चण्डीशतकम्
(बाणभट्टविरचितम्)
मा भाङ्क्षीर्विभ्रमं भ्रूरधर विधुरता केयमास्यास्य रागं
पाणे प्राण्येव नायं कलयसि कलहश्रद्धया किं त्रिशूलम् ।
इत्युद्यत्कोपकेतून्प्रकृतिमवयवान्प्रा(स्था)पयन्त्येव देव्या
न्यस्तो वो मूर्ध्नि मुष्यान्मरुदसुहृदसून्संहरन्नङ्घ्रिरंहः ॥ १॥
हुङ्कारे न्यक्कृतोदन्वति महति जिते शिञ्जितैर्नूपुरस्य
श्लिष्यच्छृङ्गक्षतेऽपि क्षरदसृजि निजालक्तकभ्रान्तिभाजि ।
स्कन्धे विन्ध्याद्रिबुद्ध्या निकषति महिषस्याहितोऽसूनहार्षी-
दज्ञानादेव यस्याश्चरण इति शिवं सा शिवा वः करोतु ॥ २॥
जाह्नव्या या न जातानुनयपर(अनवमपु?)हरक्षिप्तया क्षालयन्त्या
नूनं नो नूपुरेण ग्लपितशशिरुचा ज्योत्स्नया वा नखानाम् ।
तां शोभामादधाना जयति नवमिवालक्तकं पीडयित्वा
पादेनैव क्षिपन्ती महिषमसुरसादाननिष्कार्यमार्या ॥ ३॥
मृत्यो(याम्याः)स्तुल्यं त्रिलोकीं ग्रसितुमतिरसान्निःसृताः किं नु जिह्वाः
किं वा कृष्णाङ्घ्रिपद्मद्युतिभिररुणिता विष्णुपद्याः पदव्यः ।
प्राप्ताः सन्ध्याः स्मरारेः स्वयमुत नुतिभिस्तिस्र इत्यूह्यमाना
देवैर्देवीत्रिशूलाहत(देव्यास्त्रिशूलक्षत)महिषजुषो रक्तधारा जयन्ति ॥ ४॥
दत्ते दर्पात्प्रहारे सपदि पदभरोत्पिष्टदेहावशिष्टां
श्लिष्टां शृङ्गस्य कोटिं महिषसुररिपोर्नूपुरग्रन्थिसीम्नि ।
मुष्याद्वः कल्म(किल्बि)षाणि व्यतिकरविरतावाददानः कुमारो
मातुः प्रभ्रष्टलीलाकुवलयकलिकाकर्णपूरादरेण ॥ ५॥
शश्वद्विश्वोपकारप्रकृतिरविकृतिः सास्तु शान्त्यै शिवा वो
यस्याः पादोपशल्ये त्रिदशपति(महिषसुर)रिपुर्दूरदुष्टाशयोऽपि ।
नाके प्रापत्प्रतिष्ठामसकृदभिमुखो वादयञ्शृङ्गकोट्या
हत्वा कोणेन वीणामिव रणितमणिं मण्डलीं नूपुरस्य ॥ ६॥
निष्ठ्यूतोऽङ्गुष्ठकोट्या नखशिखरहतः पार्ष्णिनिर्यातसारो(निष्णात्सारः)
गर्भे दर्भाग्रसूचीलघुरिव गणितो नोपसर्पन्समीपम् ।
नाभौ वक्रं प्रविष्टा(तिष्ठा)कृतिविकृति यया पादपातेन कृत्वा
दैत्याधीशो विनाशं रणभुवि गमितः सास्तु देवी श्रिये (शान्त्यै शिवा)वः ॥ ७॥
ग्रस्ताश्वः शष्पलोभादिव हरितहरेरप्रसोढानलोष्मा
स्थाणौ कण्डूं विनीय प्रतिमहिषरुषेवान्तकोपान्तवर्ती ।
कृष्णं पङ्कं यथेच्छन्वरुणमुपगतो मज्जनायेव यस्याः
स्वस्थोऽभूत्पादमाप्त्वा ह्रदमिव महिषः सास्तु दुर्गा श्रिये (देवी मुदे)वः ॥ ८॥
त्रैलोक्यातङ्कशान्त्यै प्रविशति विवशे धातरि ध्यानतन्द्री-
मिन्द्राद्येषु द्रवत्सु द्रविणपतिपयःपालकालानलेषु ।
ये स्पर्शेनैव पिष्ट्वा महिषमतिरुषं त्रातवन्तस्त्रिलोकीं (त्रातवन्तो जगन्ति)
पान्तु त्वां पञ्च चण्ड्याश्चरणनखनिभेना(मिषेण)परे लोकपालाः ॥ ९॥
प्रालेयोत्पीडपीन्वां(दीव्यत्)नखरजनिकृतामातपेनातिपाण्डुः
पार्वत्याः पातु युष्मान्पितुरिव तुलिताद्रीन्द्रसारः स पादः ।
यो धैर्यान्मुक्तलीलासमुचितपतनापातपीतासुरासी-
न्नो देव्या एव वामश्छलमहिषतनोर्नाकलोकद्विषोऽपि ॥ १०॥
वक्षो व्याजैणराजः स दशभिरभिनत्पाणिजैः प्राक्सुरारेः
पञ्चैवास्तं नयामो युवतिचरणजाः शत्रुमेते वयं तु ।
इत्युत्पन्नाभिमानैर्नखशशिमणिभिर्ज्योत्स्नया स्वांशुमय्या
(इत्युत्पन्नातिरुचिर्नखैः शशिमणिभिर्ज्योत्स्नया स्वांशुमय्या)
यस्याः पादे हतारौ हसित इव हरिः सास्तु काली श्रिये (शान्त्यै शिवा)वः ॥ ११॥
रक्ताक्तेऽलक्तकश्रीर्विजयिनि विजये नो विराजत्यमुष्मि-
न्हासो हस्ताग्रसंवाहनमपि द(तु)लिताद्रीन्द्रसारद्विषोऽस्य ।
त्रासेनैवाद्यः सर्वः प्रणमति कदनेनामुनेति क्षतारिः
पादोऽव्याच्चुम्बितो वो रहसि विहसता त्र्यम्बकेणाम्बिकायाः ॥ १२॥
भङ्गो न भ्रूलतायास्तुलितबलतयानास्थमस्थ्नां तु चक्रे
न क्रोधात्पादपद्मं महदमृतभुजामुद्धृतं शल्यमन्तः ।
वाचालं नूपुरं नो जगदजनि जयं शंसदंशेन पार्ष्णे-
