दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि

दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि

श्रीपुरुषोत्तम उवाच । श‍ृणु नारायणीश्रि त्वं पुरा दक्षेण वन्दिता । प्राकट्यानि ललिताया लक्ष्म्योश्चोक्तवती स्वयम् ॥ १॥ दक्षः पप्रच्छ मातस्ते प्राकट्यान्यत्र भूतले । कानि कुत्र च वर्तन्ते वर्त्स्यन्ते तानि मे वद ॥ २॥ यत्पूजाबलतश्चाऽहं विघ्नान् विनाशये सदा । ग्रहदोषान् कर्मदोषान् विनाशये तवाऽर्हणात् ॥ ३॥ तदा त्वं निजपूजायाः फलं चोक्तवती शुभम् । ललिताख्यमहालक्ष्म्याः पूजकस्याऽशुभानि वै ॥ ४॥ विनङ्क्ष्यन्ति न सन्देहो मम पूजाप्रकारिणः । यानि यानि स्वरूपाणि यत्र यत्र भवन्ति च ॥ ५॥ तानि वक्ष्यामि ते दक्षप्रजापते निशामय । अहं त्वक्षरधामस्था श्रीदेवी पुरुषोत्तमौ ॥ ६॥ अनादिश्रीकृष्णनारायणी श्रीपरमेश्वरी । ब्रह्ममुक्तानिका ब्राह्मी कार्ष्णी नारायणी रमा ॥ ७॥ वासुदेवी च वैराजी हिरण्या हरिणी प्रभा । महालक्ष्मीः कम्भराश्रीर्ललिता कमला चला ॥ ८॥ ईश्वरी वैष्णवी चान्द्री हिरण्मयी च देवता । आर्षी सिद्धा योगिनी च साध्वी सती पतिव्रता ॥ ९॥ प्रभ्वी धामा जया भौमी महेशी भूर्नरायणी । पाशवती च माणिक्या मारूपा श्रीहरिप्रिया ॥ १०॥ दुःखहा शिवराज्ञीश्री कृष्णनारायणी सती । ब्रह्मप्रिया ब्रह्मधाम्नि महालक्ष्मीश्च श्रीपुरे ॥ ११॥ लक्ष्मीः कुङ्कुमवाप्यां च महालक्ष्मीस्तु रैवते । व्याघ्रेश्वरी माहिषे च गोकर्णे धेनुकर्णिका ॥ १२॥ सन्तुष्टा चाक्षरे क्षेत्रे चमत्कारे तु माधवी । वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ॥ १३॥ प्रयागे ललिता चास्मि कामाक्षी गन्धमादने । मानसे कुमुदा देवी विश्वकाया चिदम्बरे ॥ १४॥ गोमन्ते गोमतीनाम्नी मन्दराद्रौ तु कामगा । मदोत्कटा चैत्ररथे जयन्ती वारहाह्वये ॥ १५॥ गौरीनाम्नी कान्यकुब्जे रम्भा तु मलयाचले । एकाम्रके कीर्तिमती विश्वा विश्वेश्वरेऽस्मि च ॥ १६॥ पुष्करे पुरुहूताऽस्मि केदारे मार्गदाऽस्मि च । हिमाचले च नन्दाऽस्मि बिल्वके बिल्वपत्रिका ॥ १७॥ स्थानेश्वरे भवान्यस्मि श्रीशैले पद्मिनी सदा । भद्रा भद्रेश्वरे चास्मि जया वाराहपर्वते ॥ १८॥ कामला कमलाभूमौ रौद्री च रुद्रकोटिके । काली कालञ्जरे चाऽस्मि मर्कोटे मुकुटेश्वरी ॥ १९॥ महालिङ्गे कपिलाऽस्मि शिवलिङ्गे जलप्रिया । शालग्रामे महादेवी मायापुर्यां कुमारिका ॥ २०॥ सन्ताने काञ्चिकापुर्यां ललिता दुर्गपत्तने । उत्पलाक्षी सहस्राक्षे कलमाक्षे महोत्पला ॥ २१॥ गङ्गायां मङ्गला दुर्गा विमला पुरुषोत्तमे । विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ॥ २२॥ नारायणी सुपार्श्वेऽस्मि विकूटे भद्रसुन्दरी । विपुले विपुलानाम्नी कल्याणी मलयाचले ॥ २३॥ कोटितीर्थे कोटवी च सुगन्धा माधवे वने । कुब्जाम्रके त्रिसन्ध्याऽस्मि गङ्गाद्वारे रतिप्रिया ॥ २४॥ शिवकुण्डे सुनन्दाऽस्मि नन्दिनी देविकातटे । रुक्मवर्णा द्वारवत्यां राधा वृन्दावनेऽस्मि च ॥ २५॥ मधुरायां देवकन्या पाताले परमेश्वरी । चित्रकूटे तु सीताऽस्मि विन्ध्ये विन्ध्याचली तथा ॥ २६॥ सह्याद्रावेकवीराऽस्मि हर्मचन्द्रे तु चन्द्रिका । रमणा रामतीर्थेऽस्मि यमुनायां मृगावती ॥ २७॥ करवीरे महालक्ष्मीरुमादेवी विनायके । अरोमा वैजनाथेऽस्मि महाकाले महेश्वरी ॥ २८॥ अभयाऽस्मि चोष्णतीर्थे अमृता विन्ध्यकन्दरे । माण्डव्ये माण्डवीनाम्नी स्वाहा माहेश्वरे पुरे ॥ २९॥ छागलेऽस्मि प्रचण्डाऽहं चण्डिका मकरन्दके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ ३०॥ सरस्वत्यां देवमाता पारा पारातटेऽस्मि च । