अमृतानन्दयोगिविरचितः चिद्विलासस्तवः
स्वप्रकाशशिवमूर्तिरेकिका तद्विमर्शतनुरेकिका तयोः ।
सामरस्यवपुरिष्यते परा पादुका परशिवात्मनो गुरोः ॥ १॥
चित्रभानुशशिभानुपूर्वकत्रित्रिभेदनियतेषु वस्तुषु ।
तत्तदात्मकतया विमर्शनं तत्समष्टिगुरुपादुकाजपः ॥ २॥
तीर्थमद्वयसुधारसोदधेर्वारितं निजविमर्शवेलया ।
आणवादिमलमोचनोचितं स्नानमत्र विधिना निमज्जनम् ॥ ३॥
सा निशा सकललोकमोहनी वासरः स खलु सर्वबोधकः ।
सामरस्यमिह सन्धिरेतयोः श्रीपरैव ननु सान्ध्यदेवता ॥ ४॥
स्वप्रकाशशिव एव भास्करस्तद्विमर्शविभवा मरीचयः ।
यैः स भासयति वेद्यमण्डलं तस्य पूजनमहन्तया मतिः ॥ ५॥
चिद्विलासमयभित्तिभावितं ज्ञानदीपविगलत्तमोगुणम् ।
आत्मतत्त्वमिह यागमण्टपं तस्य पूजनविधानमर्चनम् ॥ ६॥
भेदलक्षणविपक्षसङ्कटात्तारणं परमिहात्मरक्षणम् ।
संविदात्मकतया विमर्शनं बन्धनं भवति सर्वतो दिशाम् ॥ ७॥
वेदिका हृदयपद्मकर्णिका चिन्मयी वसति तत्र देवता ।
यो हि तद्यजनकर्मकर्मठस्तस्य पाशभिदुरः स भैरवः ॥ ८॥
विश्वभेदविभवा विकल्पधीलक्षणा भवति विघ्नसन्ततिः ।
निर्विकल्पनिजधामविश्रमस्तन्निराकरणमत्र कीर्तितम् ॥ ९॥
यत्र निर्विषयबोधलक्षणः स्वात्मशम्भुरवतिष्ठतेऽनिशम् ।
तत्त्वजालकमिदं शिवावधि क्ष्मामुखं सकलमासनं मतम् ॥ १०॥
आत्मतत्त्वगतयोरशुद्धयोरत्र कर्मकरणात्मनोर्द्वयोः ।
शुद्धतत्त्वलयभावनामयी शुद्धिरात्मकरयोः परा मता ॥ ११॥
वेद्यसंविद इदंस्फुरात्मनो वेतृसंविदि विलापनामयी ।
वृत्तिरद्वयविमर्शविग्रहा प्राणसंयतिरुदीरितोत्तमा ॥ १२॥
आसनानि नवचक्रसंविदामुद्भवस्थितिलयास्त्रिशस्त्रिशः ।
अङ्गषट्करचना षडध्वनामंशतावगतिरात्मसंविदः ॥ १३॥
काम ऊर्ध्वगतबिन्दुराननं भानुरेष तदधोगतौ स्तनौ ।
चित्रभानुशशिनावुभौ कला योनिरत्र सपरार्धकुण्डली ॥ १४॥
एवमात्मनि चतुष्कलामये सर्वतत्त्वसमवायलक्षणे ।
न्यासमाहुरिह वैखरीतिवाग्वृत्तितः समविशेषभावनम् ॥ १५॥
पूरुषत्वसमवाप्तिहेतुपुर्यष्टकाख्यनिजसूक्ष्मवर्ष्मणः ।
चित्पदे लयविधानमष्टवाग्देवतान्यसनमिष्टमुत्तमम् ॥ १६॥
अन्तरङ्गकरणान्युपाधयः स्वप्रकाशनभसोऽत्र सङ्क्रमात् ।
पीठभावमुपयान्ति तानि तन्न्यासकर्म परधाम्नि हृल्लयः ॥ १७॥
तत्त्वधामयुगमातृकात्मकत्रित्रिभेदनियतेषु वस्तुषु ।
पानपात्रपरमामृतत्रयं तुर्यविश्रमणमर्घ्यशोधनम् ॥ १८॥
मेदिनीप्रमुखमाशिवं मतं तत्त्वचक्रमिह चक्रमुत्तमम् ।
स्वस्वभावसमवायभासिनी देवता भवति सांविदी कला ॥ १९॥