र्मुष्णन्त्यासून्सुरारेः समरभुवि यया पार्वती पातु सा वः ॥ १३॥
नि(ति)र्यन्नानास्त्रशस्त्रावलि वलति बलं केवलं दानवानां
द्राङ् नीते दीर्घनिद्रां द्विषति न महिषीत्युच्यसे प्रायशोऽद्य ।
अस्त्रीसम्भाव्यवीर्या त्वमसि खलु मया नैवमाकारणीया
कात्यायन्यात्तकेलाविति हसति हरे ह्रीमती हन्त्वरीन्वः ॥ १४॥
जाता किं ते हरे भीर्भवति महिषतो भीरवश्यं हरीणा-
मद्येन्दोर्द्वौ कलङ्कौ त्यजति पतिरपां धैर्यमालोक्य चन्द्रम् ।
वायो कम्प्यस्त्वयान्यो नय यम महिषादात्मयुग्यं ययारौ
पिष्टे नष्टं जहास द्युजनमिति जया सास्तु देवी श्रिये वः ॥ १५॥
शूलप्रोतादुपात्तप्लुतमहि महिषादुत्पतन्त्या स्रवन्त्या
वर्त्मन्यारज्यमाने सपदि मखभुजां जातसन्ध्याप्रमोहः ।
नृत्यन्हासेन मत्वा विजयमहमहं मानयामीतिवादी
यामाश्लिष्य प्रनृत्तः पुनरपि पुरभित्पार्वती पातु सा वः ॥ १६॥
नाकौकोनायकाद्यैर्द्युवसतिभिरसिश्यामधामा धरित्रीं
रुन्धन्वर्धिष्णुविन्ध्याचलचकितमनोवृत्तिभिर्वीक्षितो यः ।
पादोत्पिष्टः स यस्या महिषसुररिपुर्नूपुरान्तावलम्बी
लेभे लोलेन्द्रनीलोपलशकलतुलां स्तादुमा सा श्रिये वः ॥ १७॥
दुर्वारस्य द्युधाम्नां महिषितवपुषो विद्विषः पातु युष्मा-
न्पार्वत्या प्रेतपालस्वपुरुषपरुषः प्रेषितोऽसौ पृषत्कः ।
यः कृत्वा लक्ष्यभेदं हृतभुवनभयो गां विभिद्य प्रविष्टः
पातालं पक्षपालीपवनकृतपतत्तार्क्ष्यशङ्काकुलाहिः ॥ १८॥
वज्रं विन्यस्य हारे हरिकरगलितं कण्ठसूत्रे च चक्रं
केशान्बद्ध्वाब्धिपाशैर्धृतधनदगदा प्राक्प्रलीनान्विहस्य ।
देवानुत्सारणोत्का किल महिषहतौ मीलतो ह्रेपयन्ती
ह्रीमत्या हैमवत्या विमतिविहतये तर्जिता स्ताज्जया वः ॥ १९॥
खड्गे पानीयमाह्लादयति हि महिषं पक्षपाती पृषत्कः
शूलेनेशो यशोभाग्भवति परिलघुः स्याद्वधार्हेऽपि दण्डः ।
हित्वा हेतीरितीवाभिहतिबहलितप्राक्तनापाटलिम्ना
पार्ष्ण्यैव प्रोषितासुं सुररिपुमवतात्कुर्वती पार्वती वः ॥ २०॥
कृत्वेदृक्कर्म लज्जाजननमनशने शक्र मासून्विहासीः-
वित्ते(अर्थे)श स्थाणुकण्ठे जहि गदमगदस्यायमेवोपयोगः ।
जातश्चक्रिन्विचक्रो दितिज इति सुरांस्त्यक्तहेतीन्ब्रुवन्त्या
व्रीडां(लज्जां)व्यापादितारिर्जयति विजयया नीयमाना भवानी ॥ २१॥
देयाद्वो वाञ्छितानि च्छलमयमहिषोत्पेषरो(दो)षानुषङ्गा-
न्नीतः पातालकुक्षिं हृतभुवन(कृतपरम)भयो भद्रकाल्याः स पादः ।
यः प्रादक्षिण्यकाङ्क्षावलयितवपुषा वन्द्यमानो मुहूर्तं
शेषेणेवेन्दुकान्तोपलरचितमहानूपुराभोगलक्ष्मीः ॥ २२॥
शूलं तूलं नु गाढं प्रहर हर हृषीकेश केशोऽपि वक्र-
श्चक्रेणाकारि किं मे पविरवति नहि त्वाष्ट्रशत्रो द्युराष्ट्रम् ।
पाशाः केशाब्जनालान्यनल न लभसे भातुमित्यात्तदर्पं
जल्पन्देवान्दिवौकोरिपुरवधि यया सास्तु शान्त्यै शिवा (पार्वती पातु सा)वः ॥ २३॥
शार्ङ्गिन्बाणं विमुञ्च भ्रमसि बलिरसौ संयतः केन बाणो
गोत्रारे हन्म्यहं ते रिपुमम(सु)ररिपुस्त्वेष गोत्रस्य शत्रुः ।
दैत्या व्यापाद्यतां द्रागज इव महिषो हन्यते मन्महेऽद्ये-
त्युत्प्रास्योमा पुरस्तादनु दनुजतनुं मृद्गती त्रायतां वः ॥ २४॥
स्पर्धावर्धितविन्ध्यदुर्भरभरव्यस्ताद्विहायस्तलं
हस्तादुत्पतिता प्रसादयतु वः कृत्यानि कात्यायनी ।
यां शूलामिव देवदारुघटितां स्कन्धेन मोहान्धधी-
र्वध्योद्देशमशेषबान्धवकुलध्वंसाय कंसोऽनयत् ॥ २५॥
तूर्णं तो(रो)षात्तुराषाट्प्रभृतिषु शमिते शात्रवे स्तोत्रकृत्सु
क्लान्तेवोपेत्य पत्युस्ततभुजयुगलस्यालमालम्बनाय ।
देहार्धे गेहबुद्धिं प्रतिविहितवती लज्जयालीय काली
कृच्छ्रं वोऽनिच्छयैवापतितघनतराश्लेषसौख्या विहन्तु ॥ २६॥
आस्तां मुग्धेऽर्धचन्द्रः क्षिप सुरसरितं या सपत्नी भवत्याः
क्रीडा द्वाभ्यां विमुञ्चापरमलममुनैकेन मे पाशकेन ।
