श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रम्
(अथ श्रीकालीविलासतन्त्रे दशमः पटलः ।)
श्रीदेव्युवाच ।
देवदेव महादेव योगीन्द्र वृषभध्वज ।
अस्याः श्रीभुवनेश्वर्याः शतनाम वद प्रभो ॥ १॥
श्रीईशान उवाच ।
सहस्रेण महेशानि कलिकाले न सिद्ध्यति ।
शतनाम्नः परं नाम कलौ नास्ति महेश्वरि ॥ २॥
अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषि
विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥
ॐ आद्या श्रीभुवनाभव्या भवबन्धविमोहिनी ।
भगरूपा भगवती भेरण्डा भाग्यशालिनी ॥ ३॥
ईश्वरी ईश्वरानन्दा वन्दनीया विलासिनी ।
उमा ऊमा च (१)उन्मत्ता इन्दिरा इन्द्रपूजिता ॥ ४॥
ऊर्ध्व-तेजस्विनी ऊर्ध्वा ऊर्ध्वगा ऊर्ध्वरूपिणी ।
नन्दिनी नन्दमथिनी नन्दा नन्दकरूपिणी ॥ ५॥
नित्या च निष्कलङ्का च निर्मला मलनाशिनी ।
निरीहोल्लासिनी नत्या निर्मला नित्यनूतना(२) ॥ ६॥
निशुम्भनाशिनी चैव तथा शुम्भविनाशिनी ।
शुक्लरूपा च शुक्लार्हा शाम्भवी शम्भुवल्वभा ॥ ७॥
शिवाख्या शिवरूपा च शिवपूज्या शिवार्चिता ।
शिववादा (३)च श्यामा च श्यामाङ्गी श्याममूर्त्तिका ॥ ८॥
शोभा च सुभगा चैव शोभना भुवनेश्वरी ।
रक्ताङ्गी रक्तनयना रक्ताक्षी रक्तलोचना ॥ ९॥
रेवती रुक्मिणी राधा रौद्री रामा रजोगुणा ।
रम्या च रमणीया च रामक्रीडावती तथा ॥ १०॥
रामार्चिता रामपूज्या रङ्गिनी रामवल्लभा(४) ।
रक्ताक्षी रक्तहास्या च रुधिरा रुधिरप्रिया ॥ ११॥
रक्तारक्तमयी राज्ञी रसयुक्ता रसप्रिया ।
रसमाला रसमयी तथा रसवती रतिः ॥ १२॥
रूपमाला रूपवती रूपाङ्गदविभूषणा ।
रेणुका रेत(५)रूपा च रसरूपा रसाश्रया(६) ॥ १३॥
भागीरथी तथोन्नासां(७)वशिनी वेशरूपिणी ।
रेवा च शाम्भवी चैव मृदापारण(८)पण्डिता ॥ १४॥
शतनाम इदं देवि कथितं भक्तितस्तव ।
गुह्याद् गुह्यतरं गुह्यं कलिकालस्य सम्मतम् ॥ १५॥
अष्टोत्तरशतं जप्त्वा दशधा वापि सुन्दरि ।
पठित्वा फलमाप्नोति अयुतं वरवर्णनि ॥ १६॥
अयुतावर्त्तनाद्देवि चाश्वमेधफलं लभेत् ।
गोमेधशतयज्ञानां फलमाप्नोति निश्चितम् ॥ १७॥
प्रपठेद् यदि शुद्धात्मा स्वकीयस्त्रीषु संरतः ।
वामभागे स्त्रियं स्थाप्य धूपामोद सुगन्धितः ॥ १८॥
ताम्बूल-पूरितमुखी यदि स्याज्जपतत्परः ।
यद्यप्यदीक्षिता नारी दूरतः परिवर्जयेत् ॥ १८॥
दीक्षिता-परनारीषु यदि मैथुनमाचरेत् ।
न विन्दोः पातनं कार्यं कृते च ब्रह्महा भवेत् ॥ २०॥
मृदापारगां मृत्तिकाविदारणमित्यर्थः ।
यदि न प्रपतेद्दिन्दुः परनारीषु पार्वति ।
सर्वसिद्धोश्वरो भूत्वा विहरेत् क्षितिमण्डले ॥ २१॥
इति श्रीकालीविलासतन्त्रे श्रीभुवनेश्वरी शतनामस्तोत्रं समाप्तम् ।
ॐ तत्सदित्यादि ।
१. ऊशब्देनाव शिव उच्चते तेन तस्य माता इत्यर्थः । ``उमा
ऊमा'' इत्यव ``उमारूपा'' इति क्वचित् पुस्तके पाठः ।
२. ``नूतना'' इत्यत्र ``मुत्तमा'' इति क्वचित्
पुस्तके पाठः । क्वचिञ्च ``निर्लज्जा निर्घृणा निद्रा निश्चला
निरूप-द्रवाम् । इत्यधिक लोकाई दृश्यते ।
३. ``शिववादा'' इत्यत्र शववादां इति क्वचित पुस्तके पाठः,
तस्वार्थस्तु शवेन सह वादः कथोपकथन यस्याः, अथवा शवः
शिवरूपः शव इति तात्पर्यम् ।
४. रामशब्देनात्र परशुरामः, बलरामः, श्रीरामश्च यथायथं ज्ञेयम् ।
५. सर्वेसान्ता अप्यदन्ता इति नियमात् रेतः शब्दस्य रेतरूपता ।
६. ``रसाश्रया'' इत्यत्र ``रसप्रिया'' इति क्वचित् पुस्तके पाठः ।
७. ``उन्नासा'' इत्यत्र ``उल्लासा'' इति क्वचित् पुस्तके पाठः ।
८. ``मृदापा'' इत्यत्र ``वसुधा'' इति क्वचित् पुस्तके पाठः ।
Proofread by Rajesh Thyagarajan