ब्रह्मकृतं राधिकास्तोत्रम्
ब्रह्मोवाच ।
हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ९४॥
सुदुर्लभं च सर्वेषां भारते च विशेषतः ।
षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ ९५॥
भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः ।
आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ९६॥
वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा ।
राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ९७॥
हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय ।
मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ९८॥
दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च ।
नहीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ९९॥
सर्वेषां वाञ्छितं मातर्गोलोके भारतेऽधुना ।
सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥ १००॥
त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः ।
श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ १०१॥
न हि वेदेषु मे दृष्ट इति केन निरूपितम् ।
ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ १०२॥
वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके ।
यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ १०३॥
तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता ।
पुरुषाश्च हरेरंशास्त्वदंशा निखिलाः स्त्रियः ॥ १०४॥
आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि ।
अस्यानु प्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ १०५॥
किमहो निर्मितः केन हेतुना शिल्पकारिणा ।
नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाऽम्बिके ॥ १०६॥
अस्यांशा त्वं त्वदंशो वाऽप्ययं केन निरूपितः ।
अहं विधाता जगतां देवानां जनकः स्वयम् ॥ १०७॥
तं पठित्वा गुरुमुखाद्भवन्त्येव बुधा जनाः ।
गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ १०८॥
वेदो वा पण्डितो वाऽन्यः को वा त्वां स्तोतुमीश्वरः ।
स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ १०९॥
त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः ।
यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ ११०॥
यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः ।
अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ १११॥
सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः ।
यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥ ११२॥
ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा ।
जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ११३॥
जननी जनको यो वा सर्वं क्षमति स्नेहतः ।
इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ ११४॥
प्रणम्य चरणाम्भोजे सर्वेषां वन्द्यमीप्सितम् ।
ब्रह्मणा च कृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥ ११५॥
राधामाधवयोः पादे भक्तिर्दास्यं लभेद्ध्रुवम् ।
कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् ।
विलङ्घ्य सर्वलोकांश्च याति गोलोकमुत्तमम् ॥ ११६॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे पञ्चदशाध्यायान्तर्गतं
ब्रह्मकृतं श्रीराधिकास्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १५/९७-११६॥
brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 15/97-116..
Proofread by PSA Easwaran