शूलं प्रागेव लग्नं शिरसि यदबला युध्यसेऽव्याद्विदग्धं
सोत्प्रासालापपातैरिति दनुजमुमा निर्दहन्ती दृशा वः ॥ २७॥
वक्राणां विक्लवः किं वहसि बत रुचं स्कन्द षण्णां विषण्णा-
मन्याः षण्मातरस्ते भव भव सकलस्त्वं शरीरार्धलब्ध्या ।
जिह्मां हन्म्यद्य कालीमिति सममसुभिः कण्ठतो निर्गता गी-
र्गीर्वाणारेर्यये(दृ)च्छामृदुपदमृदितस्याद्रिजा सावताद्वः ॥ २८॥
गाहस्व व्योममार्गं गतमहिषभयैर्ब्रध्न विश्रब्धमश्वैः
शृङ्गाभ्यां विश्वकर्मन्घटयसि न नवं शार्ङ्गिणः शार्ङ्गमन्यत् ।
ऐभी त्वङ्गिष्ठुरेयं बिभृहि मृदुमिमामीश्वरेत्यात्तहासा
गौरी वोऽव्यात्क्षतारिः स्वचरणगरिमग्रस्तगीर्वाणगर्वा ॥ २९॥
क्षिप्तो बाणः कृतस्ते त्रिकविनतिततो निर्वलिर्मध्यदेशः
प्रह्लादो नूपुरस्य क्षतरिपुशिरसः पादपातैर्दिशोऽगात् ।
सङ्ग्रामे सन्नताङ्गि (सन्तता वो)व्यथयसि महिषं नैकमन्यानपि त्वं
ये युध्य(विद्य)न्तेऽत्र नैवेत्यवतु पतिपरीहासहृष्टा शिवा वः (तुष्टा भवानी) ॥ ३०॥
मेरौ मे रौद्रश्रृङ्गक्षतवपुषि रुषो नैव नीता नदीनां
भर्तारो रिक्ततां यत्तदपि हितमभून्निःसपत्नोऽत्र कोऽपि ।
एतन्नो मृष्यते यन्महिष कलुषिता स्वर्धुनी मूर्ध्नि मान्या
शम्भोर्भिन्द्याद्धसन्ती पतिमिति शमितारातिरीतीरुमा वः ॥ ३१॥
सद्यः साधितसाध्यमुद्धृतवती शूलं शिवा पातु वः
पाद(प्रोत)प्रान्तविषक्त एव महिषाकारे सुरद्वेषिणि ।
दिष्ट्या देव वृषध्वजो यदि भवानेषापि नः स्वामिनी
सञ्जाता महिषध्वजेति जयया केलौ कृतेऽर्धस्मिता ॥ ३२॥
विद्राणेन्द्राणि किं त्वं द्रविणददयिते पश्य सङ्ख्यं स्वसख्याः
स्वाहे स्वस्था स्वभर्तर्यमृतभु(सृ)जि मुधा रोहिणी रोदितीय ।
लक्ष्मि श्रीवत्सलक्ष्मोरसि वससि पुरेत्यार्तमाश्वासयन्त्यां
स्वर्गस्त्रैणं जयायां जयति हतरिपोर्ह्रेपितं हैमवत्या ॥ ३३॥
निर्वाणः किं त्वमेको रणशिरसि शिखिञ्शार्ङ्गधन्वापि विध्यं-
स्तत्ते धैर्यं क्व यातं जहिहि जलपते दीनतां त्वं न दीनः ।
शक्तो नो शत्रुभङ्गे भयपिशुन सुनासीर नासीरधूलि-
र्धिग्यासि क्वेति जल्पन्रिपुरवधि यया पार्वती पातु सा वः ॥ ३४॥
नन्दिन्नानन्ददो मे तव मुरजमृदुः सम्प्रहारे प्रहारः
किं दन्ते रोम्णि रुग्णे व्रजसि गजमुख त्वं वशीभूत एव ।
निघ्नन्निघ्नन्निदानीं द्युजनमिह महाकाल एकोऽस्मि नान्यः
कन्याद्रेर्दैत्यमित्थं प्रमथपरिभवे मृद्गती त्रायतां वः ॥ ३५॥
वज्रं मज्ञो मरुत्वानरि हरिरुरसः शूलमीशः शिरस्तो
दण्डं तुण्डात्कृतान्तस्त्वरितगतिगदामस्थितोऽर्थाधिनाथः ।
प्रापन्यत्पादपिष्टे द्विषि महिषवपुष्यङ्गलग्नानि भूयो-
ऽप्यायूंषीवायुधानि द्युवसतय इति स्तादुमा सा श्रिये वः ॥ ३६॥
दृष्टावासक्तदृष्टिः (कृतमखविकृतिः)प्रथममिव तथा सम्मुखीनाभिमुख्ये
स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः ।
उद्युक्ता नर्मकर्मण्यवतु पशुपतौ (पशुपतेः)पूर्ववत्पार्वती वः
कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥ ३७॥
दैत्यो दोर्दर्पशाली नहि महिषवपुः कल्पनीयाभ्युपायो
वायो वारीश विष्णो वृषगमन वृषन्किं (बृहत्)विषादो वृथैव ।
बध्नीत ब्रध्नमिश्राः कवचमचकिताश्चित्रभानो दहारी-
नेवं देवाञ्जयोक्ते जयति हतरिपोर्ह्रेपितं हैमवत्याः
(नेवं देवाञ्जयोक्ते जयति हतरिपुर्ह्रेपितस्वर्निकाया) ॥ ३८॥
आ व्योमव्यापिसीम्नां वनमतिगहनं गाहमानो भुजाना-
मर्चिर्मोक्षेण मूर्च्छन्दवदहनरुचां लोचनानां त्रयस्य (त्रयेण) ।
यस्या निर्मज्जमज्जच्चरणभरनतो गां विभिद्य प्रविष्टः
पातालं पङ्कपातोन्मुख इव महिषः स्तादुमा सा श्रिये वः ॥ ३९॥
नीते निर्व्याजदीर्घां मघवति मघवद्वज्रलज्जानिदाने
निद्रां द्रागेव देवद्विषि मुषितरुषः(भियः)संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया-(शोणितस्य)