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ ३१॥ सिंहारण्ये सिंहिकाऽस्मि कार्तिकेये यशस्करी । उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ॥ ३२॥ माता लक्ष्मीः सिद्धपुरे अङ्गना पुलहाश्रमे । जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ॥ ३३॥ देवदारुवने पुष्टिर्मेधा काश्मिरमण्डले । हिमाद्रौ भीमिकादेवी पुष्टिर्विश्वेश्वरेऽस्मि च ॥ ३४॥ कपालमोचने शुद्धिर्माता कायावरोहणे । शङ्खोद्धारे धरादेवी धृतिः पिण्डारकेऽस्मि च ॥ ३५॥ माणिक्याऽऽनर्तके नारायणीश्रीरस्मि नागरे । कालाऽस्मि चन्द्रभागायामच्छोदे शिवकारिणी ॥ ३६॥ वेणायाममृतानाम्नी बदर्यामुर्वशी तथा । ओषधिश्चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ ३७॥ मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी । अश्वत्थे वन्दनीयास्मि निधिश्च श्रवणालये ॥ ३८॥ गायत्री ब्रह्मणा साकं पार्वती शिवसन्निधौ । देवलोके तथेन्द्राणी ब्रह्मास्येऽस्मि सरस्वती ॥ ३९॥ सूर्यबिम्बे प्रभा धैर्ये पाशवती तु वैष्णवी । अनादिश्रीकृष्णनारायणेऽस्मि सुखदा रमा ॥ ४०॥ अरुन्धती सती चास्मि तिलोत्तमाऽप्सरोगणे । चित्ते ब्रह्मकला चास्मि कान्ता कान्तेषु सर्वशः ॥ ४१॥ भङ्गा नीलगिरावस्मि विजयाऽऽसामभूतले । कामरूपे च कामाक्ष्या ब्रह्मदेश इराऽस्मि च ॥ ४२॥ खासीनेषु ब्रह्मपुत्री पतत्काये तु पावनी । श्यामा श्यामप्रदेशेऽस्मि प्राचीने मेनकाङ्गिनी ॥ ४३॥ उच्चीने यागशिक्षाङ्गी त्र्यङ्गुलेषु तु कारमी । काराकारे कृष्णवर्णा एलुने खनिरस्मि च ॥ ४४॥ मूकी मङ्गोलके चास्मि खिङ्गने मञ्च्छिकाऽस्मि च । स्तेनावासे पारशवी राशिपुत्री तु राशने ॥ ४५॥ उरला चोरलाद्रौ च रक्ता चारक्तभूतले । नारायणी सुदानेऽस्मि चाल्पा चाल्पे च पर्वते ॥ ४६॥ इङ्गितज्ञा केतुमाले परी चास्मि बलायते । हारिती पिङ्गदेशे च अमरी किम्पुमात्मके ॥ ४७॥ राकरी मानकङ्गौ च परीनारी तु दक्षके । संहारा नजरेऽद्रौ च कामरूपा कमारणे ॥ ४८॥ मासाम्बा साम्बशैलेऽस्मि कलिहारा तु मित्रपे । त्रिहोत्रे होत्रिणी चास्मि झम्बे माञ्झाम्बिकास्मि च ॥ ४९॥ नवदेशे मणिकान्ता उष्ट्रालये महोर्ध्विका । कलगरली श्वानायां चालिशी क्वाथपर्वते ॥ ५०॥ एवमादिस्वरूपैश्च भूतले संवसाम्यहम् । दक्ष! सर्वत्र मत्पूजां कुरु भुक्तिप्रमुक्तिदाम् ॥ ५१॥ इत्याह श्रीमहालक्ष्मीस्तदा दक्षं प्रजापतिम् । अतस्ते तु महालक्ष्म्याः पूजनं सर्वशान्तिकृत् ॥ ५२॥ पूजायां सर्वनामानि द्वे शते तव यो जपेत् । सर्वाश्च सिद्धयस्तस्योपतिष्ठन्तु यथेष्टदाः ॥ ५३॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १३५-अध्यायान्तर्गतं दक्षप्रजापतये महालक्ष्म्युक्तानि स्वीयानि शतद्वयनामरूपाणि । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३५/१-५३॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 135/1-53.. Proofread by PSA Easwaran
% Text title            : Dakshaprajapataye Mahalakshmyuktani Sviyani Shatadvayanamarupani
% File name             : dakShaprajApatayemahAlakShmyuktAnisvIyAnishatadvayanAmarUpANi.itx
% itxtitle              : nisvIyAnishatadvayanAmarUpANi (dakShaprajApatayemahAlakShmyuktA lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : dakShaprajApatayemahAlakShmyuktAnisvIyAnishatadvayanAmarUpANi
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 135/1-53||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org