दक्षिणकालिकाकवचम् २

दक्षिणकालिकाकवचम् २

(श्यामारहस्ये) विरूपाक्ष उवाच । नमामि गुरुमक्षोभ्यं मन्त्रशक्तिसमन्वितम् । प्रसन्नं ज्ञानमज्ञानं हेतुं बुद्धिप्रकाशकम् ॥ १॥ गजेन्द्रवदनं नौमि रक्तं विघ्नविदारकम् । पाशाङ्कुशवराभीति लसद्भुजचतुष्टयम् ॥ २॥ भैरवः सर्वदा पातु ऋषिर्मे शिरसोपरि । मुखे छन्दः सदा पातु त्रिष्टुप् च विजयात्मकम् ॥ ३॥ गुणत्रयमयी शक्तिः परशक्तिस्तु ईडिता । ब्रह्मस्वरूपिणी पातु हृदये मम कालिका ॥ ४॥ बीजस्वरूपिणी पातु क्रीङ्कारी शक्तिरूपिणी । हूं शक्ति सर्वदा पातु सर्वरक्षास्वरूपिणी ॥ ५॥ महाकालः सदा पातु महाभीमपराक्रमः । ददातु मम कामानि सर्वसिद्धीश्वरो यतः ॥ ६॥ आदि ॡवर्णपर्यन्ताः हृदये मममातृकाः । एघान्ते ङादि चान्ताश्च रक्षन्तु बाहुयुग्मके ॥ ७॥ नभोमध्यगता वर्णा मादिक्षान्तास्तथैव च । सविन्दवः सदा पान्तु जङ्घयोरुभयोर्मम ॥ ८॥ भूतप्रेतपिशाचाद्या विघ्नदेहास्तथा पुनः । पृथग्भावाः समध्याश्च वर्णा रक्षन्तु मां सदा ॥ ९॥ समस्तरोमकूपेषु मर्मस्थानिषु सन्धिषु । नाडीधातुविकारेषु रक्षन्तु मम मातृकाः ॥ १०॥ शक्तिराधाररूपा या सा पातु परमेश्वरी । अवर्णः सर्वदा पातु सर्वदेवमयः स्वयम् ॥ ११॥ फणागताऽवनिः पातु समुद्रः पातु मां सदा । रत्नद्वीपः सदा पातु रक्षन्तु कल्पपादपाः ॥ १२॥ श्मशानपीठकः पातु पातु मां मानवेदिका । सदाशिव महाप्रेत शवो मां परिरक्षतु ॥ १३॥ द्वारदेशे द्वारपाला योगिन्यः पान्तु मां सदा । सिद्धयोऽष्टौ सदा पान्तु पूर्वादि वसुदिग्गताः ॥ १४॥ कालीं कपालिणीं कुल्लां कुरुकुल्लां तथैव च । विरोधिनीं विप्रचित्तां नमामि सर्वसिद्धये ॥ १५॥ एतास्तु वशयोगिन्यो बहिः षट्कोणकेस्थिताः । रक्षन्तु मां सदा देव्यो मातरो भक्तवत्सलाः ॥ १६॥ उग्रामुग्रप्रभां दीप्तां नमाम्यात्मविभूतये । सर्वसिद्धिं प्रयच्छन्तु पान्तु मां पुत्रवत् सदा ॥ १७॥ नीलां घनां वलाकाञ्च प्रणमामि समुत्सुकः । सर्वविघ्नान् समुत्सार्य्य रचन्तु कलुषार्णवात् ॥ १८॥ मात्रामुद्रामितानाञ्च नमामि चरणाम्बुजम् । देवीप्रेमसखीनाञ्च शरणं यामि सिद्धये ॥ १९॥ एताः पञ्चदशे कोणे एकैका वरदा सदा । तर्जनीं वामहस्तेन खड्गं दक्षिणपाणिना ॥ २०॥ मुण्डमालाधराः शीर्षे नीलाञ्जनचयोपमाः । शत्रुभ्यः सिद्धिदाश्चण्डाः पान्तु मां कालिकाप्रियाः ॥ २१॥ बहिःपद्मदलान्ते तु ब्रह्माण्याद्यष्टशक्तयः । रक्षन्तु मे प्रयच्छन्तु सर्वसिद्धिं दयान्विताम् ॥ २२॥ ब्रह्माणी पातु मां पूर्वे सर्वाः शिववरप्रदाः । वह्नौ नारायणी पातु सर्वकामार्थसिद्धिदा ॥ २३॥ माहेशी दक्षिणे पातु सर्वमङ्गलकारिणी । चामुण्डा नैरॄते पातु सर्वशत्रुप्रमर्दिनी ॥ २४॥ कौमारी पश्चिमे पातु शक्तिहस्ता विसूदिनीम् । अपराजिता च वायव्या पातु मां जयदा शुभा ॥ २५॥ उत्तरे पातु वाराही वरदा घोररूपिणी । नारसिंही सदा पातु ऐशान्यां भयनाशिनी ॥ २६॥ एतास्तु वरविद्यायाः शक्तयश्चाष्टदेवताः । ब्रह्मविष्णुशिवादीनां तेजोभिन्नकलेवरा ॥ २७॥ सूर्य्येन्दुवह्निपीठे तु बैन्दवे परमेश्वरी । नमामि दक्षिणामूर्त्तिं कालिकां परभैरवीम् ॥ २८॥ भिन्नाञ्जनचयप्रख्यां प्रवीनशवसंस्थिताम् । गलच्छोणितधाराभिः स्मेराननसरोरुहाम् ॥ २९॥ पीनोन्नतकुचद्वन्द्वां पीनवक्षोनितम्बिनीम् । दक्षिणे मुक्तकेशां च दिगम्बरविनोदिनीम् ॥ ३०॥ महाकालसमाविष्टां स्ममेरानन्दोपरि स्थिताम् । सुखसान्द्रस्मितामोदमोदिनीं मदविह्वलाम् ॥ ३१॥ आरक्तसुखसान्द्रादिनेत्रालीभिर्विराजिताम् । शवद्वयकृतोत्तंसां सिन्दूरतिलकोज्ज्वलाम् ॥ ३२॥ पञ्चाशन्मूर्त्तिघटितमालां शोणितलोहिताम् । नानामणिविशोभाढ्यां नानालङ्कारशोभिताम् ॥ ३३॥ शवास्थिकृतकेयूरशङ्खकङ्कणमण्डिताम् । शववक्षः समारूढां लेलिहानां शवं क्वचित् ॥ ३४॥ शवमांसकृतग्रासां साट्टहासां मुहुर्मुहुः । खड्गमुण्डधरां वामे सव्येऽभयवरप्रदाम् ॥ ३५॥ दन्तुराञ्च महारौद्रीं चण्डनादातिभीषणाम् । शिवाभिर्घोररावाभिर्वेष्टितां भयनाशिनीम् ॥ ३६॥ माभैर्माभैः स्वभक्तेषु जल्पन्तीं घोरनिस्वने । यूयं किमिच्छथ ब्रूथ ददामीतिप्रभाषिणीम् ॥ ३७॥ त्वं गतिः शरणं देवि ! त्वं माता परमेश्वरि ! । पाहि मां करुणासान्द्रे ! नमस्ते परमेश्वररि ! ॥ ३८॥ नमस्ते कालिके ! देवि ! नमस्ते भक्तवत्सले ! । मूर्खतां हर मे देवि ! प्रतिभाप्रतिदायिके ! ॥ ३९॥ गद्यपद्यमयीं वाणीं तर्कव्याकरणादिकाम् । अनधीतगतां विद्यां देहि दक्षिणकालिके ! ॥ ४०॥ जयं देहि सभामध्ये धनं देहि धनागमे । देहि मे चिरजीवित्वं कालिके ! रक्ष दक्षिणे ! ॥ ४१॥ राज्यं देहि यशो देहि पुत्रान् दारान्धनं तथा । देहान्ते देहि मे मुक्तिं जगन्मातर्नमोऽस्तु ते ॥ ४२॥ मङ्गला भैरवी दुर्गा कालिका त्रिदशेश्वरी । उमा हैमवती कन्या कल्याणी भैरवेश्वरी ॥ ४३॥ काली ब्राह्मी च माहेशी कौमारी माधुसूदनी । वाराही वासनी चण्डा त्वां जगुर्मुनयो मुदा ॥ ४४॥ उग्रतारेति तारेति शिवेत्यकजटेति च । लोकोत्तरेति बालेति गीयते कृतिभिः सदा ॥ ४५॥ यथा काली तथा तारा तथा छिन्ना च कुल्लुका । एकमूर्त्तिश्चतुर्भिश्च देवि ! त्वं कालिकापरा ॥ ४६॥ एकद्वित्रिविधा देवि ! कोटिधाऽनन्तरूपिणी । अङ्गाङ्गकैर्नामभेदैः कालिकेति प्रगीयते ॥ ४७॥ शम्भुः पञ्चमुखेनैव गुणान् वक्तुं क्षमो न ते । चापलं यत् कृतं सर्वं क्षमस्व शुभदा भव ॥ ४८॥ प्राणान् रक्ष यशो रक्ष पुत्रदारधनं तथा । सर्वकाले सर्वदेशे पाहि दक्षिणकालिके ! ॥ ४९॥ यः सम्पूज्य पठेद्रक्षां दिवा वा सन्ध्ययोस्तथा । अवाप्य महतीं प्रज्ञां सर्वकामांस्ततो लभेत् ॥ ५०॥ यद्यत्प्रार्थयते चित्ते तत्तदाप्नोति का कथा । स्वयं लक्ष्मीर्वसेद्देहे मुक्तिः करगता पुनः ॥ इति श्यामारहस्यवर्णितं रुद्रयामले उत्तरतन्त्रे दक्षिणकालिकाकवचं सम्पूर्णम् । - ॥ श्यामारहस्यम् । चतुर्थः परिच्छेदः ॥ - .. shyAmArahasyam . chaturthaH parichChedaH .. Encoded and proofread by Ruma Dewan
% Text title            : Dakshinakalika Kavacham 2
% File name             : dakShiNakAlikAkavacham2.itx
% itxtitle              : dakShiNakAlikAkavacham 2 (shyAmArahasyAntargatam rudrayAmalAntargatam namAmi gurumakShobhyaM mantrashaktisamanvitam)
% engtitle              : dakShiNakAlikAkavacham 2 (from shyAmArahasya)
% Category              : devii, devI, kavacha
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shyAmArahasyam | chaturthaH parichChedaH ||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org