स्त्रायन्तां(रक्षन्तुत्वां)वस्त्रिशूलक्षतकुहरभुवो लोहिताम्भः समुद्राः ॥ ४०॥
काली कल्पान्तकालाकुलमिव सकलं लोकमालोक्य पूर्वं
पश्चाच्छ्लिष्टे विषाणे विदितदितिसुता लोहिता मत्सरेण ।
पादोत्पिष्टे परासौ निपतति महिषे प्राक्स्वभावेन गौरी
गौरी वः पातु पत्युः प्रतिनयनमि(इ)वाविष्कृतान्योन्यरूपा(भावा) ॥ ४१॥
गम्यं नाग्नेर्न (जितेन्दुं)चेन्दोः सपदि दिनकृतां द्वादशानामसह्यं(शक्यं)
शक्रस्याक्ष्णां सहस्रं सह सुरसदसा सादयन्तं प्रसह्य ।
उत्पातोग्रान्धकारागममिव महिषं निघ्नती शर्म दिश्या-
द्देवी वो वामपादाम्बुरुहनखमयैः पञ्चभिश्चन्द्रमोभिः ॥ ४२॥
दत्त्वा स्थूलान्त्रमालावलिविघसहसद्धस्मरप्रेतकान्तं
कात्यायन्यात्मनैव त्रिदशरिपुमहादैत्यदेहोपहारम् ।
विश्रान्त्यै पातु युष्मान्क्षणमुपरि धृ(कृ)तं केसरिस्कन्धभित्ते-
र्बिभ्रत्तत्केसरालीमलिमुखररणन्नूपुरं पादपद्मम् ॥ ४३॥
कोपेनेवारुणत्वं दधदधिकतरालक्ष्यलाक्षारसश्रीः
श्लिष्यच्छृङ्गाग्रकोणक्वणितमणितुलाकोटिहुङ्कारगर्भः ।
प्रत्यासन्नात्ममृत्युप्रतिभयमसुरैरीक्षितो हन्त्वरीन्वः
पादो देव्याः कृतान्तोऽपर इव महिषस्योपरिष्टान्निविष्टः ॥ ४४॥
आहन्तुं(घातं)नीयमाना भरविधुरभुजस्रंसमानोभयांसं
कंसेनैनांसि सा वो हरतु हरियशोरक्षणाय क्षमापि ।
प्राक्प्राणानस्य नास्यद्गगनमुदपतद्गोचरं या शिलायाः
सम्प्राप्यागामिविन्ध्याचलशिखरशिलावासयोगोद्यतेव ॥ ४५॥
साम्ना नाम्नाययोनेर्धृतिमकृत हरेर्नापि चक्रेण भेदा-
त्सेन्द्रस्यैरावणस्याप्युपरि कलुषितः (पुलकितः)केवलं दानवृष्ट्या ।
दान्तो दण्डेन मृत्योर्न च विफलयथोक्ताभ्युपायो हतोऽरि-
र्येनोपायः स पादः सुखयतु भवतः (नदतु भवदघं)पञ्चमश्चण्डिकायाः ॥ ४६॥
भर्ता कर्ता त्रिलोक्यास्त्रिपुरवधकृती पश्यति त्र्यक्ष एष
क्व स्त्री क्वायोधनेच्छा न तु सदृशमिदं प्रस्तुतं किं मयेति ।
मत्वा सव्याजसव्येतरचरणचला(नखा)ङ्गुष्ठकोणाभिमृष्टं(कोणेन पिष्ट्वा)
सद्यो या लज्जितेवासुरपतिमवधीत्पार्वती पातु सा वः ॥ ४७॥
वृद्धोक्षो न क्षमस्ते भवतु भव भवद्वाह एषोऽधुनेति
क्षिप्तः पादेन देवं प्रति झटिति यया केलिकान्तं विहस्य ।
दन्तज्योत्स्नावितानैर(अलभत)तनुभिरतनुर्न्यक्कृतार्धेन्दुभाभि-
र्गौरो गौरेव जातः क्षणमिव महिषः सावतादम्बिका वः ॥ ४८॥
प्राक्कामं दहता कृतः परिभवो येन त्रिसन्ध्यानतैः(तेः)
सेर्ष्या वोऽवतु चण्डिका चरणयोः स्वं पातयन्ती पतिम् ।
कुर्वत्याभ्यधिकं कृते प्रतिकृतं मुक्तेन मौलौ मुहु-
र्बाष्पेणाहितकज्जलेन लिखितं स्वं नाम (नामेव)चन्द्रे यया ॥ ४९॥
तुङ्गां(ङ्गाः)श्रृङ्गाग्रभूमिं(मिः)श्रितवति मरुतां प्रे(प्रो)तकाये निकाये
कुञ्जौत्सुक्याद्विशत्सु श्रुतिकुहरपुटं द्राक्ककुप्कुञ्जरेषु ।
स्मित्वा वः संहृतासोर्दशनरुचिकृताकाण्डकैलासभासः
पायात्पृष्ठाधिरूढे स्मरमुषि महिषस्योच्चहासेव देवी ॥ ५०॥
कृत्वा पातालपङ्के(ङ्कैः)क्षयरयमिलितैका(र)र्णवेच्छावगाहं
दाहान्नेत्रत्रयाग्नेर्विलयनविगलच्छृङ्गशून्योत्तमाङ्गः ।
क्रिडाक्रोडाभिशङ्कां विदधदपिहितव्योमसीमा महिम्ना
वीक्ष्य क्षुण्णो ययारिस्तृणमिव महिषः सावतादम्बिका(कालिका)वः ॥ ५१॥
शूले शैलाविकम्पं न निमिषितमिषौ पट्टिशे साट्टहासं
प्रासे सोत्प्रासमव्याकुलमपि(इव)कुलिशे जातशङ्कं न शङ्कौ ।
चक्रेऽवक्रं(क्त्रं)कृपाणे(णं)न कृपणमसुरारातिभिः पात्यमाने
दैत्यं पादेन देवी महिषितवपुषं पिंषती वः पुनातु ॥ ५२॥
चक्रे चक्रस्य नास्त्र्या न च खलु परशोर्न क्षुरप्रस्य नासे-
र्यद्वक्त्रं कैतवाविष्कृतमहिषतनौ विद्विषत्याजिभाजि ।
प्रोतात्प्रासेन मूर्ध्नः सघृणमभिमुखायातया कालरात्र्या
कल्याणान्याननाब्जं सृजतु तदसृजो धारया वक्रितं वः ॥ ५३॥
हस्तादुत्पत्य यान्त्या गगनमगणिताधैर्यवीर्यावलेपं
