ब्रह्मकृतं काञ्चीकामाक्षीस्तोत्रम्
श्रीनारायणीश्रीरुवाच ।
काञ्चीपुर्याः सुकल्याणी द्वेधा या वर्तते स्वयम् ।
महालक्ष्मीः परा शक्तिस्तां द्वेधां दिश मे प्रभो ॥ २५॥
श्रीपुरुषोत्तम उवाच ।
काञ्चीक्षेत्रे पुरा ब्रह्मा मालक्ष्मीदर्शनाय ह ।
आत्मैकध्यानयुक्तश्च तपस्तेपेऽतिदुःसहम् ॥ २६॥
पुरस्तस्य प्रादुरासीन्महालक्ष्मीः कराब्जिका ।
पद्मासने राजमाना विष्णुना महता सह ॥ २७॥
सर्वशृङ्गारवेषाढ्यां सर्वाभरणभूषिताम् ।
आदिलक्ष्मीं प्रवीक्ष्यैव ब्रह्मविष्ण्वीशमातरम् ॥ २८॥
कामाक्षीं तां दिव्यदेवीमस्तौषीद्विश्वसृट् स्वयम् ।
अनादिश्रीकृष्णनारायणस्य जननीं भुवि ॥ २९॥
ब्रह्मोवाच ।
जय लक्ष्मि महालक्ष्मि जगन्मातः परेश्वरि ।
जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ ३०॥
जयश्रीकरुणाराशे जय वैष्णववन्दिते ।
जय लोकप्रपूज्ये त्वं लोककर्त्र्यै च ते नमः ॥ ३१॥
अनन्यभावनाभक्तैर्वेद्यायै ते नमो नमः ।
आम्नायमुनिसङ्घातैर्ज्ञातोक्ता या परेश्वरी ॥ ३२॥
परब्रह्मस्वरूपायै मात्रे ते वै नमो नमः ।
हृदयस्थे नमस्तुभ्यं साम्राज्यसम्पदीश्वरि ।
वेदा निःश्वसितं ते वै तस्यै मात्रे नमो नमः ॥ ३३॥
सहस्रशीर्षा देवोऽपि धत्ते यदाज्ञया क्षितिम् ।
सूर्यचन्द्राग्नयो भान्ति यदंशतेजसा सदा ॥ ३४॥
पञ्चविंशतिरूपायै मात्रे लक्ष्म्यै नमो नमः ।
ईश्वरा अपि यस्यास्ते प्राप्यैश्वर्याणि चेश्वराः ॥ ३५॥
सर्वात्मनामन्तरस्थां परमानन्दरूपिणीम् ।
श्रीविद्यां श्रीमहालक्ष्मीं त्वां नमामि पुनः पुनः ॥ ३६॥
सर्वज्ञानात्मिका यूपात्मिका स्वर्णात्मिकाऽसि च ।
तत्त्वोपदेशरूपा च स्मृद्ध्यात्मा शान्तिवर्षिणी ॥ ३७॥
देशकालपदार्थात्मा मणिमन्त्रौषधात्मिका ।
धातुतैजसरूपा च तस्यै मात्रै नमो नमः ॥ ३८॥
कल्याणगुणसम्पन्ना कम्भराभूतिशालिनी ।
कुङ्कुमवापिकामाता बालकृष्णप्रसूः रमा ॥ ३९॥
अनादिश्रीकृष्णनारायणाङ्कशोभिताऽव्यया ।
वारं वारं सुराष्ट्रे त्वं समायासि नमोऽस्तु ते ॥ ४०॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१२०-अध्यायान्तर्गतं ब्रह्मकृतं काञ्चीकामाक्षीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १२०/१-४०॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 120/1-40..
Proofread by PSA Easwaran