आन्तरस्य निजसंविदात्मनो मातुरक्षकरणाध्वना बहिः ।
मेयसंविदि समर्पणं तदावाहनं समरसत्वलक्षणम् ॥ २०॥
पञ्चधैव यदिदं प्रपञ्चितं पञ्चधानुभवशाश्वतोदयम् ।
तत्सुसंहरणमौपचारिकं कर्म निर्मलनिजात्मसंविदि ॥ २१॥
यस्तु पञ्चदशधा प्रकल्प्यते काल एष शशिभानुसङ्क्रमात् ।
तस्य शाश्वतपदे लयक्रिया नित्यवासरकलार्चनं मतम् ॥ २२॥
बाह्यचक्रं उपगा मरीचयस्तत्त्वजाललसदात्मसंविदः ।
तत्समर्चनमतीव चिन्मयानाख्यधाम्नि विलयक्रमक्रिया ॥ २३॥
यच्चतुर्विधमिदं विभासते तत्त्वरूपममृतान्तराकृति ।
तस्य पञ्चमपदे लयक्रिया सम्मतं बलिचतुष्टयं तथा ॥ २४॥
पञ्चधा प्रसरतश्चिदात्मनो ह्यान्तरस्य बहिरिन्द्रियाध्वना ।
सामरस्यमिह संविदात्मनारात्रिकं परमिदं समीरितम् ॥ २५॥
वाक् सहैव मनसा निवर्तते प्राप्यनिष्कलनिरञ्जनाद्यतः ।
तत्र निर्मनसि शब्दवर्जिते धाम्नि विश्रमणामुत्तमो जपः ॥ २६॥
बिम्बितं स्फुरति यत्र संविदो रूपमान्तरमिदन्तया बहिः ।
विश्वमेतदखिलं चराचरं दर्पणं हृदयदर्पणं परम् ॥ २७॥
छादयन्निखलमात्मसंविदा त्रायते त्रिविधतापसङ्कटात् ।
यच्चिदम्बरगतं शिवात्मकं छत्रमत्र कमलं सुधामलम् ॥ २८॥
पञ्चधा स्फुरणमेव संविदश्चामरं विविधचारुचङ्क्रमम् ।
विश्वदृग्लयविचित्रनिर्मितः स्वेक्षणक्षणभवो भवस्तवः ॥ २९॥
एषणात्रयमयस्य वर्ष्मणस्तत्त्वसञ्चयमयस्य संविदि ।
धाम्नि तत्त्वसमतीतसत्त्वके स्वात्मनः खलु निवेदनं मतम् ॥ ३०॥
स्वप्रकाशवपुषा गुरुः शिवो यः प्रसीदति पदार्थमस्तके ।
तत्प्रसादमिह तत्त्वशोधनं प्राप्य मोदमुपयाति भावुकः ॥ ३१॥
पाशजालकमिदं परं पशोर्नाशकारणमतो मतं हविः ।
तत्त्वतो निजगुरोर्निरीक्षणात्प्राप्यते तदमलं पवित्रितम् ॥ ३२॥
वेद्यराशिदमनेन विश्वतो निर्विकल्पमयवासनोल्बणम् ।
चित्तमेव दमनं शिवेऽमुकस्यार्पणं दमनकार्पणं परम् ॥ ३३॥
दीयते परशिवैक्यभावना क्षीयते सकलपापसञ्चयः ।
येन चिज्जलधिपारसेतुना दीक्षणं गुरुकटाक्षवीक्षणम् ॥ ३४॥
अन्तरङ्गकरणात्मनां चतुःस्रोतसां विविधदेवताजुषाम् ।
पूजनं परमिहोन्मनीशिखामध्यवर्तिपरमात्मयोजनम् ॥ ३५॥
पञ्चबोधकरणानि मानसं दर्शनानि विषयप्रदर्शनात् ।
दर्शनानि षडमूनि तानि तत्पूजनं भवति तल्लयश्चिति ॥ ३६॥
जाग्रदादिसमयाश्चतुर्विधाश्चान्तरात्मपरमात्मविग्रहाः ।
पञ्चमेऽत्र तदतीतचिद्घने धाम्नि तल्लयमतिस्तदर्चनम् ॥ ३७॥
खे निरस्तनिखिलक्रियाक्रमे या चितिश्चरति शाश्वतोदया ।
