श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः

श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः

अस्य श्रीभुवनेश्वरी शतनामस्तोत्रस्य शक्तिरृषिः विराट्च्छन्दः श्रीभुवनेश्वरी देवता चतुर्वर्गसिद्ध्यर्थे विनियोगः ॥ ईशानोक्त श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः । श्रीआद्यायै नमः । श्रीश्रीभुवनाभव्यायै नमः । श्रीभवबन्धविमोहिन्यै नमः । श्रीभगरूपायै नमः । श्रीभगवत्यै नमः । श्रीभेरण्डायै नमः । श्रीभाग्यशालिन्यै नमः । श्रीईश्वर्यै नमः । श्रीईश्वरानन्दायै नमः । श्रीवन्दनीयायै नमः । १० श्रीविलासिन्यै नमः । श्रीउमायै नमः । श्रीऊमायै (१) नमः । श्रीउन्मत्तायै नमः । श्रीइन्दिरायै नमः । श्रीइन्द्रपूजितायै नमः । श्रीऊर्ध्व-तेजस्विन्यै नमः । श्रीऊर्ध्वायै नमः । श्रीऊर्ध्वगायै नमः । श्रीऊर्ध्वरूपिण्यै नमः । २० श्रीनन्दिन्यै नमः । श्रीनन्दमथिन्यै नमः । श्रीनन्दायै नमः । श्रीनन्दकरूपिण्यै नमः । श्रीनित्यायै नमः । श्रीनिष्कलङ्कायै नमः । श्रीनिर्मलायै नमः । श्रीमलनाशिन्यै नमः । श्रीनिरीहोल्लासिन्यै नमः । श्रीनत्यायै नमः । ३० श्रीनिर्मलायै नमः । श्रीनित्यनूतनायै (२) नमः । श्रीनिशुम्भनाशिन्यै नमः । श्रीशुम्भविनाशिन्यै नमः । श्रीशुक्लरूपायै नमः । श्रीशुक्लार्हायै नमः । श्रीशाम्भव्यै नमः । श्रीशम्भुवल्वभायै नमः । श्रीशिवाख्यायै नमः । श्रीशिवरूपायै नमः । ४० श्रीशिवपूज्यायै नमः । श्रीशिवार्चितायै नमः । श्रीशिववादायै (३) नमः । श्रीश्यामायै नमः । श्रीश्यामाङ्ग्यै नमः । श्रीश्याममूर्त्तिकायै नमः । श्रीशोभायै नमः । श्रीसुभगायै नमः । श्रीशोभनायै नमः । श्रीभुवनेश्वर्यै नमः । ५० श्रीरक्ताङ्ग्यै नमः । श्रीरक्तनयनायै नमः । श्रीरक्ताक्ष्यै नमः । श्रीरक्तलोचनायै नमः । श्रीरेवत्यै नमः । श्रीरुक्मिण्यै नमः । श्रीराधायै नमः । श्रीरौद्र्यै नमः । श्रीरामायै नमः । श्रीरजोगुणायै नमः । ६० श्रीरम्यायै नमः । श्रीरमणीयायै नमः । श्रीरामक्रीडावत्यै नमः । श्रीरामार्चितायै नमः । श्रीरामपूज्यायै नमः । श्रीरङ्गिन्यै नमः । श्रीरामवल्लभायै (४) नमः । श्रीरक्ताक्ष्यै नमः । श्रीरक्तहास्यायै नमः । श्रीरुधिरायै नमः । ७० श्रीरुधिरप्रियायै नमः । श्रीरक्तारक्तमय्यै नमः । श्रीराज्ञ्यै नमः । श्रीरसयुक्तायै नमः । श्रीरसप्रियायै नमः । श्रीरसमालायै नमः । श्रीरसमय्यै नमः । श्रीरसवत्यै नमः । श्रीरत्यै नमः । श्रीरूपमालायै नमः । ८० श्रीरूपवत्यै नमः । श्रीरूपाङ्गदविभूषणायै नमः । श्रीरेणुकायै नमः । श्रीरेत(५)रूपायै नमः । श्रीरसरूपायै नमः । श्रीरसाश्रयायै (६) नमः । श्रीभागीरथ्यै नमः । श्रीउन्नासायै (७) नमः । (उल्लासायै) श्रीवशिन्यै नमः । श्रीवेशरूपिण्यै नमः । ९० श्रीरेवायै नमः । श्रीशाम्भव्यै नमः । श्रीमृदापारणायै (८)नमः । श्रीपण्डितायै नमः । ९४ इति श्रीकालीविलासतन्त्रे दशमपटलान्तर्गते भुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता । १. ऊशब्देनाव शिव उच्चते तेन तस्य माता इत्यर्थः । ``उमा ऊमा'' इत्यव ``उमारूपा'' इति क्वचित् पुस्तके पाठः । २. ``नूतना'' इत्यत्र ``मुत्तमा'' इति क्वचित् पुस्तके पाठः । क्वचिञ्च ``निर्लज्जा निर्घृणा निद्रा निश्चला निरूप-द्रवाम् । इत्यधिक लोकाई दृश्यते । ३. ``शिववादा'' इत्यत्र शववादां इति क्वचित पुस्तके पाठः, तस्वार्थस्तु शवेन सह वादः कथोपकथन यस्याः, अथवा शवः शिवरूपः शव इति तात्पर्यम् । ४. रामशब्देनात्र परशुरामः, बलरामः, श्रीरामश्च यथायथं ज्ञेयम् । ५. सर्वेसान्ता अप्यदन्ता इति नियमात् रेतः शब्दस्य रेतरूपता । ६. ``रसाश्रया'' इत्यत्र ``रसप्रिया'' इति क्वचित् पुस्तके पाठः । ७. ``उन्नासा'' इत्यत्र ``उल्लासा'' इति क्वचित् पुस्तके पाठः । ८. ``मृदापा'' इत्यत्र ``वसुधा'' इति क्वचित् पुस्तके पाठः । The nAmAvalI is derived from the corresponding stotram with less than 100 names.
% Text title            : Shri Bhuvaneshvari AshtottarashatanAmAvalI 3
% File name             : bhuvaneshvaryaShTottarashatanAmAvalI3.itx
% itxtitle              : bhuvaneshvaryaShTottarashatanAmAvalI 3 (kAlIvilAsatantrAntargatA AdyAyai bhuvanAbhavyAyai)
% engtitle              : bhuvaneshvaryaShTottarashatanAmAvalI 3
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : (Kalivilasatantra) See corresponding stotram
% Indexextra            : (stotram 1, 2)
% Latest update         : July 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org