दक्षकृतं गौरीस्तोत्रम्
दृष्ट्वा दक्षः सुहृष्टात्मा बभाषे परमेश्वरीम् ।
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ॥ ९८॥
अद्य मे पुण्यकल्लोलाः पुत्रीरूपा उपस्थिताः ।
नारायण्या जगद्धात्र्या दर्शनं मेऽद्य जायते ॥ ९९॥
शिवायाः प्रकृतेर्देव्या दर्शनं मेऽद्य जायते ।
धन्योऽस्मि कृतकृत्योऽस्मि प्रसम्पूर्णतमोऽस्मि च ॥ १००॥
अद्य मे नु जगन्मातुर्दर्शनं तव जायते ।
मम पुत्रीस्वरूपा त्वं जगन्माता समागता ॥ १०१॥
अतो मे कः परो लाभो यत्र देवाः प्रतिष्ठिताः ।
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ १०२॥
त्वमेव परमानन्दा त्वमेवानन्ददायिनी ।
त्वयैव सङ्गतो देवः स्वात्मानन्दं समश्नुते ॥ १०३॥
शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् ।
त्वयि तिष्ठत्यभेदेन परब्रह्ममयी स्थिता ॥ १०४॥
नमस्तेऽस्तु महादेवि! नमस्ते परमेश्वरि! ।
नमो भगवतीशानि शिवायै ते नमो नमः ॥ १०५॥
त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यामि प्रसीद परमेश्वरि ॥ १०६॥
मया नास्ति समो लोके देवो वा दानवोऽपि वा ।
जगन्मातेव मत्पुत्री सम्भूता सा स्वयं यतः ॥ १०७॥
एषा तवाऽम्बाऽसिक्नी वीरकन्यकाऽप्यहो ।
जगन्मातुश्च माताऽद्य चाहोऽस्याः पुण्यगौरवम् ॥ १०८॥
पाहि माममरेशानि चासिक्न्या सह सर्वदा ।
नमामि तव पादाब्ब्जं व्रजामि शरणं शिवम् ॥ १०९॥
अहो मे सुमहद्भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शाङ्करि ॥ ११०॥
एतावदुक्त्वा वचनं तदा दक्षः प्रजापतिः ।
सम्प्रेक्षमाणो गौरीं तां प्राञ्जलिः पार्श्वतः स्थितः ॥ १११॥
ध्यातवान् स्वसुतां देवीं परब्रह्मात्मिकां सतीम् ।
अशेषकल्याणमयीं सर्वविकृतिपारगाम् ॥ ११२॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १६९-अध्यायान्तर्गतं
दक्षकृतं गौरीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १६९/९८-१११॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 169/98-111..
Proofread by PSA Easwaran