सा शिवत्वसमवाप्तिकारिणी खेचरी निखिलखेदहारिणी ॥ ३८॥
यत्स्वरूपमहिमा विकल्पितं शक्तिचक्रमिह रज्जुसर्पवत् ।
तत्स्वरूपपरमार्थबोधतस्तत्र तस्य विलयो विसर्जनम् ॥ ३९॥
या क्रिया समभिहारतस्त्रिधा दर्शितात्र गुरुभावनादिका ।
सा विभेदलयभावनादिकाभ्यस्यतां परशिवैक्यसिद्धये ॥ ४०॥
इति अमृतानन्दयोगिविरचितः चिद्विलासस्तवः समाप्तः ॥
प्रक्षिप्ता अधिका वा श्लोकाः
यत् त्वगादिनिजधातुसप्तकं तत्समष्टिरिह चाष्टकं तनौ ।
तत्तदङ्गविलयक्रियोदितं त्वष्टकाष्टकसमर्पणं परम् ॥ ४१॥
दृक्क्रियात्मशशिभानुमध्यगं खे चरत्यनलयष्टिधाम यत् ।
यत्तदूर्ध्वशिखरं परं नभस्तत्र दर्शय शिवं त्वमम्बिके ॥ ४२॥
आत्मसंविदनले शिवात्मनि वासनेन्धनविवृद्धतेजसि ।
वृत्तिपञ्चकहविस्समर्पणं होममत्र कथितं मनीषिभिः ॥ ४३॥
या शिवैक्यविषया मनः क्रिया प्रत्यगुन्मुखतया शिवस्त्रिया ।
पूजनादिविविधक्रियालयः स्वात्मसंविदिति हि क्षमापणम् ॥ ४४॥
आत्मचक्रमनुदेवतात्मनामासनं शिवमयत्वभासनम् ॥ ४५॥
Author: Amṛtānanda
Title: Cidvilāsastavaḥ
Source: Dwivedi, Vrajavallabha (ed). Nityāṣoḍaśikārṇavaḥ: Śivānandakṛtayā ṛjuvimarśinyā Vidyānandakṛtayā Artharatnāvalyā ca Saṃvalitaḥ. 2. Saṃskaraṇam. Vārāṇasyām: Sampūrṇānanda-Saṃskṛta-Viśvavidyālayaḥ. pp. 322-330. 1985.
Description: The Cidvilāsastava by Amṛtānanda, also known as Amṛtānandanātha and Amṛtānandayogin (fl. c. 1325-1375), is one of the most comprehensive treatments of the esoteric contemplation of ritual found within the Śrīvidyā tradition and Śaiva tantra in general. This short forty-verse hymn offers esoteric knowledge and creative contemplations (bhāvanā) for critical steps in the ritual worship of Tripurasundarī. Although belonging to the Śrīvidyā tradition, the Cidvilāsastava will likely be of great interest to all who perform pūjā as many of the verses deal with topics and procedures that are common to all traditional forms of ritual worship.
The text is prepared by volunteers of Tripurā Tallikā and is provided by Brian Campbell tripura.tallika at gmail.com
Tripurā Tallikā is a small group of Śrīvidyā practitioners https://tripuratallika.org/