वैलक्ष्येणेव पाण्डुद्युतिमदितिसुतारातिमापादयन्त्याः ।
दर्पानल्पाट्टहास(सा)द्विगुणतरसिताः सप्तलोकीजनन्या-
स्तर्जन्या जन्यदूतो नखरुचिततय(ररुच)स्तर्जयन्त्या जयन्ति ॥ ५४॥
प्रालेयाचलपल्वलैकबिसिनी सार्यास्तु वः श्रेयसे
यस्याः पादसरोजसीम्नि महिषक्षोभात्क्षणं विद्रुताः ।
निष्पिष्टे पतितास्त्रिविष्टपरिपौ गीत्युत्सवोल्लासिनो
लोकाः सप्त सपक्षपातमरुतो भान्ति स्म भृङ्गा इव ॥ ५५॥
आप्राप्ये(प्ते)षुरुदासितासिरशनेरारात्कुतः शङ्कत-
श्चक्रव्युक्रमकृत्परोक्षपरशुः शूलेन शून्यो यया ।
मृत्युर्दैत्यपतेः कृतः सुसदृशः पादाङ्गुलीपर्वतः(णाः)
पार्वत्या प्रतिपाल्यतां त्रिभुवनं निःशल्यकल्यं तया ॥ ५६॥
नष्टानष्ष्टौ गजेन्द्रानवत न वसवः किं दिशो द्राग्गृहीताः
शार्ङ्गिन्सङ्ग्रामयुक्त्या लघुरसि गमितः साधु तार्क्ष्येण तैक्ष्ण्यम् ।
उत्खाता नेत्रपक्तिर्न तव समरतः(सुरपते)पश्य नश्यद्बलं स्वं
स्वर्नाथेत्यात्तदर्पं व्यसुमसुरमुमा कुर्वती त्रायतां वः ॥ ५७॥
श्रुत्वा शत्रुं दुहित्रा निहतमतिजडोऽप्यागतोऽह्नाय हर्षा-
दाश्लिष्यञ्छैलकल्पं महिषमवनिभृद्बान्धवो विन्ध्यबुद्ध्या ।
यस्याः श्वेतीकृतेऽस्मिन्स्मितदशनरुचा तुल्यरूपो हिमाद्रि-
र्द्राग्द्राघीयानिवासीदवतमस(तनुजनु)निरासाय सा स्तादुमा वः ॥ ५८॥
क्षिप्तोऽयं मन्दराद्रिः पुनरपि भवता वेष्ट्यतां वासुकेऽब्धौ(सौ)
प्रीयस्वानेन(प्रीतोऽनेनैव)किं ते बिसतनुतनुभिर्भक्षितस्तार्क्ष्य नागैः ।
अष्टाभिर्दिग्गजेन्द्रः सह न हरिकरी कर्षतीमं हते वो
ह्रीमत्या हैमवत्यास्त्रिदश(दिव)रिपुप(ह)तौ पान्त्विति व्याहृतानि ॥ ५९॥
एष प्लोष्टा पुराणां त्रयमसुहृदुरःपाटनोऽयं नृसिंहो
हन्ता त्वाष्ट्रं द्युराष्ट्राधिप इति विविधान्युत्सवेच्छाहृतानाम् ।
विद्राणानां विमर्दे दितितनयमये नाकलोकेश्वराणा-
मश्रद्धेयानि कर्माण्यवतु विदधती पार्वती वो हतारिः ॥ ६०॥
शत्रौ शातत्रिशूलक्षतवपुषि रुषा प्रे(ग्रो)षिते प्रेतकाष्ठां
काली कीलालकुल्यात्रयमधिकरयं(तरं)वीक्ष्य विश्वासितद्यौः ।
त्रिस्रोतास्त्र्यम्बकेयं वहति तव भृशं पश्य रक्ता विशेषा-
न्नो मूर्ध्ना धार्यते किं हसितपतिरिति प्रीतये कल्पतां वः ॥ ६९॥
शृङ्गे पश्यो(यस्य)र्ध्वदृष्ट्याधिकतरमतनुः सन्न पुष्पायुधोऽस्मि
व्यालासङ्गेऽपि नित्यं न भवति भवतो भीर्नयज्ञोऽस्मि येन ।
त्वं मुञ्चोच्चैः पिनाकिन्पुनरपि विशिखं दानवानां पुरोऽहं
पायात्सोत्प्रासमेवं हसितहरमुमा मृद्गती दानवं वः ॥ ६२॥
नन्दीशोत्सार्यमाणापसृतिसमनमन्नाकिलोकं(नृत्यं)नुवत्या
नप्तुर्हस्तेन हस्तं तदनुगतगतेः षण्मुखस्यावलम्ब्य ।
जामातुर्मातृमध्योपगमपरिहृते दर्शने शर्म दिश्यात्-
नेदीयच्चुम्ब्यमाना (देवी सन्तुष्यमाणा)महिषवधमहे मेनया मूर्ध्न्युमा वः ॥ ६३॥
भक्त्या भृग्वत्रिमुख्यैर्मुनिभिरभिनुता बिभ्रती नैव गर्वं
शर्वाणी शर्मणे वः प्रशमितसकलोपप्लवा सा सदास्तु ।
या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशप्रासपाशत्रिशूलं
(या पार्ष्णिक्षुण्णशत्रुर्विगलितकुलिशापास्तशस्त्रीपिनाकं)
नाकौकोलोकमेव स्वमपि भुजवनं संयुगेऽवस्त्वमंस्त ॥ ६४॥
चक्रं शौरेः प्रतीपं प्रतिहतमगम(पत)त्प्राग्द्युधाम्नां तु पश्चा-
दापच्चापं बलारेर्न परमगुणतां पूस्त्रयप्लोषिणोऽपि ।
शक्त्यालं मां विजेतुं न जगदपि शिशौ षण्मुखे का कथेति
न्यक्कुर्वन्नाकिलोकं रिपुरवधि यया सावतात्पार्वती वः ॥ ६५॥
विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्त्रे महिषमतिरुषं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ ६६॥
भूषां भूयस्तवाद्य द्विगुणतरमहं दातुमेवैष लग्नो
भग्ने दैत्येन दर्पान्महिषितवपुषा किं विषाणे विषण्णः ।
