोः रूपान्तरभूतस्य
नारायणस्य प्रसिद्धात् ध्यानात् सम्यक् प्रतीयते । यथा -
``ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः'' । इति ।
अपि च - ``इदं विष्णुर्विचक्रमे'' इति ऋग्वेद-श्रुतौ
विष्णोस्त्रिधा पदनिधानं खलु
शाकपुण्यादिभिर्मनीषिभिर्भिन्नरूपेणैवाकलितं वर्णितं च ।
अथ एतदेव विष्णोः पदत्रयनिधानं किञ्चिद् रूपान्तरं पुराणे
वामनबलिसम्वादे धृतवामनरूपे विष्णौ प्राप्तम् । अतएव देव्या
उषसः पतिर्वैदिको विष्णुरेव पुराणे तन्त्रे च उषसस्तावदभिन्नाया
लक्ष्म्याः सरस्वत्याश्च वल्लभत्वमवाप्त इत्यादि सर्वं शास्त्रदृष्ट्या
सुश्लिष्टमेवोपपन्नम् ।
अथ लौकिकदृष्ट्या देव्या उषसः पुराणे तन्त्रे च रूपद्वयस्य
किं कारणमित्यस्य निपुणं विचारे क्रियमाणे दृश्यतेऽस्माभिर्यत्
सम्प्रदायादिविद्वेषादिकमप्यत्र किल कारणं भवेत् ।
पुरा पौराणिकयुगप्रारम्भे भारतवर्षे धनिसम्प्रदायस्य
ज्ञानिसम्प्रदायस्य च मध्ये तथा नाम वैमनस्यमासीद् यथा ।
सम्प्रदायद्वयेन न पुनर्यथा पुरा धनाय ज्ञानाय च एकस्या एव
देवताया उषसः समभ्यर्चनं सम्भवमभूत् । तेन च महाभाग्यात्
कर्मपृथक्त्वाद्वा लक्ष्मीरूपेण सरस्वतीरूपेण च रूपद्वयमुषसः
सम्प्रदायद्वयेन स्वार्थसिद्धये प्रकल्पितम् । एवं च सपत्नीत्वेन
लक्ष्म्याः सरस्वत्याश्च कल्पनया तयोरेकत्रावस्थानं खलु दुष्करमिव
समपद्यत । इत्थं धनिसम्प्रदायस्य ज्ञानिसम्प्रदायस्य च मध्ये
सौमनस्याभावेन देवताभेदाद् देशस्य, समाजस्य, जनगणस्य
च समभ्युदयो व्याहत एव समजनि । इदमवितथं यदनयोः
सम्प्रदाययोर्मध्ये सौहार्दे सत्येव सर्वत्र भद्रमनामयं शान्तिश्च
सम्भवति । तदेव च देशस्य समाजस्य च नेतॄणां कवीनां च परमं
काम्यमासीत् । परं तत्तथा तदानावर्तत । एतत्सर्वं संस्कृतवाङ्मयस्य
सम्यगध्ययनादवदातमेव सम्पद्यते । बहोः कालात्पूर्वमाविर्भूतेन कविना
कालिदासेनापि सर्वमेतदन्तराऽन्तरा समासेन सुष्ठु प्रकटीकृतम् ।
तथा चोक्तं तेन विक्रमोर्वशीये -
``परस्परविरोधिन्योरेकसंश्रयदुर्लभम् ।
सङ्गतं श्रीसरस्वत्योर्भूयादुद्भूतये सताम् ॥ (५-२४)
इत्थं धनिज्ञानिसम्प्रदायविरोधोऽपि तावदुषसः पौराणिके
युगे मूर्तिद्वयग्रहणस्य निदानान्तरं स्यादिति मतं युक्तियुक्तमिव
प्रतिभाति ।
अथ लक्ष्म्याः किं तत्त्वं, किं वा रहस्यमिति प्रश्ने
वदामो यदियं लक्ष्मीः खलु तत्त्वतः कालशक्तेः काल्याः कर्मभेदात्
कमलामूर्त्या रूपान्तरमेवास्ति । इयं भगवतः सूर्यस्य पराशक्तिः,
पत्नीरूपा, सरस्वत्यभिन्ना, श्रीमदुषसः परिणामभूता,
भद्रकाली, धनारोग्यविद्यानन्दकरी, परमेश्वरी, विभातसमये
प्रतिदिनमाविर्भूय, सर्वेभ्यः सुतरां श्रेयः प्रेयश्च वितरति ।
एषा खलु यथार्थतो नैव स्त्री न वा पुमान् वर्तते तथापि महादेवीयं
साधकानां साधनादिसौकर्यार्थं, मातृरूपेणानिशं ध्यायते पूज्यते च ।
अस्याः स्वरूपस्यास्य विज्ञानेन साधकस्य शक्त्यभिन्न ब्रह्मरूपत्वमेव
सिध्यति । अथैतदेव भगवत्या लक्ष्म्यास्तत्त्वं रहस्यं च विभाति ।
पुराण-रत्नानि
सम्पदां हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मे भवेद्भवे ॥ (ब्रह्मवैवर्त०, २।६।९०)
चेदस्ति शक्तिर्द्रव्यदाने ततस्ते दातव्यमेवार्थिने किं विचार्यम् ।
नो चेत्सन्तः परकार्याणि कुर्युर्वाग्भिर्मनोभिः कृतिभिस्तथैव ॥
(ब्रह्मपुराण, गौत० मा०, ४०।३९)
इति ।
Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA