चण्डीस्तुतिः
(श्यामारहस्ये)
अथ स्तुतिः तदुक्तं कुलचूडामणौ ।
भैरव उवाच ।
मच्चित्ते चर चण्डि ! चूर्णितदुराचारप्रचण्डासवे
स्वैरं दारय भूवि दुर्धरदवद्रोहोर्मिमर्मास्पदः ।
तेनायं निरुपद्रुतो निरुपमश्रीपादपद्माटवी-
प्रान्तानन्तवशान्तरे मम मनोहंसश्चिरं नन्दतु ॥ १॥
हित्वा चण्डि ! हिरण्यदारणपटुप्रोद्दामदन्ताङ्गुलिः
स्फालत्कल्पसुमेरुसादरसटाटोपं नृसिंहं सुराः ।
मातस्तत्पशुपाशपेशलपटुश्रीपाद संसेविनं
सेवन्ते करिवैरिणं किमरिभिर्भीतिर्भवत्सेविनाम् ॥ २॥
चण्डि ! त्वद्विषयान्तरक्षणपदं श्रोत्रान्तरं चोद्धतं
तत्तत्त्वं पुरुषप्रकृत्यनुगतं ब्रह्मादिभिर्गीयते ।
तस्माद्देवि ! समस्तदैवत सुधासारैकधामस्फुरत्
श्रीमत्पादसरोजचुम्बनपरं मामद्य सम्भावय ॥ ३॥
मन्निद्रा यदि वास्तु तत्कुलपथाचाराद्वरं मास्तु वा
कीर्त्तिः केशवकौशिकार्चनकरी नैवास्तु सत्सन्निधिः ।
मातर्ब्रह्महरिस्मरारिहुतभुग्दैत्यारिसेवापद-
श्रीमत्पादसरोजचिन्तनविधौ चित्तं सदैवास्तु नः ॥ ४॥
निर्दिष्टोऽस्मि यदि त्वदीयपदयुक्पूर्वापरीभावने
निर्दिष्टस्य तदा ममापि विरलं किंवास्तु सिद्धास्पदम् ।
तस्माद्देवि ! कृपाभवाञ्छितभवं श्रीपादपद्मद्वयं
मच्चित्ते क्षतसम्पदि प्रसरतु क्षेमङ्करि ! क्षम्यताम् ॥ ५॥
स्वात्मानं परिरभ्य भूतपतिरम्युन्मादमासादितः
स्वैरं जीवनरक्षणे स च कृतौ नैवाभविष्यत् प्रभुः ।
दैवाद्विच्युतचन्द्रचन्दनवनप्रागल्भगर्भस्रव-
न्माध्वीपूर्णभवत्पदैककमलामोदेन नास्वादितः ॥ ६॥
हा हा मातरनादिमोहजलधिव्याहारसिद्धाखिल-
ब्रह्मानन्दरसाभिषेकनिरसस्वान्तोदरैर्मादृशः ।
अस्माकं सुरवन्दनिर्भरमनस्तापाभिभूतिक्षम-
श्रीमद्भक्तिरसातिदुर्दिनपरीणाहः सदा सर्पतु ॥ ७॥
यत्पादस्फुरदंशजालजठराचण्डांशकोटिखलत्-
स्वान्तध्वान्तविसारिनिर्मलचिदानन्दत्रयं दैवतम् ।
स्वर्गं संसृजते स्थितिं वितनुते सृष्टिं पुनर्लुम्पते
प्रोद्भिन्नाञ्जननीलनीरजमहच्चित्ते तदेवास्तु नः ॥ ८॥
या शश्वन्महिषच्छलस्फुरमिलद्गर्भद्विधारस्फर-
द्भक्तान्तः प्रसरत्तमस्तमशिरो दैत्यं समालम्बते ।
सा दुर्गा भयदुर्गदुर्गतिहरा लम्बान्तरत्रासिनी
दृप्यद्दैवतवैरिमारणपटुर्ज्जीयाज्जयाह्लादिनी ॥ ९॥
नृत्यत्खेटकचामराञ्जनचरच्चक्राद्यखड्गावर-
स्फायच्छैलशिलीमुखोच्छलदनपाजिच्युतास्त्रायुधौ ।
वाञ्छावात-विसर्पिनार्त्तितशिरःसाटोपदुष्टासुर-
वुट्यत्खण्डविखण्डिताखिलशकुन्तक्षुत्पिपासाकुलैः ॥ १०॥
काञ्चीकल्पविरामकालकलितां तौव्रोरुसम्पादको-
न्माद्यन्माहिषतिर्य्यगायतशिरःशृङ्गान्तरालस्थले ।
वर्णैर्वर्णसुपत्रमध्यकलिते रक्षाश्रुतौ मातृभिः
सेव्ये चारुवराङ्गने रणमुदा चूर्णायमानां स्मरेत् ॥ ११॥
ऊर्द्ध्वाधःक्रमसव्यवामकरयोश्चक्रं दरं कर्त्तृका
खेटं वाणधनुस्त्रिशूलभयकृन्मुद्रां दधानां शिवाम् ।
श्यामां नीलघनोच्चकुन्तलचयप्रोन्नद्धजूटास्फल-
द्वीरास्फाललसत्करालवदनां घोराट्टहासोद्भटीम् ॥ १२॥
एवं ये भवदेवि ! मूर्त्तिमनघां ध्यायन्ति दुर्गादिभिः
शक्राद्यैरपि पूजितां परपुरक्षोभादिकं कुर्वते ।
राज्यं शत्रुजयः सदर्थधिषणा काव्यामृतं देशिकः
स्तम्भोच्चाटनमारणादिकृतिनां तेषां स्वयं जायते ॥ १३॥
स्तोत्रं ते चरणारविन्दयुगलध्यानावधानान्मया
मन्त्रोद्धारकुलोपचाररचितं गुप्तोपद्वेष्टा यदि ।
ये शृण्वन्ति पठन्ति देवि । सहसा श्रीमोक्षकामादय-
स्तेषां हस्तगता भवन्ति जगतां मातर्नमस्ते जयः ।
इति श्यामारहस्ये कुलचूडामण्युक्तं चण्डीस्तुतिः सम्पूर्णा ।
- ॥ श्यामारहस्यम् । त्रयोदशः परिच्छेदः ॥
- .. shyAmArahasyam . trayodashaH parichChedaH ..
Encoded and proofread by Ruma Dewan