इत्युक्त्वा पातु मातुर्महिषवधमहे कुञ्जरेन्द्राननस्य
न्यस्यन्नास्ये गुहो वः स्मितसितरुचिनी द्वेषिणो द्वे विषाणे ॥ ६७॥
विश्राम्यन्ति श्रमार्ता इव तपनभृतः सप्तयः सप्त यस्मि-
न्सुप्ताः सप्तापि लोकाः स्थितिमुषि महिषे यामिनीधाम्नि यत्र ।
धाराणां रौधिरीणामरुणिमनि नभःसान्द्रसन्ध्यां दधान-
स्तस्य ध्वंसात्सुताद्रेरपरदिनपतिः पातु वः पादपातैः ॥ ६८॥
देवारेर्दानिवारेर्द्रुतमिह महिषच्छद्मनः पद्मसद्मा
विद्रातीत्यत्र चित्रं तव किमिति भवन्नाभिजातो यतः सः ।
नाभीतोऽभूत्स्वयम्भूरिव समरभुवि त्वं तु यद्विस्मितास्मी(मां)-
त्यु(स्त्य)क्त्वा तद्विस्मितं वः स्मररिपुमहिषीविक्रमेऽव्याज्जयायाः(वः) ॥ ६९॥
निस्त्रिंशेनोचितं ते विशसनमुरसश्चण्डि कर्मास्य घोरं
व्रीडामस्योपरि त्वं कुरु दृढहृदये(यं)मुञ्च शस्त्राण्यमूनि ।
इत्थं दैत्यैः सदैन्यं समदमपि सुरैस्तुल्यमेवोच्यमाना
रुद्राणी दारुणं वो द्रवयतु दुरितं दानवं दारयन्ती ॥ ७०॥
चक्षुर्दिक्षु क्षिपन्त्याश्चलितकमलिनीचारुकोषाभिताम्रं
मन्द्रध्वानानुयातं झटिति वलयिनो मुक्तबाणस्य पाणेः ।
चण्ड्याः सव्यापसव्यं सुररिपुषु शरान्प्रेरयन्त्या जयन्ति
त्रुट्यन्तः पीनभागे स्तनवलनभरात्सन्धयः कञ्चुकस्य ॥ ७१॥
बाहूत्क्षेपसमुल्लसत्कुचतटं प्रान्तस्फुटत्कञ्चुकं
गम्भीरोदरनाभिमण्डलगलत्काञ्चीधृतार्धांशुकम् ।
पार्वत्या (रुद्राण्याः)महिषासुरव्यतिकरे व्यायाम(शृङ्गार)रम्यं वपुः
पर्यस्तावधिबन्धबन्धुरलसत्केशोच्चयं पातु वः ॥ ७२॥
चक्रं चक्रायुधस्य क्वणति निपतितं रोमणि ग्रावणीव
स्थाणोर्बाणश्च लेभे प्रतिहतिमुरुणा चर्मणा वर्मणेव ।
यस्येति क्रोधगर्भं हसितहरिहरा तस्य गीर्वाणशत्रोः
पायात्पादेन मृत्युं महिषतनुभृतः कुर्वती पार्वती वः ॥ ७३॥
कृत्वा वक्त्रेन्दुबिम्बं चलदलकलसद्भ्रूलताचापभङ्गं
क्षोभ(कोपात्)व्यालोलतारं स्फुरदरुणरुचिस्फारपर्यन्तचक्षुः ।
सन्ध्यासेवापराद्धं भवमिव पुरतो वामपादाम्बुजेन
क्षिप्रं दैत्यं क्षिपन्ती महिषितवपुषं पार्वती वः पुनातु ॥ ७४॥
गङ्गासम्पर्कदुष्यत्कमलवनसमुद्धूतधूलीविचित्रो
वाञ्छासम्पूर्णभावादधिकतररसं तूर्णमायान्समीपम् ।
क्षिप्तः पादेन दूरं वृषग इव यया वामपादाभिलाषी
देवारिः कैतवाविष्कृतमहिषवपुः सावतादम्बिका वः ॥ ७५॥
भद्रे भ्रूचापमेतन्नमयसि नु वृथा (शमय मम (शमयसि तु)रुषा)विस्फुरन्नेत्रबाणं
नाहं केलौ रहस्ये प्रतियुवतिकृतख्यातिदोषः पिनाकी ।
देवी सोत्प्रासमेवं धृतमहिषतनुं (महिषितवपुषं)दृप्तमन्तःसकोपं
देवारिं पातुयुष्मानतिपरुषपदा निघ्नती भद्रकाली ॥ ७६॥
अन्योन्यासङ्गगाढव्यतिकरदलितभ्रष्टकापालमालां(लं)
स्वां भोः (स्वाङ्गं)सन्त्यज्य (विनयस्य)शम्भौ(भो)खुरपुटदलितप्रोल्लसद्धूलिपाण्डुः ।
भद्रे क्री(क्रो)डाभिमर्दी तव सविधमहं कामतः प्राप्त ईशो-
ऽत्रैवं सोत्प्रासमव्यान्महिषसुररिपुं निघ्नती पार्वती वः ॥ ७७॥
ज्वालाधाराकरालं ध्व(स्व)नितकृतभयं यं प्रभेत्तुं (यत्र कर्तुं)न शक्तं
चक्रं विष्णोर्दृढास्रि(श्रि)प्र(सृ)तिविहतरयं दैत्यमाला(या)विनाशि(लासि) ।
क्षुण्णस्तस्यस्थिसारो विबुधरिपुपतेः(विभोः)पादपातेन यस्या
रुद्राणी पातु सा वः प्रशमितसकलोपप्लवा(भुवनोपद्रवा)निर्विघातम् ॥ ७८॥
गाढावष्टम्भपादप्रबल(चुर)भरनमत्पूर्वकायोर्ध्वभागं
दैत्यं सञ्जा(निज्ञा)तशिक्षं जनमहिषमिव न्यक्कृ(प्राकृ)ताग्र्याङ्गभागम् ।
आरूढा शूलपाणिः कृतविबुधभयं(रूपं)हन्तुकामं सगर्वं
देयाद्वश्चन्तितानि द्रुतमहिषवधावाप्ततुष्टिर्भवानी ॥ ७९॥
ब्रह्मा(ह्मन्)योगैकतानो विरहभव(भवविरह)भयाद्धूर्जटिः स्त्री(स्वी)कृतात्मा
वक्षः शौरेर्विशालं प्रणयकृतपदा पद्मवासाधिशेते ।
युद्धक्ष्मामेवमेते विजहतु धिगिमं(मान्त्)यस्त्यजत्येष शक्रो (शत्रुः)
(युद्धक्ष्मामेवमेते विजहतु विदिशं द्राक्त्यजत्वेष शक्रः)
दृप्तं(ष्टं)दैत्येन्द्रमेवं सुखयतु समदा निघ्नती पार्वती वः ॥ ८०॥
एवं मुग्धे किलासीः करकमलरुचा(तया)मा मुहुः केशपाशं
सोऽन्यस्त्रीणां रतादौ कलहसमुचितो यः प्रिये दोष(कोप)लब्धे ।
वैदग्ध्यादेवमन्तः कलुषितवचनं दुष्टदेवारिनाथं
देवी वः पातु पार्ष्ण्या दृढतनुमसुभिर्मोचयन्ती भवानी ॥ ८१॥
बालोऽद्यापीशजन्मा समरमुडुपभृत्पांसुलीलाविलासी
(बालोऽद्यापीशजन्मा समरसुरपतिर्भस्मलीलाविलासी)
नागास्यः शातदन्तः स्वतनुकरमदाद्विह्वलः सोऽपि शान्तः ।
धिग्यासि क्वेति दु(दृ)ष्टं मु(मृ)दिततनुमुदं दानवं सस्फुरो(टो)क्तं
पायाद्वः शैलपुत्री महिषतनुभृतं निघ्नती वामपार्ष्ण्या ॥ ८२॥
मूर्ध्नः शूलं ममैतद्विफलमभिमुखं शङ्करोत्खातशूलं
सङ्ग्रामाद्दूरमेतद्धृ(मस्मत्स्थि)तमरि हरिणा मन्मनः कर्षतीव ।
गर्वादेवं क्षिपन्तं विबुधजनविभून्दैत्यसेनाधिनाथं
शर्वाणी पातु युष्मान्पदभरदलनात्प्राणतो दूरयन्ती ॥ ८३॥
भ्राम्यद्धामौर्वदा(द्भीमोरुदे)हक्षुभितजलचरव्यस्तवीचीन्सकम्पा-
न्कृत्वै(वा)वाशु(द्राग)प्रसन्नान्पुनरपि जलधीन्मन्दरक्षोभभाजः ।
दर्पादायान्तमेव श्रुतिपुटपरुषं नादमभ्युद्गिरन्तं
कन्याद्रेः पातु युष्मांश्चरणभरनतं पिंषती दैत्यनाथम् ॥ ८४॥
मैनामिन्दो(मैनां मुग्धै)ऽभिनैषीः श्रितपृथुशिखरां शृङ्गयुग्मस्य पार्श्वं(त्र्यं)
युद्धक्ष्मायां तनुं स्वां रतिमदविलसतत्स्त्रीकटाक्षक्षमेयम् ।
भानो किं वीक्षितेन क्षितिमहिषतनौ त्वं हि संन्यस्तपादो
दर्पादेवं हसन्तं व्यसुमसुरसुमा कुर्वती त्रायतां वः ॥ ८५॥
सङ्ग्रामात्त्रस्तमेतं त्यज निजमहिषं लोकजीवेश मृत्यो
स्यातुं शूला(शस्त्रा)ग्रभूमौ गतभयमजयं मत्तमेतं गृहाण ।
दैत्ये पादेन यस्याश्छालमहिषतनौ शायि(प्रापि)ते दीर्घनिद्रां
भावोत्पत्तौ(द्राग्दुर्मेदे)जयैवं हसति(हसित)पितृपतिं साम्बिका वः पुनातु ॥ ८६॥
श्रुत्वैतत्क(ईदृक्क्)र्म भावादनिभृतरभसं स्थाणुनाभ्येत्य (शम्भुनागत्य)दूरा-
च्छ्लिष्टा बाहुप्रसारं (बाहूपसादं)श्वसितभरचलत्तारका धूतहस्ता (कोद्धूतहस्ता) ।
दैत्ये गीर्वाणशत्रौ (सन्तापितारौ)भुवनसुखमुषि प्रे(प्रो)षिते प्रेतकाष्ठां
गौरी वोऽव्यान्मिलत्सु(त्स्वरूपं)त्रिदिविषु तमलं लज्जया वारयन्ती ॥ ८७॥
भद्रे स्थाणुस्तवाङ्ध्रिः क्षतमहिषरणव्याजकण्डूतिरेष(व)
त्रैलोक्यक्षेमदाता(नात्)भुवनभयहरः शङ्करोऽतो हरोऽपि ।
देवानां नायिके(क)त्वद्गुणकृतवचनोऽतो महादेव एष
(देवैर्ब्रह्मादिभिस्त्वद्गुणकृतवचनोऽतो महादेव एष)
केलावेवं स्मरारिर्हसति रिपुवधे यां शिवा पातु सा वः ॥ ८८
केलावेवं स्मरारौ वदति रिपुवधे पार्वती वः पुनातु) ॥ ८८॥
खड्गः कृष्णस्य नूनं रहितगुणगतिर्नन्दकाख्यां प्रयातः
शत्रोर्भङ्गेन वामस्तव मुदितसुरो नन्दकस्त्वेष पादः ।
भावादेवं जयायां (गतानां)नुतिकृति नितरां सन्निधौ देवतानां
सव्रीडा भद्रकाली हतरिपुरवताद्वीक्षिता शम्भुना वः ॥ ८९॥
एकेनैवोद्गमे(ते)न प्रविलयमसुरं(जयमपरं)प्रापयामीति पादो
यस्याः कान्त्या नखानां हसति सुररिपुं (सह विभुधरिपुं)हन्तुमुद्यन्सगर्वम् ।
विष्णोस्रिः पादपद्मं वलिनियमविधावुद्धृ(द्ग)तं)कैतवेन
क्षिप्रं(प्तं)सा वो रिपूणां वितरतु विपदं पार्वती क्षुण्णशत्रुः ॥ ९०॥
खड्गं खट्वाङ्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना
(गङ्गा मौलौ विलग्नायुवतिरिति विभो ते शरीरार्धलीना)
(खट्वाङ्गं खड्गयुक्तं युवतिरपि विभो ते शरीरार्धलीना)
हास्यं प्रागेव लब्धं(ग्नं)सुरजनसमितौ दुष्कृतेन त्वयैवम् ।
जाता भूयोऽपि लज्जा रणत इयमलं हास्यता शूलभर्त-
र्दर्पादेवं हसन्तं भवमसुरमुमा निन्नती त्रायतां वः ॥ ९१॥
स्थाणौ कण्डूविनोदो(दात्)नुदति दिनकृतस्तेजसा तापितं नो(नः)
तोयस्थाने न चाप्तं सुखमधिकतरं गाहनेनाङ्गजातम् ।
शून्यायां युद्धभूमौ वदति हि धिगिदं माहिषं रूपमेकं
रुद्राण्यारोपितो वः सुखयतु महिषे प्राणहृत्पादपद्मः ॥ ९२॥
पिंषञ्छैलेन्द्रकल्पं महिषमतिगुरुर्भग्न(र्शीर्ण)गीर्वाणगर्वं
शम्भोर्जातो लघीयाञ्छ्रमरहितवपुर्दूरमभ्यूह्यपातः ।
वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारोऽङ्घ्रिपद्मो
यस्या दुर्वार एवं विविधगुणगतिः सावतादम्बिका वः ॥ ९३
(वामो देवारिपृष्ठे कनकगिरिसदां क्षेमकारो हि यस्याः
पादोऽतुल्यप्रभाव विविधगुणगतिः सावतादम्बिका वः) ॥ ९३॥
मार्गं शीतांशुभाजां सरभसमलधुं हन्तुमुद्यन्सुरारिं
नेत्रैरुद्वृत्ततारैः सचकितम(सु)मरैरुन्मुखैर्वीक्ष्यमाणः ।
यस्या वामो महीयान्मुदितसुरमनाः प्राणहृत्पादपद्मः
प्राप्तस्तन्मूर्धसीमां सुखयतु भवतः सा भवानी हतारिः ॥ ९४॥
मूर्धन्यापातभग्ने मिष(सुर)महिषतनुः (मिषतनुमहिषः)सन्ननिःशब्दकण्ठः
शोणाब्जाताम्रकान्ति(न्तिः)प्रततघनबृहन्म(लसन्म)ण्डले पादपद्मे ।
यस्या लेभे सुरारिर्मधुरस(पसु)निभृतद्वादशार्धाङ्घ्रिलीलां
शर्वाणी पातु सा वस्त्रिभुवनभयहृत्स्वगिभिः स्तूयमाना ॥ ९५
(शर्वाणी पातु सर्व त्रिभुवनभयहृत्स्वगिभिः स्तूयमाना) ॥ ९५॥
पादोत्क्षेपाद्व्रजद्भिर्नखकिरणशतैर्भूषितश्चन्द्रगौरै-
र्मूर्धाग्रे चापतद्भिश्चरणतलगतैरंशुभिः शोणशोभः (पद्मशोणः) ।
संन्यस्तालीनरत्नप्रविरचितकरैश्चर्चितः क्षिप्तकायै-
र्यस्या देवैः प्रणीतो हविरिव महिषः सावतादम्बिका वः ॥ ९६॥
क्वायं तीक्ष्णोग्रधाराशतनिशितवपुर्वज्ररूपः सुरारिः
पादश्चायं सरोजद्युतिरनति(मर)गुरुर्योषितः क्वेति देव्याः ।
ध्यायं(त्वा)ध्यायं(त्वा)स्तुतो यः सुररिपुमथने विस्मयावद्धचित्तैः
पार्वत्याः सोऽ(सा)वताद्वस्त्रिभुवनगुरुभिः सादरं वन्द्यमानः (वीक्ष्यमाण) ॥ ९७॥
वज्रित्वं वज्रपाणेर्दितितनय(दनुज)भिदश्चक्रिणश्चक्रकृत्यं
शूलित्वं शूलभर्तुः सुरकटक(समिति)विभोः शक्तिता षण्मुखस्य ।
यस्याः पादेन सर्वं कृतममररिपो(दितितनयभृत)र्बाधयैतत्सुराणां
रुद्राणी पातु सा वो दनुविफलयुधां स्वर्गिणां क्षेमकारी ॥ ९८॥
पङ्गुर्नेता हरीणामसमहरियुतः स्वन्दनश्चैकचक्रो
भानोः सामग्र्यपेतः कृत इति विधिना त्यक्तवैरः पतङ्गे ।
दर्पाद्भ्राम्यन्रणक्ष्मां प्रतिभटसमराश्लेषलुब्धः सुरारि-
र्यस्याः पादेन नीतः पितृपतिसदनं सावतादम्बिका वः ॥ ९९॥
युक्तं तावद्गजानां प्रतिदिशमय(गम)नं युद्धभूमेर्दिगीशां
हीयेताशागजत्वं सुभटरणकृतां(युधां)कर्मणा दारुणेन ।
यद्येष स्थाणुसंज्ञो भयचकितदृशा नश्यतीत्यद्भुतं त-
(या चैषां स्थाणुसंज्ञा भयचकितदृशां नश्यतीत्यद्भुतं त-)
द्दर्षादेवं सन्तं सुररिपुमवतान्निघ्नती पार्वती वः ॥ १००॥
स्रस्ताङ्गः सन्नचेष्टो भयहतवचनः सन्नदोर्दण्डशाखः
(यं दृष्ट्वा स्रस्तचेष्टः भयहतवचनः सन्नदोर्दण्डशाखः)
स्थाणुर्दृष्ट्वा (र्दैत्यं यमाजौ क्षणमिह(व)सरुपं(भयं)स्थाणुरेवोपजातः ।
(स्थाणुर्दैत्यं तमाजौ क्षणमिह(व)सरुपं(भयं)स्थाणुरेवोपजातः) ।
(स्थाणुर्दैत्यं यमाजौ क्षणमिह(व)सरुपं(भयं)स्थाणुरेवोपजातः) ।
(स्थाणुर्दृष्ट्वा सुरारिं क्षणमिह(व)सरुपं(भयं)स्थाणुरेवोपजातः) ।
तस्य ध्वंसात्सुरारेर्महितवपुषो लब्धमानावकाशः
पार्वत्या वामपादः शमयतु दुरितं दारुणं वः सदैव ॥
(पार्वत्या वामपादः शमयतु भवतां ध्वान्तमन्तर्हितार्कः) ॥ १०१॥
कुन्ते दन्तैर्निरुद्धे धनुषि विमुखितज्ये विषाणेन मू(शू)ला-
ल्लाङ्गूलेन प्रकोष्ठे वलयिनि पतिते तत्कृपाणे स्वपाणेः ।
शूले लोलाङ्घ्रिपातैर्ललितकरतलात्प्रच्युते दूरमुर्व्यां
सर्वाङ्गीणं लुलायं जयति चरणतश्चण्डिका चूर्णयन्ती ॥ १०२॥
इति महाकविश्रीबाणभट्टविरचितं चण्डीशतकं सम्पूर्णम् ।
Encoded and proofread by Ruma Dewan