श्रीलक्ष्मीदासविरचितं दयासहस्रम्

श्रीलक्ष्मीदासविरचितं दयासहस्रम्

१. प्रथमशतकम्

श्रीः । श्री पद्मावतीसमेताय श्रीनिवासाय नमः । श्रीमते रामानुजाय नमः । श्रीमद्वरवरमुनये नमः । श्रीमते निगमान्त महादेशिकाय नमः । श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीतं दयासहस्रम् । अथ दयासहस्रे प्रथमशतकम् । वन्दे वन्दारुमन्दारं तं वृषाद्रि विहारिणम् । यत्कृपावितरत्यारात् पुरुषार्थ चतुष्टयम् ॥ १॥ फणासहस्रो द्विसहस्रजिह्वः शुद्धात्मको भोगिपतिस्त्वदीयाम् । दयां न दक्षो गदितुं कथं वा तां वर्णयाम्यद्य वृषाद्रिनाथ ॥ २॥ अथवा मद्रसज्ञायां तां वाणीमनणीयसीम् । नर्तयत्यहिशैलेश करुणा चिरकाङ्क्षिता ॥ ३॥ करुणावरुणालयार्तिहारिन्! करुणा ते तरुणागसि प्रकामम् । चिरजीविनि मय्यपि प्रसन्ना शरणं हन्त! रमेरिता बभूव ॥ ४॥ शरणागतवत्सलत्वमम्भो- रुहनेत्रस्य हरे! कथं भवेत्ते । करुणा यदि वल्लभा नहि स्यात् त्वयि नित्यं परता लसेद्गभीरा ॥ ५॥ दया पयोधितनया हृदि चेन्न द्वयं तव । निर्भयश्शरणं पापो व्रजेयं त्वां कथं हरे ॥ ६॥ इन्द्रनीलमणिग्रावप्रस्रवत्करुणारसम् । पायम्पायं भवारण्यश्रममत्यजमादरात् ॥ ७॥ अयि! दये! हृदये कमलापतेः कृतपदोरसि सिन्धुसुता स्थिता । अपरतन्त्रमपि श्रितवश्यता- मनयतां तमुभे महदद्भुतम् ॥ ८॥ सा कल्पवल्ली सुकृतिभ्य एव ददाति कामांस्त्रिदिवे यथेच्छम् । हरे! दयाख्या तव कल्पवल्ली पापात्मनां पूरयतीप्सितानि ॥ ९॥ अनुकम्पा सदाकम्पा पङ्कजाक्ष! दृशोस्तव । यद् दृश्यते कटाक्षं तत्काङ्क्षे मन्तुकृदप्यहम् ॥ १०॥ अनुदिनमनुकम्पा कम्पितं पापसङ्घैः अहिगिरिनिलय! श्री श्रीनिवास! त्वदीया । स्मृतिपथमनुयाता सान्त्वयत्यादरान्मां त्यज भयमिह वत्सेत्याशु मातेव दीनम् ॥ ११॥ अचिदनल्पगुणं तव चिद्गणं करणकायगणैर्घटयन् हरे! । इह पुमर्थचतुष्टयभाजनं समकरोः करुणा किल कारणम् ॥ १२॥ पुपुषुष्षड्रसा मान्तु षड्वर्गो मित्रतां गतः । नापराधी कथं स्यां त्वद्दया मामुद्धरेद्धरे! ॥ १३॥ करुणाकर! शेषशैलवासिन्! करुणा ते मधुरे स्मिते दृगब्जे । प्रचुरा वरदायि पाणिपद्मे जनतां सान्त्वयति प्रकामपापाम् ॥ १४॥ सर्वान् गुणान् सफलयत्यवनौ मुरारे! सा ते दया जलधिजासहचारिणी या । वैकुण्ठधाम्नि परतैकगुणोज्ज्वलस्य तेऽन्यैर्गुणैः किममलैः परिशुद्धसत्त्वे ॥ १५॥ अहिशैलपतेः प्रिये! दये! त्वं गुणिनस्तत्वविदो विहाय दूरे । अघदुःखिजनौघमार्गणे किं निरता कारणमत्र वेदयाम्ब ॥ १६॥ प्रविघटय्य रमामपि सत्वरं गजपतेः करुणोक्तिविचोदिता । अयि दये! गरुडेन तदन्तिकं समनयः प्रजवं बत चक्रिणम् ॥ १७॥ द्रुपदजावसनाभिविवृद्धये ननु दये! भगवन्तमचोदयः । जगति नार्यवहेलनमार्तितः सपदि वेत्त्यबलैव पुमान्न हि ॥ १८॥ कारुण्यश्रीस्त्वयि वसति यच्छ्रीनिवासोऽसि तस्मात् भक्ताभीष्टं वितरसि ततश्शेषशैले वसन्सन् । आर्तत्राणं विदधदमित क्लिष्टभक्ताग्रदृष्टः दत्तं स्वल्पं सुबहु गणयस्यद्भुता तेऽनुकम्पा ॥ १९॥ भवघोरमहारण्ये दुःखध्वान्तगतं हरे! मां दयादीपशिखया कदा नेष्यसि सत्पथम् ॥ २०॥ भवकूपनिमग्नानामाभीलजलपायिनाम् । श्रीनिवासानुकम्पे! त्वं रज्जुरुद्धरणे ह्यसि ॥ २१॥ सङ्कल्पितानल्प जगत्प्रवृत्तिः नारायणश्शास्त्रमतानुयायी । दण्डोन्मुखो हन्त! दये! बभूव त्वद्वीक्षितः त्वन्मतबद्धदीक्षः ॥ २२॥ कुचेलममितम्पचं चिपिटमुष्टिसन्तुष्टहृत् चकार गरुडध्वजो भजनशीलमिभ्यं भुवि । विदारितकुदीनताविषलतानिदानां दये! वदन्ति भवतीं जनाः जलजवासिनीसोदरि! ॥ २३॥ आश्रितावनगुरुत्वरे! दये! स्वामि मानसरयं विचिन्त्य च । तत्र वासरसिकासि किं सदा श्रीशचोदनकृते प्रसूरिव ॥ २४॥ विचित्रा लीला ते वृषगिरिपतेरम्ब! करुणे! वसन्तं वैकुण्ठे परमपुरुषं भक्तवशगम् । विधाय प्राण्यार्तिप्रशमनकृते चारयसि तं धरित्र्यां तुच्छैर्यत्कमठकिटिरूपैः प्रतियुगम् ॥ २५॥ आश्रितान् श्रीनिवासोऽयं तोषयत्यनुकम्पया । महान् महीरुहः स्फीतच्छाययेव जनान्भुवि ॥ २६॥ पुरुषोत्तमञ्च करुणे! श्रियःपतिं श्रितभक्तरक्षणकृते पुराऽकरोः । व्रतिनं मृगाजिनधरं सुवामनं बलिसद्मदेहलिचरं धरार्थिनम् ॥ २७॥ पुरुषोत्तमस्य ललनास्वरूपम- प्यदिशस्सुधावितरणे करुणे! । श्रितरक्षणाय कथमप्यहो! हरिं बहुवेषतोऽपि भुवि योजयसि ॥ २८॥ शेषाचलेशहृदयाच्छसरोवरान्तः- क्रीडैकतानरमणीयदयामराली! । क्षीराम्बुवत्सुकृतदुष्कृतराशिमाशु शक्त्या विभेद्य सुकृतैकफलं ददाति ॥ २९॥ उल्लाघतां सुगुणतां शतवत्सरान्त- मायुः कला निगमशास्त्रयथार्थबुद्धिम् । सौन्दर्यमुच्चकुलजन्म च कायदार्ढ्य- मैश्वर्यमब्धितनयेशदया ददाति ॥ ३०॥ नाहं शरीरिदुरितान्यवलोकयामी- त्याच्छाद्य लोचनयुगं घनसारधूल्या । मन्दस्मितेन वरदानपरः श्रितानां किं त्वं घृणामहिगिरौ प्रकटीकरोषि? ॥ ३१॥ कौमुदीव करुणा तव शौरे! चक्षुषी शिशिरयत्यनिशं नः । फुल्लयत्यवगुणापनयार्थं कुञ्चिकेव हृदयाररमाशु ॥ ३२॥ अपराध स्वभावानां मादृशानां दुरात्मनाम् । त्वद्दयैका गतिर्नान्या वृषाद्रित्रिदशद्रुम ॥ ३३॥ नववारिवाहहृदयक्षपाकरप्रसृतातिसुन्दरदयाच्छकौमुदी । धनिदुर्गतादितनुमद्व्रजं समं परितस्सुशीतलयति स्वयं बत ॥ ३४॥ क्षणमपि करुणे! त्वं क्षीणपुण्यावनाशे मुररिपुहृदयाच्चेद् दूरतो हन्त! तिष्ठेः । अमलसलिलपूरादुद्धृता जालमीनाः इव दुरितनिवासाश्चेतनास्स्युर्विसत्ताः ॥ ३५॥ लक्ष्मीस्स्वयं निजकटाक्षविशेषतोऽत्र निम्नोन्नतस्थितिजुषो वितनोति जन्तून् । त्वं कारयस्ययि दये! भुजगाद्रिनेत्रा निम्नस्थितेरुपशमं तदवेक्षणेन ॥ ३६॥ परवासुदेवमपि मानुषं दये! प्रविधाय सिन्धुरशनामनीनयः । अवमन्यते स्म जनता तमप्यहो! भवती तथापि समरक्षदत्र ताम् ॥ ३७॥ शबरीममरीं चकार शार्ङ्गिन्! करुणा ते परिणाम पक्व भोग्यम् । प्रवितीर्णमनल्पभक्तिसारं फलमादाय वनैकवासजीर्णाम् ॥ ३८॥ सर्वेश्वरोपि भगवान् धृतमर्त्यरूपः सञ्चोदितो ननु दये! नितरां भवत्या । सख्यं प्रकल्प्य कपिना विपिने धनुष्मान् तस्मै ददौ प्रगुणसम्पदगारराज्यम् ॥ ३९॥ उलूखलनिबन्धनप्रकटितान्यवश्याकृतिं दये! वृषगिरीश्वरं कुटयुगान्तराकर्षणे । प्रचोद्य बहुवत्सरामरमहामहीरुट्स्थिति- प्रबन्धनमपाकरोस्तदहमस्मि धीरोऽघकृत् ॥ ४०॥ सम्प्रेरितो ननु दये! भुजगाद्रिनाथः दिव्यस्वरूपमभिदर्श्य गवां व्रजेशः । अक्रूरमर्यमसुतासलिले निमग्नं आनन्दसिन्धुविनिमग्नमहो व्यतानीत् ॥ ४१॥ भुजङ्गम महीधरे प्रकटितात्मदिव्याकृतिः सुघोरसमरे धनुष्प्रवरपाणिरभ्रद्युतिः । दशाननमसंज्ञकं रघुपतिस्तदा प्राहिणोत् निजश्रमविनुत्तये ननु दये! त्वया चोदितः ॥ ४२॥ पापात्मनां अयि! दये! भुवि मादृशानां नोचेज्जनिः किमपि नाम तवास्ति कार्यम् । ज्योतिर्मये दुरितदूरतरेऽपवर्गे तूष्णीं तदन्यगुणभावनयासि लीना ॥ ४३॥ दोषाकरे जगति यत्स्पृहणीय रूपः शेषाचले सकललोकविलोकितस्त्वम् । भूषाञ्चितोऽसि कमलेश! तदेव देव! केषां न सूचयति ते करुणामपाराम् ॥ ४४॥ करुणे! तरुणापराधशिक्षा- कृतयत्नं भुजगक्षमाभृदीशम् । विनिवार्य च दापयस्यभीष्टं किमिदं मन्तुकृते विचित्रमेतत् ॥ ४५॥ कनकाम्बर! नीरदाभ! शौरे! करुणा ते तरुणायते परार्थम् । अपराधिनि मय्यपि प्रसन्ना वृषशैलेश! यदीक्षितो मयापि ॥ ४६॥ आह्वयन्तु जनाः श्रीश! श्रीनिवासेति भक्तितः । दयावासेत्यहं तु त्वां ब्रवीमि कृतदुष्कृतः ॥ ४७॥ करुणा वरकामिनीव नित्यं हृदयं ते परिवर्तयत्यमोघम् । अहिशैलपते! ततस्तवासीत् जगतां रक्षक इत्यहो! प्रसिद्धिः ॥ ४८॥ दुर्वासःप्रमुखात्तपोधनगणादभ्यागताद्द्रुह्यतः त्रातुं पाण्डुसुतान्वने द्रुपदजाभुक्तावशिष्टाल्पकम् । भुक्त्वा शाकममत्रगं यदुपते! तत्कुक्षिपूर्तिं व्यधाः किं किं वा भवता न कारयति ते स्वान्तस्थितेयं दया ॥ ४९॥ यवनादवनीपतेस्सुभीतो जवनातीतवनो गुहात्तनिद्रम् । मुचुकुन्दमहो! विबोध्य तस्मै दयया दर्शितवान् मुकुन्द रूपम् ॥ ५०॥ वाराङ्गनानर्तनवीक्षणार्थं त्वन्मन्दिरं प्राप्तवतोऽपि नास्तिकान् । अङ्गीकरोष्यात्मविलोकनार्थं समागतान् श्रीश! तवाद्भुता दया ॥ ५१॥ पृदाकुगिरिमन्दार! वन्दारुजनचन्दन । कुब्जामब्जमुखीं चक्रे दया ते चन्दनार्थिनः ॥ ५२॥ किं भुक्ता भवताध्वमृत्, नहि मया भुक्ता, सुहृध्भिस्तथा प्रोक्तं तैरनृतं, प्रदर्शय मुखं व्यादाय पश्याम्यहम् । पश्याम्बेति तथा विधाय वदने लोकास्त्वया दर्शिताः भक्तानां वशवर्तिता तव हरे! कारुण्यमूला किल ॥ ५३॥ त्रिविक्रमसमुद्धृतप्रयतपादपङ्केरुहात् विरिञ्चिपदपङ्कजस्नपितपूतपाथस्स्रुतेः । धरातलमुपागता सुरधुनी पुनाना जनान् तनोति करुणापगाधियमये! वृषाद्रीश्वर ॥ ५४॥ ज्वलनोज्ज्वलितात्महेयकायं करुणादृक्सुधया विधाय सिक्तम् । शरभङ्गमभङ्गुरव्रतं तं करुणानीनयदद्भुतं पदन्ते ॥ ५५॥ अचिन्त्यगुणवैभवप्रकटितात्मसौलभ्यतः चराचर निरन्तरे जगति लब्धजन्मा भवान् । कृतातिदुरितैर्जनैर्जडमनीषिभिर्दूषितः दया तव निरङ्कुशा निरवधिः किमु ब्रूमहे ॥ ५६॥ अधिगतसकलार्थोऽप्यत्र गोष्ठे चरन् सन् व्रजजनपरिभीतो लीनदेहो गृहान्तः । प्रमुषितनवनीतो रज्जुबद्धो जनन्या ननु चिरमरुदस्त्वं कृष्ण! हन्तानुकम्पा ॥ ५७॥ महारण्ये शीलव्यपगमनदूरीकृतसुखां अहल्यां पाषाणस्थितिमुपगतां वल्लभरुषा । दयासीमाभूमे! दशरथसुत! स्वाङ्घ्रिकलनात् विशुद्धां दिव्याभां सपदि कृतवान् हन्त! करुणा ॥ ५८॥ जम्बालचङ्क्रमणलब्धपदाभिपीडं कान्तारसञ्चरणधूल्यवगुण्ठितं त्वाम् । ते न स्मरन्ति नवनीतमुषं वदन्ति धिक्! बालिशान् व्रजजनान् बत! तेऽनुकम्पा ॥ ५९॥ समो भवान् भक्तरिपुं निजारिं जानन्नपि स्फीतदयाविनुन्नः । तद्रक्षणायापि कृतप्रयत्नो दौत्यं निहीनं श्रितवान् मुकुन्द ॥ ६०॥ बलिभुजमपराधिमुख्यगण्यं त्रिभुवनदुर्लभरक्षमभ्यरक्षः । चरणतटनिपातमात्रतुष्टो वृषगिरिनाथ! दया तवाद्भुता हि ॥ ६१॥ कर्णारुन्तुदवाक् क्षुरप्रनिकरैः हृद्दारयन्तं हिधि- क्कुर्वन्तं समितौ सभाजनपरं कुन्तीसुतं रोषतः । चेदीशं प्रविलूय तत्र कदलीलावं शिरोधौ हसन् शेषाद्रीश! भवत्पदाम्बुजमदास्तस्मै दया ते बत ॥ ६२॥ वृषगिरिशिखरे श्रीश्रीनिवासाभिधोऽयं सुरतरुरतितुङ्गः प्रार्थितार्थ प्रदायी । निरतिशयदयाख्यच्छायया स्वाश्रितानां हरति सपदि तापांस्त्रिप्रकारान् भवाग्नेः ॥ ६३॥ वृषाद्रिश‍ृङ्गशीतांशो! दयाज्योत्स्ना तवामला । विकासयति सुस्निग्धं स्फीतं कुवलयं सदा ॥ ६४॥ भुजगगिरिपते! तवानुकम्पा- व्रततिततिः परितस्सुपुष्पिताग्रा । जगदखिलमपि स्वकीयगन्धैः दुरितमलं परिनोदयत्यनल्पैः ॥ ६५॥ हृदयालवालदृढरूढदुष्कृत- द्रुमदारणासिलतिकासि दारुणा । वृषशैलनाथकरुणे! नृणां मन- स्यधिरोपयस्यनुगुणान् गुणद्रुमान् ॥ ६६॥ लक्ष्मीस्स्वयं कृतजनिर्भुवनावनाय क्षीराम्बुधौ भगवतो हृदयं प्रविष्टा । शेषाद्रिनाथकरुणे! भवती तु तस्य स्वान्ते जनिं गतवती परिवर्तनाय ॥ ६७॥ वेलोल्लङ्घनमादितो जडमयो रत्नाकरोऽपि स्वयं शेषाद्रीश्वर! तेऽनुशासनवशान्नैवाचरत्यद्भुतम् । कृत्याकृत्यविवेकबुद्धिविभवं दत्तं विहायोद्धतः वेलोल्लङ्घनमाचरामि करुणे! तत्पाहि मामीदृशम् ॥ ६८॥ अवसितसमरं रथे निषण्णं शिबिरतटे त्ववतार्य फल्गुनं तम् । स्वयमपि रथतोऽवतीर्य शौरे! ज्वलनभयाद्दययान्वपालयो हि ॥ ६९॥ दया कापि कान्ता भुजङ्गाद्रिनेतुः कयापि प्रवृत्त्या प्रियेव प्रकामम् । मनोवास्तुवासा जगज्जन्मियाञ्चां विना मातृकल्पा ददातीप्सितार्थान् ॥ ७०॥ सीतान्वेषणतत्परो रघुपते! पृच्छन् वने पक्षिणो वृक्षान् पर्वत कन्दरांश्च विलपन् हा! जानकीत्याह्वयन् । मध्येमार्गमवेक्ष्य भूमिपतितं गृध्राधिपं दुःखिनं तस्मै सद्गतिमन्त्यकर्मकरणात्प्रादाः दया तेऽनघा ॥ ७१॥ रुक्मिणीं भवदवाप्तिकाङ्क्षिणीमन्यमर्त्यसहवासदूषिणीम् । प्राप्तसन्निधिरचूचुरो हरे! पाणिपीडनकृते दयानघा ॥ ७२॥ सुरभिषु मुषितासु वेधसा द्राक् अधिगततादृशविग्रहो मुकुन्द । व्रजजनमभिहर्षयन्नभूस्त्वं तव करुणा ननु विस्मयं तनोति ॥ ७३॥ दावाग्निं विपिनतटे व्रजार्भकाना- माबाधामुपजनयन्तमन्तकाभम् । शौरे! त्वं सपदि निगीर्य मोददोऽभूः कारुण्यं किमिव नकारयत्यचिन्त्यम् ॥ ७४॥ वृषाचलशिखामणे! तव गुणेषु भद्रात्मके- ष्वचिन्त्यविभवां दयां गदितुमक्षमा सा त्रयी । ह्रिया किल पराङ्मुखी स्थितवती चिरादप्यहो! कथं तु कथयेयमप्यचलदुष्कृतस्ते दयाम् ॥ ७५॥ दया दूरीभूता तव तु हृदयाच्चेद्गुणनिधे! तदैतान् पापस्त्वं श्रुतिविहितकर्मप्रतिभटः । मदाज्ञाच्छेदी त्वं निरयकुहरे घोरतिमिरे क्षिपामीति ब्रूयास्तदिह शरणं यामि करुणाम् ॥ ७६॥ भवसागरतारणे मुरारे! ननु नौरस्यघभारवाहकानाम् । परितस्सुसुखं प्रवर्तयित्री करुणा क्षेपणिका हि यात्रिकानाम् ॥ ७७॥ मालाकारो ग्रथितसुमनोजीवकः कंसवश्यः भक्त्या नम्रः स्वयमुपगतं शेषशैलाग्रदीप । त्वामभ्यर्च्य स्रजमतिगुणामर्पयित्वा स्ववंश्यैः साकं मोक्षं समधिगतवांस्तेऽनुकम्पा विचित्रा ॥ ७८॥ भगवन्! दुहितुर्विवाहसिद्ध्यै हरचापं निहितं विभज्य शौर्यात् । कृततत्करपीडनो व्यतानीः जनकं हृष्टमहो! तवानुकम्पा ॥ ७९॥ करुणा तव मुग्धवल्लवीनां स्मरतापप्रशमैकबद्धदीक्षा । शरणागतवत्सल! त्वदीयं परिरम्भं समदापयद्धि ताभ्यः ॥ ८०॥ करुणा वशवर्तिनी वशेव स्ववशे त्वां परिकल्प्य यूधपाभम् । वृषशैलविभो! गजाभमर्त्यान् भववन्यान् विवशी करोति मत्तान् ॥ ८१॥ अविनाभाविनी कान्ता दये! सा कमलालया । अवनीभाविनी त्वन्तु वेङ्कटेशस्य हृद्गता ॥ ८२॥ विहितकर्मकृदप्यहमल्पधीः अनवधानतया विधितस्स्खलन् । दुरितकृद् वृषशैलशिखामणे! शरणमेमि भवत्करुणां सदा ॥ ८३॥ तैलधारावदच्छिन्नस्मृतिसन्तानतो हरे । ध्यातुं त्वामसमर्थस्त्वत्करुणा शरणं मम ॥ ८४॥ वृषशैलवल्लभदयाख्यदीपिका हृदयान्तरस्थतिमिरं नुदत्यदः । कमलेशपादसरसीरुहे स्थितां वितनोति भक्तिरुचिरद्युतिं नृणाम् ॥ ८५॥ नवकज्जलाभयमुनापयोधुनी- मवगाह्य गोपवनिताभिरच्युत । झषतां प्रदर्श्य तदवाप्तिखेलने समनन्दयो हि करुणा तवानघा ॥ ८६॥ न हि मयि महाविश्वासोऽपि प्रपत्तिकरणे हरे! न च दुरवगाहे शास्त्रे बुद्धिरस्त्यमितपक्षके । न च किमपि कर्म ज्ञानं भक्तिरस्त्यहिगिरेः प्रभो! तव तु करुणां याचे नीचोऽप्यनारतरतिप्रियः ॥ ८७॥ रासक्रीडाकलितललनामण्डले वासुदेव! स्वीयं कायं सुबहु कलयन् कामिनीकामितार्थान् । दत्वाक्रीडो मुरलिवदनः पीतचेलोपवीतः कारुण्यैकप्रणयि खलु ते मानसं माननीयम् ॥ ८८॥ कमलाकटाक्षकरणेऽपि कारणं करुणे त्वमेव फणिशैलचक्रिणः । अत एव सा तु तव सन्निधौ वस- त्यमलायतासितमृगेक्षणा सदा ॥ ८९॥ सुमसायकोऽपि गतविग्रहोऽप्ययं झषकेतनस्तु विषयान् प्रदर्श्य माम् । वनितैकसक्त हृदयं मदोद्धतं वितनोति नाथ! शरणं दयास्तु ते ॥ ९०॥ अमर्षो नित्यं मां कथमपि वशे हन्त! कलयन् पिशाचाभो रक्तप्रचुरनयनं क्रूरवचनम् । प्रतीक्ष्याणामप्यत्यतिभवनसक्तैकमनसं तनोति श्रीश! त्वद्रुचिरकरुणा मेऽस्तु शरणम् ॥ ९१॥ लोभो लाभमुखो व्यये नतमुखः स्वान्तैकवासोऽस्ति मे स्वात्मार्थेऽपि पराङ्मुखो वितरणे मूकानुभावोन्मुखः । शेषग्रावशिखामणे! तव पदन्यासप्रसूनाय वा दत्ता काकणिकापि हन्त! न मया तत्ते दया मे गतिः ॥ ९२॥ मोहोऽहङ्कृतिकल्पकल्पनपटुस्तल्पायमानो महा- मौर्ख्यस्य प्रथमप्रवृत्तिकरणव्यग्रो दुरध्वोद्गतेः । देहात्मभ्रमविभ्रमभ्रमणकृन्मन्मित्रभावं गतः त्वत्पूजाविमुखोऽस्मि वेङ्कटपते! तत्ते दया मे गतिः ॥ ९३॥ मदेन शिथिलेन्द्रियो गुरुवरान्नमस्योचितान् तिरस्करणवीक्षणैर्व्यथितमानसानाचरन् । वृषाचलपते! वयःकुलकलादिभिर्गर्वितः त्वदङ्घ्रिनतिमप्यहं न कृतवान् दया मे गतिः ॥ ९४॥ परधनपरिवीक्षणैकतानः परशुभदर्शनदर्शितात्मवैरः । स्मरणमपि न ते तनोमि तस्मात् वृषशिखरीश! दया गतिस्त्वदीया ॥ ९५॥ कामाद्यवकरपूर्णे हृदालवाले दयाख्यलतिकां ताम् । परिषिच्य वेङ्कटेश! त्वद्गुणसलिलं प्ररोपयाम्यधुना ॥ ९६॥ कंसं निहत्य परहिंसन मानसं तं संसारचक्र इव बन्धनमन्दिरे तौ । बद्धौ विमोच्य पितरौ चिरदुःखितौ त्वं प्राहर्षयो हि नृहरे! करुणा तवेड्या ॥ ९७॥ शकटं निकटे कुटी तटीस्थं प्रकटाटोपपदाभिघट्टनेन । त्रुटितं प्रकटय्य पाटवेन व्रजरक्षामतनोः कृपा तवेड्या ॥ ९८॥ निशितबाणहतिव्रणिताङ्गकः क्रुदभिदर्शितचक्रकरो हरे । नुतिविवर्जितभीष्महतिर्ह्यभूः वचनदूरतरा करुणा तव ॥ ९९॥ बालोऽपि बाहुशिखरेण वृषाद्रिनाथ! गोवर्धनाभिधमुदूह्य शिलोच्चयं गाः । घोरातिवृष्टिहतिभिर्विनिवार्य धैर्या- दामोदयो हि करुणा तव माननीया ॥ १००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे प्रथमशतकं सम्पूर्णम् ।

२. द्वितीयशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमते निगमान्त देशिकाय नमः । अथ दयासहस्रे द्वितीयशतकम् । दिवाकरात्मजाह्रदे निलीनमद्भुताकृतिं पृदाकुमुच्चमस्तके विचित्रताण्डवैर्नटन् । निवार्य दर्पमम्बुधिं भवान्निनाय हिंसकं दया तवानघा हरे! भुजङ्गमाद्रि शेखर ॥ १०१॥ दशाननहतिः कृता न हि तथापि बद्धाञ्जलिं विभीषणमरिन्दमं रिपुसकाशतोऽभ्यागतम् । पयोधितट एव तं समभिषिच्य राज्येऽकरोः रघूत्तम! दयानघा तव वृषाचलस्वामिनः ॥ १०२॥ सुकेतु तनयां वने निजगुरूपदेशोन्मुखः निहत्य मुनिघातिनीं सपदि शैशवे राक्षसान् । निपात्य गुरुकौशिकक्रतुमपि प्रपूर्यादरात् प्रहृष्टहृदयो ह्यभूः तवकृपा विचित्रा हरे! ॥ १०३॥ सङ्कल्पमात्रपरिकल्पितसर्वलोकः कर्मानुरूपकृतजन्मिशरीरयोगः । तत्रापि तत्सुकृतदुष्कृतयोग्यभोग- दातासि देव! करुणा स्पृहणीयरूपा ॥ १०४॥ आत्माभिरक्षणकृते प्रतिजन्तुवर्ग तत्तत्स्वरूपगुणचेष्टितशक्तियोगान् । प्रापय्य रक्षसि यथेच्छमनन्तभूष! शेषाद्रिशेखर! दया तव माननीया ॥ १०५॥ सर्वजन्तुहृदयान्तरस्थितः जीविकाकलनकर्मचोदकः । रक्षसि प्रतिशरीरिवर्गमप्यम्बुजाक्ष! करुणा मनोहरा ॥ १०६॥ लीलार्थं पतगेषु चित्रगरुतां निर्माणमत्यद्भुतं वैविध्यं ध्वनिसन्ततौ कथमिव प्रीतिं न कुर्यान्नृणाम् । एवं वृक्षलतादिकुञ्जनिवहे वैचित्र्यमुच्चावचं सर्वं श्री वृषशैलनाथ! करुणाकार्यं किलैतत्तव ॥ १०७॥ अवाप्तसर्वकामस्य सृष्ट्या किं ते प्रयोजनम् । चेतनोज्जीवनायैव हन्त! ते करुणा हरे ॥ १०८॥ निमित्तमात्रं परिकल्प्य शक्रं स्वयञ्च मथ्नन् दधिमाथमब्धिम् । जीवातुमुत्पादितवांस्त्रिलोकी- त्राणाय ते हन्त! दया रमेश ॥ १०९॥ जगत्सृष्टिशक्तिं प्रसाद्योपदिष्ट- श्रुतिर्वेधसे नाभिपद्मोद्भवाय । जगत्पालने बद्धदीक्षोऽसि कष्टे दयाकार्यमेतत्किलाब्जायताक्ष ॥ ११०॥ रुद्रं रोदनलब्धनामविभवं फालाक्षमक्षाञ्चितं त्रैलोक्यक्षपणक्षमं सभसितं सङ्कल्प्य कल्पे हरे! । रक्षार्थं भुवनत्रयं शिशुतनुर्निक्षिप्य कुक्ष्यन्तरे पाथोधौ शयितोह्यभूर्वटदले मान्यानुकम्पा तव ॥ १११॥ अपवादविनुत्तये स्यमन्तं वररत्नं हृतवानिति प्रमुग्धः । जितजाम्बवदात्त दिव्य रत्नो विगताधिस्त्वमभूर्दया विचित्रा ॥ ११२॥ ननु पूतनान्तु विषपूरितस्तनीं हननाय रम्यतनुमागतां व्रजे । शिशुभाव एव हतवान् पयः पिबन् करुणा विपत्ति परिहारिणी किल ॥ ११३॥ अणोर्जीवस्यान्तः कृतवसतिरानन्दमयता- सुवासो मेरोरप्यतिपृथुतनुर्विश्वतनुभृत् । समस्तस्याप्यन्तर्बहिरपि सदा व्याप्य रुचिमान् जगद्रक्षां तन्वन्विलससि हरे! हन्त! करुणा ॥ ११४॥ त्रिस्सप्तकृत्वो भ्रमणैकशीलः कुठारकृत्तावनिराजलोकः । सद्रक्षकोऽभूर्वृषशैलनाथ! दयैककार्यं किल सर्वमेतत् ॥ ११५॥ संसारचक्रे बहुहेयदेहान् जन्तून् प्रमोहव्यथितान् मुरारे । अर्चावतारप्रकटस्वरूपः सन्तोषयस्यार्तिहरा दया ते ॥ ११६॥ श्री वेङ्कटेश! करुणा तव लोकबन्धुः दीनेषु सक्तहृदया भगवत्पदाब्जे । तेषां मनांसि विनिवेश्य निरन्तरं तान् उद्धर्तुमिच्छति भुवीह कृतार्थयन्ती ॥ ११७॥ विदुरालयमेत्य तत्र भुक्त्वा भयभक्त्यर्पितपायसादि भोज्यम् । अनुजग्रहिथाहिशैलवासिन्! करुणा ते श्रवणाभिरामलीला ॥ ११८॥ स्खलद्गतेस्सदा नाथ! किमस्त्यस्खलनं मम । अतस्ते करुणापाणिरवलम्बनदश्शुभः ॥ ११९॥ प्रपत्तिकरणे मतिं धृडतरां वितन्वन् हरे! मदीयकरणत्रयं निरतमङ्घ्रिसेवाविधौ । चिरन्तनसमार्जितप्रचुरकर्मजां वासनां निराकुरु पराङ्मुखे करुणया विनुन्नो मयि ॥ १२०॥ अकिञ्चनं मां दुरितैकभाजनं सदापराधोन्मुखमम्बुजेक्षण! । कदा कटाक्षैः करुणारसामलैः करिष्यसि स्नापितमीप्सितार्थद ॥ १२१॥ जीवात्मा रुचिरुचिरोऽपि पापसङ्घैः आच्छन्नो बहुतरदुःखभाजनं स्यात् । कारुण्यं पतति तवैह नाथ! यस्मिन् आनन्दी भवति स एव धन्यधन्यः ॥ १२२॥ श्री श्रीनिवास! तव वक्षसि भासमानां लक्ष्मीं विलोक्य मयि सान्त्वनमाविरासीत् । स्मृत्वा मनोनिवसनां करुणां त्वदीयां निर्भीक एव पशुवद्विचरामि भूमौ ॥ १२३॥ परिणामसौख्यवरणाय ते जनैः करुणाकरत्वमरुणोदयोपमम् । शरणागतार्तिहरणानुकूल्यभाक् निरणायि कारणमिति श्रियःपते! ॥ १२४॥ चिन्तामणिस्सुरतरुर्दिवि कामधेनुः ऐरावतस्सुरुचिराप्सरसोऽश्वरत्नम् । एतत्समस्तमहिशैलपते! त्वदीय- कारुण्यविभ्रमभवं किल शक्रहेतोः ॥ १२५॥ वाग्देवतापरिणयोऽम्बुजपत्रनेत्र स्रष्टुस्त्वदीयदयया किल सम्बभूव । फालेक्षणेऽपि भवदीयदयाविशेषात् अत्यद्भुताष्टविधभूति समृद्धिरासीत् ॥ १२६॥ रविमण्डलरूपेण कारुण्यं तव राजते । दद्यादतस्तदेवात्र रुग्णायोल्लाघतां हरे! ॥ १२७॥ कृत्वा यथेच्छममितं दुरितं मनुष्यः कर्मानुरूप फलमुद्गतमश्नुवानः । मौढ्याद्विनिन्दति भवन्तमनन्तरूपं तस्मिन्निपातय कृपामहिशैलनाथ! ॥ १२८॥ पार्थस्य रक्षणकृते भगवंस्तदीय - रथ्यानुचोदनगृहीतकशो रथाग्रे । सारथ्यपाटवविचालित वाजिवर्यः प्रावर्तयो हि समरं करुणा विचित्रा ॥ १२९॥ युद्धे गुरुप्रभृतिबन्धुगणान्निहन्तुं पार्थे प्रकाशितदये सुजनावनाय । सन्दर्श्य विश्वतनुतामुपदिश्य गीतां प्रावर्तयोहि समरं करुणा विचित्रा ॥ १३०॥ राक्षसाशितविसृष्टतापस क्षीणकीकसगणांस्तपोधनैः । दर्शितानभिसमीक्ष्य दुःखितस्सम्बभूव करणामयो भवान् ॥ १३१॥ अल्पवंशजगुहाय पृच्छते चक्रवर्तितनयोऽपि राघव! आत्मनश्चरितमभ्युदीरयन् सख्यमापिथ दया तवानघा ॥ १३२॥ अधिदेवता हि मनसस्स चन्द्रमाः करुणा त्वदीयहृदयैकवासिनी । अत एव शीतकिरणोदये जनाः प्रमदान्विता ननु भवन्ति माधव ॥ १३३॥ कर्मानुरूपसुखदुःखफलानुभूत्यै नानाप्रकारवपुषामिह चेतनानाम् । निश्रेणिरस्ययि! दये! सुकृतैकगम्य- लोकाधिरोहणकृते वृषशैलनेतुः ॥ १३४॥ उदङ्कमुदकार्थिनं विरचितानुयोगक्षण- प्रधावितमुकुन्दमप्ययि! दये! वृषाद्रिप्रभोः । तिरस्कृतदिवस्पतिप्रमददत्तपीयूषकं वरेण समतोषयस्तव विचित्ररूपा क्रिया ॥ १३५॥ अव्याजबन्धुरहमित्यनुशंसनाय स्वीयं परत्वमनपाय्यपि सन्निगूह्य । इन्द्रानुजोऽसि रघुवंशसुतोऽसि चन्द्र- वंश्योऽसि हन्त! करुणा तव वेङ्कटेश! ॥ १३६॥ वनवासरिक्तसितवाहनात्मज- प्रथिताभिमन्यु करपीडनोत्सवे । प्रवितीर्णवस्त्रधनधान्यवाहनो मुदितोऽसि हन्त! करुणा तवानघा ॥ १३७॥ षडूर्मिसन्ताडितदेहबन्धं व्याध्यादियादःकुलकृष्यमाणम् । संसारसिन्धौ प्लवमानमेनमुत्तारयाब्जाक्षदये! द्रुतं माम् ॥ १३८॥ कर्मानुरूपसुखदुःखपरम्परास्ति यद्यप्यनल्पतनुविप्लुतमानसेऽस्मिन् । स्यान्नाम वेङ्कटविभो! दयया तथापि निर्लिप्ततास्तु मयि पुष्करपत्रवद्वा ॥ १३९॥ दुष्टैरप्यनुदिनचिन्तनीयमेतत् वात्सल्यं ननु करुणे! मुरारिचित्ते । रक्षार्थं समजनयो हि दीनबन्धुः दोषाढ्यत्रिभुवनवीक्षणातिखिन्ना ॥ १४०॥ पितृपितामहतत्पितृवर्गमप्यु- परतं भगवन्निह कर्मणा । सकलभोक्तृतया स भवान् दिवं नयति शेषगिरीश! दयानघा ॥ १४१॥ सुकृतदुष्कृतश‍ृङ्खलिकाद्वय- प्रकृतिमण्डलमन्दिरबन्धनम् । मम वृषाद्रिविभो! तव सा दया विघटयत्वचिराद् धृढकुञ्चिका ॥ १४२॥ दुर्भरविराविवेगां विष्णुपदीं तां कपर्दकुहरान्तः । वोढुं शिवाय शक्तिं तवानुकम्पा ददौ हि कमलेश ॥ १४३॥ तत्तत्क्रियानियमिताद्भुतभूतवर्गः सङ्कल्पमात्रपरिकल्पितवैभवोऽयम् । भीत्या तनोति निजकर्मशरीररक्षा- सक्तो दयात्र तव कारणमम्बुजाक्ष ॥ १४४॥ अवाचं संवाचालयसि करुणे! वल्लभतमं श्रितानां दुःखौघप्रशमनकृते सादरहृदम् । खगेशेनाटन्तं चरणकमलाभ्यां क्षितितले मुकुन्दं भक्तार्थं विविधमुखतः चालयसि तम् ॥ १४५॥ सौलभ्यं ननु करुणे! सुशीलता च श्रीनेतुर्द्वयमिदमुत्तमोत्तमस्य । आयातं तव परिचोदनेन तस्मात् अस्मादृग्व्रजजनगोचरोऽत्र सोऽभूत् ॥ १४६॥ भवग्रीष्मे घोरे हरिगुणजलाभावतृषिताः समन्तात्सन्तापैस्त्रिविधविसृतैः प्लुष्टतनवः । दयामेघाळिन्ते वृषगिरिपते! विष्णुपदगाः नराख्या याचन्ते ह्यमृतममलं चातकगणाः ॥ १४७॥ विटपिषु विविधेषु केचिदात्त- प्रसवगुणाः कतिचित् फलाभिरामाः । वृषशिखरिविभो! सपत्रमात्राः कतिचिदिदं करुणाविभेदतस्ते ॥ १४८॥ क्रिमिकीटजनिष्वपि प्रतीक- स्फुटवर्णस्पृहणीयतोद्गता या । ननु सापि वृषाद्रिशेखर! त्व- त्करुणातूलिकया त्वया कृता हि ॥ १४९॥ लास्येन दर्शितविलासवधूस्वरूपः स्वीयं करं स्वशिरसि प्रणिधापयन् सन् । भस्मासुरं वरपरीक्षणधावितेशं भस्मीचकार स भवान् करुणा विचित्रा ॥ १५०॥ समभिमुखयसीमान् कामचारान् मनुष्यान् बहुविधविषयैस्तैः कृष्यमाणेन्द्रियौघान् । वृषगिरिशिखराग्रे कल्पवृक्षस्य विष्णोः इह भुवि करुणे त्वं पादसेवाविधौ हि ॥ १५१॥ यथेच्छसञ्चारपरान्नरान्नो दयागुणेनैव निबध्य वश्यान् । सूतो यथा प्रग्रहपाणिरश्वान् सत्पद्धतौ चारय वेङ्कटेश ॥ १५२॥ तापत्रयाख्यबडिशेन वने भवाख्ये कालाख्यधीवरवरेण निपातितं माम् । शेषाद्रिशेखर! विभो! करुणापयोधा- वुज्जीवयाशु विनिपात्य झषं लुठन्तम् ॥ १५३॥ सान्दीपनिसुतं नष्टं प्रत्यर्प्य गुरुदक्षिणाम् । अपूरयो हि करुणा हन्त! ते वेङ्कटालय ॥ १५४॥ दधिभाण्डभाण्डजठरे निलीय त- द्वशवर्तितां प्रकटयन् पदार्थिने । प्रवितीर्णवान् खलु परम्पदं जुषे वृषशैलनाथ! करुणात्र कारणम् ॥ १५५॥ शयानः क्षीराब्धावुरगपतिपर्यङ्कफलके यशोदाङ्के सुप्त्वा स्तनकलशदुग्धैकरसिकः । पुनानः पृथ्वीं त्वच्चरणकमलोद्भूतरजसा वृषाद्रीशाभूस्त्वं तव हि करुणा कारणमिह ॥ १५६॥ कैकेयी मकुटमयाचतात्मजाय श्रीरामस्तदतुलपादुकाकिरीटम् । तच्छीर्षे विनिहितवांस्तदर्थितस्त्वं वाञ्छातोऽप्यधिकविधायिनी दया ते ॥ १५७॥ द्रोग्धुं त्वन्निकटमुपागताहितेभ्यो दोग्धि द्राक्तव करुणा फलं मुनीड्यम् । कालीयोद्भटशकटादिषु त्वदङ्घ्रि- स्पर्शं सा सुसुखमदापयन् मुकुन्द ॥ १५८॥ पारिजातममरैकसुभोग्यं प्रापयो हि दयितोपवनान्तः । वेङ्कटेशकरुणे! वितनोषि स्वर्गकल्पमवनीतलमल्पम् ॥ १५९॥ मीनात्मा प्रलयपयोनिधौ चरन् सन् श‍ृङ्गाग्रप्रघटितनौविकर्षणाढ्यः । आम्नायान् वृषगिरिनाथ! तानरक्षः कारुण्यं किमिव न कारयत्यचिन्त्यम् ॥ १६०॥ पूर्वं वामनरूपभृद्बलिकरात्पादत्रयैकावनिं प्रार्थ्य प्रांशुतनुर्बभूविथ शुनासीरार्थमब्जेक्षण! । कुब्जां चन्दनमात्मकायसुभगं सम्प्रार्थ्य तां सुन्दरीं आत्मार्थं रुचिरोच्चमूर्तिमतनोश्चित्रानुकम्पा तव ॥ १६१॥ कलौ कारुण्याब्धे! तव पदयुगध्यानविमुखो नितान्तक्लान्तात्मा यदि शरणमीयात्कृतमतिः । तदा तस्मिन् क्षिप्रं प्रकटय कृपां कामपि हरे! तथा नो चेल्लोको भवति विततो नास्तिकगणैः ॥ १६२॥ त्वरितगमनमायुर्भोगतृष्णाकुलं हृत् जठरपिठरपूर्त्यै दुष्कृतैकप्रवृत्तिः । बहुविधगदपीडाक्लिष्टमेतच्छरीरं भुजगशिखरिनाथ! त्वत्कृपैका गतिर्मे ॥ १६३॥ तमोयवनिकादृढस्थगितचित्तसक्तोऽप्यहं नितान्तमतिकुभ्रमोऽप्यमितषड्रिपूपासकः । कृतान्तभयविह्वलस्तव दयान्तु दीनस्स्मरन् निरस्तगुरुसाध्वसो वृषगिरिप्रभो! निर्भरः ॥ १६४॥ भवबद्धशरीरिदर्शनात्त्वां करुणा द्रावयतीह वेङ्कटेश । तदहं विनिवेदयामि तूर्णं प्रणतान् रक्ष वितीर्य तत्पुमर्थान् ॥ १६५॥ श्रीशेषाचलनित्यवासरसिक! श्रीशोऽपि साक्षी भवान् लोकालोकमहीध्रतुल्यविभवं लोकं वितन्वन् हरे । कारुण्यप्रणिपातने प्रकटयत्युच्चावच प्राभवं तेजोरूपमिहैकभागमपरं गाढान्धकारावृतम् ॥ १६६॥ क्षणार्धकृतदुष्कृतप्रशमनाय नानातनु- ष्ववाप्य चिरदुस्तरं विविधदुःखमात्मा भुवि । त्वदीय करुणावशादधिगतद्विजत्वोत्तमः कदापि सुकृती कृती तव कृपां हरे! याचते ॥ १६७॥ हेयेषु नश्वरतया विषयेषु नॄणां या प्रीतिरस्ति वृषशैलविभो! सदा सा । आविर्भवेत्करुणया तव दीनबन्धो! क्वापि त्वदीयपदपङ्कजयोः कदापि ॥ १६८॥ कन्यायां वरकरुणाकटाक्षवीक्षा यस्यां श्रीवृषगिरिनाथ! सम्पतेत्सा । आप्नोति प्रियकरपीडनोत्सवं तत् कन्यासु प्रहिणु कृपाकटाक्षमाशु ॥ १६९॥ पाप्मानो मृगयत मां विहाय दूरात् अन्यत्क्वाप्युदवसितं स्ववासयोग्यम् । अद्यायं निरवधिदुर्गुणोऽप्यहं श्री- शेषाद्रिप्रभुकरुणाकटाक्षपात्रम् ॥ १७०॥ महामोह! दूरे भवाद्यानुकम्पा भुजङ्गाद्रिनेत्रा मयि प्रेषिता सा । विवस्वत्प्रसर्पन्मयूखेषु सत्सु स्थितिस्स्यात्कथं वा तमिस्रस्य लोके ॥ १७१॥ दुरितघस्मरताप्रयतीकृताः ननु जना वृषशैलविभोर्दये । शिशिरयाश्वघिनं तदमुं जनं शशिनिभा भवभीतिविघूर्णितम् ॥ १७२॥ गुञ्जामञ्जुलमस्तकप्रविलसत्पिञ्छाञ्चितावर्तकं भ्रूभङ्गस्फुटितायतालिककनत्कस्तूरिकाचित्रकम् । नानारागतरङ्गरञ्जितचलद्वेणुप्रसक्ताधरं कृष्णं त्वां परिदर्शयिष्यति कदा श्रीश! त्वदीया दया ॥ १७३॥ यथा त्वां ग्राहार्तश्शरणमभजद्वारणपतिः यथा वा पाञ्चाली शिथिलनिजयत्ना दृढमतिः । तथाहं नैवास्मि प्रबलदुरितं पाहि करुणा- कटाक्षेणैव श्रीवृषगिरिपते! मामपि हरे ॥ १७४॥ तिर्यग्भिर्यदुपार्जितं सुकृतजं त्वत्साह्यकर्म प्रियं तस्याल्पांशलवोऽपि हन्त! न मया सम्पादितः पापिना । ग्रावप्रापणसेतुबन्धनमृधैः सेवां पुरा वानराः चक्रुर्नाहमणुं नरोऽपि करुणा तत्ते गतिर्मे हरे ॥ १७५॥ मर्त्येष्वपि श्रयणयोग्ययतीन्द्रवर्य- रामानुजार्यचरणाम्बुजसंश्रयं मे । दत्वा पवित्रमतनोर्ननु वैष्णवं मां श्रीश्रीनिवास! करुणा तव माननीया ॥ १७६॥ अम्भोरुहाक्ष! करुणां तव पापिनोऽपि संस्मृत्य धैर्यवशतश्शरणं व्रजन्ति । काकासुरस्य हि निदर्शनमत्र वृत्तं तत्पाहि पापिनिकरं दयया रमेश ॥ १७७॥ अनुपदमपराधं श्रीनिवास! त्वदीये- ष्वनुदिनमपि तन्वन्मानमत्तोऽस्म्यमर्षी । मयि कृतदुरितौघे नानुतापोऽप्युदेति प्रकटय करुणां तन्मादृशोज्जीवनाय ॥ १७८॥ श्रुत्यन्तसंस्तुतभवत्करुणा मदीयान् दोषान् कदाप्यविगणय्य बिभर्त्यमुं माम् । नो चेत्तथा विविधदुर्गुणवागुरान्तः बद्धः कुरङ्ग इव दुःखमयो भवेयम् ॥ १७९॥ प्रकृत्यनुगुणं सदा विविधवाञ्छया सञ्चरन् अलब्धसुमनोरथस्तदुपलब्धये दुष्कृते । प्रवर्तितमना भवाम्यमितदुःखपात्रं ततः प्रदेहि दययैव मे तव पदाब्जभक्तिं हरे ॥ १८०॥ रामानुजार्यकरचिह्नितशङ्खचक्रः यश्श्रीगुरूत्तमपरम्परिकाप्रतीक्ष्यः । तस्योरगाचलपतेः करुणापगा मां पापैकमन्दिरममुं प्रयता पुनातु ॥ १८१॥ श्रुत्येकगम्यमहिमातिशयं भवन्तं श्रीश्रीनिवास! भुजगेन्द्रमहीध्रश‍ृङ्गे । पश्याम्यहं ननु भवत्करुणाविशेषात् योगीन्द्रमृग्यममरार्चितपादपद्मम् ॥ १८२॥ वर्षातपामितसमीरणसम्भृतेऽपि भोगीन्द्रभूमिधरतुङ्गविशालश‍ृङ्गे । मादृग्जनार्थमवनौ कृतसन्निधानः दृग्गोचरोऽसि करुणा खलु कारणं ते ॥ १८३॥ जानाम्यनादिपरिजृम्भितवासनानु- स्वीयप्रवृत्तिरिति तत्तव नाम पूतम् । न स्मर्यते न च भवत्पदभक्तवर्गोऽ- प्येवं स्थिते तव दया शरणं सदा मे ॥ १८४॥ अधरनिहितवेणुं राधिकालिङ्ग्यमानं मदनपरवशाभिर्वल्लवीभिः परीतम् । विचलदलकपङ्क्तिप्रोच्चलद्बर्हचूडं मम मनसि दये! श्रीनन्दसूनुं निधेहि ॥ १८५॥ यस्मिन् भुवि प्रणयिनी करुणा त्वदीया श्रीश्रीनिवास! स सदा प्रमदान्वितस्सन् । धत्ते सुवृत्तपरिशुद्धगुणां स्वकण्ठे मुक्तावलिं सकललोकविभाव्यमानाम् ॥ १८६॥ हे वेङ्कट! त्वमसि निश्चलतां प्रपन्नः तत्त्वच्छिरोऽर्पितपदः कमलासखोऽयम् । नाहं तथाऽस्मि न हि मे तव भागधेयं सम्प्रार्थये तदिह तत्करुणां सुदीनः ॥ १८७॥ दास्यं कृतं कुजनसन्निधिमेत्य कुक्षि- सम्पूरणाय न हि ते पदयोः कदापि । श्रीवेङ्कटेश! करुणा यदि ते मयि स्यात् एतादृशी किमु दशा मयि सम्भवेद्वा ॥ १८८॥ पुरारचितदुष्कृतोद्गतफलानुभूतौ रुदन् भवन्तमिह गर्हयाम्यविदितात्मपापक्रियः । तथापि रचितस्मितप्रकटितात्मगाम्भीर्यतः कटाक्षयसि मां कृपारसपरिप्लुताक्षो हरे ॥ १८९॥ नोपेक्षणीयमिदमुत्तमपात्रमद्य कारुण्यदुग्धमिह पूरय वेङ्कटेश । मृत्स्नाघटोऽपि ननु गोकुलदुग्धपूर्णः कृष्णात्मकस्य तव भोग्यतमो बभूव ॥ १९०॥ कनत्कनकवाससं कटितटाऽर्पितेलीत्सरुं वरप्रदकराम्बुजं रुचिरजानुचञ्चत्करम् । करद्वयधृतायुधं स्मितमनोज्ञबिम्बाधरं भवन्तमनुकम्पया हृदि सदा मम स्थापय ॥ १९१॥ अचिन्त्यगुणचेष्टितोऽप्यवनिजैर्जनैर्दुष्कृत- प्ररोपितमतिभ्रमैर्नहि भवानहो! गण्यते । तदद्य रचिताञ्जलिस्सविनयं मुहुः प्रार्थये निपातय कृपामृतं भुवि वृषाद्रिधाराधर ॥ १९२॥ लीलामानुषविग्रहं विरचितप्रत्यर्थिसन्निग्रहं कारुण्यैककृतातिमानुषजगद्विख्यापितात्मक्रियम् । जानात्यत्र तु कोऽपि तापसगणस्त्वां भार्गवीवल्लभं नान्ये तत्करुणामृतं प्रहिणु ते शेषाद्रिधाराधर ॥ १९३॥ प्रह्लादं पितृभर्त्सितं दृढतरप्रीतिस्तुतत्वत्पदं स्थास्नुस्तम्भविजृम्भितात्मनृहरिक्रूरस्वरूपो भवान् । हत्वा शत्रुमरक्षदत्र करुणा ते चक्रिणः कारणं तच्छेषाद्रिपते! निपातय कृपां पापात्मके मय्यपि ॥ १९४॥ नवनीतचिक्कण पयःप्लुतांशुक- व्रजगोपिकाभिरभिदर्शितादरः । यमुनातटोच्चपुलिनाभिखेलने व्यहरो हि हन्त! करुणा तवेदृशी ॥ १९५॥ कदर्यगृहदेहलीदरदुरासिकां दारय प्रदापय दये! हरेः करवरेण वित्तं तु मे । यदत्र भगवत्पदप्रवणभक्तवर्गेष्वहं मुदा समुपयुज्य च प्रमुदितो भवेयं सदा ॥ १९६॥ जिह्वा यथा मे न कदापि निन्दां परस्य कुर्याद्वृषशैलनाथ! सदा दया ते सकलेष्टदात्री तनोतु वाचाटममुं तथा माम् ॥ १९७॥ त्वत्कृपापात्रतां नीता वृषशैलशिखामणे! त्वत्कीर्तनपरा मेऽस्तु रसज्ञा मञ्जुभाषिणी ॥ १९८॥ कारुण्यप्रचुरतरं त्वदीयचित्तं काठिण्यप्रवणमिदं मदीयचित्तम् । वस्तुस्थित्यविनिमयः प्रसिद्ध एव श्रीमंस्तन्मयि करुणां कुरु प्रसीद ॥ १९९॥ आशाया विरतिर्नहीह भुवने दत्तेऽपि वित्ते पुनः काङ्क्षा तत्परिवृद्धये च पुनरप्याप्तौ समुज्जृम्भते । एवं स्वानुभवेऽपि तस्य सुमहान् रोगोऽवकाशप्रदः न स्यादेव तदद्य तेऽत्र करुणां नीचोऽपि याचे हरे ॥ २००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे द्वितीयशतकं सम्पूर्णम् ।

३. तृतीयशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमते निगमान्त देशिकाय नमः । अथ दयासहस्रे तृतीयशतकम् । दानेन किं निगमशास्त्रपुराणतत्त्व- ज्ञानेन किं सुतपसा किमु तीर्थगाहैः । योगेन किं किमु जपेन वृषाद्रिनाथ! दूरे भवेद्यदि दया तव दुःखहन्त्री ॥ २०१॥ विकर्तनकुलोद्बवः प्रतिभटं प्रचण्डद्युतिं कुठारवरदारितप्रबलदृप्तराजद्रुमम् । विधाय गततेजसं परशुराममाश्वत्यजो रघूत्तम! दयानघा प्रकटिता रिपावप्यहो ॥ २०२॥ वामाकृतिर्वामनविग्रहस्त्वं सामाभिगीतोऽपि पुरन्दरस्य । कामाभिपूर्त्यै बत! याचकोऽभूः सीमातिगा ते करुणा रमेश ॥ २०३॥ सत्यां दयायां तव वेङ्कटेश! न कर्मठोऽहं न हि भक्तिभाक्च । त्वन्नामवक्ता न न शास्त्रवेत्ता सा रक्षतीति प्रतिपन्नधैर्यः ॥ २०४॥ यथा तथा वा सकृदञ्जलिं हरे! वितन्वतेऽहं वितराम्यभीप्सितम् । इतीरितं तत्परिपालयाशु मां तथाविधं शेषगिरीश! सादरम् ॥ २०५॥ कल्याणकृद्रसनया समुदीरणेन त्वन्नाम दिव्यमभिधातुमपि श्रुतीड्यम् । घोरं रुणद्धि दुरितं चिरसञ्चितं मां तत्क्षालयाशु करुणासलिलैर्मुकुन्द! ॥ २०६॥ कार्यं कारणमन्तरा न हि भवत्येतत् प्रसिद्धं किल श्रीमन्नत्र निदर्शनं त्वहमहिक्ष्माभृद्विभो! साम्प्रतम् । सद्वंशे जननं सतां च निवहे वासः पवित्रावनौ स्थानं ज्ञानिषु भाषणं च करुणाकार्यं किलैतन्मम ॥ २०७॥ अभिनिवेशवशं मम मानसं निजमतानुगतं कथमच्युत! । स्वगुरुवागनुवर्ति भवेत्ततः करुणया ननु वर्तय सत्पथे ॥ २०८॥ मच्छेमुषी विषयमार्गणसम्मुखीना विस्मृत्य सर्वपतिमप्यमिताशया त्वाम् । धावत्यभीतिकुलटेव तदद्य नाथ! सन्मार्गगां तव दयां कुरु तत्सखीं द्राक् ॥ २०९॥ स्मितमुखीं मुकुटप्रसवस्रजं तुहिनवालुकया कृतपुण्ड्रकाम् । मयि दया यदि तेऽहिगिरिप्रभो! नयनगोचरतां स्वतनुं नय ॥ २१०॥ धीसारथिर्विषयिवाजिगणं गृहीत- हृत्प्रग्रहस्तनुरथं गमयत्यतन्द्रः । आत्मा रथी विषयघाससमर्पणेन वाहान् सुपोषयति ते करुणा-सुदूरः ॥ २११॥ प्राणायामविधिर्न मे स्थिरसुखं नाप्यासनं मानस- स्थैर्यं नैव शुचित्वमप्यचपलध्यानं न सिद्धेर्वचः । नो हिंसाविनिवृत्तिरप्युपकृतिर्नैवाहिशैलप्रभो! कारुण्यामृतवर्षिणं प्रहिणु तत्स्वीयं कटाक्षं मयि ॥ २१२॥ कतकक्षोदवत्पाथो वेङ्कटेश! दया तव । तनोतु निर्मलं मेऽद्य किल्बिषैराविलं मनः ॥ २१३॥ भोगीन्द्रतुङ्गाद्रिशिरोविवस्वन्! विसृत्वरास्ते करुणामयूखाः । आविद्यमन्तर्दृढगाढरूढं तमो व्यपोहन्तु पिनद्धचक्षुः ॥ २१४॥ अनिमिषपरिवीक्षणीयमन्त- स्स्मरणविवर्धितदिव्यमोदभारम् । प्रकटितकरुणं त्वदीयरूपं हृदयतटाक तटेऽटतु प्रभो! मे ॥ २१५॥ नग्ना विधाय यमुनासलिलार्धमग्नाः गोपीस्तदंशुकहरो मुमुदे भवान् हि । मग्नान्तु दुःखजलधौ पटदो ह्यनग्नां कृष्णां शुशोच करुणा तव चित्ररूपा ॥ २१६॥ दिव्यापवर्गसुखपद्धतिसाक्षिणं तं रामानुजं मुनिवरं शरणार्थिने मे । सन्दर्श्य भोगिगिरिनाथ! भवाब्धिभाजे मन्दस्मितोऽसि करुणा तव मादृशाय ॥ २१७॥ कीशानस्रपघातितान् समरभूसुप्तान् स्वसाह्योन्मुखान् मर्त्यात्मा सुरसार्वभौमवरतः स्वात्मार्थमुत्थाप्य च । सप्राणान् समतोषयो हि भुजगक्ष्माभृत्सुधादीधिते! कारुण्यं तव वागगोचरमहो! मादृग्विधे माधव ॥ २१८॥ कादम्बिनी सुजनदुर्जनतारतम्यं किंवावलोकयति? तप्तजनान् धिनोति । एवं वृषाचलपते! करुणा त्वदीया तापत्रयैकनिलयान् शिशिरीकरोतु ॥ २१९॥ अनुभवन्ति जना निजकर्मतः सुखमशर्म च शेषगिरिप्रभो । तदपि ते करुणा श्रितवत्सला शमयतु श्रितदुःखमभीष्टदा ॥ २२०॥ भुजगावनिभृच्छिरोविहारिन्! यदि दीयेत पुनश्च जन्म मह्यम् । भवता दयया प्रदीयतां श्री- मुनिरामानुजपादपूतदेशे ॥ २२१॥ सीमातीतप्रचुरविभवा भावनागम्यरूपा त्रैलोक्यस्थैरहमहमिकाप्रार्थनीया दया ते । दैन्यक्षोणीभृदशनिरहिक्ष्माभृदग्रावतंस! त्वत्कीर्तिश्रीप्रसरणचणा भाग्यतो भाति कापि ॥ २२२॥ अभ्यर्थनाप्रकारः प्राकृतधिषणस्य नैव मे विदितः । निर्हेतुकप्रसन्ना करुणा रक्षतु तवाहिशैलप्रभो ॥ २२३॥ वाराहं प्रयतसवाङ्गदिव्यरूपं सम्प्राप्य प्रलयपयोनिधौ निमग्नाम् । उद्धृत्य क्षितिमिव मां भवाब्धिमग्नं रक्ष त्वत्सितकरुणाख्यदंष्ट्रयैव ॥ २२४॥ मृगराजशिरा नरोत्तमस्त्वं रिपुहन्ता रमया प्रशामितक्रुत् । अपि चेद्दयया विचोदितस्सन् न भवेश्श्रीश! जगद्भवेत्कथं वा ॥ २२५॥ विध्यादयस्तव दयोदयतस्त्वदीयां दिव्यामुदारदरदूरविभूतिमेत्य । देदीप्यमानदिविषत्परिषत्परीताः श्री वेङ्कटेश! विलसन्ति निरङ्कुशास्ते ॥ २२६॥ मा नो भुजङ्गमगिरीन्द्रशिरोविहारिन्! मानोऽस्तु मर्त्यनिवहेषु कदापि नाथ! । त्वत्पादतामरसकिङ्करतोपलब्ध्या सोऽस्तु त्वदीयसहवासविशेषजन्मा ॥ २२७॥ स्वामिन्नुदारकरुणा तव किङ्करेऽस्मिन् साह्यं महत्कृतवती जगतीतलेऽस्मिन् । त्वद्दर्शनानुभवकन्दलितानुभाव- हर्षप्रकर्षपुलकाञ्चितमातनोन्माम् ॥ २२८॥ दुरत्यया हि माया ते तया वागुरयेव माम् । बद्धं विमोचयत्वेनं करुणा ते रमापते ॥ २२९॥ यथा भवन्तं पश्येम शरदश्शतमादरात् । अस्मास्वनुग्रहं कुर्यात्तथा ते करुणाच्युत ॥ २३०॥ कठोरहृदयासुरप्रकुपिताक्षिसंस्तम्भन- प्रदानपटुवीक्षणक्षपितवैरभारं हरे! । प्रदर्शितसुविभ्रमं भ्रमरकाञ्चितास्याम्बुजं दया किल ददौ तदा रुचिरमोहिनीवर्ष्म ते ॥ २३१॥ भवदङ्घ्रिसरोजचिन्तनैक- स्थिरचित्तत्वमराळगाद्रिनाथ! । वितरत्वनिशं श्रिताय मह्यं करुणा ते सकलेप्सिदार्थदात्री ॥ २३२॥ कामादिचञ्चलषडूर्म्यभिताडितात्मा नामापि ते स्मृतिपथे न निवेशयामि । सामाद्युपायगणना न कृता मया तत् सीमातिगा तव दयाच्युत! मां पुनातु ॥ २३३॥ क्षीणात्मा दुरितचयैश्चिरार्जितैस्ते कारुण्यं किमु कथयेयमम्बुजाक्ष! । यन्मे त्वन्निरुपमदर्शनन्तु काक- तालीयं समभवदत्र वेङ्कटेश ॥ २३४॥ सुकुमारकान्त शिशुभावभावितं कमनीयरूपमवनीपभर्त्सितम् । ध्रुवमादरेण तपसि स्थितं वने दययैव वेङ्कटपते! ररक्षिथ ॥ २३५॥ मातर्दये! कुरु तथा हृदि मे यथा स्यात् श्रीश्रीनिवासचरणस्मरणं समोदम् । तत्कीर्तन-श्रवण-वन्दन-मन्दिराभि- यानादयश्च करणेष्वितरेषु नित्यम् ॥ २३६॥ असत्यमशौचमनारतदौष्ट्यं विनिन्दितकर्मरतिं च दयालो! । अहीशशिलोच्चयश‍ृङ्गविहारिन्! निराकुरु सर्वमिदं दयया मे ॥ २३७॥ स्मरंस्तव दयालुतां दुरितकृद्भवाम्युद्धतः भवेयमिति भावयंस्तव दयैकसद्भाजनम् । यतस्तव दया सदा दुरितदुःखिनस्सान्त्वय- त्यमेयशुभवैभव! द्विरसनाद्रिदीपाच्युत ॥ २३८॥ किं वा कृतं सुकृतमत्र मनुष्यदेह- भाजा मयेति सुविचारविलोडिते मे । हन्ताविचाररमणीयमिदं किलेति चित्तं वदत्ययि! दयां कुरु तद्रमेश ॥ २३९॥ करोटिपटलस्रजो भसितलिप्तचञ्चत्तनोः श्मशानवसतेः ज्वलत्कुटिलफालचक्षुष्मतः । गजाजिनकटेः नटद्विकटभूतसङ्घप्रभोः शिवत्वमभवत्सरीसृपगिरीशकारुण्यतः ॥ २४०॥ सौलभ्यं न हि गणयन्ति मानवास्ते पारम्यं तदपि वृथैव भूतलेऽस्मिन् । अर्च्यत्वं तु दुरुपयोजयन्ति मौढ्यात् त्वां याचे तदिह दयां निधेहि नाथ ॥ २४१॥ सत्वोद्रेकात्कतिचन सदा भावयन्त्यात्मतुष्ट्यै केचित्स्वीयं निरुपमफलं काङ्क्षमाणा रजस्तः । अन्यद्रोहे निरतमतयस्तामसास्त्वां मुरारे! सर्वत्रापि त्वदतुलदयात्वेकरूपा किमेतत्? ॥ २४२॥ त्यज हृदय! भयं तन्नारकाद्रौरवाख्यात् यदपि दुरितकृत्त्वं शङ्कमानं बिभेषि । श‍ृणु हितवचनं मे कापि जागर्ति विष्णोः त्वदुपमजनरक्षाबद्धदीक्षानुकम्पा ॥ २४३॥ कलिकल्मषाभिहतमानसे जने विनिवेदयामि यदि वैभवं तव । परिहासभाजनमहो भवाम्यहं वृषशैलनाथ! कुरु तादृशे दयाम् ॥ २४४॥ किं वा पयोधितनया सहचारिणी ते मा श्रीनिवासकरुणे! ननु तादृशी भूः । एकत्र सात्वचपला न हि तिष्ठति त्वं स्याश्चेत्तथा जगदिद कथमम्ब! तिष्ठेत्? ॥ २४५॥ उच्चस्थलाद्वहति विष्णुपदी पवित्रा नीचेषु संश्रितजनाघविमोचनाय । श्रीवेङ्कटेशकरुणापि तथैव हन्त! लोके महात्मसरणिस्सहजैकरूपा ॥ २४६॥ यं जायमानमहिशैलपते! पुमांसं पश्येरनुग्रहसुपूर्णकृपाकटाक्षैः । श्रीमान् गुणी धिषणतुल्यमतिस्सुरूपो लोकप्रियो दृढतनुस्सुकृती भवेत्सः ॥ २४७॥ जगत्सृष्टिरक्षाविनाशादिकर्म स्वसङ्कल्पमात्रेण तन्वन्नपि त्वम् । नृशंसासुरध्वंसनायावतीर्णो धरित्र्यां कृपाकार्यमेतत्किलेश ॥ २४८॥ सर्वव्यापी निरवधिगुणः कर्मसाक्षी दयालुः तत्तत्कर्मप्रशमनकृते चेतनेभ्यश्शरीरम् । दत्वा स्वीयप्रपदनविधिं बोधयन् शास्त्रतस्तान् रक्षस्यम्भोरुहनयन! ते तां दयां किं ब्रवीमि ॥ २४९॥ चिरार्जिततपःफलं किमुत ते कृपायाः फलं वृषाचलशिखामणे! मम तु वैष्णवानां कुले । जनिर्यदभवत्ततस्तव पदाब्जनुत्यै स्पृहा यतीन्द्रपदसंश्रयः प्रयतदिव्यदेशे स्थितिः ॥ २५०॥ श्रीश्रीनिवास! मयि ते करुणा न चेत्स्यात् त्वत्सन्निधौ कृतकठोरतरापराधः । काकोलवत्त्रिभुवनेषु च कान्दिशीकः दीनश्चरेयमुरुवक्रगतिर्नृशंसः ॥ २५१॥ कमला विमलायताब्जनेत्री तवलीलाकलनाय वेङ्कटेश! जगदेतदकारयत्त्वदीया करुणा रक्षति तत्तदर्थदात्री ॥ २५२॥ आततायिनममेय बलाढ्यं वेङ्कटेश षडराति समूहम् । छिन्धि कन्दलितदुष्टकुचेष्टं त्वद्दयासि शितधारिकया द्राक् ॥ २५३॥ श्रीवेङ्कटेश! सुमतेर्विजितेन्द्रियस्य क्वाप्यन्तरङ्गललनाकृतसन्निधानम् । नास्य प्रकल्पयसि यत्त्वमिहावकाशं स्वामिंस्तदेव खलु ते करुणैककार्यम् ॥ २५४॥ पापाद्व्याधिर्भवति हि ततो ग्लानिरात्मन्युदेति प्रायो देहे तदनु विरसा हेयताशेमुषी स्यात् । एषा रीतिर्वृषगिरिपते! त्वत्पदध्यानतोऽपि स्याद्दुःखाढ्यं प्रथममपरं मोददं त्वत्कृपातः ॥ २५५॥ स्तम्भात्सान्द्रात् श्रितनिजमहाभक्तबालस्य सूक्तिं साक्षात्सत्यापयितुमुदभूर्नारसिंहस्वरूपः । सिक्ताङ्गोऽभूर्धमनिरुधिरैर्दारितारातिवक्षाः कारुण्यैकप्रवणहृदयो हेयभोग्यो हि जातः ॥ २५६॥ प्रलयकालनिजोदररक्षित- त्रिभुवनोऽपि वसन् व्रजमन्दिरे । क्षुदभिपीडितवन्नवनीतमुट् करुणयाज्ञजनेष्वभवश्शिशुः ॥ २५७॥ कस्तूरीतिलकं तव क्व निटिले क्वेदं व्रजे गोमयं पक्षीन्द्राटनमम्बरे क्व नु तव क्वारण्यपादाटनम् । सूरीन्द्रैः क्व सहानुभूतिरिह ते गोपैः क्व सख्यं व्रजे भोगीन्द्राचलश‍ृङ्गदीप! करुणानिघ्नोऽसि चित्राकृतिः ॥ २५८॥ किं कारणं रघुपते! चरणत्रयं द्राक् पश्चाद्गताः खरखरादिरणाजिरे त्वम् । किं वारिराक्षसगणेष्वपि तेऽनुकम्पा नूनं त्वदीयहृदयं सकलैकरूपम् ॥ २५९॥ सम्पत्समृद्धिविभवोऽपि सुखी न मर्त्यः वित्तव्ययामयवयःपरिणामदुःखैः । क्लिष्टो हि तच्चरणयुग्ममिदं भजस्वे- त्यङ्घ्री प्रदर्शयसि किं कृपया करेण ॥ २६०॥ प्रकृतिमण्डलपञ्जरमध्यगः शुकनिभोऽशनपानवशंवदः । विगतपक्षतयाहिगिरिप्रभो! तव कृपां ननु मोक्षकृतेऽर्थये ॥ २६१॥ कालक्षेपश्चलति बहुशः क्षुत्पिपासादिशान्त्यै नित्यं रात्रिन्दिवमपि परक्रीतदेहस्य नाथ! । त्वत्सेवायामविचलमतिर्मे कदोदेष्यति श्री- शेषाद्रीश! प्रयतमनसस्त्वत्कृपानुग्रहाद्वा ॥ २६२॥ अरुणोदयेन विकचाम्बुजव्रजं मधुमञ्जुलाभमलिमण्डलं यथा । अहिशैलनाथ! करुणोदयेन ते पदपद्ममात्महृदयं व्रजेत्तथा ॥ २६३॥ सुखधिया विषयानलमादरात् अभिपतन्तमुपर्यभिधावितम् । करुणया विनिवारय मां रयात् शलभसन्निभमम्बुजलोचन ॥ २६४॥ कारुण्याञ्जनमञ्जनाद्रिनिभ! ते वात्सल्यकुञ्च्यार्पयन् अन्तश्चक्षुषि जन्मतः प्रभृति मे सम्भूतमान्ध्यं हरन् । कान्तारस्य भवाभिदस्य सरणौ शश्वत् स्खलत्पद्गतेः आविर्भावय वेङ्कटेश! नयनं सन्मार्गसम्प्रापकम् ॥ २६५॥ स्वाङ्घ्रौ निपत्य निजरक्षणमर्थयन्तं भीतं सरीसृपवरं परिनुद्य शत्रौ । तार्क्ष्ये निजाङ्घ्रिशिखरेण वृषाचलेश! तद्रक्षणे करुणया तमयूयुजो हि ॥ २६६॥ तापत्रयैकनिलयः करणत्रयेण कालत्रयं विरचितत्रिविधापराधः । लोकत्रयेऽप्यविहितत्रिपुमर्थलाभः याचे तवाद्य करुणां शरणं रमेश ॥ २६७॥ वनितातनयालयादिसौख्यं निजकर्मानुगुणं भवत्यतन्द्रम् । तदहं स्पृहयामि नैव तस्मै करुणायै तव वेङ्कटेश! किन्तु ॥ २६८॥ मात्रा बद्धः कुपितमनसा स्वोदरे वत्सदाम्ना प्रारोदीस्त्वं प्रशकनगुणोऽप्यल्पबन्धासहिष्णुः । नित्यं बद्धः कथमिव भवे दुर्बलोऽहं न रुद्यां शेषाद्रीश! प्रहिणु करुणां तन्मयि स्फीतदुःखे ॥ २६९॥ किम्पचत्वविनिवारितधैर्यः पापकर्मणि रतोऽस्मि नितान्तम् । पाहि तत्करुणया प्रवितीर्य श्रीश! नित्यममितम्पचतां मे ॥ २७०॥ कालो गच्छति यौवनव्यतिकरप्राप्तानुरागः पुमान् नारीविभ्रमभव्यहृन्न गणयत्यात्मक्षतिं तत्त्वतः । जातोऽयं प्रवयाः क्रमेण गलितस्वात्मेन्द्रियो बन्धुभिः त्यक्तः खिद्यति वेङ्कटेश! करुणां पुंस्यर्पय प्रार्थये ॥ २७१॥ दत्ते शास्त्रेप्यमितमतयस्तर्कतोऽपार्थनिष्ठाः सर्वं मिथ्या नयनविषयं स्वप्नतुल्यं ब्रुवाणाः । सत्यं ब्रह्म त्वगुणमिति ये साधयन्ति त्वदीया दूरे तेषां निरुपमदयेत्यच्युताहं तु वेद्मि ॥ २७२॥ मच्चित्तकालीयफणोपरि त्वं नृत्यन्नघक्ष्वेलमपोह्य दीनम् । आनन्दसिन्धुं नय तं दयालो श्रीशेषशैलेश! कृपाकटाक्षैः ॥ २७३॥ सद्वंशजोऽपि ननु सीदसि रे! निजान्तः तुच्छोऽस्स्म्यहन्त्विति मुधा वृषशैलनेतुः । जागर्ति तस्य करुणा भुवि वेणुतुल्यं त्वां ग्राहयत्यभिमुखी खलु शौरिणा सा ॥ २७४॥ अक्रूराय रथेन कंसनिकटं नेतुं सभक्तीयुषे मग्नायार्यमसम्भवोदकरये दिव्यस्वरूपं यथा । क्रूरायापि भवाम्बुराशिजठरे मग्नाय मह्यं तथा दत्वानन्दय भक्तिरिक्तमनसे श्रीश! अनुकम्पोज्ज्वल! ॥ २७५॥ दैत्यास्स्वयं निजसमीपमुपागतं त्वां वीक्ष्य त्वदङ्घ्रिकरपद्मवराभिमर्शम् । प्रापुर्यथा न हि तथा मुनयोऽपि तत्ते शत्रुष्ववैमि करुणा त्वधिकेति नाथ ॥ २७६॥ दुर्योधनाय विशदीकृतशात्रवाय सन्दर्शितं सदसि तावकविश्वरूपम् । यद्दुर्लभं मननशीलतपस्विनां तत् कारुण्यकार्यमनियन्त्रितमम्बुजाक्ष ॥ २७७॥ शबरीवितीर्णविघसाशनोऽभवः वृषशैलनाथ! ननु शास्त्रदूषितम् । कृतवान् किमत्र करुणा तु कारणं किमु तत्सुभक्तिरथवा रघूद्वह ॥ २७८॥ कामं सन्तु प्रथितविभवा देवता यास्तु लोके भक्तेभ्यो यत्प्रियमुपहरन्त्यल्पसौख्यं तदेव । सर्वस्य त्वं हितकृदचलस्फीतसौख्यप्रदो यत् शेषाद्रीश! त्वयि वसति तन्मातृकल्पानुकम्पा ॥ २७९॥ तेजोमयस्स भगवान् पुरुषोत्तमस्त्वं मादृग्जनावनकृते वृषशैलश‍ृङ्गम् । उच्चस्थलं समधिरुह्य दिदृक्षयैव तिष्ठस्यहो! करुणया भुवि वेङ्कटेश ॥ २८०॥ उपग्राह्यं दत्तं श्रितनृपतिभिर्दृप्तनयनः निजापाङ्गेनैव क्षणमभिमुखीभूय सपदि । स्वभृत्यायत्तं यः कलयति हरे! सोऽपि करुणा सुदूरे चेद्दीनो वसति विपिने शत्रुभयतः ॥ २८१॥ हेयत्वप्रतिपादनेऽपि विषयेष्वाभीलवर्त्मोन्मुखे- ष्वल्पानन्द विधायिषु प्रणयिनो मर्त्याः किमर्थं वद । संस्कारस्थिरवासनाबलमिदं चेद्वेङ्कटेश! प्रभो! कारुण्यामृतसेचनेन हृदयं निर्णिक्तमापादय ॥ २८२॥ गजेन्द्रपरिरकक्षणे कृतमतिर्भवांस्तस्य च स्वभक्तगजराट् पदग्रहणमुक्तघोरांहसः । विदार्य निजचक्रतः प्रथममेव तां नक्रता- मपाहरदहो! हरे! तव कृपात्वपारा खलु ॥ २८३॥ ग्रहणकुर्दनसक्तमना हरे! रविसुतासलिले रमणीततेः । प्रतितरङ्गगणप्रतिबिम्बितं करुणयाकलयस्स्वमृतं वशम् ॥ २८४॥ नाहं त्वदीय पदपङ्कजयोर्नमस्यां पुष्पोदकोदनफलादि सुभोग्यवस्तु । प्रीत्यै कदापि भवतेऽर्पितवान् मुरारे! सत्येवमप्यकलयः करुणां मयीत्थम् ॥ २८५॥ सृष्टं त्वयैव सुमचन्दनभोग्यवस्तु श्रीवेङ्कटेश! भवते तदपि प्रयत्नात् । नाहं कदापि करतोऽर्पितवांस्तथापि मय्याहिताधिक दयोऽसि दयानिधे! त्वम् ॥ २८६॥ त्वया सृष्टान् ब्रह्मप्रमुखविबुधान्मन्दमतयो भजन्ते ते हेयक्षणिकफललाभाय बहुशः । तपोभिर्यागाद्यैः पशुविशसनस्फीतकरणैः न मन्यन्ते ये त्वां स्थिरसुखदमत्यद्भुतदयम् ॥ २८७॥ अल्पास्थिरत्वमतयस्सुगुरूपदेशैः स्वर्गादिषु प्रणयिनो न भवन्ति धीराः । भान्त्यत्र किन्तु भवदीयपदाब्जसक्ताः श्री वेङ्कटेश! करुणां तव काङ्क्षमाणाः ॥ २८८॥ यद्यद्विभूतिमदिह प्रथितप्रभावं तत्तत्त्वदीयमहिमातिशयोर्जितं हि । एवं शरीरिषु कदापि दयाविशेषात् क्वापि प्रकृष्टसुकृती ननु भाजनं स्यात् ॥ २८९॥ तपसा न तथाप्युपासनाद्यैः न तथा धूमसुमोदनार्पणेन । न तथा वृषशैलनाथ! दीने दयया ते मनुजे यथा प्रसन्नः ॥ २९०॥ श्रीवेङ्कटेश! नवहीरकिरीटशीर्ष स्निग्धासितातिमृदुलालकपङ्क्तिभोग्यम् । आकर्णविस्तृतविलोचनपुण्डरीकं मन्मानसे तव मुखं कृपयाविरस्तु ॥ २९१॥ ग्रैवेयकप्रसृतरत्नमयूखकान्ति- गीर्णत्रिरेखगललोलसुवर्णमालम् । लक्ष्मीविलासनिलयं सुममालिकाढ्यं मन्मानसे वसतु ते कृपयैव वक्षः ॥ २९२॥ शुभ्राभ्रचूर्णविमलोर्ध्वविशालपुण्ड्रं मन्दस्मितोन्नतकपोलमनोज्ञरूपम् । अंसावलम्बिमणिकुण्डलदीप्रकर्णं मन्मानसे तव मुखं कृपयाविरस्तु ॥ २९३॥ श्रीश्रीनिवास! रुचिराधरपीठकल्पं विन्यस्तशुभ्रघनकैतवगुप्तमौग्ध्यम् । स्निग्धातिमांसलसुनिस्तलभव्यरूपं मन्मानसं स्मरतु ते चुबुकं दयालोः ॥ २९४॥ अंसद्वयाञ्चलसमर्पितशङ्खचक्रं आभूमिलम्बितमहाधनगूढहस्तम् । गाङ्गेयलम्बिपृथुलोज्ज्वलभूषणाढ्यं बाहुद्वयं स्मरतु ते कृपया मनो मे ॥ २९५॥ प्रत्युप्तहीरमयहेमतलाञ्चितन्ते विश्राणनाहितमणिं च विराजमानम् । पाणिं वरप्रदमहीन्द्रमहीध्रनाथ! मन्मानसं स्मरतु ते करुणाविशेषात् ॥ २९६॥ दैर्घ्यन्तु मातुमिव जानुतटार्पिताग्रं दैर्घ्यादिवाल्पवलिताहितपाणिपद्मम् । भोगीन्द्रभोगनिभमम्बुजनेत्र! वामं बाहुं स्मरामि कृपया तव भोगिभूषम् ॥ २९७॥ काञ्चीकलापविनिवेशितखड्गकोशं हेमाभिचित्रितमहाधनभासुराङ्गम् । श्रीवेङ्कटेश! कटिदेशमहं त्वदीयं नित्यं स्मरामि करुणामृतभाजनं ते ॥ २९८॥ अस्मच्चिरार्जितभयानकपापसङ्घ- जङ्घालताकरणघोषणकाहली ते । श्रीवेङ्कटेश! कनकाम्बरभासुराभे जङ्घे स्मरामि करुणामृतभाजनं ते ॥ २९९॥ यन्निस्सृतोदकधुनी जनपावनी यत्- संस्पर्शतो दृषदपि प्रयताबलाभूत् । श्रीवेङ्कटेश! तव तत्पदपङ्कजं मे चित्ते सदास्तु करुणामृतभाजनस्य ॥ ३००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे तृतीयशतकं सम्पूर्णम् ।

४. चतुर्थशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमते निगमान्त देशिकाय नमः । अथ दयासहस्रे चतुर्थशतकम् । प्राचीनकर्मपरिवीक्षणमम्बुजाक्ष! युक्तं किमु श्रितजनेष्वपि दुःखभाक्षु । त्वामेव रक्षकतया शरणं प्रपन्नं रक्ष द्रुतं करुणया वृषशैलनाथ ॥ ३०१॥ लीलार्थं यदपि भवान् प्रवृत्त एव त्वल्लीलाविषयचराचरं जगद्धि । किं कुर्वन्त्यमितविचित्रदुःखभाजः कारुण्यं तव शरणं मुकुन्द! तेषाम् ॥ ३०२॥ नवग्रहबलं भवत्प्रथितशक्त्यधीनं किल त्वदीयनयनाञ्चलप्रचलनात्तकार्या हि ते । निपातय तदद्य मा तदुपरि प्रथां त्वं वृथा कृपां कुरु कृपानिधे! सपदि सापराधेष्वपि ॥ ३०३॥ दयानिधिः कारुणिकः कृपालुः कारुण्यमूर्तिः करुणापयोधिः । इतीरयन्तीह जना भवन्तं श्रीवेङ्कटेश! त्वदनन्यभावाः ॥ ३०४॥ लोकत्रयेऽपि पुरुषोत्तम एक एव श्रीमन् भवांस्त्वदितरे निखिलाश्च लोकाः । नार्यात्मका इति कृतं तदमुं जनं मां अङ्गीकुरुष्व कृपया तव भोग्यवस्तु ॥ ३०५॥ करुणाकर इत्यहं भवन्तं रमणीयाद्भुतविग्रहं युवानम् । उपगन्तुं अभीप्सयास्मि दीना करुणां ते मयि पातयाशु नाथ ॥ ३०६॥ स्त्रीचापलं विदितमेव सदा युवानं श्रीमन्तमुज्ज्वलतनुं गुणिनं पुमांसम् । मुग्धाभिकाङ्क्षति मुदेति तदद्य नाथ! त्वय्यर्पितं मम मनः करुणां कुरु त्वम् ॥ ३०७॥ रत्नाकरस्य तनयामुपयम्य तुष्टः तत्क्रीडनैकनिरतः श्वशुरालये त्वम् । नित्यं शयालुरसि भोगिमृदूच्चतल्पे दीनेषु नाथ! करुणा कथमापतेत्ते ॥ ३०८॥ सद्यः प्रफुल्लनवसौरभपुष्पमाल्यं भोग्यानि पक्वमधुराणि फलानि धूपम् । श्रीवेङ्कटेश! भवदर्थमहं चिरेण विन्यस्य तेऽभिगमनं प्रतिपालयामि ॥ ३०९॥ क्वासीति मार्गणकृतेऽप्यबलोज्झितह्रीः एकाकिनी क्वनु कथं गतभीः भ्रमामि । पृच्छामि कं भुवि न कोऽपि भवत्स्वरूपं जानाति तत्करुणया समुपेहि नाथ ॥ ३१०॥ त्वं त्वेकभार्य इति किं विरमामि नाथ! नैवं हि दिव्यमहिषीशतवल्लभोऽसि । तस्मात्त्वदीयकरुणामभिकाङ्क्षमाणा त्वल्लाभमात्रतृषिता शरणं व्रजामि ॥ ३११॥ किं यासि तार्क्ष्यगमनश्श्रितरक्षणाय यत्राह्वयन्ति बहवो ननु मादृशास्त्वाम् । किं वाथवा मयि यथा नितरां तथैव नाथ! प्रकाशयसि तेष्वपि निर्दयत्वम् ॥ ३१२॥ सद्गुरुं ननु पुरोहितं कुरु प्रार्थयात्महितकाङ्क्षयैव तम् । सोऽनुदर्शयति चेदिति प्रियं देहि तादृशगुरुं त्वमेव मे ॥ ३१३॥ अनभ्यर्चितोऽपि प्रसूनैर्मया त्वं कृपादृष्टिपातैस्सदानन्ददो मे । स्थितेऽप्येवमेनां कुतो वा सुदूरे निधित्सस्यहो! तेऽनुकम्पा विचित्रा ॥ ३१४॥ नित्यमङ्गलगुणांस्तवानिशं भावयन्त्यनवधिप्रमोदभाक् । त्वत्समागमसुखेप्सयास्म्यहं वेङ्कटेश! करुणैककाङ्क्षिणी ॥ ३१५॥ त्वत्प्राप्तिकाङ्क्षिहृदयं मम दीनबन्धो! निर्निद्रतागलितशक्तिनितान्ततान्तम् । बाह्येन्द्रियाणि विकलानि तनोति नाथ! तस्मान्मयि प्रहिणु ते करुणां कृपालो ॥ ३१६॥ सौरभ्यपूर्णतुलसीवनमालिका श्री- दीप्रेन्द्रनीलफलकामलवक्षसं त्वाम् । नित्यं स्मरन्त्यपगताखिलकल्मषास्मि स्वीकृत्य तत्करुणयाच्युत! मां पुनीहि ॥ ३१७॥ गोपीभिर्नवनीतगन्धितनुभिस्स्विन्नाङ्गकाभिर्व्रजे ग्राम्याभूषणभूषिताभिरनिशं गोविट् कराभिर्हरे! । क्रीडन् भोग्यतया प्रमोदमभजो नाहं तथा किं कृपा- पात्रं ते वृषशैलनाथ! कृपया तादृग्विधां स्वीकुरु ॥ ३१८॥ श्रुतिवेद्यमात्मनि विचिन्त्य दर्शन- स्पृहयैव सन्ततविचारतत्परा । विबुधैरुदीरितमहं निशम्य ते त्वनुपालयामि करुणां रमापते ॥ ३१९॥ ब्रह्मादयोऽपि मुनयोऽपि सुयोगिनोऽपि ध्यानार्चनादिभिरुपासनतत्परा ये । दृग्गोचरोऽस्ति न कदापि भवांस्तु तेषां का वा कथा मयि विभो! करुणा गतिर्मे ॥ ३२०॥ सर्वज्ञस्त्वं मम च हृदयं वेत्सि कारुण्यमूर्तिः क्लिष्टक्लेशप्रशमनपटुस्सर्वशक्तोऽसि नाथ! । त्वामेवाहं तदिह शरणं यामि दीनातिमुग्धा त्वत्स्वं श्रीश! प्रभवति भवान्कर्तुमीशो यथेच्छम् ॥ ३२१॥ कलिकल्मषदुर्जनौघमध्ये कथमेका निवसामि नाथ! भीता । पुरुषोत्तम! ते करावलम्बं कृपया देहि समुद्धराबलां माम् ॥ ३२२॥ दुर्मानदृप्तहृदयास्मि कुरूपहेया- प्यात्मन्यनेकसुखभावनयातिखिन्ना । कुब्जाप्रदर्शितदयामनुचिन्त्य धीरा हृष्टा तथापि वृषशैलविभो! भवामि ॥ ३२३॥ आत्मा गुणैर्विविधगुम्भनभोग्यरूपा मालार्पिता भगवते करणान्यमूनि । कोटीरहारमणिकुण्डलनूपुरादि- दिव्योज्ज्वलाभरणकानि कृपां विचिन्त्य ॥ ३२४॥ गाम्भीर्यं हृदयगतं रुणद्धि भावं कारुण्यं नयनयुगे विजृम्भते ते । स्तब्धास्मि प्रथममवेक्ष्य तु द्वितीयं हृष्टास्मि श्रितजनरक्षणैकदीक्ष! ॥ ३२५॥ स्वप्ने भवान्नयनयोर्धुरि सञ्चरन् सन् शुभ्राम्बुवाहशकलेषु विलीनदेहः । धूमोपमो मलिनकान्तिरगोचरः किं कारुण्यकार्यमहिशैलविभो! तवेदम् ॥ ३२६॥ प्रालेयपुञ्जपिहिताङ्गवदच्छकान्तिः मन्दं समीपमुपगम्य सुधांशुबिम्बात् । अन्तर्हितोऽसि मलिनस्स्वपने स्मितास्यः कारुण्यकार्यमहिशैलविभो! तवेदम् ॥ ३२७॥ त्वच्चिन्तनाचलविलोचनसम्मुखीनः बाहू प्रसार्य परिरम्भमिवाभिकाङ्क्षन् । अन्तर्हितोऽसि सहसा स्वपने प्रलोभ्य कारुण्यकार्यमहिशैलविभो! किमेतत्? ॥ ३२८॥ वृषशैलसानुषु घनोपम स्स्थितः चपलाभनेत्रयुगसंज्ञयाह्वयन् । स्वपने द्रुमौघपिहितः प्रलोभ्य मां गतवान् किमेतदुचितं दयानिधेः? ॥ ३२९॥ सङ्ग्रथ्यमानमपहृत्य हठात्प्रसून- माल्यं समर्प्य निजकण्ठतले स्मितास्यः । पश्चान्मदीक्षणपिधानकृतोद्यमोऽभूः स्वप्ने तिरोहिततनुः करुणा किमेषा? ॥ ३३०॥ कान्तो व्यवस्यति किमित्यनुपालनाय ध्यानैकमन्धरदृशं स्वपने निषण्णाम् । एकान्तनिश्चलतनुं परिरभ्य मां द्राक् अन्तर्हितोऽसि किमु ते करुणाच्युतैषा ॥ ३३१॥ विवाहसमयोचित प्रथितभूषणाभूषितां सखीजनसमेधितप्रियविलोकनाभाषणाम् । त्रपानतमुखीमिमां स्वपनके विलोभ्य श्रिया खगेशगमनोऽगमः किमु कृपा तवेयं हरे! ॥ ३३२॥ करुणाकर इत्यशेषभक्तै- र्विनुतो मां सुषमाविहीनदेहाम् । परिवर्जितसर्वभोगभागां भवदीयां समुपेक्षसे हरे! किम्? ॥ ३३३॥ अकिञ्चनेयमिति मां किमु वर्जयसि प्रभो! अनन्यगतिकेत्येवं ऊरीकुरु कृपाकर! ॥ ३३४॥ प्रार्थितोऽपि भगवान् स न दृष्टः नाप्यभाषत न मामभियातः । वारिवाहमुपकल्प्य सुदूतं प्रेषयामि यदसौ गतिदक्षः ॥ ३३५॥ हे जीमूत! क्षितिजविनुत! स्फीतकीर्तिस्त्वमेव क्लिष्टैर्जुष्टश्शिशिरहृदयो जीवनस्पर्शनात्मा । यत्ते जन्म प्रकृतिमधुरं प्राणिनः प्रार्थयन्ते तस्माद्दूतो भव मम कृपानीरपूराभिवर्षी ॥ ३३६॥ कान्त्या तुल्यो दितिसुतरिपोरिन्दिरातुल्यविद्यु- च्छ्लिष्टो विष्णोः पदमनुसरस्याश्रितश्रान्तिशान्त्यै । यत्त्वं स्थातुं शिखरिशिखरं काङ्क्षसे सादरं तद् दूतो भूत्वा मम हृदयजं तापमुन्मूलयाशु ॥ ३३७॥ विद्युद्दीप्रः प्रचल गगने मेघ! गम्भीरघोषः प्राचीं काष्ठां गहनसुभगं भूतलं वीक्षमाणः । मध्येमार्गं कुटिलगतयो वीचिशुभ्राम्बुपूराः कर्षन्त्यक्षि प्रयतसरितो निम्नवेगोरुरावाः ॥ ३३८॥ गच्छन्मन्दं वियति मरुता प्रेर्यमाणो रसात्मा हर्षोड्डीनैरनुसृतगतिस्सङ्घशश्चातकैस्त्वम् । उत्पिञ्छाढ्यैर्नटनपटुभिर्वीक्ष्यमाणो मयूरैः पश्यस्याराद्गिरिमुरुतरुव्याप्तमत्युच्छ्रिताग्रम् ॥ ३३९॥ दूरात्सोऽयं धवलतुहिनस्तोमसञ्छादितस्नुः पत्रोर्णाङ्गो व्रततिकुसुमैर्मालभारीव वृक्षैः । केशाढ्यो वा विशदनिपतन्निर्झरस्फारहारः क्ष्माभृच्छ्रीमान् सुभगतनुभृद् दृश्यते प्रोच्चमौलिः ॥ ३४०॥ स्तोकं मन्दं निकटगमनः पश्य सानुं विशालं तुष्टैः कीरैर्द्विगुणितहरिद्वर्णपर्णाभिरामम् । कासारैश्च स्फुटकमलिनीकर्षणक्रीडनेभैः कुञ्जैर्नानाभुजगततिभिर्दर्शनीयं तटित्वन्! ॥ ३४१॥ नानावर्णप्लवगनिवहैश्चाल्यमानोच्चशाखैः वृक्षैस्सूरिस्वकृतजनिभिस्सेव्यमानं सुमौघैः । वल्मीकैश्च व्रततिपिहितैस्सर्पनिर्मोकजुष्टैः व्याप्तं पश्य प्रशमितगतिस्सानुदेशं वृषाद्रेः ॥ ३४२॥ कह्वान्मीनग्रहणनिरतान् ध्यानिवन्निश्चलाङ्गान् कासारान्ते कुटिलचरणान् पश्य दीर्घाग्रचञ्चून् । क्रोडान्मुस्ताखननकलुषस्फीतघोणान्महीध्र- प्रस्थे पश्यन् जलद! पुरतो याहि मन्दं विगर्जन् ॥ ३४३॥ वप्रक्रीडाकुतुकमहिषोद्धूलितोदग्रनाकून् भल्लूकौघप्रकटितगुहानच्छताहेयभागान् । दीर्घस्थूलैरजगरगणैः कृष्यमाणाग्रसत्वान् भोगीन्द्राद्रेर्जलद! पुरतो याहि पश्यन् प्रदेशान् ॥ ३४४॥ तार्क्ष्याहीशप्रमुखदुरितध्वंसिपुण्याच्छतीर्थान् प्रालेयाभप्रतिभृगुतटस्राविनीरप्रवाहान् । नानावृक्षप्रचुरफलभुक्पक्षिरावाभिरामान् भोगीन्द्राद्रेर्जलद! पुरतो याहि पश्यन् प्रदेशान् ॥ ३४५॥ वैकुण्ठप्राप्त्यभिमुखसमारोहनिश्रेणितुल्या सोपानालिर्नयनयुगलं चेतनानां धिनोति । या शेषस्य प्रततजठरस्थानरेखालिकल्पा द्रष्टव्या श्रीजलद! भवताप्यद्भुता दूरतो हि ॥ ३४६॥ एवं पश्यन् दिवि शिखरिणः षड्व्यतीत्याथ मन्दं दिव्यं गोत्रं जलद! विनयात् सप्तमं याहि भक्त्या । किं वा ब्रूयां निरवधिमहावैभवं तत्र विष्णोः गत्वा पश्यन्सफलय दृशौ सावधानं क्रमेण ॥ ३४७॥ यातायातप्रसृतजनतादुष्प्रवेशाग्रभागं (मार्गं) नानावस्तुप्रचुरविपणिध्वाननिर्भिण्णकर्णम् । सद्यः क्षौरप्रकटजनतास्निग्धनिर्लोममुण्डं शेषाद्रेर्दृक्प्रथमविषयं पश्य बाह्यं प्रदेशम् ॥ ३४८॥ अग्रे स्तोकं व्रजसि यदि ते दृक्पथप्राप्यश‍ृङ्गं तालोत्तुङ्गं विविधविलसत्पुत्रिकाचित्रिताङ्गम् । सौवर्णाञ्चत्कलशशिखरं गोपुरं दृश्यतेऽक्ष्णा पेयं दृष्ट्वा सुघटितकरो मोदसे विस्मितस्त्वम् ॥ ३४९॥ श्वभ्रे दिव्यं लसति विततं मन्दिरं सुन्दराङ्गं नित्यं नानाजनपदजनैः पूर्यते यत्तु भक्तैः । भक्तानीतैर्द्रविणकनकैः वस्त्ररत्नैश्च यस्मिन् कोशो भक्त्या जलद! भवता दर्शनीयं तदारात् ॥ ३५०॥ तार्क्ष्यस्तम्भं कनकपिहितं तालतुङ्गं पुरस्तात् कर्पूरौघज्वलनमलिनस्फीतपाषाणपीठम् । पश्यन्नग्रे विरचितनतिर्दक्षिणेनाथ गच्छन् माल्यागारं घुसृणदृषदं वीक्ष्य मन्दं प्रयाहि ॥ ३५१॥ वामे पार्श्वे कनकरुचिराचित्रिताङ्गे विमाने दीप्राभं त्वं रविकिरणतः पश्य तं वेङ्कटेशम् । स्थित्वा स्तोकं यतिपतिवरं ज्ञानमुद्राभिरामं तं साष्टाङ्गप्रणति विनयात्पश्य तत्तीर्थपायी ॥ ३५२॥ घण्टाघोषः प्रसरति यदा भोज्यपीठस्थितं तं जानीहि त्वं जलधर! तदाभ्यन्तरं तस्य मा गाः । यावद् घण्टानिनद विरतिस्तावदेकत्र भक्त्या द्वारस्थानामनुमतिमहं पालयंस्तिष्ठ दूरे ॥ ३५३॥ भक्तौघानामहमहमिकासम्भ्रमामर्दभाक्त्वं मा भूः कञ्चिद्भगवदुपसान्निध्यकैङ्कर्यभाजम् । आश्रित्यारात्प्रविश न तथा चेत्सदा भक्तसङ्घैः युक्तश्श्रीमान् लसति न रहो वक्तुमेवावकाशः ॥ ३५४॥ बाह्ये द्वारे जयविजययोः दर्शनं प्राप्य पूर्वं तत्रत्यस्सन् वृषगिरिपतिं पश्य पश्चादुदग्रम् । दीपज्वालाकबलिततमोगर्भगेहे स्थितो यः श्रीमानूष्मप्रसरणकनद्दिव्यदेहो यथेन्दुः ॥ ३५५॥ अन्तर्यातो विनयविनतो देहलीं गर्भधाम्नः प्राप्य श्रीमन् वृषगिरिपतेर्वीक्ष्य मन्दस्मितास्यम् । मुग्धो मा भूस्स्मरणविकलस्स्तब्धगात्रो यतस्त्वं मद्वार्तां तच्छ्रवणपथगां प्रेषितः कर्तुमेव ॥ ३५६॥ कारुण्यैकप्रवणहृदयो यद्यपि श्रीनिवासः विस्रम्भार्हो न भवति तथाप्यत्र यद्वञ्चकस्सः । सौन्दर्येण श्रितजनमनस्सम्प्रतार्य स्वकार्यं कर्तुं शक्तो बलिमिव पुरा वामनो वाममूर्तिः ॥ ३५७॥ वक्षःपीठीनिलयकमलावीक्षणैकाभिकाङ्क्षी तिष्ठाम्येको गिरितटगतो हन्त! तेऽत्रापि भक्ताः । आयान्तीति स्मितवदनभाक् निश्चलात्मा स्थितः किं पृच्छैवं तं स तु किमथवा मौनमुद्रां लभेत ॥ ३५८॥ एकाकी न क्षणमपि रहस्यास्थितः श्रान्तिशान्त्यै भक्तौघानां श्रमपरिहृतौ दत्तदृष्टिस्थितस्सः । तन्मध्ये त्वं कथमपि चिरं पालयन् कालमीषत् लब्ध्वा ब्रूहि प्रथमममितप्रार्थनासम्मुखीनम् ॥ ३५९॥ हे! नाथ! त्वां निरवधिगुणं नित्यकारुण्यमूर्तिं मत्वा मुग्धा श्रुतिशुभगिरा प्रोक्तया पण्डितैस्तैः । त्यक्ताहारा व्रतनियमतः क्लेशयन्ती शरीरं निर्निद्रैका त्वदुपगमने वर्तते दत्तदृष्टिः ॥ ३६०॥ श्रुत्वा वृत्तं भवति कुतुकी श्रोतुकामः पुनस्तत् यस्मात्सोऽयं निरवधिदयश्चार्तवृत्तान्ततान्तः । तस्मिन् काले मम तु विषयं श्रावय श्रोत्रभव्यं प्राप्तं कालं विफलय कदाप्यन्यवृत्तेन मैव ॥ ३६१॥ सन्तप्तानां श्रमहरणवित्प्राणिनां जीवनात्मा सृष्टश्चाहं समभवमहं यत्प्रसन्नाम्मयोऽस्मि । त्वद्भक्तायास्तव पदकृते सन्ततं चिन्तयन्त्याः दूतोऽस्मीति स्वकपरिचयं त्वं समावेदयादौ ॥ ३६२॥ आशापाशग्रथितहृदया प्राकृतं वस्तु भोग्यं मन्वानेच्छाविषयविचये बद्धदीक्षा मृगाक्षी! । मन्दम्मन्दं विषयविदुषां तत्ववाणीं निशम्य प्रत्यादिष्टप्रबलविषया दीनदीनास्ति कापि ॥ ३६३॥ आदावेवं जलद! विनयात् स्तोकमावेदय प्राक् पश्चात्तत्तत्समयवदनं कीदृशं ब्रूहि वीक्ष्य । साकल्येन प्रयतनपरस्तत्पुरो मद्दशां त्वं श्रीमान् हर्षाच्छ्रवणकुतुकी स्याद्यथा तेऽपि वाण्याः ॥ ३६४॥ गच्छत्येषा तव भजनकान्वेषणासक्तचित्ता भक्तानामप्युपविशति सा मध्यमेत्याश्रुनेत्री! । तालासक्तस्वकरयुगली गायति ध्यानमन्दं हे! श्रीशेति प्रलपति सदा पाहि तां तत्कृपालो ॥ ३६५॥ मात्रहूता पिहितवदना बाष्पपूराविलाक्षी मूकैवैका निजगृहकगा हस्तविन्यस्तगण्डा । ध्यानस्तब्धा परिहृतनिजस्नानपानादिकार्या हे! कृष्णेति क्षणरचितनिश्वाससुव्यक्तचिन्ता ॥ ३६६॥ उन्मत्तेव प्रहसति कदाप्यश्रुदिग्धाच्छगण्डा नाके दृष्टी क्षिपति वितते निर्निमेषे मृगाक्षी! । आहूयारात्पथिपथि भवन्नाम भिक्षामटन्तं व्याहृत्योच्चैः कमपि भवतो रूपमापृच्छतीयम् ॥ ३६७॥ इन्दुज्योत्स्नामुपवनगतां वृक्षगुल्माळिदृश्यां दर्शन्दर्शं स्मृतिपथसमायातयुष्मत्प्रभावा । त्वत्सान्निध्यं श्रमपरिहरं काङ्क्षते दिक्षु चक्षुः प्रक्षिप्य क्वेत्यवनतमुखी रोदिति प्राप्तमौना ॥ ३६८॥ आविर्भूते तुहिनकिरणे त्वन्मुखं सा स्मरन्ती सम्प्राप्तोऽयं गगनतटतो मत्सकाशं मुरारिः । इत्येवं द्राक् प्रकटितमनस्सम्भ्रमा त्वामदृष्ट्वा तान्तस्वान्ता प्रलपति करे स्वं कपोलं निधाय ॥ ३६९॥ आयातांस्त्वत्पदसरसिजन्यस्तचित्तान् द्विजाग्र्यान् आराध्य प्रागथ तव गुणान् श‍ृण्वती तन्मुखेभ्यः । रोमाश्लिष्टा रचितमनना पृच्छति प्राञ्जलिस्तान् लभ्येतायं कथमिति मुहुर्दैन्यतस्सा मृगाक्षी ॥ ३७०॥ सौरभ्याढ्या ग्रथितकुसुमस्रग्भवद्दर्शनार्थं विन्यस्ता सा सुतनुतनुवद् ग्लानिमेत्यास्त्यवर्णा । स्वीकृत्यैनां सफलय हरे! तां स्वकीयां पुरा त्वं मालाकारं रिपुपरवशं प्राप्य खल्वन्वगृह्णः ॥ ३७१॥ निर्निद्रत्वात्क्षिपति युगवद्यामिनीं कामिनी सा वैवर्ण्येन ग्लपितसुषमा तान्तदृक्तारका च । त्यक्ताभूषा गलितवलया कार्श्यतः क्षीणवाणी त्वन्नाम्नैव श्वसिति नितरां ध्यानमन्दाश्रुनेत्री ॥ ३७२॥ त्वद्वक्त्राभं कमलममले धारयन्ती कपोले सम्मील्याक्षि प्रसृतसलिलापाङ्गकोणप्रणाली । स्मारं स्मारं स्मरपरवशा भावनालब्धसङ्गा रोमाश्लिष्टा विनमितमुखी मेति मेति ब्रवीति ॥ ३७३॥ वीणामङ्के मृदुलसुभगे शाययित्वा मनोज्ञां अङ्गुल्यग्रप्रचलितगुणां वीणयन्ती भवन्तम् । ध्यानश्रान्ता शिथिलितभुजा बाष्पपूर्णायताक्षी हे! श्रीशेति प्रतिदिशमसौ निश्वसित्यक्षि कृत्वा ॥ ३७४॥ यत्र क्वापि प्रविततगिरिं वीक्ष्य सोऽस्त्यत्र चक्री- त्येवं धावत्यनिभृतमियं बन्धुरुद्धापि मुग्धा । धावन्धावं मृगयति गुहाकुञ्जपुञ्जादिषु त्वां अप्राप्याथ श्रमशिथिलदृक् श्रीनिवासेति रौति ॥ ३७५॥ चन्द्रज्योत्स्नां रविकिरणजं सातपं मन्यमाना सन्तापस्य प्रशमनकृते पङ्कजं याचमाना । त्वत्पादाभं हृदि नयनयोः कारयन्ती निमील- न्नेत्राम्भोजा श्वसिति धरणौ पातितात्मप्रवेष्टा ॥ ३७६॥ सर्वस्वामी त्वमसि खलु तत्सर्वमध्यप्रविष्टा किं वा नास्मि प्रहिणु करुणां मय्यपि श्रीनिवास! । नो चेदेवं जगति भगवान् पक्षपातीति निन्दा श्रोतव्या स्यादहह! न सहे तादृशीं दुर्दशां ते ॥ ३७७॥ नित्या मुक्ता इव तव धराचेतनास्सन्ति शेषाः आगःपूर्णा अपि सुदयितानिर्विशेषास्त्वदीयाः । सत्येवं त्वं गणयसि न मां वत्सलोऽपि त्वदीयां दोषाढ्येयं त्विति न दयसे किं दया सा क्व याता ॥ ३७८॥ एका नाहं तव पदयुगे न्यस्तभारास्मि लोके ब्रह्मेन्द्रादित्रिदिवविबुधा दर्शनाकाङ्क्षया ते । स्वातन्त्र्येण त्वमिह करुणां यत्र कुत्रापि तन्वन् क्रीडस्यम्भोरुहनयन! ते वञ्चनां वेत्ति को वा ॥ ३७९॥ सौन्दर्यन्ते क्व नु निरुपमं वामनत्वं क्व वा तत्? सत्यप्येवं भवदुपयमे लब्धसम्पूर्णतर्षा । सञ्चिन्त्याथ प्रगुणनियमं ब्रह्मचर्यं निरन्तं वन्यां ज्योत्स्नामिव तव रुचिं मन्यमानास्मि दीना ॥ ३८०॥ सर्वैः प्रोक्तं स दितिजरिपुर्योगिनामप्यगम्यः तन्मा यत्नं कलय सुभगे! किं मुधा क्लिश्यसीति । रुद्धाप्येवं तव तु करुणां चिन्तयित्वा मुरारे! त्वत्सेवायां निहितहृदया सन्ततं चिन्तयामि ॥ ३८१॥ जानाम्यादिं तव तु न तथैवान्तमप्यम्बुजाक्ष! श्रीमान्नित्यं तरुण इति च प्राहुराम्नायिनस्त्वाम् । सत्यप्येवं श्रितजनकृते लब्धजन्मासि लोके काङ्क्षे तस्माच्छ्रयणसुलभं वल्लभं त्वां मुकुन्द ॥ ३८२॥ कालिन्दीं तां निजतनुरुचा वर्धितानीलवर्णां तन्वन् गोपीगणपरिवृतस्तोयकेलिं व्यतानीः । नाहं किं वा व्रजयुवतिवद्वल्लभा ते मुरारे तस्मिन् काले न हि समभवं कापि गोपी व्रजेऽहम् ॥ ३८३॥ दृष्ट्वेव त्वां प्रतिदिशमसावक्षिविक्षेपहृष्टा क्वाप्यन्तर्धिं गत इति ततो रोदनक्लिन्ननेत्री । क्वासि श्रीशेत्यसकृदबला मार्गणासक्तचित्ता त्वामप्राप्य ग्लपितहृदया मूर्छिता सा कदापि ॥ ३८४॥ प्रापय्यैनां मनुजतनुमप्यात्मनो ज्ञानदायी सद्वंशश्रीप्रवितरणतस्सद्वचः श्रावयन् यः । चक्रे साह्यं तमहिशिखरिस्वामिनं श्रीशमेनं त्यक्त्वा नान्यं प्रकृतिवशगं क्वापि मर्त्यं भजामि ॥ ३८५॥ संवर्ते स्वे जठरकुहरे प्राणिनः पालयन् यः बालो भूत्वा ततवटदले वारिपूरे शयानः । तेषां सृष्टिं तदनु विदधत् क्रीडनार्थं रराज त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८६॥ सीतामेकां निजसुदयितां राघवो मन्यमानो नारीमन्यां न खलु मनसाप्येकदाप्यस्मरद्यः । तादृङ् निष्ठानिरतममरस्तूयमानाङ्घ्रिपद्मं त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८७॥ साक्षात्कर्तुं कथमपि हृदा शक्यते निर्मलेन त्वङ् नेत्रेण प्रथितविभवो नैव सन्दृश्यते यः । अर्चारूपप्रकटिततनुं सर्वदृश्यं कृपालुं त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८८॥ न्यस्तं द्वारे पदशुचिकृते शोधितं पूर्णकुम्भं मन्वानो यो विनिहितमिदं मह्यमित्यम्बुजाक्षः । अङ्गीचक्रे परमकरुणापूरितात्मा रिपाव- प्येवं त्यक्त्वा तमिह कमहं मर्त्यमन्यं भजामि ॥ ३८९॥ शैवे चापे भरणदलिते जानकीमालभारी तत्पाण्यब्जे निजकरवरग्राहिणि प्रीयमाणः । श्रीश! त्वं यः प्रियवरगुणो दर्शयन्मानुषोऽपि त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९०॥ क्षीबक्षात्रप्रशमनरतस्फीतचञ्चत्कुठारं क्रूराकारद्विगुणितधरापालकस्वान्तकम्पम् । सीतावीक्षाद्विगुणितबलो भार्गवं भग्नशक्तिं यश्चक्रे श्रीवृषगिरिपतिं तं विना कं भजामि ॥ ३९१॥ ग्राहग्रस्तं गजपरिबृढं त्रातुकामः क्षणाद्यः तार्क्ष्यारूढः परमपदतो वेगवांश्चक्रधारी । हत्वा नक्रं गजकरसुमादानतोऽमोदयत्तं त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९२॥ नानाकाङ्क्षाशशधरकलावर्धिताघोर्मिपङ्क्तेः स्वान्ताम्भोधेः प्रशमनपटुर्बाडवो यत्कृपा मे । दीनानाथा परमपुरुषं भक्तरक्षात्तदीक्षं त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९३॥ वेदान्तेषु प्रथितविभवा विश्रुतास्सद्गुणा ये ते सर्वेऽपि श्रवणसुभगाः कीर्तनीयाश्च भक्तैः । सत्यप्येवं मयि तु करुणा यस्य साभ्यर्हितश्रीः । त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९४॥ मात्रा निषिद्धमतिरप्यनिशं त्वदीय- दिव्याभिरामगुणसंस्मरणैकचित्ता । त्वन्नामकीर्तनपरा त्वदधीनदेहा मात्रे निवेदितवती निजभावमेवम् ॥ ३९५॥ एवं निवेदय कनत्कमनीयविद्यु- त्कान्ताम्बुभृद् भगवते भुजगाद्रिनेत्रे । सोऽपि स्मितप्रकटितात्महृदाशयस्त्वां सम्प्रेषयिष्यति पुनश्च निवर्तनाय ॥ ३९६॥ मा तिष्ठ तद्गुणविभावनया नभोग्रे तत्रापि तत्परमकारुणिकत्वसक्तः । जीमूत! तन्मधुरविग्रहकान्तिकृष्टो निष्ठस्स्वकर्मणि रयादुपयाहि मां त्वम् ॥ ३९७॥ यावत्त्वदागमनमत्र तदीयदिव्य- कारुण्यनीरधिपरिप्लवमानदेहा । तावच्च तद्गुणरसायनपानधन्या जीवामि जीवनद! तत्पदचिन्तनेन ॥ ३९८॥ मा विस्मर प्रतिनिवर्तनसम्भ्रमेण तत्पादपद्मतुलसीं समुपाहर त्वम् । आश्वासयत्युपगताभ्र! सखीव या मां सौरभ्यमात्रविनिवारितसर्वतापा ॥ ३९९॥ गच्छ जीमूत! भद्रं ते धन्यो द्रक्ष्यसि मत्प्रियम् । सुखस्पर्शानुकूलाश्च सन्तु ते पथि मारुताः ॥ ४००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे चतुर्थशतकम् सम्पूर्णम् ।

५. पञ्चमशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमद्वेदान्तदेशिकाय नमः । अथ दयासहस्रे पञ्चमशतकम् । मत्स्यादिरूपमपि सह्यमिहाच्युतस्य मातर्दये! मनुजतां न कदापि दद्याः । यस्मादनन्तशुभदिव्यगुणाकरोऽपि क्लेशानुभूतिलघुतामभजन्नरत्वे ॥ ४०१॥ किं वा सुखं भगवतोऽपि नरत्वभाजः कर्माभिलेपविमुखस्य गुणाकरस्य । मातर्दये! किमुचितं तदवेक्षणं ते हन्ताथवा तनुभृदार्तिहरार्थमेवम् ॥ ४०२॥ शक्राय राज्यपरिदापनबद्धदीक्षा सर्वेश्वरं पटुवटुं परिकल्प्य कुब्जं! । घोरे तपस्यपि रतं विपिने व्यतानीः मातर्दये किमुचितं तदिदं श्रितार्थम् ॥ ४०३॥ दैत्याभियातिमपि भक्तवशं मुकुन्दं याञ्चाप्रसारितकरं व्यतनोरजस्रं! । भक्ताग्रगण्यबलिदेहलिपालकं तं मातर्दये! किमुचितं तदिदं श्रितार्थम् ॥ ४०४॥ हस्ते विधाय परशुं भुवनभ्रमेण त्रिस्सप्तकृत्व इह रुट् क्षुभितास्रवेगं! । क्षीबक्षितीशपरिकृन्तनलब्धशान्तिं मातर्दये! कृतवती किमिदन्तु युक्तम् ॥ ४०५॥ नित्यानपायिकमलापतिमम्बुजाक्षं सूर्यान्ववायभवपङ्क्तिरथात्मजातं! । मातर्दये! भुवि विधाय बुधावनार्थं क्लेशाकरं तमकरोः किमिदन्तु युक्तम् ॥ ४०६॥ राजीवलोचनममुं मुनिकौशिकस्य यागाभिरक्षणकृते विनियोज्य बाल्ये । कान्तारचङ्क्रमणपीडितपादपद्मं मातर्दये! समतनोः किमिदं श्रितार्थम् ॥ ४०७॥ जारेन्द्रसङ्ग कुपितप्रियगौतमात्त- शापप्रभावधृतवन्यशिलास्वरूपाम् । रामाङ्घ्रिपूततनुमातनुषे स्म योषां मातर्दये! त्वमसि सर्वजनाभिवन्द्या ॥ ४०८॥ लोकत्रयैकगुरुमप्यटवीकुटीरं शिष्यं मुनेस्तमुपकल्प्य तदार्जितास्त्रं! । भाव्याजिकर्मपरिनिष्ठितमातनोस्तत् मातर्दये! त्वमसि सर्वजनाभिवन्द्या ॥ ४०९॥ नित्यानपायिदयिताकरपीडनेऽपि शौर्याभिवीक्षणमपेक्षितमत्र हन्त! । मातर्दये! भुवि जगत्त्रयमङ्गळाय सीतारघूद्वहविवाहमकल्पयो हि ॥ ४१०॥ भक्तावनैकनिरता रघुवीरपट्ट बन्धेऽपि नानुमतिदासि विचित्रमेतत्! । तस्यान्तरायमुपकल्प्य वनाय रामं तं प्राहिणोर्ननु दये! किमिदं श्रितार्थम् ॥ ४११॥ लोकव्यथाशमनकारणमात्मतुल्यां सीतां विचिन्त्य वनवासकृते प्रचोद्य । तामप्यहो! कुसुमकोमलभव्यगात्रीं त्वं प्राहिणोर्ननु दये! किमिदं श्रितार्थम् ॥ ४१२॥ श्रीरामसद्गुणनिबद्धमिवानुकृष्टं निष्ठं गुरूपसदने ननु लक्ष्मणं च । भावीन्द्रजिद्वधकृदित्यहिनो हि साकं मातर्दये! त्वमसि संस्मरणीयकीर्तिः ॥ ४१३॥ त्वं सर्वथा भुवनरक्षणतत्परा तं सर्वेश्वरं सपरिवारमरातिनाशे । संयोजयस्यनवलोकिततत्परत्वा मातर्दये! किमुचितं तदिदं भवत्याः ॥ ४१४॥ पीताम्बरं कठिनवल्कलधारिणं तं दिव्याश्मदीप्रमकुटञ्च जटाकिरीटम् । पञ्चायुधं पिटकदीर्घखनित्रपाणिं द्रष्टुं कथं ननु दये! त्वमसि प्रगल्भा ॥ ४१५॥ तां जानकीमपि वनाभिमुखीमसूर्यं- पश्यां समस्तजनलोचनपीयमानाम् । चण्डातपश्लथशिरीषसुमाभकान्तिं मातर्दये! कृतवती किमिदं श्रितार्थम् ॥ ४१६॥ आत्मानुयायिजनबृन्दममन्दभक्ति- भारं प्रतार्य निशि विष्णुपदीतटीस्थे । तुङ्गेङ्गुदीतरुतले सुगुहाभिवीक्ष्यं सीतापतिं समतनोः करुणे! किमेतत् ॥ ४१७॥ भोगीन्द्रभोगशयनीयशयालुमेनं लक्ष्म्या कथं ननु दये! विपिने निशीथे । बाहूपधानमुरुकण्टकपर्णतल्पे सुप्तं तमीक्षितुमपेक्षितवत्यहो! धिक् ॥ ४१८॥ स्यादेतदम्ब! तनुभृज्जननीं प्रतीक्ष्यां वात्सल्यपूर्णहृदयां पतिदेवतां ताम् । सीतामहो! क्षितितले विपिने शयानां द्रष्टुं कथं ननु दये! त्वमभूस्समर्था ॥ ४१९॥ संसारसिन्धुपरितारणदक्षमेनं गङ्गान्तु भङ्गुरतरङ्गसुमङ्गलाङ्गीम् । रामं गुहेन बत! तारयसि स्म मातः! द्रोण्या दये! तव हि दाक्ष्यमचिन्त्यवृत्तम् ॥ ४२०॥ वैकुण्ठधाम्नि कृतनित्यशुभंयुवासं योगीन्द्रशुद्धहृदयाम्बुजभव्यपीठम् । सौमित्रिणा विरचिते वनपर्णगेहे तं वासयस्ययि दये! स्म किमेतदम्ब ॥ ४२१॥ धर्मात्मकं त्रिभुवनैकगुरुं प्रमीत- तातार्थमत्र विहितार्तिनिवापकृत्यम् । स्रोतस्विनीस्नपनशुद्धमजस्रशुद्धं मातर्दये! कृतवती स्ववशं मुकुन्दम् ॥ ४२२॥ भक्ताय मुक्तवरराज्यभराय दैन्य- सम्प्रार्थिताग्रजपुराभिनिवर्तनाय । पादूकिरीटमुपदापितवत्यमोघं मातर्दयेऽसि भरताय जनावनार्थम् ॥ ४२३॥ सीताकुचारचितचञ्चुकरालचेष्टं भीत्या हतं त्रिभुवनभ्रमणातिखिन्नम् । मातर्दये! रघुपतेः प्रथितास्त्रतोऽपि काकासुरं बत! ररक्षिथ किं ब्रवीमि ॥ ४२४॥ सौमित्रिसेवितपदं जनकात्मजात- मोदं वसन्तमपि मञ्जुलचित्रकूटे । भाव्यर्थकण्टकतया परिचिन्त्य रामं तं प्राहिणोर्ननु दये! विपिनं किमेतत् ॥ ४२५॥ मत्तेभचङ्क्रमणमम्बुरुहायताक्षं नीलाम्बुदाभमुरगाधिपभोगबाहुम् । रामं किरातगणलोचनगोचरं तं किं वैतदम्ब! करुणे! कृतवत्यहेतु ॥ ४२६॥ नानातरूलपलतासरसीस्रवन्ती- तुङ्गाद्रिमञ्जुलपतत्रिमनोहरं तम् । व्याघ्रादिघोरतरसत्त्वभयानकञ्च प्रावेशयो हि करुणे! वनमाश्रितार्थम् ॥ ४२७॥ सीतां विराधकरपञ्जरवेपमानां सम्मोच्य खड्गविनिपातितबाहुमूलम् । तं कोणपं रघुवरेण निपात्य गर्ते मातर्दये! मुनिजनानवनावरक्षः ॥ ४२८॥ श्रीरामदर्शनमनुप्रतिपालयन्तं दीप्रं दये! सुतपसं शरभङ्गमम्ब! । वैश्वानराहुततनुं समनीनयो हि दिव्यं पदं रघुपतीक्षणधन्यधन्यम् ॥ ४२९॥ वाचंयमैस्समुपदर्शितपर्णशालाः पश्यन्तमम्बुजदृशं सह सीतया तम् । कान्तारवर्त्मनि सुतीक्ष्णतपोधनाय प्रादर्शयस्सुपतसां फलरूपमम्ब ॥ ४३०॥ पश्यात्र राम! पिशिताशनभक्षितानां कीर्णाङ्गकीकसगणं भुवि तापसानाम् । इत्यार्ततापसगिरं ननु श‍ृण्वतोऽस्य मातर्दये! नयनयोरुदपादयोऽश्रु ॥ ४३१॥ निष्कारणं विपिनगान् पिशिताशनांस्तान् मा पीडयेति जनकात्मजया धनुष्मान् । संस्मारितो रघुवरोऽपि स धर्मवेत्ता सीतात्मिका खलु जगज्जननी दये! त्वम् ॥ ४३२॥ तस्मादगस्त्यमुनिपुङ्गवपर्णशालां केकावलैणगणमञ्जुतरूलपाढ्याम् । तन्मानसाभिलषितार्थसुपूरणार्थं प्रावेशयो हि करुणे! रघुपुङ्गवं तम् ॥ ४३३॥ आतिथ्यमाश्रमपदे मुनिना कृतं तत् स्वीकार्यकार्यकरणे करुणे प्रगल्भा । सौमित्रिणा दयितया सह राममेनं सन्तोष्य तच्चिरतृषं समपूरयो हि ॥ ४३४॥ अभ्यर्चितो मुनिवरेण तदाज्ञयैव कारुण्यकार्यकरणाय तपोधनेषु । सीतापतिर्निजसहोदरनिर्मिते श्री- रम्योटजे न्यवसदायतपञ्चवट्याम् ॥ ४३५॥ सौमित्रिणोक्तनिजमध्यममातृदोष- माकर्ण्य कर्णपरुषं तदपोहनाय । रामेण साधु तदनल्पगुणप्रशंसां तत्स्वान्तवर्तिनि दये! त्वमकारयो हि ॥ ४३६॥ कल्ये हिमातिशिशिरे सरयूप्रवाहे मज्जन्तमात्मकृतमत्स्मरणं कृशाङ्गम् । चीराम्बरं धृतजटं भरतं विचिन्त्य विद्रावितो रघुपतिः करुणे! त्वया हि ॥ ४३७॥ ज्ञात्वापि राम! पिशिताशनघोरचित्तं कामाभितप्तसृतशूर्पणखास्रपायै । उक्त्वा स्ववृत्तमखिलं परिहास्यचुञ्चुः तां नाकरोः करुणया हि गतासुमेनाम् ॥ ४३८॥ एकाकिना बत! हताः खरदूषणाद्याः रक्षोगणा रणशिरस्यतिदारुणा हि । हे राम! तापसगणे निहिता कृपेदृक्- कार्ये प्रवर्तयति नाथममुं भवन्तम् ॥ ४३९॥ युद्धे जयी प्रतिनिवृत्य कुटीरभाजा श्रीसीतया दृढतरं परिरब्धगात्रः । ध्वस्तव्रणो रघुपते! विगतश्रमोऽसि यज्जानकी तनुमती करुणा त्वदीया ॥ ४४०॥ तं वञ्चनापरिगृहीतकुरङ्गरूपं मारीचनीचमभिलष्य तदाप्तिकृत्ये । सीतामुखाद्रघुपतिं समयूयुजो हि मातर्दये! मुनिगणावनदत्तदृष्टिः ॥ ४४१॥ रक्षैकतानमपि लक्ष्मणमात्तचापं दूरं वियोज्य रघुपुङ्गवधर्मपत्नीम् । पौलस्त्यनीचवशगां त्वमकारयो हि मातर्दये! त्रिभुवनावृतदुःखशान्त्यै ॥ ४४२॥ ग्रावद्रवीकरणदक्षनितान्तशोक- सन्तप्तमात्मदयिताविरहातितान्तम् । रामं गभीरहृदयं त्वमरोदयो हि मातर्दये! किमुचितं श्रितरक्षणार्थम् ॥ ४४३॥ मातर्दये! कुणपघस्मरगृध्रनेत्रे लोकं दुरापमपि पङ्क्तिरथेन तेन । प्रादापयो हि रघुपुङ्गवतो मुनीन्द्र- प्रार्थ्यं श्रितेषु तनुमत्सु निरङ्कुशासि ॥ ४४४॥ उन्मत्तवद्वनतटे चरते दये! त्वं सञ्जीर्णया रघुपतीक्षणकाङ्क्षयैव । स्वादूनि काननफलान्यनुपालयन्त्या प्रादापयो रघुवराय मुदा शबर्या ॥ ४४५॥ रामं त्वमन्तुबलिवालिनिषूदनाय मातर्दये! तरुतिरोहितमाकलय्य । भाव्यर्थचिन्तनपरा जगदार्तिहन्त्री प्राचोदयो हि किमिदं तव युक्तरूपम् ॥ ४४६॥ सुग्रीवसख्यमिषतः पुरुषोत्तमं तं शाखामृगैर्बहुविधैः परिवार्यमाणम् । मातर्दये! रघुपतिं कृतवत्यहो! त्वं नावेक्षसे तरतमत्वमिहाश्रितार्थम् ॥ ४४७॥ हे राम! ते क्षितितले करुणाकटाक्ष- पात्रन्तु यो भवति स प्रथितप्रभावः । विख्यातकीर्तिरखिलैरभिवन्दनीयः स्यादेव मारुतसुतः प्रबलोऽत्र साक्षी ॥ ४४८॥ श्रीराघवस्य करुणे! करुणात्मिकां तां सीतामशोकवनिकास्रपलब्धपीडाम् । द्रष्टुं समीरणपटुः प्रहितस्समीर- सूनुः करार्पिततदक्षरमुद्रिकाङ्कः ॥ ४४९॥ मातर्दये! कपिमपि प्रथितप्रभाव- मापादयोऽब्धिमपि तस्य तु पल्वलाभम् । रक्षोगणं मशककल्पमकल्पयो हि सर्वं किलैतदवनौ श्रितरक्षणाय ॥ ४५०॥ लाङ्गूलदीपितसमीरसखे यदौष्ण्यं स्वाभाविकं तदपि हन्त! झडित्यपोह्य । उत्पाद्य शैत्यमनिलात्मजमभ्यरक्षः त्वद्वैभवं निगदितुं निपुणः कृपे! कः ॥ ४५१॥ द्वीपान्तरान्मणिवरं वरमूर्ध्नि धार्यं आनेतुमम्ब! करुणे! कपिमेकमेव । आयोज्य विश्लथमते रघुपुङ्गवस्य विश्लेषदुःखमहरो मणिदापनेन ॥ ४५२॥ योगीप्सितं जनकजासुलभं पवित्रं मातर्दये! भगवतो रघुपुङ्गवस्य । आलिङ्गनं मणिवरार्पणभाग्यभाजे वातात्मजाय ननु दापितवत्युदारम् ॥ ४५३॥ मातर्दये! भवदनुग्रहपात्रतां यो नीतोऽत्र जातिगुणभेदमनेकवृत्तिम् । चित्तेऽपि किञ्चिदविचार्य ददासि तस्मै योगीन्द्रदुर्लभममेयमहो! प्रमोदम् ॥ ४५४॥ किं वा श्रुतात्मदयितामितशोकनुन्नः चूडामणेर्विततरश्मिसुदूरकृष्टः । किं वा दयाम्बुनिधिसाम्यदिदृक्षया त्वं हे राम! सागरतटं समवापिथाशु ॥ ४५५॥ प्रागेव विष्णुपदलब्धगतिं दये! त्वं त्यक्तात्मदारसुतबन्धुगृहाग्रजेष्टम् । धन्यं विभीषणमहो! शरणार्थिनं तं रामेण योजितवती श्रितपक्षपातः ॥ ४५६॥ कीशोक्तिमप्यविगणय्य पलाशजातिं चित्तेऽपि किञ्चिदविचार्य गुणानदृष्ट्वा । मातर्दये! तमतनोश्शरणार्थिनं द्राक् रामाङ्घ्रिसेवकमहो! श्रितपक्षपातः ॥ ४५७॥ यद्यागतो दशमुखोऽपि कृतापराधो- प्यात्मार्पितो रघुवरेति वदेत्सकृत्सः । जीवेत्कथञ्चिदुपयाति न गर्वमत्तः मातर्दये! त्वमिति खिद्यसि किं नु कुर्मः ॥ ४५८॥ ध्वाङ्क्षेपि मर्कटवरेऽपि पलाशनेऽपि मातर्दये! रघुपतिं शरणं प्रपन्नाः । इत्याकलय्य भवती सकलैकरूपा मातात्मजेषु न हि पश्यति तारतम्यम् ॥ ४५९॥ सन्ताडनोन्मुखवलीमुखकान्निवार्य प्रत्यर्थिपक्ष्यशुकसारणसारणाय । मातर्दये! रघुपतिं परिचोद्य शत्रु- पक्षेऽपि दर्शितवती बत! पक्षपातम् ॥ ४६०॥ वानं विधाय जलधिं भुवि वानराणां यात्रानुकूल्यकलने कुशलोऽपि रामः । मातर्दये! जडमयोऽयमितीव तस्य सम्प्रार्थनाय तट एव स शायितो नु ॥ ४६१॥ नोल्लङ्घितो जलनिधिः न हतो दशास्यः प्रागेव हन्त! शरणार्थिविभीषणाय । लङ्कामदाः किमिदमम्ब! दये! श्रिताय त्यक्ताखिलाय वितरस्यतुलां श्रियं हि ॥ ४६२॥ कोदण्डपार्श्वमवनीतलदर्भशय्य- माजानुबाहुममलायतपद्मनेत्रम् । बाहूपधानमतनोः करुणे! शयालुं योगीन्द्रदुर्लभममुं कपिनेत्रपेयम् ॥ ४६३॥ अभ्यर्थनां जडमयस्य च सन्निधाने रामेण कारितवती करुणे! किमेतत्? । नैवावलोकितवती जगतां शरण्यं मत्तानुवर्तनफलं भुवि सोऽन्वभूच्च ॥ ४६४॥ श्रीरामनामपरिचिह्नितबाणयोगात् उद्बोध्य वारिधिपतिं मणिभूषिताङ्गम् । दारैर्दये! त्रिजगतां शरणं शरण्यं तं प्रापयो मतिविहीनजने त्वमेवम् ॥ ४६५॥ सम्प्लाव्य सिन्धुसलिले पृथुशैलवृन्दं मातर्दये! श्रितवलीमुखतारणाय । अत्यद्भुतं भुवनपावनमीड्यसेतुं रामेण कारितवती तव कीर्तिरुच्चा ॥ ४६६॥ मत्किङ्करान् कटुभवाब्धिमपारमेव- मुत्तारयामि करुणापरिचोदितोऽहम् । जन्तूनिति प्रकटयन्निव वानरौघान् रत्नाकरं समुदलङ्घयदाशु रामः ॥ ४६७॥ रत्नाकरः कपिमयस्समभूत्किमेतत् स्थाने कपिस्तरणिरापिबतीति कं यत् । तद्वंशराघवकृते तरणिप्रतार्यं मातर्दये! कृतवती किमु तं पयोधिम् ॥ ४६८॥ मातर्दये! जनकजाचिरबन्धमोक्ष- काङ्क्षाकुला जलनिधिं दृढसेतुबन्धम् । रामेण कारितवती किमु युक्तमेतत्? नो चेत्तथा स भुवि पूज्यतमः कथं स्यात् ॥ ४६९॥ दुर्दान्तदृप्तकटुरावणयुद्धसक्तं सुग्रीवमम्ब! करुणे! सितसौधश‍ृङ्गात् । नानीनयो यदि तदा रघुवीरपार्श्वं कीदृक् स्थितिर्भुवि भवेद्रघुपुङ्गवस्य ॥ ४७०॥ रामस्य राक्षसपतिस्सकलां स्वलङ्कां सीतास्वरूपकरुणाचिरबन्धनेन । ईक्षे च मर्कटमयीं कपिरावदीर्णां स्वप्नोद्भवामिव निजाशुभशंसिनीं ताम् ॥ ४७१॥ क्षीबैर्वलीमुखगणैः निचिता हि लङ्का तीक्ष्णैश्शिलीमुखगणैर्निचितं नभश्च । मातर्दये! रघुवरस्य मनो विहाय सीतेव किं निगलिता पिशिताशनेन ॥ ४७२॥ श्रीराममानसमपास्य विदेहपुत्र्याः द्राक्सान्त्वनाय किमशोकवनं गतासि? नोचेत्तथा रघुवरश्शरवृष्टिमेवं कुर्यात्कथं निशिचरेषु रुषानुकम्पे? ॥ ४७३॥ मायारघूद्वहशिरःप्रविलोकनात्त- शोकापनोदनकृते सरमां तदानीम् । आयोजयेर्न यदि भोग्यमधुस्रवास्यां सीतादशा कथय हन्त! दये! कथं स्यात् ॥ ४७४॥ पौलस्त्यपुष्पकजुषा जनकस्य पुत्र्या मातर्दये! दिवि कटाक्षसुधाभिषेकैः । प्राबोधयो रघुवरौ भुजगास्त्रबद्धौ तार्क्ष्यो निमित्तमभवद् भुजगापनोदे ॥ ४७५॥ हे राम! ते निरुपमा करुणास्रपेषु जीमूतवृष्टिरिव हन्त! शिलोच्चयेषु । नैष्फल्यमाप तत एव निराश्रयास्ते काठिन्यकूटकुटिलत्वफलं त्ववापुः ॥ ४७६॥ कारुण्यनीरधिजलैरभिषिक्तमेनं लङ्कापुरे पुनरपि स्वसहोदरेण । भक्तं विभीषणमनेकपवित्रतीर्थैः रामोऽभिषेच्य दयिताप्त्यधिकं ननन्द ॥ ४७७॥ रामार्थमेव समरे तृणवत्कृतासून् कीशान्सुरेशवरकैतवतस्समस्तान् । सञ्जीव्य हन्त! समरात्प्रथमं यथासीत् रामस्तथा ननु कृतः करुणे! भवत्या ॥ ४७८॥ सम्प्रार्थिता पवनजेन निशाचरीणां निष्पेषणाय जनकस्य सुता तदानीम् । उक्त्वान्यनिघ्नजनवृत्तिमवारयत्तं त्वद्रूपिणी खलु दये! जनकात्मजा सा ॥ ४७९॥ या शीतभावमनयज्ज्वलनं श्रितार्थं तां जानकीं रघुपतिः करुणे! भवत्या । त्यक्तो न्यपातयदहो! ज्वलनेऽतिमौढ्यात् अग्निः कथं वद दहेत्पतिदेवतां ताम् ॥ ४८०॥ ब्रह्मादिभिस्सुरगणैः प्रकटीकृतात्म- तेजोविशेषमपि तं करुणे! रमेशम् । मर्त्यत्वसूक्तिविनिगूहितवैभवं श्री- रामं व्यधा दशरथात्ममुदे किमम्ब? ॥ ४८१॥ वैश्वानरेण करुणे! मधुरानुदारान् विश्राणितान्पतिपरान् रघुवीरदारान् । संयोज्य शान्तमनसा रघुपुङ्गवेन त्रैलोक्यमङ्गलनिदानमभूः किलाम्ब ॥ ४८२॥ मातर्दये! भव रघूद्वहमानसान्मा दूरे कदापि स तु विस्मरति स्वकार्यम् । या पावकं भुवि पुनाति विवेकशून्यः तां पावके बत! निपातितवान् विशुद्ध्यै ॥ ४८३॥ सीतापुटार्पितसुवर्णतनुप्रभाभिः श्रीराममम्बुधरभव्यतनुं दये! त्वम् । सौवर्णचक्रविनिवेशितशक्रनील- रत्नोपमं भुवनभूषणमातनोर्हि ॥ ४८४॥ जायापती समभिदर्श्य पुरातनौ तौ निश्वासदर्शितरुषं श्रितशेषभावे । रामानुजे ननु दये! प्रसृतां शुचं तां उत्सार्य मोदमचिरादुदपादयोऽम्ब ॥ ४८५॥ कैङ्कर्यकार्यनिरतं व्रतिनि प्रकामं रामे स्वरूपविनिषिद्धमिदं त्वितीड्ये । खिद्यन्तमम्ब! करुणे! चिरदम्पती तौ सन्दर्श्य लक्ष्मणमहो! समतोषयो हि ॥ ४८६॥ पट्टाभिषेकमभिवीक्षितुमाह्वयत्तं श्रीजानकीपुरुषकारसुहृष्टचित्तः । रामो विभीषणमशेषबलैस्सदारैः मातर्दये! जनकजा भवतीव नूनम् ॥ ४८७॥ आम्नायपारविदुषा दशकन्धरेण तत्पुष्पकं रघुवरार्थमवैमि गुप्तम् । मातर्दये! भरतरक्षणतत्परासि रामत्वराभिगमने ह्युपकार्यभूद्यत् ॥ ४८८॥ कौबेरपुष्पकसुविष्टरसन्निविष्टं वामाङ्कपीठविनिवेशितभव्यसीतम् । रामं दये! कनकभव्यलतैकपार्श्वं मन्दारवृक्षमिव दर्शितवत्यमोघम् ॥ ४८९॥ नष्टश्रियं पुनरपि प्रतिपन्नलक्ष्मीं लङ्कां विधातुमचिरात्करुणे! भवत्या । सम्प्रेरितो गगनयानगतः श्रितार्थं सीताकटाक्षमभिपातयति स्म रामः ॥ ४९०॥ सीतापतिं दशरथात्तपुनर्नियोगं पट्टाभिषेककरणे करुणे! दयालुं! । भक्ताग्रगण्यभरतेक्षणकाङ्क्षयार्तं तूर्णं प्रयाणधृतमानसमातनोर्हि ॥ ४९१॥ वृत्ताभिधाननिरते धुरि तत्र तत्र रामे प्रदर्श्य गगनात्त्वरितप्रयाणे । दृष्ट्वा जटायुनिधनस्थलमश्रुनेत्री सीताभवत्करुणया प्रविलीनचित्ता ॥ ४९२॥ वातात्मजं भरतभाग्यविधायिनं तं रामाटवीप्रतिनिवर्तनशंसनाय । सम्प्रेष्य भक्तभरतान्तिकमाशु मातः! मातृत्वकार्यमकरोः करुणे! तदानीम् ॥ ४९३॥ अन्योन्यदर्शनकृतं मनसाप्यचिन्त्यं चीराम्बरस्य भरतस्य तदग्रजस्य । आनन्दशोकनयनाश्रु दये! यदासीत् तत्तावदम्ब! भवदीयविलासकार्यम् ॥ ४९४॥ रामं चतुर्दशसमा वनवासखिन्नं प्रत्यागतं जनकजाञ्चितवामपार्श्वम् । सन्दर्श्य भक्तभरताय मुदाश्रुभाजे मातर्दये! त्वमभजः कृतकृत्यतां हि ॥ ४९५॥ पादावलम्बनपरस्य जितेन्द्रियस्य त्यक्तात्मसर्वविषयस्य धृतवृतस्य । प्रत्यक्षतां स भगवानुपयाति सत्य- मित्यत्र दर्शितवती करुणे! किमम्ब ॥ ४९६॥ पादूशिरस्कमवनीतलचङ्क्रमं तं आलम्बिपिङ्गलजटं मलिनाङ्गयष्टिम् । चीराम्बरं भरतमम्ब! दये! प्रदर्श्य शोकात्मकं रघुवरं व्यतनोस्सबाष्पम् ॥ ४९७॥ सीतामपास्य सहसा भरतं कृशाङ्गं रामेण बाहुयुगलेन निजाङ्कदेशम् । आरोप्य तं समभिषेचयसि स्म बाष्पैः नैसर्गिकं खलु दये! तदिदं तवैव ॥ ४९८॥ साकेतवासिषु रघूद्वहविप्रलम्भ- खिन्नेषु हन्त! करुणे! तव तु प्रसादः । यद्दूरवर्तिनमनन्तगुणाकरं तं आनीय राममभिदर्शितवत्युदारम् ॥ ४९९॥ पट्टाभिषेकमकुटाञ्चितमस्तकोऽयं राज्यश्रिया सुहितया सह सीतया च । आत्मानुजैः परिवृतस्सुगुणाभिरामो रामो दयार्द्रहृदयो जगदभ्यरक्षत् ॥ ५००॥ वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नील सरोजकोमलरुचिं रामं भजे श्यामलम् ॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे पञ्चमशतकं सम्पूर्णम् ।

६. षष्ठशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमद्वेदान्तदेशिकाय नमः । अथ दयासहस्रे षष्ठशतकम् । दर्शं दर्शं भुवि मनुजताक्लेशमम्बानुकम्पे लक्ष्मीनाथं परमपुरुषं सर्वशब्दाभिधेयम् । सर्वैश्वर्यप्रकटितजगद्वैभवं संश्रितानां रक्षार्थं तं पुनरपि नरं कारयस्यम्बुजाक्षम् ॥ ५०१॥ तादृशञ्च भगवन्तमपित्वं शत्रुबन्धनगृहे जनिमन्तम् । भक्तरक्षणकृतेह्यनुकम्पे! मर्त्यरूपमवतारयसि स्म ॥ ५०२॥ करुणा खलु कारणं मुरारे! परकारावसथे भवज्जनेस्तु । वरनिर्वहणापदेशतस्त्वं वसुदेवस्य सुतत्वमापिथात्र ॥ ५०३॥ क्षीराब्धिं भुजगवराच्छतुङ्गतल्पं सन्त्याज्य प्रबलतमोनिगालगेहम् । आनीय श्रितजनरक्षणैकताना श्रीशं तं नरसुतमातनोर्दये त्वम् ॥ ५०४॥ पीताम्बरं रुचिररत्नकिरीटदीप्रं नीलालकं मकरकुण्डलकर्णपाशम् । पञ्चायुधं वररमोरसमम्बुजाक्षं भक्ताय दर्शितवती करुणे! किशोरम् ॥ ५०५॥ ध्यानैकगम्यमपि तं निगमान्तवेद्यं हृद्यानवद्यगुणसागरमम्बुजाक्षम् । मर्त्याय संश्रयणसम्मतिदानतुष्टा सन्दर्शयस्ययि! दये! बहुरूपमेनम् ॥ ५०६॥ सुधासध्रीचीं तद्गिरमथ निशम्यात्मसुहितां हिताकाङ्क्षी साक्षात्सपदि वसुदेवो दयितया । विनिर्मुक्तो बन्धात्करपुटगृहीतात्मतनयः बभूवेदं सर्वं तव विलसितं ह्यम्ब! करुणे ॥ ५०७॥ यत्रास्ते मणिसञ्चयो विषधरो जागर्ति तत्रेति य- त्सत्यं तद्वसुदेवसन्निधिगतं नीलप्रभं सन्मणिम् । शेषस्फीतफणो ररक्ष निशि यद्वर्षातपत्रात्मकः तत्सर्वं खलु नन्दभाविसुकृतोद्बोधाय मातर्दये ॥ ५०८॥ स्वापेक्षया सुमधुरं परिवीक्ष्य वस्तु को नापगच्छति कृपे! त्रपयेर्ष्यया वा । कृष्णे क्षणेन यमुना त्रपयेव सागा- दागामिभावुकधिया विहितं किमेवम् ॥ ५०९॥ निरञ्जनममुं दये! व्रजगतं विधातुं कथं त्वयेप्सितमिहाथवा श्रितजनार्थमेवं किल । विभाव्य पशुपालकाभ्युदयकालमम्बाथवा व्रजौकसमकल्पयः किमु शिशुं विशालेक्षणम् ॥ ५१०॥ चित्तेऽप्यचिन्तितमनाश्रितमप्रयत्नं क्वापि क्षितौ ननु कदापि कुतोऽप्यहेतु । वाचामगोचरमनिन्दितमादरार्हं भाग्यं ददासि करुणे बत चेतनाय ॥ ५११॥ निद्राविस्मृतबाह्यसर्वविषयामन्तस्तमोगूहितां कृष्णाख्यं यदनीनयो निरुपमं रत्नं यशोदां दये! । यत्प्राप्त्यर्थमनेकवत्सरशतं वातातपापीडिताः योगीन्द्रा मुनयोऽपि सन्ततमहाध्यानैकनिष्ठास्स्थिताः ॥ ५१२॥ पुत्रः पुत्र इति प्रफुल्लवदना गोपाङ्गना गोकुले हर्षोद्रेकगतागतप्रकटितस्फीतोत्सवास्सङ्घशः । नाभूवन् सुहिताश्शिशुं मरकतस्फाराङ्गकान्तिं मुहुः दर्शन्दर्शमये! दये! प्रचलितं ह्येतत्प्रसादात्तव ॥ ५१३॥ अये! दये! तद्भवदीयकार्य- मानन्ददं सर्वसमृद्धिदायि । श्रीकृष्णजन्मोत्सवसम्भ्रमन्तु सहस्रवक्त्रोऽपि न वक्तुमीष्टे ॥ ५१४॥ किञ्चित्कुञ्चितबाहुजानुयुगलं चञ्चद्विकोशेक्षणं डिम्भत्वारुणनैल्यमुग्धकदलीबालातपात्मद्युतिम् । शश्वन्मुष्टिविलोलपाणिमुकुले निर्लक्ष्यदृष्टिं शिशुं दृष्ट्वा गोकुलयोषितो न ददृशुः पारं प्रमोदोदधेः ॥ ५१५॥ चिरार्जिततपःफलं किमनरालमुग्धात्मनां व्रजावसथवासिनां पशुसमानवृत्तीयुषाम् । परात्परममुं हरिं ननु दये! विधायार्भकं करात्करमनीनयो व्रजनितम्बिनीनां यतः ॥ ५१६॥ क्रमशो विलोकयितुराननं मना- गवलोक्य मन्दमधुरस्मिताननः । क्रममांसलावयवमञ्जुलाकृतिः नवगोकुलोत्सवमरीरचच्छिशुः ॥ ५१७॥ करुणारसपूरितं विलोलं कमनीयाकृतिकान्तिकाङ्क्षणीयम् । व्रजवासिमनोविसारजालं शिशुनेत्रं क्रमशो विशालमासीत् ॥ ५१८॥ करयुग्मपल्लवोद्धृतं स्वं चरणाङ्गुष्ठमतिश्रमेण मन्दम् । अधरोष्ठसम्पुटे निविष्टं परिचूषन् ददृशे जनैः किशोरः ॥ ५१९॥ डिम्भो भूत्वा चरणशिखरं न्यस्य वक्त्राब्जदेशे लालाव्याजाद्विबुधसरितं स्रावयन् गोकुलं तत् । कुर्वन्पूतं मलिनशयने मातृपार्श्वे शयानः दृष्टः कृष्णो व्रजयुवतिभिः कार्यमेतद्दये! ते ॥ ५२०॥ यशोदाया वक्त्रं मुहुरभिविलोक्यात्तहसितः किमेतन्मौग्ध्यं मां ननु निजसुतं वेत्ति भवती । दया मे त्वामेवं कलयति किलेति प्रकटय- न्निवायं श्रीकृष्णो व्यलसदमलस्मेरवदनः ॥ ५२१॥ अनिमित्तरोदनपरः करोद्धृतो जरतीभिरुच्चबहुलात्तरोदनः । मुकुलस्तनीभिरुपलालितस्तदा हसति स्म नन्दतनयस्तु शैशवे ॥ ५२२॥ डिम्भो न्युब्जीभवितुमसकृद्यत्नमास्थाय कृच्छ्रात् न्युब्जीभूतो नमितवदनो मेदिनीसक्तनासः । लालाधारातिमितधरणिर्धात्रि! मा भूद्भयन्ते भारध्वंसी त्वहमिति रहस्सान्त्वयंस्तामिवासीत् ॥ ५२३॥ जानुपाणियुगसाह्यतः क्रमात् मन्दमङ्कणतले व्रजन् शिशुः । यौवतेन सहसानुसंसृतो मातुरङ्कमुपगम्य सस्मये ॥ ५२४॥ नवकिङ्किणीकणकणक्वणत्कटिः मणिनूपुरारणितमञ्जुलाङ्घ्रिकः । करजानुचङ्क्रमणकिङ्कराङ्कणः रमणीहृदम्बुजमपाहरच्छिशुः ॥ ५२५॥ क्रीडार्थं बहुविधपुत्रिकाप्रदाने- प्यक्रन्दत्कृतकपशौ पुरो वितीर्णे । आमोदप्रकटित कौतुकस्स कृष्णः सङ्क्रीडन्व्यतनुत विस्मयं स्वपित्रोः ॥ ५२६॥ कृतकपशुपुरो निधाय घासान् तृणमुपभुङ्क्ष्व वितीर्णमित्यसुष्ठु । अनुलपनपरो न खादतीति व्यलपदनल्पमयं स्वमातृपार्श्वे ॥ ५२७॥ पूतनां कपटसुन्दरीं शिशोः यातनाकरणबद्धचेतसम् । पातयन्विषधरस्तनन्धयः पोत एव तदुपर्यराजत ॥ ५२८॥ अम्बानुकम्पे! दुरितैकभाजः प्राणात्ययानेहसि पूतनायाः । प्रत्यक्षतां प्रापित एव हन्त! परात्परस्तापसदुर्लभो यः ॥ ५२९॥ पूतनादेहदाहोत्थः पूतिगन्धोऽपि नूतनः । पूतनन्दात्मजस्पर्शात् जातश्चन्दनगन्धभाक् ॥ ५३०॥ एकस्याः करपल्लवाभिगमनं संसूचयन् सस्मितं वक्षोजोपरि सन्निपत्य जननीहस्तात्परस्या द्रुतम् । लालास्नापिततत्कुचः कचकरो वल्गंश्चलत्कुन्तलः कृष्णो गोकुलयौवतं व्यतनुत स्वागारकार्योज्झितम् ॥ ५३१॥ महानसोपान्तनिवेशितस्य महानसोऽधस्स्थलशायितोऽयम् । क्षुद्रासुराविष्टमनोविचिन्त्य निद्रामपास्योद्बुबुधे स कृष्णः ॥ ५३२॥ त्रुटितं शकटं प्रघट्टनेन स्वपदाम्भोरुहयोर्विधाय कृष्णः । प्ररुदन् जननीकरादृतो द्राक् चरणाङ्गुष्ठमुखो हसन् बभूव ॥ ५३३॥ नितम्बिनीपाणिगृहीतपाणिः मन्दं स्खलच्चङ्क्रमणः पदाभ्याम् । मञ्जीरझङ्काररवेण गोपी- चित्तानि सञ्चालयति स्म कृष्णः ॥ ५३४॥ खेलनात्स विरतः क्षुधा रुदन् गेहकर्मनिरतां स्वमातरम् । मातरित्यनुनयन्यशोदया स्तन्यमङ्कनिहितः पपौ हसन् ॥ ५३५॥ हस्ताङ्गुलीकुटिलितैकक चूचुकोऽयं अन्यस्तनाहितमुखस्स्रुतदुग्धसृक्वा । अम्बामुखप्रहितपद्मविशालनेत्रः मानातिरेकसुभगामतनोद्यशोदाम् ॥ ५३६॥ धेनुं दुहानां जननीमुपेत्य पश्चाद् गृहीत्वा चषकं करेण । सञ्चालयन् पृष्ठतटे विवल्गन् दोहान्तरायं व्यतनोत्पयोर्थी ॥ ५३७॥ मन्थानदण्डवृतदामविकर्षणेन लोलक्वणद्वलयनादविकृष्टचेताः । कस्याश्चिदालयमुपेत्य नितम्बिनीं तां पश्चाच्छनैरुपसरन् व्यतनोत्स भीताम् ॥ ५३८॥ कस्याश्चिदारोहगतः किशोर्याः कञ्चुल्युपारूढकुचोच्चकोरके । पाणिं प्रसार्य प्रहसन् विवल्गन् तामातनोज्जिह्ममुखीं विलज्जिताम् ॥ ५३९॥ अङ्के शयालुरनिमित्तकृतस्मितोऽयं सन्दर्शितात्मवदनान्तरशेषलोकः । व्यस्मापयन्निजमुखाब्जविलोकयित्रीं अम्बां स्रुतस्तनपयःपृषताभिषिक्तः ॥ ५४०॥ कूपङ्गतायां निजमातरि श्रीनन्दात्मजोऽन्तर्निलयं प्रविश्य । आवर्जितक्षीरपृथूच्चभाण्डो दुग्धाभिषिक्तोव्यरुदत् स्वदंस्तत् ॥ ५४१॥ क्षीरप्रवाहजठरे पुरुहूतनील- रत्नप्रभं समुपविष्टमरालकेशम् । आरोहनीरकलशोपगता यशोदा दुग्धाब्धिमध्यगमिवैक्षत वासुदेवम् ॥ ५४२॥ तृणावर्तसमुत्क्षिप्तो दहराकाशवर्तिताम् । दर्शयन्निव नाकस्थो निजघानासुरं शिशुः ॥ ५४३॥ वत्सानां गलतलबद्धदामहस्तः कर्षंस्तान् दृढनिहिताङ्घ्रिकान्नतास्यान् । तत्कण्ठप्रचलितकिङ्किणीनिनादैः कृष्णोऽयं प्रकटितविस्मयो जहास ॥ ५४४॥ बहिर्मा गा वत्स! व्रजति जनको धेनुभरणं विधातुं मातस्तत्करणकुतुकी त्वं भव महान् । इदानीं प्रांशुस्स्यामिति सपदि दोलां परिहरन् उदग्राकारस्सन्नतनुत यशोदां चलमतिम् ॥ ५४५॥ दधिभाण्डमन्थनसमुत्थितं नवं नवनीतमन्यसदनेऽप्यनुद्धृतम् । स्वकरेण मन्दमुपगृह्य जिह्वया मुहुरालिहन् स जननीनियन्त्रितः ॥ ५४६॥ ध्वान्तागारे मुदिरसुषमो रौहिणेयद्वितीयः शिक्ये न्यस्तं चलितलगुडान्मर्कमश्नन्निपात्य । कार्यासक्त्या स्वनिकटजुषो नूत्नवध्वा मुखे तत् क्षिप्त्वा श्वश्रूकटुतरवचःपात्रमापाद्य हृष्टः ॥ ५४७॥ कस्याश्चिन्निजचौर्यवीक्षणकृते मन्दं गृहाभ्यन्तरे निश्शब्दायितनूपुरं पदगतेर्वध्वा मुखाम्बोरुहे । फूत्कृत्या पयसो निजास्यनलिकागण्डूषितस्याञ्जसा कृष्णोऽयं नयने पिधाय निरगाद्गेहात्स्वगेहं प्रति ॥ ५४८॥ अन्यैर्गोपकिशोरकैर्बहिरसौ क्रीडैकसक्तः क्षणात् अन्यान्तर्भवनं प्रविश्य कलशाद्दुग्धं निपीयोत्क्षिपन् । बाह्याक्रीडनकः पुनर्गृहवधूमाहूय मन्दस्मितः मार्जालो भवदीयदुग्धमपिबत्पश्येत्यवोचच्छठः ॥ ५४९॥ विस्रंसनेन सहसा गलबद्धधाम्नां वत्सान्विमोच्य परिनुद्य च मातृपाश्वम् । ऊधः पयः पिबति वत्स इति स्वकार्य- सक्तास्स्त्रियो व्यघटयद् गृहकर्मणोऽयम् ॥ ५५०॥ कुम्भान्नवोद्धृतमुदस्य परोकसि द्राक् अंसावलम्बि कनकांशुक बद्धपिण्डः । खादन् स्वयं रहसि मुग्धकुमारिकायाः तत् स्वादयन् स्वपरिरब्धतनोर्मुमोद ॥ ५५१॥ मर्कापहारपिशुनाय वधूर्यशोदा- वेश्मागता करगृहीतमुकुन्दपाणिः । अम्बाङ्कशायिनमवेक्ष्य कृतस्मितं तं चित्रार्पितेव निजगण्डकरैव तस्थौ ॥ ५५२॥ हय्यङ्गवीनमपहृत्य सजग्धिकेल्यां ज्योत्स्न्यां तमालतरुमूलमुपेत्य कृष्णः । शश्वल्लिहन्ननुपलब्धघृतैस्स्रवन्ती- तीरे जहास मृगितो घनरुक्सुहृद्भिः ॥ ५५३॥ कंसाय सर्वमिदमित्यनुशास्य मात्रा न्यस्तानि मर्कदधितप्तपयांसि कृष्णः । कंसे निधाय परिभुज्य च मातृपृष्टः कंसार्पितानि हि मयेत्यवदत्स्मितास्यः ॥ ५५४॥ करकबलपरो मुरारिरारात् परकरभोज्यहरो विरावयंस्तम् । मम करकबलं जहार मातः स्वयमिति तत्पुरतो हसन् ववल्ग ॥ ५५५॥ उदरप्रतिमुक्तदामबद्धं पृथुलोलूखलमम्बयैव रोषात् । यमलार्जुनमध्यगो विकर्षन् ननु मोक्षाय तयोर्बभञ्ज शौरिः ॥ ५५६॥ घोषस्थाखिलदामसङ्ग्रथनतो दीर्घीकृतस्यापि ते दाम्नो द्व्यङ्गुलमात्रमूनमुदरे दृष्ट्वा यशोदाल्पधीः । आश्चर्याकुलमानसा स्थितवती जानाति सा त्वां कथं ब्रह्माण्डोदरमब्जलोचन! कृपाबद्धोऽसि बद्धस्तया ॥ ५५७॥ अहो ते कारुण्यं धनदसुतयोश्शापकुटयोः विमोक्षार्थं बालो व्रजरचितचेष्टाकुपितया । तया बद्धो मात्रा कटुकुटिलदाम्नास्ति स भवान् अभून्नामास्मभ्यं श्रुतिमधुरदामोदर इति ॥ ५५८॥ नन्दे जन्मदिनोत्सवं रचयितुं कृष्णस्य पुष्पादिभिः गेहालङ्करणैकतानहृदये नन्दात्मजो बालकैः । क्रीडन् वर्त्मनि धूलिधूसरकचो मात्राभिषिक्तोऽब्रवीत् भक्ष्यं देहि मदीय जन्मदिवसो मा ताडयेति प्रसूम् ॥ ५५९॥ चकितचकितदृष्टिर्मन्दमन्योपगेहे विनिहितचरणोऽयं मण्डं आलिह्य सर्वम् । त्रुटितदधिघटो द्रागाखुभुक्तुल्यनादः समुपगतनताङ्गीगण्डचुम्बी व्यधावत् ॥ ५६०॥ प्रलम्बघ्नेनाराद्ग्रहणकुतुकी क्रीडनपरः प्रसन्नज्योत्स्नायां तमभिमृगयन् पार्श्वगमपि । अदृष्ट्वा तेनैव ग्रहणविचितश्शश्वदचिरात् अनिन्दद्दुःखार्तो निजमुदिर देहद्युतिमयम् ॥ ५६१॥ वत्सान्यगेहदधिमर्कपयोपहारी मा भूर्वदन्ति सुहृदस्त्वसितं प्रसूर्माम् । खादन्सितानि नवनीतपयोदधीनि शुभ्रो भवेयमिति तत्सततं हरामि ॥ ५६२॥ पुष्पोपकण्ठचलचित्रपतङ्गपाणिः मुग्धाकुचोपरि निवेश्य च तं मुकुन्दः । भीत्या कुचांशुकमुदस्य विधून्वतीं तां दृष्ट्वा जहास ससुहृद्विनदन् सतालम् ॥ ५६३॥ बृन्दावनं दुरवगाहममन्दबृन्दं नन्दात्मजाङ्घ्रिकमलन्यसनात्तघासम् । वन्दारुवृन्दपरिवन्दितमन्दिराढ्यं बृन्दारकादिबुधनन्दितनन्दमिन्धे ॥ ५६४॥ वत्सलो वत्सवत्सो यो वत्सोत्साहोत्सवोत्सुकः । मत्सरं वत्समुत्सार्य सालेऽपासुं स सस्मये ॥ ५६५॥ बृन्दावने कुसुमिताखिलवीरुदग्र- सञ्चारशीलमधुलिण्मधुरारवेण । सम्मिश्रयन्वदनवेणुनिनादमेषः तद्यौवतं व्यतनुताचलपुत्रिकाभम् ॥ ५६६॥ मायूरबर्हकृतमस्तकमण्डनोऽयं गुञ्जोन्नियन्त्रितकचो विचलेक्षणाब्जः । भ्रूभङ्गभङ्गुरविशेषकमुग्धफालः सोऽस्तम्भयद्वनमृगान् मुरलीनिनादैः ॥ ५६७॥ दुहानाया धेनुं तरुणिमलसन्मुग्धसुदृशः प्रवेणीं वत्सस्य प्रचलगलदाम्ना चरमतः । रहो बद्ध्वोत्तानीकृततनुमथाकर्षणबलात् विलोक्यायं कृष्णो हसितवदनो दुग्धमहरत् ॥ ५६८॥ उत्क्षिप्योक्षिप्य कुम्भान्नटनपटुतया न्यस्ततालानुपादः मञ्जीरध्वानतालश्शिरसि भुजयुगे पातयन्नूर्ध्वतस्तान् । गोपानां गोपिकानां धुरि वलयजुषां स्वेदबिन्दूच्चफालः नृत्यन् विस्मापयंस्तान् स समधिगतवान्मर्कपिण्डान् मुकुन्दः ॥ ५६९॥ बकासुरं वीरणवद्विदार्य तीक्ष्णायतत्रोटि दलाध्वनायम् । विलासिनी लोलविलोचनालि- पीतो व्रजे नन्दसुतो ननन्द ॥ ५७०॥ जम्बूफलानि पतितानि जलेऽम्बुजाक्ष- स्त्वम्बूकृताम्बुरय सम्प्लवने झषाभः । बिम्बाधरोष्ठपुटसङ्ग्रहणेन खादन् जम्बूफलद्युतिरखेलदयं स्रवन्त्याम् ॥ ५७१॥ उपदंशदंशनविकूणितेक्षणः क्षणभङ्गुरभ्रुमधुरोदनाशनः । सुहृदां मुखेषु कबलानि पातयन् यमुनातटीषु विजहार वेणुभाक् ॥ ५७२॥ गिरितटबहुगैरिकप्रलिप्तः नवमुदिरद्युतिरुच्चपिञ्छचूडः । बहुवनसुममालिकाञ्चिताङ्गो व्यलसदयं सुरचापनाककल्पः ॥ ५७३॥ अजगरं विततास्यमघासुरं निजसुहृद्गणरक्षणकाङ्क्षया । उदरगो निजघान जनार्दनो वनतटे पृथुपर्वतसन्निभम् ॥ ५७४॥ अघरूपमघं कृष्णस्सद्गतिं समनीनयत् । को वेत्ति निपतेत्तस्य दया कस्मिन् कदा कथम् ॥ ५७५॥ घटीयन्त्रदेश्या दया ते दयाब्धे कठोराविलं तुच्छमन्तश्च पात्रम् । प्रहौ द्राङ् निपात्यामृतास्वादसक्तं विधायोद्गतिं हन्त! तस्मै ददाति ॥ ५७६॥ मुषितेषु वत्स निवहेषु कानने विधिना तदैव वसुदेवनन्दनः । परिलब्धतत्तदविशेषविग्रहो निजमातृदुग्धसुहितोऽभवत्समाम् ॥ ५७७॥ पौगण्डवयसा कृष्णो व्यक्तावयवसौष्ठवः । दयालक्ष्मीलसन्नेत्रो वृन्दावनमनन्दयत् ॥ ५७८॥ बर्हावतंसश्चरमाङ्ग बद्ध- बर्हावलिर्भुग्नगलो नतास्यः । केकाभनादो वनबर्हिवृन्दं नन्दात्मजो नर्तयति स्म हृष्टम् ॥ ५७९॥ गिरिनिर्झरौघपृषदाचिताङ्गको रविघृष्टिपातकृतशक्रचापकः । रयनादमिश्रितनिजस्वनो धुनी- पिहितस्सुहृद्भिरभवद्गवेषितः ॥ ५८०॥ झरीयवनिकातिरस्कृततनुः पयोमुग्रुचिः गवेषणपरैर्वने निजसुहृद्भिरन्वेषितः । विलोक्य नवनीलरुग्रुचिरनीरपूरं तदा हसद्भिरुपवीक्षितस्स्मितमुखो बभूवाच्युतः ॥ ५८१॥ अब्धौ दुग्धमये शयालुरपि तत्सन्दर्शनोद्वेजितः भीत्या तद्व्रजमन्दिरेषु रहसि स्तोकं हरंस्तृप्तिभाक् । कृष्णोऽभूत्सुलभे तु वस्तुनि सदा प्रायस्समीपस्थिते भोग्येऽपि स्वयमीहितेऽपि बहुले स्यात् खल्ववज्ञा चिरम् ॥ ५८२॥ पृष्ठाङ्घ्रिधूननकठोरविरावरूक्ष- चक्षुःकरालरददर्शितहिंस्रचेष्टम् । उत्पात्य धेनुकमपासुमपातयत्तं तालात्फलैस्सह खरं भुवि नीलचेलः ॥ ५८३॥ दीप्राश्मदिव्यमकुटार्हशिराः पिनद्ध- गुञ्जासराञ्चितशिरा वनमालिकोराः । वन्यप्रसूनरुचिरः कमलासखोऽपि गोपीप्रियो व्रजगतो व्यलसन्मुकुन्दः ॥ ५८४॥ सन्मार्गदर्शनपरं गुरुमम्बुजाक्षः त्यक्त्वा हलायुधमयं विपिनं प्रयातः । गोचारणाय वरवेणुधरो भुजङ्ग- क्ष्वेलानले ह्रदजले निपपात कृष्णः ॥ ५८५॥ तथा नापीडयत्कृष्णं ह्रदस्फीतविषोदकम् । विलापाश्रुजलं तीक्ष्णं यथा तीरव्रजौकसाम् ॥ ५८६॥ कालीयनीलविषकालायमानतनुरालोलचिक्कणफणां आरुह्य ताण्डवपदन्यासझङ्कृतिजतालानुभुग्नशिरसम् । शोणोरुशोणितमुखालोलनीलदलजिह्वातरङ्गकलिलं कालीयमम्बुनिधिवासाय कालयति दारैस्स्म शौरिरचिरात् ॥ ५८७॥ भक्तरक्षणकृते मुरवैरिन् आत्मनो न गणयस्यपि कष्टम् । यत्समुत्प्लुतिगतो विषनीरे हन्त! ते निरुपमा करुणा हि ॥ ५८८॥ भवत्पादसंस्पर्शमात्रेण लोके विषं स्यात्सुधा हन्त! हिंस्रोऽपि साधुः । भवत्पूतनाम्नां स्मृतौ चेच्छुभं स्यात् किमु त्वत्समीपस्थितौ चक्रपाणे ॥ ५८९॥ वने ग्राह्यक्रीडापरकपटगोपालवपुषा प्रलम्बेनोढोऽयं दनुजरिपुभीतेन हलभृत् । व्यतानीच्छ्रीकृष्णप्रणिहितगिरा सक्थियुगतः प्रलम्बग्रीवं तं व्यसुमपसृतस्फीतनयनम् ॥ ५९०॥ वाचाटकूटकुटवाटनटत्स्फुलिङ्ग तुङ्गाद्रिकन्दरदराजगरप्रसारम् । दावानलं श्रितसुहृज्जनगोगणानां रक्षाकृते तरुगतोऽगिलदम्बुजाक्षः ॥ ५९१॥ गोप्यस्सर्वास्तरुणिमलसत्स्वाङ्गमौग्ध्याभिरामाः कामाश्लिष्टास्तपसि शरदि प्राप्तकृष्णाख्यजीवाः । काश्चिद्ध्यानात्तदनुकरणात्काश्चिदप्युच्चगानात् वृन्दारण्ये करणमखिलं सार्थयामासुरेवम् ॥ ५९२॥ दयाधुनी ते व्रजवासिनीनां शौचव्रताचारपराङ्मुखीनाम् । चित्तानि सङ्क्षालयति स्म शौरे! यथा भवेयुर्भवदेकभाञ्जि ॥ ५९३॥ वेणुं कूणितरागमुग्धनयनः कृष्णः कलिन्दात्मजा तीरारूढ महीरुहान्तरगतो नीलद्युतिर्वादयन् । दूरात्कोकिलवद्वनप्रियतया पुष्टः परेणाप्ययं गोपीराह्वयति स्म मृग्यमधुरस्वीयाकृतिर्नादतः ॥ ५९४॥ गोपीनां गमनं निरीक्ष्य पशवः फेनाक्तघासाननाः कर्णोत्क्षेपणदर्शितोरुमुरलीहृद्यस्वनैकादराः । हुङ्कारप्रकटीकृतात्मगमनोत्साहा रणद् घण्टिकाः धावन्ति स्म विकुञ्चितोद्धृतचलद्वाला मुकुन्दान्तिकम् ॥ ५९५॥ हेमन्तशीतपवनाभिहतास्तु मुग्धाः कृष्णाप्तिकामरुचिरव्रतमज्जनेच्छाः । वासांस्युषस्यभिविमुच्य निवेश्य तीरे मन्दं कलिन्दतनयां विविशुर्विवस्त्राः ॥ ५९६॥ परस्परजलाहतिस्मितविहारसक्तासु ता- स्वयं रहसि सञ्चरन्नपहृतानि तानि द्रुमे । निधाय मुरलीस्वनस्वककृताक्षिसञ्चालनाः विधाय रचिताञ्जलीः करुणयांशुकान्यार्पयत् ॥ ५९७॥ कृष्णस्य नर्मवचनैकवशास्सखायः कान्तारचङ्क्रमणज क्षुदवाप्तबाधाः । सूर्यातपग्लपित विश्लथधूसराङ्गाः भिस्सार्थिनो मुररिपुं शरणं प्रपन्नाः ॥ ५९८॥ कृष्णोक्त्या व्रजबालकास्सव भुवं प्राप्यावनम्रा द्विजान् ऊचुर्नन्दसुतो निजाग्रजयुतः क्षुत्पीडितः प्राहिणोत् । हव्यार्थी वितरन्तु हव्यमिति तच्छ्रुत्वाऽप्युदासीनतः विप्रास्तानवहेलनेन विमुखांश्चक्रुः किमेष क्रतुः? ॥ ५९९॥ विना कारुण्यं ते कथमिह भवन्तं द्विजवराः अपि प्राप्तं साक्षात्सवनपुरुषं कृष्ण! विदितुम् । समर्थास्स्युः कर्मप्रवणमनसो ज्ञानविमुखाः स्वशक्त्या बाह्लीकोद्वहनभरखिद्यत्खर निभाः ॥ ६००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे षष्ठशतकं सम्पूर्णम् ।

७. सप्तमशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमद्वेदान्तदेशिकाय नमः । अथ दयासहस्रे सप्तमशतकम् । तत्पत्न्यः पतिभिर्निरुद्धगमना अप्यम्बुजाक्षाय त- द्धव्यं भोग्यतमान्नपायसपयोहय्यङ्गवीनान्वितम् । भक्त्यादाय समर्प्य तास्तु मुमुदुः कृष्णोऽपि मित्रैस्समं तद्भुक्त्वा सुहितोऽभवत्स भगवान् भक्त्येकवश्यः खलु ॥ ६०१॥ कर्मणा किमु वशङ्गतो हरिः ज्ञानवैभवनिमित्ततः किमु । प्रीतिमात्ररचितार्पणस्तदा सोऽन्वगृह्णदबला द्विजन्मनाम् ॥ ६०२॥ किं कृतं तप उत व्रतं क्षितौ ध्यानवर्त्मनि चिरस्थितिः पुरा । विप्रदारविषये कुतस्तथा माधव! प्रकटिता दया त्वया ॥ ६०३॥ विदितप्रवृत्तिरपि गोपसम्भ्रमे शिशुभावयोग्यमधुरानुयोगतः । जननीमुखादवगतादिकारणो निजगाद साधु जरतो जनार्दनः ॥ ६०४॥ वयोवृद्धा यूयं किमिदमुचितं यच्च सुचिरात् समारब्धं कर्म प्रकृतमविचारैकसुभगम् । किमर्थं कर्तव्यं किमु फलमिह द्रव्यविलयात् मुधैवैतन्मन्ये सुरपतिमखं दुःखबहुलम् ॥ ६०५॥ कथं श्रीमानिन्द्रस्त्रिदिवनिलयस्तोयदपतिः कुतस्तस्मै कार्यं व्रजवसतिभिः पूजनमिह । पयोज्योतिर्धूमप्रभृतिवलनं याति घनतां स्वयं वर्षत्यम्बु प्रसरदिति वात्याहततनुः ॥ ६०६॥ कर्मानुरूपिणी भूमौ स्थितिस्सर्वशरीरिणां । पुराकृतस्वकर्मानुरूपमश्नन्ति ते फलम् ॥ ६०७॥ अस्मद्रक्षणभारमुद्वहति हि श्रीमानयं पर्वतः घासाम्बुप्रभृतिप्रदाननिरतो गोवर्धनाख्यो महान् । तस्मात्सम्प्रति सादरं वयममुं सम्भारभारान्विताः प्रार्चिष्याम इतीरयन् व्रजजनान् निघ्नानतानीदयम् ॥ ६०८॥ एवं कुर्वत्सु सर्वेष्वतिकुपिततुषाराट् प्रणुन्नेषु मेघे- ष्वाराद्वर्षत्सु घोरं पटुकुटिलरटत्स्फूर्जथुध्वानभाक्षु । गोपालैः प्रार्थितोऽयं पशुभिरपि मुहुस्साश्रु संवीक्ष्यमाणः हस्तेनोत्पाट्य गोत्रं निजकरकलितं छत्रवत्सोऽप्यबिभ्रत् ॥ ६०९॥ जितश्श्रीमान्वज्री धवलगजराड्वाहनगतो विनम्रस्स्तुन्वन् सन्सुरभिसहितः प्राञ्जलिशिराः । सबाष्पं गोविन्देत्यसकृदभिधायामृतकणैः अषिञ्चद्बालं तं यदुपरिबृढं मित्रविनुतम् ॥ ६१०॥ ऐश्वर्यदृप्तमपि विस्मृतसर्वशक्तं कृत्वा कथञ्चिदवनाय च सम्मुखीनम् । उत्पादयस्ययि! दये! भगवत्यपारां भक्तिं महीधरभिदत्र भवेद्धि साक्षी ॥ ६११॥ प्रायोविरोधकृदिहैव भवत्कटाक्ष- पात्रं भवत्यनितराप्तविशेषभाग्यम् । तत्पूतनाप्रभृतिवृत्रनिषूदनान्ताः सर्वेऽप्यवापुरमलाम्बुजपत्रनेत्र ॥ ६१२॥ नन्दादयो निगमवेद्यममुं मुकुन्दं कारुण्यदर्शितमहाद्भुतदिव्यचेष्टम् । स्तुत्वा चरन्तमिह बालिशगोपबालैः ते मेनिरे निजजनिं सफलाञ्च धन्याम् ॥ ६१३॥ यमुनाप्रवाहविनिमग्नमञ्जसा वरुणोपनीतमवकर्ण्य नन्दज । पितरं पुनश्च समनीनयो व्रजं करुणा न कारयति किं त्वयाच्युत ॥ ६१४॥ शरज्ज्योत्स्नाकान्ते विमलपुलिने सूर्यतनया- तटे कृष्णे वेणुं मधुरमधुरं वादयति ताः । निशम्याराद्गोप्यो निजसदनकर्मव्यतिकरं विहायोत्तस्थुर्द्राक्पतिगुरुनिरुद्धा अपि तदा ॥ ६१५॥ काश्चिद्दोहं कतिचन शिशून् काश्चिदप्यार्यकार्यं काश्चिन्नाथं कतिचन निजालङ्कृतिं पाकमर्धम् । त्यक्त्वा गोप्यो यदुपतिहृदः प्राप्तसङ्घा वियाताः यातास्तस्मिन्विहरति मुदा नन्दजस्तं प्रदेशम् ॥ ६१६॥ नन्दात्मसम्भव! किशोर! विशालनेत्रे दृष्टे त्वयि स्मितमुखे भुवि बालिशाश्च । त्यक्त्वात्मबन्धुपतिमित्रकलत्रपुत्राः स्निह्यन्ति नाथ! भवतीति किमत्र चित्रम् ॥ ६१७॥ क्रीडन्तीर्यदुपुङ्गवेन यमुनातीरे कृतामण्डलाः तत्संश्लेषविजृम्भितस्मरमहावैदग्ध्यरासोत्सवाः । गायन्तीर्व्रजयोषितो हतहृदोऽहङ्कारमानोन्नताः त्यक्त्वाहङ्कृतिनाशनाय विहरन्नन्तर्दधे माधवः ॥ ६१८॥ करुणया यदि दर्शयसि स्वयं निजमनोहरदिव्यसुविग्रहम् । अनुभवन्ति भवन्तमिहाश्रिताः यदि तथा न किमु प्रभवन्ति ते ॥ ६१९॥ सन्निधापयति संरिरक्षया त्वां दया भवदवाप्तिगर्विते । आश्रिते बत तिरोहितं तथा तन्वती हरति गर्वमच्युत ॥ ६२०॥ कदाचिदम्बिकावनं प्रविश्य माधवस्सुहृद् वृतः प्रसूनकार्चिताम्बिको विहारतत्परश्चिरं वने । भुजङ्गमाद् गृहीतमात्मनन्दमञ्जसा व्यमोचयत् भुजङ्गमञ्च शापतः पदाभिमर्शनेन पावयन् ॥ ६२१॥ अनुग्रहाय शापोऽपि कल्पते हि तपस्विनाम् । यत्कृष्णचरणस्पर्शमन्वभूत् स सुदर्शनः ॥ ६२२॥ सुखं दुःखं सर्वं कमलनयन! प्राक्तनविधेः भवेद्यद्भव्यं तत्त्वदमितकृपैकायतिकृते । दिने घर्मे सूर्यप्रतपनपरोस्रप्रसरण- प्रतप्ता क्षोणी स्यान्नवजलधरासारशिशिरा ॥ ६२३॥ शङ्खचूडमुपयातमरण्ये लीलयैव विनिपात्य शिरस्स्थम् । रत्नमग्रजकरे विनिवेश्य क्रीडति स्म सुचिरं वनमाली ॥ ६२४॥ भ्रष्टराज्यकुले जातोऽप्यहरच्छीर्षरत्नकम् । सर्वेषां रत्नहारित्वं दर्शयन्निव शैशवे ॥ ६२५॥ भाङ्कारभीकररवं समुदग्रपक्ष्म- रक्तेक्षणं पृथुललोलककुत्करालम् । सूत्कारवातधुतभूमिमृदं सुश‍ृङ्गं तं जघ्निथाशु वृषभं खुरकीर्णमूत्रम् ॥ ६२६॥ व्यादाय वक्त्रमभिदर्शितशुभ्रतीक्ष्ण- दन्तं करालनयनं कटुतारहेषम् । तं केशिनं खुरविघट्टनदीर्णगोत्रं वक्त्रप्रसारितभुजो निजघान कृष्णः ॥ ६२७॥ व्योमासुरं कपटगोपतनुं निहत्य तेनापहृत्य गिरिकन्दरसन्निरुद्धान् । गोपार्भकान्परिविमोच्य ररक्षिथ त्वं कारुण्यकार्यमखिलं खलु पङ्कजाक्ष ॥ ६२८॥ यथा तुच्छीकुर्युः परमपदमप्युच्चविभवं सदानन्तानन्दं मधुमथन! कारुण्यजलधे! । भवल्लीलालीना मुखकमलभृङ्गा व्रजजुषः तथाभूवन्मग्नाः भवदनुभवानन्दजलधौ ॥ ६२९॥ मधुराधरचुम्बिरम्यवेणुं चलवल्लीमिव भङ्गुराङ्गभङ्गीम् । परिरभ्य मुरारिरेष राधां अभिरेमे स्मरशासनानुरोधाम् ॥ ६३०॥ नैवैकरूपं किमपीह लोके द्वन्द्वात्मके वर्तत इत्यभीक्ष्णम् । शंसन्निवागान्नृपकंसनुन्न- स्सोऽक्रूरनामा भगवत्सकाशम् ॥ ६३१॥ अक्रूरः पशुबृन्दमध्यविसरद्धूल्यस्फुटाङ्गं कन- त्सन्ध्यारागविजृम्भमाणकनकत्विड्भासुरैकाम्बरम् । घण्टाटङ्कृतितालमिश्रमुरळीनादं सुहृद्वेल्लितं दृष्ट्वायान्तमरण्यतो मुररिपुं स्वं धन्यमामन्यत ॥ ६३२॥ मधुरिपुबलरामौ स्यन्दनान्तर्निषण्णौ रचितसलिलगाहस्तौ विलोक्याम्भसि द्राक् ॥ किमिदमिति स नीरादुत्थितस्स्यन्दनस्थौ तदमितकरुणां तां संस्मरन्नभ्यनन्दत् ॥ ६३३॥ रथवरे विनिवेश्य मधुद्विषं हलधरेण स सारथिताङ्गतः । समनयन्मधुरां मधुराननं स्वकृतपुण्यफलं मनसि स्मरन् ॥ ६३४॥ स्मारं स्मारं तदमितकृपां बाष्पदिग्धेक्षणोऽयं दर्शं दर्शं नवघनरुचं पुण्डरीकायताक्षम् । रोमाश्लिष्टो मनसि कलयन् कंसशंस्योपकारं नैवाक्रूरः प्रमदजलधेः पारदर्शी बभूव ॥ ६३५॥ दुष्टकंसवशवर्तिनीं भुवं पावयन्निव पदाब्जचङ्क्रमः । कामपालकलितो विलोकयन् प्राविशत्स मधुरामधोक्षजः ॥ ६३६॥ कलभगमनं शौरे! द्रष्टुं भवन्तमिहादरात् किमिव रचितं पुण्यं किंवा तपो मधुराजनैः । तव तु करुणां किं वा ब्रूमस्तपस्विसुदुर्लभं नवघननिभं दिव्यं रूपं प्रदर्शितवानहो ॥ ६३७॥ मधुरागृहमेधिनो भवन्तं परिपीयाक्षिपुटैर्हरे! ननन्दुः । अहमस्मि तदा भवत्कृपायाः न हि पात्रं क्व गतः कथं स्थितिर्मे ॥ ६३८॥ तदा मां नाद्राक्षीरिति हृदि विचिन्त्याघिनि कलौ मदर्थं शेषाद्रौ किमु वससि दिव्यार्च्यतनुभृत्! । अहो ते कारुण्यं दुरितनिलये मय्यपि हरे! कृतार्थो जातोऽहं भवदनुभवेनाद्य सुकृती ॥ ६३९॥ अधिगतसकलार्थोऽप्यर्थयंश्चेलमेकं रजकमकृतचेलस्पर्शनं कंसवश्यम् । करहतिगलितासुं पातयंश्चेलधारी सपदि मुमुदिषे त्वं चित्रचेष्टोऽसि शौरे ॥ ६४०॥ याञ्चावृत्तिस्तव बहुमता प्रायशो भूमिभागे लब्ध्वा क्षोणीं बलिबलिकरादन्वगृह्णः पुरा तम् । कुब्जाहस्तात्परिमलयुतं चन्दनं याचमानो मुग्धां तामप्यरचय इहानुग्रहार्थं हि याञ्चा ॥ ६४१॥ दिव्यगन्धहृदयङ्गमस्सदा चन्दनेन किमनेन तेऽच्युत । तान्तु वक्रतनुमार्जवोत्तमां कर्तुमेव करुणा तवानघा ॥ ६४२॥ विवेकविकलान् स्वयं समुपगम्य सन्मार्गगः कथञ्चिदपि कैतवात्प्रकटितात्मचित्रक्रियः । कठोरकुटिलाशयान् कृपणकानपि स्वेच्छया रिरक्षसि रमापते! वितनुते कृपा त्वां तथा ॥ ६४३॥ पापी कुब्जो भवति जनिमान् वक्र इत्यप्युदीर्णं सेयं कुब्जा कुमनुजपतेः भृत्यभावं प्रपन्ना । सत्यप्येवं यदुकुलमणे! त्वत्समाश्लेषसौख्यं भेजे रूपं स्थितिमपि नहि प्रेक्षते तेऽनुकम्पा ॥ ६४४॥ कृतागसमपि प्रभो! त्वमपदेशतः पालय- स्यहो! किमुत? संश्रिते तव पदाब्जदासे जने । गतोऽसि तत एव तत्प्रसवमालिकाजीविकं भवद्भजनतत्परं ननु गवेषयन्मन्दिरम् ॥ ६४५॥ सुमनस्सु मे तु महती मुदित्यमुं तव भावमत्र परिदर्शयन्निव । सुममाल्यजीविकगृहं गतो भवान् अकरोत्कृपैकसदनं तमादरात् ॥ ६४६॥ वनमालालङ्कृताङ्गोऽप्यरिमालाभिलाषवान् । किमर्थमभवश्शौरे! किं भक्तानुजिघृक्षया ॥ ६४७॥ राजार्हं परिमळबन्धुरं विचित्रैः पुष्पौघैः ग्रथितमनोज्ञसन्निवेशम् । माल्यं तन्निजहलिना स्वयं समर्प्य ग्रीवायां प्रमुदितमानसोऽभवस्त्वम् ॥ ६४८॥ मालालङ्कृतमम्बुजेक्षणमयं नन्दात्मजो मानयन् मालाकार इदं मदीयभवनं पूतं त्वदङ्घ्र्यर्पणात् । धन्योऽस्मीति वदन् सबाष्पनयनो नृत्यन् सतालं मुहुः शौरे किङ्करवाणि ते तु करुणां सञ्चिन्त्य मूढोऽस्म्यहम् ॥ ६४९॥ इत्युदीर्य कृतमस्तकाञ्जलिः कृष्णपादनिहितात्ममस्तकः । बाष्पवारिपरिमृष्टतत्पदो हर्षवारिनिधिमज्जितोऽभवत् ॥ ६५०॥ गत्वा स्वयं तद्गृहमम्बुजाक्ष! पुष्पस्रजा याचितयातिहृष्टः । तद्वंशजेभ्योऽप्यपवर्गदोऽभूः कथं दयां तां तव वर्णयेयम् ॥ ६५१॥ पत्रं वा फलमपि वा प्रसूनमेकं यो भक्त्या वितरति तेऽम्बुजायताक्ष! । स्वीकृत्य स्वयमखिलं तदत्र तस्मै यच्छस्यप्यनितरलभ्यमाशु भाग्यम् ॥ ६५२॥ बाल्ये धनुर्विदलनं रघुपुङ्गवस्सन् कृत्वा विदेहतनयाकरपीडितोऽभूः । अद्यापि कृष्ण! यदुराट् धनुषो विभङ्गात् किं पाणिपीडनमुपैषि जयश्रियस्त्वम् ॥ ६५३॥ क्षीरं निपीय शकटस्य तलप्रदेशे सुप्त्वानिशं हिममयीं अतिवाह्य शौरे! । उत्तिष्ठति स्म स भवान् भगवन्! प्रभाते धिङ्मानुषत्वमिदमत्र दयैककार्यम् ॥ ६५४॥ वात्सल्यपूर्णहृदयस्य तवोचितेयं गोपालकैश्शकटमूलतलेऽपि शय्या । अस्नातगोपतनुदोषसुभोग्यतात्त- हर्षप्रकर्षपरिपुष्टमना यतस्त्वम् ॥ ६५५॥ इन्द्रादयोऽपि सवनाहुतहव्यभाग- मादातुमत्र नरदोषपराङ्मुखास्याः । आयान्त्यगोचरशरीरवरा मुरारे! शक्रार्चिताङ्घ्रिकमलोऽप्यसि गोपबालैः ॥ ६५६॥ ज्ञातोदन्तस्स तु कुवलयापीडमासाद्य मत्तं नागेन्द्रं द्रागुपरि पतितं शुण्डया ताडयन्तम् । उत्पाट्यैकं मुसलसदृशं दन्तमाहत्य तेन स्फीते कुम्भे विविधगमनः पातयामासिथोर्व्याम् ॥ ६५७॥ गजे निपतिते कृष्णः किशोरः खेलनोत्सुकः । रेजे शिलोच्चयप्रस्थे घनपोत इव स्थितः ॥ ६५८॥ कृष्णायेदमिति प्रशस्तकुसुमस्रक्चूतरम्भावलिं श्वेतोल्लोचतलाभिलोलविलसन्मुक्ताकलापाञ्चितम् । कंसो मण्डपमाविशन्यदुशिशोरभ्यागमे कौतुकी भीत्या सन्ततकृष्णनामहृदयो निर्णिक्तपापोऽभवत् ॥ ६५९॥ समुत्सारितजिह्माग्रकुन्तलो मधुसूदनः । चाणूरं चूर्णयामास चारुचन्द्रनिभाननः ॥ ६६०॥ शुभ्रतूलकृतकन्दुकोपमो मल्लतल्लजकरे विवल्गनः! । मुष्टिपातहतमुष्टिकोऽभव - द्रङ्गवाद्यलयचङ्क्रमो हली ॥ ६६१॥ क्व शिक्षिता नाथ! नियुद्धवैखरी प्रचण्डमल्लप्रतियुद्धपण्डितः । किशोर एवासि हि सर्वशक्तता क्व याति ते मर्त्यतनोरपि प्रभो ॥ ६६२॥ गोवर्धनं गिरिवरं श्रितरक्षणार्थं एकाङ्गुलीशिखरतो दिवसांश्च सप्त! । बाल्ये प्रभो! धृतवतस्तव लीलयैव मल्लाः कियन्त इह सल्लपनप्रफुल्लाः ॥ ६६३॥ कर्तव्यशून्यहृदयं कृतदौस्थ्यचिन्तं व्यर्थोद्यमं भयविघूर्णितमाशु कंसम् । सिंहासनाद्भुवि निपात्य समुत्प्लुतस्त्वं मुष्ट्याहतिप्रहतमातनुषे स्म कृष्ण ॥ ६६४॥ विधिविलसितं कर्तुं कोवान्यथा चतुरो भवेत् यदभिहनने कंसो हिंस्रान्मुहुः परिनोदयन् । अपि विनिहतस्तेनैवायं दुरध्यवसानतः तदिह करुणा शौरेः पापात्मनां शरणं सदा ॥ ६६५॥ धन्यः कंसो यदनवरतं कृष्णनामैकचित्तो दर्शन्दर्शं स्वयमुपगतं तस्य सौन्दर्यमुग्धः । साक्षात्तेन प्रयततनुना स्पृष्टमात्रो गतासुः तत्पादाब्जे विनिहितशिराः ध्वस्तपापो बभूव ॥ ६६६॥ निन्दा भक्तिर्भीतिरप्यत्र येन प्रायस्त्वय्येवार्प्यते कापिचैका । तस्मै श्रीमंस्त्वत्कृपा तारतम्यं त्यक्त्वा श्रेयो दास्यति प्राप्तकामा ॥ ६६७॥ यद्यप्यच्युत! ते तु मातृसदृशी सर्वैकरूपा कृपा श्रेयो दास्यति तत्र नैव बहुशः कार्या हि चर्चा हरे! । सत्यप्यम्बुजपत्रनेत्र! भवति प्रीत्यैव यो वर्तते तस्यानन्दलवोऽस्ति किं भुवि तयोस्तद्भिन्नयोरन्ययोः ॥ ६६८॥ पितरौ विमोच्य निगलाद् घनद्युतिः तदवाप्तगाढपरिरम्भणोत्सवः । गलिताश्रुलोचनचिरावलोकितः कृतकृत्यताममनुतात्मनि प्रभुः ॥ ६६९॥ संसारघोरनिगलात्परिमोचयित्रे तुभ्यं नमोऽस्तु करुणाकर! दिव्यमूर्ते! । अस्मादयोनिगलनात्परिमोचितोऽस्मी- त्यत्र प्रमुग्धहृदयः किमहं वदेयम् ॥ ६७०॥ अभयदातरि हन्त! भवत्यपि प्रतिकलं रिपुभीतिरशङ्क्यत! । वितनुते त्वयि वत्सलता तथा न मम याति मतिस्तव शक्तिषु ॥ ६७१॥ आमनन्ति निगमैकगोचरं पण्डिता ननु भवन्तमच्युत! । वेद्म्यहं मम भवन्तमर्भकं माययैव तव मोहितोऽस्स्म्यतः ॥ ६७२॥ एकैकमद्भुततमं तव बाल्यकार्यं सञ्चिन्त्य वर्ष्म पुलकाञ्चितमम्बुजाक्ष! । आसीत्तथापि मम पुत्रतयातिखिन्नो नैवास्मरं सकलदुःखहरं भवन्तम् ॥ ६७३॥ नन्दस्य भाग्यमिह मे न हि नन्दसूनो! बाल्ये मनोहरविहारपरम्परां ते । भूयोऽनुभूय मुदितो भवसारपारं पश्यन् कृतार्थितजनिर्यदभूद्व्रजे सः ॥ ६७४॥ यशोदाया भाग्यं किमिति निगदेयं कथमहं पिबन्तं स्तन्यं त्वां मरकतनिभं स्वाङ्कशयितं! । प्रफुल्लास्याम्भोजप्रहितनयनं वीक्ष्य मुमुदे तदेतद्देवक्या न हि खलु महाभाग्यमवनौ ॥ ६७५॥ पूतोदकैस्स्नापनमन्नदानं पुष्पाद्यलङ्कारपरिष्कृतिञ्च । कृत्वा यशोदा यदुनाथ! तुभ्यं सा धन्यधन्या मुदिता बभूव ॥ ६७६॥ शङ्कमानहृदयः प्रतिक्षणं दुष्टकंसभयमच्युत! त्वयि । जर्झरीकृतमनास्सदाभवं हन्त! सोऽपि निहतो हि घातुकः ॥ ६७७॥ किं भाग्यं व्रजवासिनां किमु गवां किं बालकानां तथा बृन्दाख्यस्य वनस्य किं रविसुतानद्या वधूनां किमु ॥ वत्सानां किमु तैः पुरा विरचितं पुण्यं तपो वा व्रतं हे गोविन्द! भवत्पदाम्बुजरजोधन्यास्समस्ता अपि ॥ ६७८॥ इत्युक्तवन्तं पितरं प्रणम्य कृष्णोऽब्रवीत्तात! भवद्वियुक्तः । नाहं त्वदानन्दकृदर्हसि त्वं क्षन्तुं हि मन्तुं मम सम्प्रतीति ॥ ६७९॥ सङ्कर्षणं सर्वजनाक्षिकर्षणं गाढं समालिङ्ग्य जगाद देवकी । पश्यामि दिष्ट्या ननु वत्स! गोव्रजे त्वां क्लिष्टमिष्टैर्वनचङ्क्रमैरिति ॥ ६८०॥ बद्धं तं सपदि विमोच्य चोग्रसेनं राजानं पुनरपि कारयन् स कृष्णः । स्वं धर्मं प्रकटितवान्यदूद्वहानां प्रभ्रष्टक्षितिपरिभृट्त्व रूपमीड्यः ॥ ६८१॥ असङ्ख्यब्रह्माण्डप्रकटितनिजैश्वर्यविभवः समस्तान्तर्यामी यदुकुलमणे! किन्तव भुवा । नरैस्सर्वैरेवं विधिनियमवश्यत्वमनिशं सुपाल्यं धीरैरित्यनुरचितकर्मोपदिशसि ॥ ६८२॥ नियामकत्वे स्वत एव सिद्धे केनापि दातव्यमिहास्ति किन्ते । तथापि लोकानुसृतौ कृतात्मा भ्रष्टोऽसि राज्यादिति तद्विचित्रम् ॥ ६८३॥ सङ्कल्पमात्रपरिकल्पितसर्वजन्तु- वृत्त्युत्थमत्यनुगुणप्रचुरप्रवृत्तिः । त्रैलोक्यरक्षणपरोऽसि यदूत्तम! त्वं राजेव शासनपरः किमु रक्षणार्थम् ॥ ६८४॥ अन्तः प्रविष्टश्च चराचराणां यथोचितस्थाननिवेशयोग्यान् । बिभर्षि तानम्बुजपत्रनेत्र! सूत्रं विचित्रानिव रत्नसङ्घान् ॥ ६८५॥ नन्दं विलोक्य करुणारसपूरिताक्षो बृन्दावनं किमभियासि सुहृत्समेतः । वात्सल्यपूर्णहृदयो मयि मन्मनास्त्वं सर्वस्वदाननिरतस्समपालयो माम् ॥ ६८६॥ इति निगदितं श्रुत्वा नन्दोऽप्यानन्दितमना मनाक् निजभुजसमाश्लिष्टं कृष्णं सबाष्पनयनोऽब्रवीत् । किमिदमुचितं कृष्ण! श्रीमंस्त्वयैव परिरक्षिताः वयमिह मुहुश्शत्रुव्रातात्कृपैकनिलयाच्युत ॥ ६८७॥ त्वय्यागते तृणजलादिसमृद्धिरासीत् गावोऽपिकुम्भपयसः परिपुष्टगात्राः । हृष्टा बभूवुरखिला व्रजबालकाश्च योषाः भवत्सहवसत्यनघात्म भूषाः ॥ ६८८॥ त्वत्पादपङ्कजरजःपरिपूतधन्यं बृन्दावनं सकलभाग्यनितान्तभोग्यम् । सान्निध्यतस्तव महोत्सवपुष्टमासीत् तत्त्वां विना कथमहं विकलं विशेयम् ॥ ६८९॥ त्यक्त्वा तृणं जलमपि प्रतिपन्नमौनाः गावोऽपि कृष्ण! भवदागमनाध्वनेत्राः । हुङ्कारमात्रपरिदर्शितदैन्यदुःखाः गोष्ठेषु सन्ति कथमेत्य विलोकयेयम् ॥ ६९०॥ कंसं निहत्य पुनरप्यभियास्यतीति गोपाङ्गनाः कृतधियस्त्वदनन्यभावाः । रात्रन्दिवं ननु हरे! प्रतिपालयन्ति मामेकमागतमवेक्ष्य कथं भवेयुः ॥ ६९१॥ पुष्पाण्यरण्ये विविधानि कृष्ण! म्लानानि तत्रैव पतन्ति भूमौ । राज्ये स्थिते त्वय्यपि तानि को वा सानन्दमादास्यति धारणार्थम् ॥ ६९२॥ या भीत्या नवनीतदुग्धदधिभृद्भाण्डोपगूहोत्सुकाः ता एवाद्य समर्पणाय भवते हस्तोद्धृतं त्वत्प्रियम् । एह्येहीति सबाष्पगद्गदगिरस्त्वामाह्वयन्त्यादरात् तद्गोविन्द! मयैव सम्प्रति समायाहि व्रजं साग्रजः ॥ ६९३॥ राधेव गानविमुखी मुरली मुकुन्द! वातातपाभिनिहता भवदाप्तिकामा । भूमौ लुठत्यविरतं दयनीयशोभा तत्सान्त्वनाय समुपैहि मया व्रजं त्वम् ॥ ६९४॥ श्रुत्वा नन्दवचो वियोगशिथिलं हृद्द्रावि कृष्णोऽब्रवीत् कर्तव्यं बहु वर्ततेऽत्र नितरामायातुमेवोत्सहे । नाहं सम्प्रति यातुमर्हथ पुनर्द्रष्टुं व्रजेयं व्रजं त्वित्थं सान्त्वनतत्परो मुररिपुस्सम्प्रेषयामास तान् ॥ ६९५॥ सविधि समुपनीतौ रामकृष्णौ स्वपित्रा गुरुमुखमधिगन्तुं सर्वविद्याः प्रयातौ । विनमितशिरसौ सान्दीपनिं प्राप्य हृष्टौ निजगुरुवरिवस्यासक्तचित्तौ समास्ताम् ॥ ६९६॥ सकृदुक्तं पुनर्नैव विषयग्राहिणोस्तयोः । विद्याधिदेवते तौ तु लोकसङ्ग्रहतत्परौ ॥ ६९७॥ अनुग्रहकृतादरं कलयति प्रिया सा दया भवन्तमिह योजयत्यनियतक्रियायां छलात् । जगद्गुरुमपि स्वयं गुरुवशं व्यतानीत्तथा व्यदापयदहो! गुरोस्तनयमब्धिगं दक्षिणाम् ॥ ६९८॥ एवं क्षितौ मनुजताकृतचित्रकर्मा श्री वेङ्कटेश! करुणापरिचोदितस्सन् । मौढ्याद्भवत्परिभवैकहृदो मनुष्यान् सञ्चिन्त्य पर्वततटेऽसि किमर्च्यमूर्तिः ॥ ६९९॥ कथमप्यमतीन्नरानधीनान् करवाणीति कृतप्रतिज्ञ एव । अहिशैलतटे विचिन्तयन् किं जनभावस्मरणात्कृतस्मितोऽसि ॥ ७००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे सप्तमशतकं सम्पूर्णम् ।

८. अष्टमशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमद्वेदान्तदेशिकाय नमः । अथ दयासहस्रे अष्टमशतकम् । अभिहितं वचनं परिरक्षितुं पुनरपि प्रतिपद्य यशस्विनीम् । सुरभिचन्दनदां मधुराननां तदभिलाषमपूरयदच्युतः ॥ ७०१॥ निरातङ्कापरिच्छिन्नसदानन्दघनस्य ते । अन्यापेक्षा मुदे किं वा कृपाकार्यमिदं खलु ॥ ७०२॥ भक्तानां मुदमेव हन्त! मनुषे स्वीयां मुदं श्रीपते! तेषां दुःखमवैषि दुःखममितं स्वीयं कृपावारिधे! । तद्भक्तैर्यदपेक्ष्यते तदचिरात्सम्पूरयस्यादरात् आत्मार्थं न किमप्यपेक्षितमये! सम्पूर्णकामो भवान् ॥ ७०३॥ स्वकीयाविर्भावं सफलयितुकामो यदुपुरी- निवासश्श्रीवासो घनरुचिपटप्रेममुदितः । वधाय प्रत्यर्थिप्रवरनिकराणां कृतमनाः मनाग्बीजावापं सपदि कृतवान् कंसमुखतः ॥ ७०४॥ अनेकवारं मगधेश्वरेण संयुध्य तं कालयसि स्म शौरे! । समस्तशक्तस्य कियानयं ते क्रीडस्यहो! मानुषयोग्यकृत्यः ॥ ७०५॥ सृष्टिं स्थितिं लयमपि प्रभवं त्रिलोक्याः सङ्कल्पतो रचयितुं किमिदं मुकुन्द! । आज्ञानुवर्ति सकलायुधचक्रवर्ति जागर्ति चक्रमनिशं भवदीयपाणौ ॥ ७०६॥ एकतो यवनपीडनं जरा- सन्धयुद्धमपरत्र चिन्तयन् । द्वारकां जलनिधावकारयो दिव्यसम्पदमये! मयेन हि ॥ ७०७॥ रत्नाकरोपरि सुरत्नपुरी त्वदीया सा द्वारका सुरपुरीतरुरत्नदीप्रा! । वेदान्तवेद्यमहिमा तव वागतीतः सत्येवमप्यनुकरोषि मनुष्यचेष्टाम् ॥ ७०८॥ कथं वा शौरे! त्वं जलनिधिजले दिव्यनगरीं विशालां निर्माप्य स्फुरदुदधिना धारयसि ताम् । पुरा रामत्वेऽपि प्रबलजलधौ सेतुमतुलं नलेनैतद्युक्तं तव तु विततं कारितवतः ॥ ७०९॥ भयकृद्भयनाशनोऽपि शौरे! यवनाद्भीत इव प्रधाव्य दूरम् । अमुना यवनेन वीक्ष्यमाणो ह्यविशः पर्वतकन्दरोदरं द्राक् ॥ ७१०॥ धन्योऽयमेव यवनो यदमुं भवन्तं पीताम्बरं घनरुचिं नलिनायताक्षम् । पञ्चायुधाञ्चितचतुर्भुजदण्डमीड्यं मत्तेभधावनमपश्यदचिन्त्यरूपम् ॥ ७११॥ मुचुकुन्ददृशा विनाश्य वीरं यवनं तत्प्रतिबोधनापराधम् । प्रकटीकृतवान् फलं ह्यवार्यं भगवद्भक्तकृतागसां मुकुन्द ॥ ७१२॥ जीमूतकान्तरुचिपङ्कजपत्रनेत्रं चक्राब्जनन्दकगदारमणीयहस्तम् । कस्तूरिकातिलकफालमरालवालं दिव्यस्वरूपमयि! दर्शितवानमुष्मै ॥ ७१३॥ सुप्तं व्युत्थाप्य करुणे! मुचुकुन्दं व्यदापयः । दिव्यरूपं मुकुन्दस्य तस्मै योगिभिरीप्सितम् ॥ ७१४॥ जरासन्धाद्भीतो हलधरयुतो धावनपटुः समुत्सेधे शैले पिहिततनुरप्यल्पमतिना । गिरौ दग्धे तस्मात्प्लुतिगतधरः क्वापि निरगाः विचित्रा लीला ते परमपुरुषस्यापि धरणौ ॥ ७१५॥ नवनीतचौर्यचिरवासनाबलात् नवनीतकोमलतराच्छमानसाम् । अपहर्तुमेव कृतधीरभूः किमु प्रसभं मुकुन्द! भवदीयरुक्मिणीम् ॥ ७१६॥ निकषोपलकृष्टहेमरेखा- सदृशी तावकवक्षसि प्रसक्ता । मुमुदे ननु रुक्मिणी मुरारे! भवदीयाप्तिविधावपि श्रमस्ते ॥ ७१७॥ प्रमथ्याब्धिं पूर्वं समधिगतवान् पद्मनिलयां धनुर्भङ्गात्सीतां जनकतनयामापिथ हरे! । इदानीमप्येवं युधि जितरिपुर्भीष्मकसुतां श्रमेण स्वायत्तीकृतचकितदारोऽसि किमिदम् ॥ ७१८॥ अथवा सति पुष्कलेऽपि विघ्ने तदपोह्याश्रितरक्षणं तनोमि । इति दर्शयितुं किमम्बुजाक्ष! श्रमनिर्वासितविघ्न एव जिष्णुः ॥ ७१९॥ दयितया प्रतिषिद्धवधं हरे! समभिरक्षितवानपराधिनम् । करुणया ननु रुक्मिणमाहवे पुरुषकारधुरा वचनातिगा ॥ ७२०॥ पुरा येनाकारि प्रधनभुवि साह्यं निरुपमं नियुद्धं तेनासीत्तव जरठभल्लूकपतिना । अनुग्राह्ये जन्तौ कथमपि हरे! कामपि दयां वितन्वन्मोहात्तं विघटयसि दत्तात्मविभवः ॥ ७२१॥ स्वाङ्गाभिमर्शनसुखानुभवेन बाल्ये नीराभिखेलनविधौ जनितानुरागाम् । सूर्यात्मजां त्वदनुचिन्तनधन्यधन्यां आमोदयः करुणया परिणीय शौरे ॥ ७२२॥ मन्दाक्षमन्दधिषणान् धुतगर्वगन्धान् आन्दोलयन्नरपतींश्चिरनिन्दनार्हान् । गोविन्द! सुन्दरमुखीं ननु मित्रविन्दां विन्दन्ननन्दिथ मिलिन्द इवारविन्दम् ॥ ७२३॥ दुर्दान्तदृप्तदुरवग्रहदुर्विनीतान् सप्तापि कृष्ण! वृषभान् दमनेन वश्यान् । सप्ताकृतिर्ननु विधाय करग्रहेण सत्यामवापिथ च नाग्नजितीं कृपालो! ॥ ७२४॥ श्रुतकीर्तिसुतां मुकुन्द! भद्रां ननु भद्रावयवां कुरङ्गनेत्रीम् । विधिवत्करपीडनेन शौरे! दयितामापिथ मोदयन् कृपालो! ॥ ७२५॥ मद्राधिनाथतनयां ननु लक्ष्मणाञ्च भूपालमण्डलपरिष्कृतमण्डपस्थाम् । सर्वेषु राजसु मिषत्सु च जह्रिथ द्राक् तार्क्ष्यस्सुधामिव जनार्दन! तार्क्ष्यकेतो! ॥ ७२६॥ नरकं विनाश्य नरकं यथा नृणां निगलीकृतास्तु सुरसुन्दरीसमाः । निजरूपसक्तहृदया नितम्बिनीः समनीनयो हि कृपया पुरं स्वकम् ॥ ७२७॥ नरकापहृते सुकुण्डले त्वि- ड्ढसितादित्यरुची समर्प्य तस्यै । कृपया कुलिशायुधस्य मात्रे कृतकृत्यत्वमदर्शयो हि शौरे ॥ ७२८॥ एवं साह्यकृदप्यमेयविभवो वज्रायुधेनाहवे द्विष्टस्तं प्रविजित्य दिव्यमधुलिट् झङ्कारसुस्वागतम् । तार्क्ष्ये न्यस्य च पारिजातममितामोदप्रसूनाञ्चितं सत्राजित्तनयावनीं समनयो मायाह्यचिन्त्या तव ॥ ७२९॥ मानापनोदाय नर्मोक्तिवेत्ता श्रीरुक्मिणीदृप्तहृत्कृन्तनोक्त्या । तां रोदयन् सान्त्वनोक्त्यापि शौरे! प्राहर्षयः प्राणिसद्वर्त्मकाङ्क्षी ॥ ७३०॥ स्वपुत्रपौत्रादिविवाहकाले तानन्तरायान् प्रविजित्य शत्रून् । अमानुषेणात्मबलेन शौरे! त्वदीयरक्षां बहुधा व्यतानीः ॥ ७३१॥ त्वदीयार्थं श्रीमन्मनुजतनुरप्यद्भुतविधिः धरण्यां प्रत्यूहप्रशमनकृते क्लेशममितम् । समारोप्य श्रेयो वितरसि नतेभ्यो यदुपते! दयां ते निस्सीमां कथयितुमनीशस्त्वमपि हि ॥ ७३२॥ कृकलासमनल्पवर्णदेहं मुहुरावल्गितमस्तकं प्रहिस्थं! । कृपयानुजिघृक्षुरात्महस्ता- दुदबिभ्रस्तव कार्यमेतदेव ॥ ७३३॥ नृगचक्रवर्तिनमनल्पदायिनं द्विजयुग्मघर्षणनिरस्तवैभवम् । समुदस्य कूपकुहरात्कृपानिधे! पतितोद्धरत्वमभिदर्शितं त्वया ॥ ७३४॥ मुनिपुङ्गवैर्मुहुरभिष्टुतो भवान् धरणीसुरेषु दृढदर्शितादरः । द्विजवित्तचौर्यफलमप्युदाहरन् नृगचक्रवर्तिकथयैव रौरवम् ॥ ७३५॥ नीलाम्बरो व्रजमुपेत्य पुनश्च तत्र निर्वर्तितोत्सवनिरुत्सुकदेशकल्पे! । तेषां मुकुन्दविरहातुरमानसानां बाष्पैस्स्वयञ्च समभागभवद्वियोगे ॥ ७३६॥ पौण्ड्रकवासुदेवमुपकल्पिततार्क्ष्यरथं कृत्रिमशङ्खचक्रभुजमीप्सिततत्प्रधनम् । चक्रनिकृत्तमस्तकमपतयदल्पमतिं कृष्ण! भवान् दुरध्वगविनाशकृते त्वमभूः ॥ ७३७॥ काशीं तत्प्रभुमप्यनादिनिधने कृत्यानिकृत्युत्सुकं चक्रेण ज्वलनत्विषा समदहस्स्फीतस्फुलिङ्गार्चिषा । दैत्यध्वान्तदिवाकरे त्वयि भवन्त्यौद्धत्यदुर्मार्गगाः ज्वालायां शलभा इव प्रतिभटाः किं चित्रमत्राच्युत ॥ ७३८॥ रघुवीररामचरणाब्जभक्तिभाक् अभवत्पुराणकपिपुङ्गवस्तु यः । यदुवीररामपरिपन्थिनं स तं द्विविदं जघान युगधर्म ईदृशः ॥ ७३९॥ यदुनाथषोडशसहस्रसुन्दरीः समकाल एव समसङ्ख्यकायभाक् । समनन्दयस्सुरतिकेलिकोविदः तव कारणं हि करुणा तथास्थितेः ॥ ७४०॥ सङ्कल्पितं नाथ! यथा तथैव भक्तावनार्थं क्रियते त्वया हि । शक्तोऽपि भीमेन गतासुमाजौ त्वं कारयामासिथ मागधं तम् ॥ ७४१॥ बन्धाद्विमोच्य नृपतीन् प्रवितीर्य तेभ्यो वस्त्रादि वस्तु विनुतो विनतैर्मुदा तैः । स्वीयेषु राज्यविभवेषु पुनर्नियोज्य तानाविथाच्युत! दया तव वागतीता ॥ ७४२॥ प्रत्यूहविध्वंसनपूर्वकं त्वत्- पदाब्जसेवारतमानसानाम् । सत्कर्म निर्वर्तयसीह शौरे! चित्रं न चैतत्करुणा तवैवम् ॥ ७४३॥ युधिष्ठिरमखं हरे! सुमुखमन्तरायं विना सहोदरभुजार्जितैः कनकवस्त्रवस्वादिभिः । यथाविधि विधापयन्निगमपारगैस्तापसैः नृपोत्तमशिरोमणिं व्यतनुथाः पृथायास्सुतम् ॥ ७४४॥ यस्सप्ततन्तुतनुभृद्धुतभुक् स्वरूपो मन्त्रात्मकस्सुरमयो हुतहव्यभोक्ता । तस्मिंस्थिते त्वयि धुरि क्रतुराजमेनं धर्मो व्यधादिति किमत्र मुकुन्द! चित्रम् ॥ ७४५॥ श्रियश्श्रीस्त्वं श्रीमन्यदुकुलमणे! कामपि कृपां वितन्वन्निर्व्याजं निवससि सुहृद्यत्र नितराम् । कथं न स्यात्तस्मिन्निरवधि निधीनामुपचयः तदस्मिन्निर्हेतु प्रहिणु करुणां तादृशगुणाम् ॥ ७४६॥ वितर्कसन्दिग्धमनस्सु सभ्ये- ष्वभ्यर्हणे ज्ञस्सहदेव एकः । भवन्तमेकं ननु निश्चिकाय सर्वेड्यमित्यच्युत! धन्यधन्यः ॥ ७४७॥ सभाजनार्हं बहुधा विगर्हन् सभाजनार्हं कमलासख! त्वाम् । स चेदिराजस्सुकृती किमाहो- स्वित्पापकृद्यत्तव पादमाप ॥ ७४८॥ नानाशास्त्रप्रबलधिषणा अप्यपारार्हणार्हाः विद्वांसस्त्वां यदुकुलमणे! नैव जानन्ति दृप्ताः । कारुण्यं ते यदुपरि पतत्यम्बुजाक्ष! प्रतीक्ष्यं लक्ष्मीशं त्वां प्रथितविभवं शुद्धसत्वस्स वेत्ति ॥ ७४९॥ चेदिराजचरितानुचिन्तना- न्नष्टभीतिरहमस्मि साम्प्रतम् । निन्दतेऽपि निजपादपङ्कजं यच्छसि स्म कृपया यदच्युत ॥ ७५०॥ सज्जोऽभवो हि सवनागतमानवानां पादावनेजनविधौ यदुनाथ! तीर्थैः । किं न्याय्यमेतदमरार्चितपङ्कजाङ्घ्रेः ते भक्तनैघ्न्यमथवा प्रकटीकृतं नु ॥ ७५१॥ शतानन्दसङ्क्षालिताङ्घ्रिस्रुतायाः स्रवन्त्याः पयः प्रोक्ष्य ये धन्यधन्याः । अहो! कृष्ण! तेषां पदक्षालनेन स्वयं धन्यमामन्यसे स्वं किमेतत् ॥ ७५२॥ भक्ता यथा भवत्प्राणाः भक्तप्राणस्तथा भवान् । तत्ते युक्तमिदं शौरे! यद्भक्ताङ्घ्र्यवनेजनम् ॥ ७५३॥ त्रिपुररिपुवरेण प्राप्तमायन्तु साल्वं प्रतिभटयदुवीरप्लोषणोपात्तदर्पम् । श्रितजनपरिरक्षाबद्धदीक्षस्वचक्र- प्रहरणविनिकृत्तग्रीवमाशु व्यतानीः ॥ ७५४॥ दन्तवक्रमपि हन्त! सङ्गरे हन्ति स स्म गदया भवान् हरे! । तस्य कण्ठतलनिर्गता द्युतिः प्राविशत्तव पदं कृपा रिपौ ॥ ७५५॥ भूदेवनैपथ्यनिगूढशौर्यान् धर्मात्मनः पाण्डुसुतान्रिरक्षुः । संयोज्य पाञ्चालिकया मुकुन्द सन्तोषयामासिथ ते दयाहो ॥ ७५६॥ दुरोदरनिरङ्कुशान् परिहरन्ति सत्सम्पदो- प्यरालधरणीपतीनुपसरन्ति दामोदर! । इति व्यसनिनां नृणां प्रकटयन्निवात्माश्रित- प्रचण्डबलपाण्डवावनतिमत्र किं सेहिषे ॥ ७५७॥ तथापि भक्तान्नविमुञ्चसि त्वं कदापि गोविन्द! सवाग्निजाताम् । तां द्रौपदीं त्वच्चरणैकसक्तां ररक्षिथाच्छादनदानतो यत् ॥ ७५८॥ अम्बराद्यदुपते! ह्यवतेरु- श्चित्रिताम्बरपरम्परिका द्राक्! । त्वद्दयोर्मय इव प्रयतात्म- द्रौपदीहृदयचन्द्रविवृद्धाः ॥ ७५९॥ गोविन्देति सुदूरवर्तिनमपि त्वामाह्वयन्तीं मुहुः मानत्राणपरायणां स्वपतिभिस्त्यक्तात्मसंरक्षणाम् । पाञ्चालीं भवतो ररक्ष किमु तन्नामाथवा किं भवान् सा ते किं करुणाथवा श्रितमहादुःखापहन्त्री हरे ॥ ७६०॥ गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनं! ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥ दुर्वासः प्रभृति मुनीन्द्र कुक्षिपूर्तिं कौन्तेयक्षतिहरणार्थमम्बुजाक्ष! । शाकाल्पं स्वयमुपभुज्य कल्पयन् सन् सर्वान्तर्निजवसतिं व्यदर्शयो हि ॥ ७६१॥ दूतो भूत्वा मृधहतिकृते पाण्डवार्थं गजाह्वं स्थानं यातः कुरुकुलपतिं याचमानश्च सन्धिं! । मोघीभूतप्रचुरयतनस्सन्निवृत्तः किमर्थं क्षोणीभारप्रशमनकृते ते तु सङ्कल्प एवम् ॥ ७६२॥ गीता गीता सपदि भवता विश्वरूपं व्यदर्शि श्रीमन् सर्वं समभवदहो! यातयामं किमेतत्! । मायैवैवं कलयति कलौ मानुषेषु त्वदीया तस्माद्दीनस्तव तु करुणां प्रार्थये भक्तिदात्रीम् ॥ ७६३॥ पुरुहूतनीलमणिकान्तिमञ्जुलः सितमुग्धवाजिगणचोदनोन्मुखः! । प्रधनाजिरेऽपि विजयस्य सारथिः ननु कस्य कृष्ण! न चकर्षिथेक्षणम् ॥ ७६४॥ सौन्दर्यं ते प्रधनभुवि ये सम्प्रहारैकनिष्ठाः तेषां चक्षूंष्यपि विवशयन्निर्निमेषाण्यकार्षीत्! । दर्शं दर्शं यदुकुलमणे! त्वां प्रभुप्रेर्यमाणाः अप्यासंस्ते त्वयि कृतहृदस्त्यक्तकर्तव्यकार्याः ॥ ७६५॥ दुष्टात्मकान्नपरिपोषितदेहबन्धाः प्रज्ञातिमान्द्यकृतकापथगानुमोदाः । वध्या इति प्रथयितुं किमु भीष्ममुख्य- वृद्धादिनाशनविधौ रचितानुमोदः ॥ ७६६॥ शिलीमुखविदारितस्फुटितपाणिरप्यञ्जसा सुपर्ववरनिम्नगासुतमभिद्रवंश्चक्रभृत् । चलत्कुटिलकुन्तलप्रचुरफालदेशो हरे! निजाकृतिमदर्शयो बत! रिपोः कृपा तेऽनघा ॥ ७६७॥ आत्मानमायोधनभूमिभागे सन्दर्श्य बाणाहतिपातितेन । भीष्मेण भाव्यात्मपरत्वशंसां श्रोतुं व्यतानीः किमु जीविनं तम् ॥ ७६८॥ कपिकेतुरक्षणकृते रणेऽभवो भगदत्तमुक्तवरवैष्णवास्त्रभाक् । उरसा पयोधितनयैकसद्मना श्रितरक्षणे हि दयिताञ्च नेक्षसे ॥ ७६९॥ परेण युद्धैकरतस्य शौरे! पार्थेन भूरिश्रवसो भुजं द्राक् । अच्छेदयस्त्वत्परिचोदितेन नावेक्षसे धर्ममपि श्रितार्थम् ॥ ७७०॥ पिशितपङ्कनिमग्नरथाङ्गक- स्वभुजकोटिसमुद्धरणोन्मुखम् । रविसुतं ननु मारयसि स्म तं विजयतस्सुकृतं तव यन्मतम् ॥ ७७१॥ कुन्तीतनूजमपि कर्णमये! मुरारे! प्राघापयस्सितहयावनबद्धदीक्षः! । एवं विधातुमपि कारणमस्ति तस्य दुर्वृत्तमानिविभुवर्धितसान्द्रमैत्री ॥ ७७२॥ वदान्यस्तत्समानोऽत्र वदान्यः कोऽस्ति माधव! । तद्गुणो नेक्षितो यस्मात् राधेयो घातितस्त्वया ॥ ७७३॥ एकं पश्यसि धर्मपक्षपतनं नान्यं गुणं श्रीपते! साधुष्वात्मरतेषु किन्तु करुणां सर्वात्मसन्तोषिणीम् । यस्मिंस्तद्द्वयमप्यबाधितगति स्निह्यस्यहो तत्र हि व्यर्थत्वेन परान् गुणान् गणयता किं स त्वया ध्वंसितः ॥ ७७४॥ कर्म किन्नु जननान्तरार्जितं सम्प्रतीह रचितं विलोक्य वा । दित्ससि प्रतिफलं नृणां हरे! दुष्प्रवेश करुणा ह्यघात्मकाः ॥ ७७५॥ दुर्योधनं ह्रदनिमग्नमपास्तधैर्य- मुत्थाप्य भीमगदयोरुतटेऽभिघात्य । कापट्यतो मुररिपो! तमपातयो हि कर्मानुरूपमिह दर्शयितुं फलं किम् ॥ ७७६॥ शाठ्येन धर्मसुतसम्पदमक्षकेल्यां पैशुन्यनिष्ठसुहृदां वचसापहृत्य । किं सौख्यभागभवदत्र सुयोधनोऽयं शौरे! परस्वहरणेन सुखी न मर्त्यः ॥ ७७७॥ यथालाभसन्तुष्टचित्तो भवेद्यः कृपापात्रतां याति शौरे! स तेऽत्र । परस्वापहर्ता तु चिन्तापरस्स्यात् अतस्स्वापतेयं हरेन्नान्यदीयम् ॥ ७७८॥ दृष्ट्वा बान्धवपुत्रमित्रसहजान्युद्धे हतांश्चक्षुषा मानी दैन्यहतो गतासुरभवद्दुर्योधनो धूर्वहः । श्रीमंश्चक्रधर! त्वदीयवचसां धिक्कारमूला किमु स्यादेतादृगनर्थसन्ततिरहो! कारुण्यदूरीकृता ॥ ७७९॥ भगवंस्त्वयि निर्मितोऽपराधः कथमप्यच्युत! सह्यते त्वयैव । तव भक्तजने कृतोऽपराधो न हि सह्योऽत्र स कौरवस्तु साक्षी ॥ ७८०॥ रजोगुणविमूढधीर्विषयवागुरायन्त्रितः परस्वहरणोत्सुको हृतसुरक्षणे व्याकुलः । निरस्तसुखनिद्रको विगलितक्षुधात्तामयः भवेदिह नरो हरे! करुणया स्पृहां वारय ॥ ७८१॥ धर्मात्मा शमनसुतो निरीहचित्तः कान्तारे प्रयतधुनीकृतावगाहः । अभ्यर्चन्मुनिचरणान् सुखी न्यवात्सीत् कारुण्यप्रवणमनास्तवाम्बुजाक्ष! ॥ ७८२॥ बहुना वचसा किमत्र शौरे! भगवन्! रक्षितुमिच्छसि स्वयं यम् । वितरस्यखिलांश्च सद्गुणांस्त्वं ननु तस्मै करुणाकटाक्षपातैः ॥ ७८३॥ हुतभुक् प्रवीतीर्णमद्भुताङ्गं कपिकेत्वर्जुनवाजिमण्डितञ्च । रथवर्यमनन्यवीरदम्यं भगवंश्चारयसि स्म फल्गुनार्थम् ॥ ७८४॥ यन्निमित्तमुपदापितस्त्वया स्यन्दनस्सितहयाय माधव! । साम्परायकमपूर्यतापि त- न्निर्वृतोऽसि धरणीभरव्ययात् ॥ ७८५॥ प्राणेभ्योऽप्यधिकप्रियं रथगतं पार्थं रिरक्षू रथात् प्राक्तं द्रागवतार्य रोषणतया तेनैव वाग्भर्त्सितः । स्मेरास्यस्तदनु स्वयं रथवरादुत्प्लुत्य दग्धात्ततः स्वायत्तं हि ररक्षिथाच्युत! कृपां ते किं ब्रवीम्याश्रिते ॥ ७८६॥ निनिन्द शिशुपालको ननु भवन्तमब्जेक्षण! प्रियोऽपि पुरुहूतजस्त्वयि कृतात्मभारोऽप्ययम् । उभावपि समौ खलु प्रतिकलं निजात्मोन्नतौ द्विडेक इह ते कथं सुहृदभूद्द्वितीयो हरे ॥ ७८७॥ धर्मात्मजं क्षितिधुरन्धरमाकलय्य सिंहासने समुपविष्टमपारभक्तिम् । हृष्टो बभूविथ मुकुन्द! दयापयोधे! भक्तप्रमोदभर एव हि तेऽपि हर्षः ॥ ७८८॥ निजपरत्वमुदीरितमात्मना रणमुखेऽर्जुनकैतवतो हरे! । अनुपयुक्तमवेत्य पुनर्नदी- सुतमुखात्प्रकटीकृतवान् किमु ॥ ७८९॥ करुणाकर! नाकिवन्द्यपाद! प्रथयन्नात्मपरत्वमज्ञनृभ्यः । कथमप्यनुकम्पयोद्दिधीर्षुः यतसे ते तु पराङ्मुखास्तथापि ॥ ७९०॥ समोऽहमखिलेष्वपीत्यभिदधत्स्वयं श्रीपते! स्वभक्तपरिपन्थिनो निजरिपून् भवान् भावयन् । दयानिधिरपि श्रितावनपरः परानासुरान् विनाश्य धरणीभरं परिजहार युक्तन्त्विदम् ॥ ७९१॥ ब्रह्मादयोऽपि वितताण्डकुटीरकीटाः विश्वात्मकस्य तव यस्य परात्परस्य । स त्वं क्षितौ कफलुठत्क्रिमिकल्पमर्त्यैः चिक्रीडिथाच्युत! कथं करुणात्र हेतुः ॥ ७९२॥ सङ्कल्पमात्रपरिकल्पितभस्मशेषान् योधान्विधातुमपि माधव हन्त! दक्षः । प्रत्यर्थिशस्त्रमथितस्त्वमभूः किमर्थं किं स्वाश्रयार्थमुपगच्छति कोऽपि वेति ॥ ७९३॥ क्वचिद्युद्धरुद्धः क्वचित्कान्दिशीकः क्वचिद्विश्वकायः क्वचिद्बाणविद्धः । क्वचिच्चक्रधारी क्वचिद्विप्रलापी श्रितार्थं विचित्रक्रियोऽभूर्मुरारे ॥ ७९४॥ युद्धाङ्कणे प्रहरणप्रवणाः प्रवीराः क्रोधाभिभूतहृदया अपि धन्यधन्याः । प्राणात्ययावसरदृष्टभवन्मनोज्ञ- रूपास्सुयोगिसदृशा ह्यभवन् हरे! यत् ॥ ७९५॥ कर्मानुरूपफलभोगपरांस्तु जीवान् एवं समस्तहृदयान्तरगस्समीक्षे । इत्यास्थितो रथमुखे रणवीक्षणैक- तानः किमु स्वयमसक्त इवाभवस्त्वम् ॥ ७९६॥ करुणा तव मानसाधिवासा शरणायातजनावनैकताना । अरुणाम्बुजलोचन! श्रितार्तेः परिणामप्रतिपादिनीव भाति ॥ ७९७॥ भवन्तं जगद्गर्हणीयञ्च दूतं दया ते व्यतानीत्तदा वावदूकम् । अहो! शूद्रगेहान्नभोक्तारमेवं हयप्रेरकञ्च श्रितार्थं मुरारे ॥ ७९८॥ सर्वज्ञोऽपि श्रितजनकृते मूढवन्मानुषात्मा नानाक्लेशव्यतिकरजहद्दिव्यभोगानुभूतिः । सामस्तुत्योऽप्यतिकटुजनारुन्तुदप्राप्तनिन्दः श्रीमन् लक्ष्मीरमण! करुणानिघ्न एतादृशोऽभूः ॥ ७९९॥ श्रीमन्! फणीन्द्रधरणीधरभव्यश‍ृङ्गे विश्रान्तिसौख्यमधिगन्तुमिवार्च्यमूर्तिः । भक्तौघकाङ्क्षितवरप्रतिपादनार्थं मौनेन तिष्ठसि किमु श्रितपारिजात ॥ ८००॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे अष्टमशतकं संपूर्णम् ।

९. नवमशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमन्निगमान्तमहादेशिकाय नमः । अथ दयासहस्रे नवमशतकम् । यद्यप्यस्ति दया नाथ! त्वयि नित्यानपायिनी । दुर्वृत्तकण्टकाकीर्णे प्रविशेन्मयि सा कथम् ॥ ८०१॥ अंहस्संहतिभारभुग्नहृदयं संसारसिन्ध्वाप्लुतं व्याध्याधिप्रमुखातिकर्कशमहानक्रार्धजग्धोज्झितम् । दारापत्यनिरन्तरप्रविसरद्वात्याभिसङ्घूर्णितं शेषाद्रीश! कदा त्वदीयकरुणा सा मां समाधास्यति ॥ ८०२॥ मदान्धमम्भोरुहपत्रनेत्र! कन्दर्पवश्यं परवित्तगृध्नुम् । नृशंसमेनं ललनाविलोलं कदा समाधास्यति ते दया माम् ॥ ८०३॥ आशा विशालभुवनेशितृभावलब्ध्या- पीशानमित्रवरकोशवशाभिलाषा । श्रीश! त्वदङ्घ्रिशतपत्रविशेषशेषा कारुण्यतस्तव भविष्यति मे कदा वा ॥ ८०४॥ श्रीवेङ्कटाद्रिशिखरप्रकटीकृतात्मन् ! बुद्धिस्सदा विषयमार्गणलम्पटा मे । त्वत्पादपङ्कजमरन्दमिलिन्दभावं यास्यत्यहो! करुणया तव सा कदा वा ॥ ८०५॥ दुःखात्मकेषु विषयेषु सुखत्वबुद्धिः हा ! हन्त ! पापवशतस्समुदेति नित्यम् । तेष्वम्बुजाक्ष! भवदीयदयाविशेषात् आविर्भविष्यति कदा बत ! मे जिहासा ॥ ८०६॥ दौर्गत्याद्धनलिप्सुता तदनु तत्प्राप्त्यर्थमन्याश्रयः तद्दास्येन मनश्श्रमोऽप्यसमये चिन्ता कदन्नाशनम् । तेनाप्यामयपीडनञ्च गृहिणीधिक्कारवाणी हरे! नैराश्यं स्वतनौ भवन्ति भविता तत्त्वद्दयास्मिन् कदा ॥ ८०७॥ नानाक्लेशपरम्परा जनिमतो मे नात्मशान्तिर्हरे! त्वत्पादाम्बुजयुग्मचिन्तनविधिं नैवानुमोदेत हृत् । किं तापत्रयजर्झरीकृततनुस्सत्कर्म कुर्यात्कथं कारुण्यं मयि ते पतिष्यति कदा त्वत्पादसेवाप्रदम् ॥ ८०८॥ चञ्चलं मन इदं मुकुन्द! ते पादतामरसपर्युपासने । निश्चलत्वमुपयाति मे कथं स्थापयिष्यति कदा स्थिरं दया ॥ ८०९॥ मदीयमिदमप्यदस्तदपि सर्वमेतन्ममे- त्यनल्पममताधिया क्षुभितमत्तचित्तक्रियः । समुज्झितभवत्पदस्मरणमम्बुजाक्ष! प्रभो! कदा तव दया तु माममममेनमाधास्यति ॥ ८१०॥ मायाजालमभेद्यरन्ध्रमबुधग्राह्यं वृषाद्रिप्रभो ! विस्तीर्याद्भुतयत्नतो भवमहारण्ये नराख्यान् मृगान् । जीवग्राहमहो! ग्रहीतुमसकृन्नानास्वरूपो भवान् तिष्ठन्नेव किमेकमप्यलभत श्रीमन्! दयां तत्कुरु ॥ ८११॥ क्षणं क्षणमपि क्षिपन् क्षपयति क्षितावक्षतः नृणां स महदायुरप्यहह! काल एष प्रभुः । सरन्ध्रघटिकागतप्रचुरतैलवच्छ्रीपते! तदद्य दयया तव स्मरणबुद्धिमापादय ॥ ८१२॥ क्षणार्धकृतदुष्कृतस्मरणमात्रसङ्घूर्णितो नृणां यदि विधास्यसि प्रतिफलं त्वघोच्छित्तये । तदा तु नरकान्तरप्रचुरसर्जनं श्रीपते! भवेद्धि करुणा तव प्रतिभटैव तत्कर्मणे ॥ ८१३॥ आशा प्रविष्टा प्रथमं मनो मे वामा ततो वेश्म दयापयोधे! आशाप्रणुन्नो दयिताभिलाषं सम्पूरयन्नस्मि कुतस्स्मृतिस्ते ॥ ८१४॥ बाल्ये क्रीडन् जनकजननीलालितो यौवनेऽहं योषाश्लेषप्रवणहृदयो भोगलाभैकतानः । वार्धक्येऽपि प्रशिथिलतनुर्व्याधिभिः पीड्यमानः त्वत्पादाब्जस्मरणसमयो ब्रूहि शौरे! कदा मे ॥ ८१५॥ श्वः करिष्यामि ते ध्यानमिति शौरे! वदन्ति ये । तेऽपि धन्या यतोऽत्र त्वद् ध्यानकर्तव्यधीरभूत् ॥ ८१६॥ कार्यान्तरप्रसृतचित्ततया मनुष्यः त्वत्पादपद्ममननं विदधातु मा वा । त्वच्छेषभावधिषणा यदि तस्य शौरे! धन्यस्स एव तव यत्करुणैकपात्रम् ॥ ८१७॥ फलोन्मुखचिरन्तनप्रचुरकर्म निर्वापय- त्यनल्पचिरदुःखदं त्वचिरदभ्रदुःखप्रदम् । दया तव वितन्वती शरणमीयुषां श्रीपते! भवन्तमिह वेदनासहतयैव नामग्रहम् ॥ ८१८॥ शीतलापि करुणा तव शौरे! वह्निवद्दहति पापममेयम् । तत्सदा मृगयति प्रसरन्ती मादृशं दुरितमेव सदेहम् ॥ ८१९॥ इन्द्रियाणि विषयैकपराणि प्राप्तपाटवतयातिबलानि । त्वत्कृपा कलयिता तव सेवाकौतुकीनि कमलाक्ष! कदा मे ॥ ८२०॥ उदरभरणनिष्ठो दुष्टसेवातिखिन्नो- प्यनधिगतसुतृप्तिर्दीनदीनो मुरारे ! गृहतनयकलत्रत्राणसन्त्रस्तचित्तः शरणमुपगतोऽहं त्वां न भक्त्या दयालुम् ॥ ८२१॥ दयसे यदि मादृशं मुरारे! परदुःखादिकदुःखितास्वरूपा । करुणा तव सार्थका तदानीं न तथा चेद्भुवि सा वृथा भवेद्धि ॥ ८२२॥ वृषाद्रीश! श्रीमन्! क्वचिदपि कदापि प्रयतधीः सविश्वासं तुभ्यं प्रणतिमपि नाहं रचितवान् ! कथा का वा द्रव्यव्ययफलसुमस्पर्शनविधौ निरालम्बो नित्यं तव तु करुणायाचक इह ॥ ८२३॥ संसारदावदहनोदरदह्यमानो प्याशाविशेषवशमानसबद्धदेहः । ईशानफालशलभायितकामवश्यः श्रीश! त्वदीयकरुणां बत! कामयेऽहम् ॥ ८२४॥ लूतास्यूतविचित्रजालजठरालग्नस्फुरन्मक्षिका- कल्पं संसृतिघोरसान्द्रजटिलानायस्फुरद्विग्रहं ! को वा मोचयति प्रचण्डदुरितग्रन्थ्युल्बणाबन्धनं तच्छेषाचलनाथ! मोचय दयाशस्त्रेण कृन्त्वाद्य माम् ॥ ८२५॥ सदाचार्याबन्धो जगति बहुशो दुर्लभ इह प्रसन्ने सम्प्राप्तेऽप्यहह जनसामान्यधिषणा । न विश्वासस्तस्मिन्मदनुगुणसर्वव्यवहृतौ कृपां तस्मात्पापे प्रहिणु वृषशैलालय! मयि ॥ ८२६॥ मायां प्रसार्य विषयेषु सुखत्वबुद्धि- मुत्पाद्य सर्वविषयान् प्रविदर्श्य नाथ! मत्पादपद्मविमुखोऽयमितीह जन्तून् नैवेक्षसे किमुचितं करुणां निधेहि ॥ ८२७॥ यद्यप्ययं सदुपदेशवशात्कथञ्चित् स्वीयेन्द्रियाणि बलवन्ति नियन्तुमेव । यत्नीभवन्नपि पुमान्विषयाभिलाषी तन्निघ्न एव भवतीह दयां निधेहि ॥ ८२८॥ योगैकसक्तहृदया अपि भोग्यवस्तु- सन्दर्शनस्खलितमानससुस्थिरत्वाः । भ्रष्टा भवन्ति किमुतात्र तु मादृशेषु शेषाद्रिनाथ! करुणां प्रहिणु प्रसीद ॥ ८२९॥ प्रीतिस्स्वदारसुतबन्धुषु यादृशी स्यात् तादृक्त्वयीह यदि तां प्रवदन्ति भक्तिम् । श्रुत्येकवेद्यवपुषि त्वयि सा कथं वा प्रादुर्भवेत्सपदि ते करुणा गतिर्मे ॥ ८३०॥ यस्मिन् दया पतति ते वृषशैलनाथ ! धीमानयं स हृदयङ्गमभाषणेन । आकर्षतीह सकलानपि मोदयन् सन् दिग्व्यापिकीर्तिविषयः परिपूज्यमानः ॥ ८३१॥ पतितानपि पामरान् श्वपाकान् परपीडापरपाणिपाशघोरान् ! करुणा तव कैतवेन केना- प्युदधार्षीदत एव निर्भयोऽस्मि ॥ ८३२॥ घण्टाकर्णो हिमगिरितटे पर्यटन् भूतवर्गैः किं वा कर्म श्रुतिविहितमुद्भ्रान्तचित्तो व्यतानीत् ! साक्षाच्छ्रीमन्! स्वयमुपगतस्तत्र तस्मै प्रदर्श्य स्वीयं रूपं तदभिमतमप्यन्वगृह्णाः कृपातः ॥ ८३३॥ विप्रं हत्वा तमपि शकलीकृत्य गोविट् पवित्रे न्यस्य क्षेत्रे पिशितमशिवं यातु पूतत्वबुद्ध्या ! प्रादात्तुभ्यं यदुकुलमणे! विप्रमुज्जीवयन् सन् अङ्गीचक्रे तदपि च भवान् हन्त! भक्ते कृपा ते ॥ ८३४॥ करुणावशवर्तिता मुरारे! शरणायातजनार्तिकीर्तनेन । तनुते सततं भवन्तमार्तं क्वनु ते भूमितले सुखानुभूतिः ॥ ८३५॥ सृष्टास्त्वया तरुलतोलपकुञ्जपुञ्जाः नानाविधाद्भुतपतङ्गमृगेन्द्रकीटाः ! सर्वेऽपि मानुषकृते स तु नैव तेभ्यः मर्त्येषु नाथ! करुणा तव सन्निकृष्टा ॥ ८३६॥ दत्तं ज्ञानं प्रियहितमतिस्सत्पथैकप्रवृत्तिः वस्तुष्वेवं सुखकरमिदं दुःखदं त्वेतदित्थं ! सत्यप्येवं तव तु करुणामस्मरन्तो मनुष्याः आशाभ्रष्टा विषयचपलाः क्लेशिनः पर्यटन्ति ॥ ८३७॥ चातुर्वण्यं निजगुणमहत्कर्मसम्भागशो य- त्सृष्टं तत्तद्विहितनियताजीविकं वेङ्कटेश ! व्यत्यस्तं तत्कलिमलतलस्पर्शि वैषम्यपात्रं तस्मादत्र प्रहिणु करुणामुद्दिधीर्षुस्त्वदीयम् ॥ ८३८॥ कृत्याकृत्यविवेकलेशविकला मर्त्या मृगापेक्षया क्षुद्रा द्रोहपराः परस्वहरणे निस्साध्वसास्त्वत्रपाः ! आशापाशकृतात्मधर्षितजगन्निन्दा वृषाद्रिप्रभो! त्वत्पादाब्जपराङ्मुखाः खलु ततस्सम्प्रेषय त्वत्कृपाम् ॥ ८३९॥ सर्पाद्भयं न हि यतो निजरूपतस्तं दृष्ट्वा जनाः परिहरन्ति मुकुन्द! दूरात् । विस्रम्भदर्शितसुहृत्त्वविलोभितास्ते नश्यन्ति हन्त! शठतः करुणां निधेहि ॥ ८४०॥ व्याघ्रादयः पिशितमात्रकृते नृशंसाः कान्तारवर्त्मनि चरन्ति ततो भयं न । दुष्टाः परस्वहरणाय सुहृत्स्वरूपाः द्रुह्यन्ति माधव! स ते करुणां निधेहि ॥ ८४१॥ वल्मीकवज्जगति हन्त! बहिश्शठास्ते दृश्यात्मका ननु लसन्ति तदन्तरङ्गम् । को वेत्ति विप्रियपृदाकुकरालदंशं खिद्यन्ति सन्त इह तत्करुणां निधेहि ॥ ८४२॥ कन्दर्पदर्पकृतकर्पटकल्पकायो- प्याशाविशेषविधृतो विषयप्रणुन्नः ! त्वत्पादपङ्कजयुगस्मरणं कुतो मे तत्पाहि मां करुणया दुरितापहारिन् ॥ ८४३॥ सर्वेश्वरत्वमभिदर्शितमप्युदारं दुर्योधनप्रभृतयो दुरिताकरास्ते । नैवापुरत्र शरणं सशरा भवन्तं दूरीकृताः करुणया किमु ते मुकुन्द ॥ ८४४॥ सर्वज्ञता सकलशक्तिरपि त्वदीया मादृग्विधेषु न हि कार्यकृदायताक्ष ! मय्यर्पयाद्य चिररूढममत्वबुद्धौ शौरे! दयां वशयितुं स तु मामुपायः ॥ ८४५॥ त्वत्पादसारसविषक्तहृदो जनास्तु क्लेशाकरा ननु भवन्ति कुतो नितान्तम् । तेषां हितैकमनसा तनुषे किमेवं जानन्ति नैव करुणां तव नाथ! मूढाः ॥ ८४६॥ यद्यद्धितं चिरतरार्जितपापराशि- भ्रष्टात्मनां तदवलोक्य तनोषि शौरे! चिन्ता किमत्र मम तावककिङ्करस्य कारुण्यमात्रकुतुकी दिवसान् क्षिपामि ॥ ८४७॥ अज्ञेन नाथ! यदि कोऽपि मया पुमर्थः प्रार्थ्येत स त्वहितदो भविता कदापि । त्वय्यर्पितात्मभर एव तदस्तशङ्कः कालं क्षिपामि करुणैकचिराभिकाङ्क्षी ॥ ८४८॥ जात्या यश्श्वपच इह प्रकृष्ट एव स्यात्कर्मश्वपचविमर्शने स साधुः । यत्कर्म स्वविधिकृतं तनोति नान्ये तस्मात्ते प्रहिणु दयां वृषाद्रिनाथ ॥ ८४९॥ हिंसात्मकं जगदिदं कलिकल्मषाढ्यं क्षुद्रैर्जनैर्निचितमल्पमतिप्रगल्-भैः । श्रीवेङ्कटेश! ननु सात्विकदुष्प्रवेश- मेवं स्थितेऽस्मि भवदीयदयावलम्बः ॥ ८५०॥ पापार्जनाय बहवो ननु सन्ति मार्गाः सद्यस्सुखं स्फुरति पर्यटताञ्च तेषु । क्लेशावहं सुकृतकर्म ततो भवन्ति पापात्मका भुवि जनाः करुणां निधेहि ॥ ८५१॥ तातः कापथगामिनं निजसुतं सन्ताडयत्यञ्जसा माता सान्त्वनतत्परा करपरामर्शाद् ब्रवीति प्रियम् । तस्माच्छेषगिरीश! भीतहृदयो वर्ते भवत्सन्निधौ काङ्क्षे त्वत्करुणां सुधीरहृदयो घोरापराधोऽप्यहम् ॥ ८५२॥ विषयगुणविमर्शे प्रायशो नैव सौख्यं यदिह तदुपभोगाज्जर्झरीभूतदेहाः ! सपदि जरठभावं ते भजन्ते मनुष्याः तदुपशमय भोगे श्रीश! काङ्क्षां कृपातः ॥ ८५३॥ भोगाभिलाषिजनमानसमद्वितीयं लब्धाधिकं यदभिकाङ्क्षति वस्तु भोग्यम् । इन्द्रेऽपि दृष्टचरमेतदहो! मुरारे! तत्क्षालयाशु दयया हृदयं मदीयम् ॥ ८५४॥ मारस्ताराधिपसहचरश्चारयन् धीरवारं दारोदारप्रणयपरिरम्भोरुरम्भोरुसारं ! आरामाराममुरगधराधीश! कारुण्यदूरं घोरारावं रचयति चिराद्रौरवारब्धचारम् ॥ ८५५॥ क्लेशे सत्यपि हन्त! चेतनगणा देहावसानं कुतो वार्धक्येऽप्यनुमन्वते न गदभाग्बाह्येन्द्रिये श्रीपते ! माया ते वृषशैलनाथ! तनुते जन्तूंस्तथा सस्पृहां- स्तद्याचे करुणां तवेह पशुतो नीचोऽपि वाचा मुहुः ॥ ८५६॥ उपर्युपरि मानसं सपदि चारयन् पुण्यवान् विशेषसुखलिप्सया सुरपुरेऽपि मात्सर्यतः । स खिद्यति निजाधिकप्रथितभोगभाग्वीक्षणात् वृषाचलपते! ततः प्रहिणु ते दयां मोददाम् ॥ ८५७॥ अनाथदीनादिषु ते दया क्षितौ मुकुन्द! जागर्ति रिरक्षया सदा । इदन्तु युक्तं विकलं प्रसूस्सुतं विशेषदृष्टिं दधती रिरक्षति ॥ ८५८॥ स्वभावानपायः प्रसिद्धो हि वस्तु ष्वतोऽहं स्वभावं न मुञ्चामि शौरे ! स्वसङ्कल्पतश्चेच्छिलानामिवाब्धौ स्वभावच्युतिस्स्यात्कृपालो ममापि ॥ ८५९॥ कामं सन्तु धनाधिका धवलितप्रोत्सेधसौधाश्रयाः किंवा तैर्भवदीयपादविमुखैस्स्त्रीविभ्रमैकोन्मुखैः । किन्तु त्वत्पदपद्मचिन्तनपरैर्भिक्षात्तभिस्साशनैः दीनैरस्तु सहानुभूतिरिह मे श्रीशानुकम्पाबलात् ॥ ८६०॥ भवदनुग्रहवर्धितसम्पदो भुवि जनाः प्रतिभार्जितबुद्धयः । गुरुतिरस्कृतिगर्वितमानसाः प्रहिणु तेष्वपि ते करुणां हरे ॥ ८६१॥ करणशुद्धिरहो! भविता कथं मनसि वाचि च कर्मणि भिन्नता । यदि भवेद्वृषशैलविभो! कृपां प्रहिणु तन्मयि शाठ्यविदूषिते ॥ ८६२॥ कनकपर्वतकूटगतोऽपि य- न्निजचिरन्तनकर्मविपाकतः । स लभते सुखदुःखपरम्परां तदिह ते करुणा गतिरच्युत ॥ ८६३॥ विधिललाटविलेखनमार्जनं रचयितुं भुवि कोऽपि न शक्नुयात् । स तु विलोक्य च कर्म लिखेन्नृणां तदिह ते करुणा गतिरच्युत ॥ ८६४॥ मनुजता खलु जन्मिषु दुर्लभा तदपि विप्रकुलेऽप्यथ वैष्णवे । जननमच्युत! ते कृपया कदा- प्यत इह त्वयि भक्तिरपेक्ष्यते ॥ ८६५॥ जनननाशवशाः खलु चेतनाः कटुपरिभ्रमभङ्गुरविग्रहाः । अशनपानविहाररता हरे! ह्यभिलषन्ति कृपां तव नैव ते ॥ ८६६॥ भगवन्नभिरक्षितुं यमिच्छ- स्यवनौ तं ननु योजयस्यतन्द्रम् । भुजगाचलनाथ! मेधया द्रा- क्करुणा कारणमत्र तेत्वहेतुः ॥ ८६७॥ त्वदधीनशरीरिसाध्यमस्मिन् भुवने किं बत! वर्तते मुरारे! भवता भुवनान्तरप्रविष्टं सकलं त्वत्कृपया विचाल्यते हि ॥ ८६८॥ कालुष्यदूषितवपुर्जनसन्निधान- मात्रेण शुभ्रतनुरुद्विजते हि लोके । बाह्यान्तराविलमयैर्मनुजैर्वितीर्ण- मङ्गीकरोषि भगवन्! करुणा विचित्रा ॥ ८६९॥ प्रकृत्यनुगुणं चलन्त्यखिलजन्तवस्सन्ततं प्रकृत्यनुगतं खलु प्रतिपदं तदागस्स्वयं ! भुजङ्गधरशेखर! त्वमनवेक्ष्य दोषं नृणां निपातय कृपामृतं भवदपाङ्गसम्पादितम् ॥ ८७०॥ युगत्रयविपर्ययः कलियुगे भवेदित्यये ! त्वयैव ननु कल्पितं तदिह कोऽस्ति दोषो नृणाम् । यथेच्छमवशा जना विषयभोगतृष्णाकुलाः चरन्ति पशुवत्ततः प्रहिणु ते कृपामच्युत ॥ ८७१॥ वर्धयत्यनिशमम्बुजाक्ष! य- च्छास्त्रधीर्बुधमनस्समुन्नतिम् । नैव ते चरणभक्तिकारिणी तत्प्रदेहि दयया भवत् स्मृतिम् ॥ ८७२॥ कृत्यं त्यजन्ति मनुजा भुवनेत्वकृत्यं हर्षाद्भजन्ति सुलभं किल यत्र सौख्यम् । जानाति कः परगतिं नितरां परोक्षां तत्ते कृपां प्रहिणु सत्पथबुद्धिदात्रीम् ॥ ८७३॥ लोके व्रतादिनियमाचरणे हि यादृक् क्लेशस्सुखास्पदपदार्थसमार्जनेऽपि ! तादृग्भवेन्न मनुते मनुजस्सुखेप्सुः तत्ते विवेकजननीं करुणां निधेहि ॥ ८७४॥ कुर्वन्ति काम्यं भुवि कर्म मर्त्याः कैङ्कर्यबुद्ध्या भवतो न शौरे! तस्माद्भवारण्यगताश्चरन्ति याचे कृपां तेषु निपातयेति ॥ ८७५॥ सर्वे स्तुवन्तु भवतस्त्वपदानमुच्चैः यद्दैत्यरावणमुखारिनिशारणादि । त्वद्वैभवे बत! कियन्त इमे मुरारे! कीटात्मकाः खलु तदत्र दयैककार्यम् ॥ ८७६॥ हिरण्याक्षहत्यै वराहस्वरूपं जगद्गर्ह्यमत्राभ्युपेयं कुतो वा । स्वसङ्कल्पवध्येऽपि कीटे मुरारे! कृपाकार्यमेतद्धि सर्वात्मकस्य ॥ ८७७॥ एकस्य कीटसदृशस्य मुकुन्द! शत्रोः हत्यै हिरण्यकशिपोर्नरसिंहरूपः । स्तम्भोद्गतो विलससि स्म नखायुधस्सन् कारुण्यतो हरवरानुसमर्थनाय ॥ ८७८॥ सङ्कल्पमात्रकृतसुस्थिरतापि भूमिः पातालगेन कमठाकृतिना त्वयापि । अश्रान्तमेव मुरभिद्ध्रियते किमर्थं कारुण्यकार्यमिदमप्यखिलावनार्थम् ॥ ८७९॥ सर्वाञ्च वेत्सि भगवन्! भुवनोदरस्थ- नानाशरीरिचिरकर्मपरम्परां त्वम् । तत्प्रार्थये कुरु तथा करुणाविशेषात् उज्जीवनं जनिमतां भविता यथा वा ॥ ८८०॥ लोके दुर्भरभारभुग्नशिरसो भारापसाराद्यथा सौख्यं सम्मनुते तथैव मनुजः क्लेशापनोदादपि । नित्यानन्दमयस्य वर्ष्मनिगलाज्जीवस्य हा! दुर्दशा श्रीश! प्रेषय कर्दमोदरमणिप्रख्ये दयां चेतने ॥ ८८१॥ चित्रं चित्रं महदिदमहो ! चेतना दीर्घतृष्णाः क्लेशावासा अपि गदमया दुर्गता अप्यजस्रम् । जीर्णास्तुच्छा अपिच मरणाद्भीतभीता मुरारे ! वर्तन्ते तत् प्रहिणु करुणां हेयताज्ञानदात्रीम् ॥ ८८२॥ हृदयसरसिजाशासौरभस्सर्वतोऽपि प्रसरति वशयन् सन् मानुषं वेङ्कटेश ! तदिह करुणया त्वं तन्मुखत्वं निवार्य त्वदतुलचरणाब्जामोदवश्यं कुरुष्व ॥ ८८३॥ अजस्रं त्वन्नामस्मरणनिरतान् साधुचरितान् स्वकार्यैकासक्ताननितरनिहिंसान्वरगुणान् । विना हेतुं निन्दन्त्यतिकटुहृदो दुष्टचरिताः कथं वोज्जीवेयुस्तव तु करुणां तेऽच्युत विना ॥ ८८४॥ कार्यान्तरप्रवणचित्ततया कदापि त्वन्मन्दिरान्तिकगतान्निजकार्यसक्तान् । इच्छां विनापि सकृदञ्जलिबन्धने वा सञ्चोदयाच्युत! दयामय! नास्तिकांश्च ॥ ८८५॥ निहीनकर्मापि दुरध्वचारोऽ प्यनल्पपापोऽप्यहिशैलनाथ ! विचिन्त्य ते तां करुणां विलज्जो रक्षेति याचे धुरि धैर्यतस्त्वाम् ॥ ८८६॥ स्वेच्छाप्रवृत्तिकृतदुर्जनदुष्टचेष्टाः बाला भवन्ति तदिदं सहजं किलेह । दौष्ट्यानवेक्षणगुणे करुणे! वृषाद्रि- नेतुस्ततोऽसि जगतां जननी किल त्वम् ॥ ८८७॥ कारुण्यमूर्तिरपि संश्रितरक्षकोऽपि जीवान्तरावसथगोऽपि वृषाद्रिनाथ! जीवस्य जीवनमहो! भुवि जीव एवे- त्येवं व्यधाः किमुचितं तदिदं दयायाः ॥ ८८८॥ प्रतिक्षणमहं क्षितौ जठरपोषणायादयः त्रिविक्रम! भवत्पदस्मरणमप्यकुर्वन्नृणाम् । तिरस्कृतिसमुत्थितामनुभवन् व्यथां प्राणिमि श्रितार्तिहर! तत्कृपां मयि कुरु प्रपन्ने क्षणम् ॥ ८८९॥ गलितेन्द्रियोऽपि मलिनाशयस्सदा विषयानुभूतिकुतुकी कृतोद्यमः । अभिलाषमात्रसुहितो भवत्यहो मनुजस्तदत्र करुणां कुरु प्रभो ॥ ८९०॥ लीलाविभूतिरिति कर्मसु सर्वभार- मारोप्य चेतनगणान् सुखदुःखभाजः । पश्यंस्स्थितोऽसि मधुरस्मितकान्तवक्त्रः श्रीवेङ्कटाचलपते! क्व गता कृपा ते ॥ ८९१॥ श्रुतयो वदन्ति भवतो गुणान् शुभान् न भवान् कदापि जनगोचरोऽस्ति च । कथमम्बुजाक्ष! भवति त्वयि स्थिरा ननु भक्तिरत्र करुणामतः कुरु ॥ ८९२॥ शाखोपशाखनिगमप्रतिपाद्यमानाः अर्थाः पुनर्मनुजसंशयवर्धका हि । निर्णेतुमत्र परतत्त्वमिदं बुधाश्च क्लिश्नन्ति तत्कुरु कृपां वृषशैलनाथ ॥ ८९३॥ कृषिमातनोति विधिवत् कृषीवलो जलमुङ् न वृष्टिमभिपातयेद्यदि । किमु तेन तद्वदिह साधको व्रती करुणां विनैव गतिभाग्भवेत्कथम् ॥ ८९४॥ करुणा यदि वेङ्कटेश! न स्या- त्किमु कर्मादिभिरत्र मानवानाम् । करुणा यदि पातिता तदानीं किमु कर्मादिभिरत्र मानवानाम् ॥ ८९५॥ क्षुद्रा ददत्यचिरमेव निजेप्सितार्थान् यद्देवतास्तदिह ता मनुजा भजन्ति । तान् क्षुद्रसम्पदभिलाषितया मुकुन्द ! भक्तान्विधेहि कृपया भवदङ्घ्रिपद्मे ॥ ८९६॥ मूढप्राये जगति भगवन्! शङ्करोपासनेन प्रेष्ठं दैवं किमिति जनयन् संशयं मानवानाम् । डोलारूढं कलयसि मनस्तत्त्वलब्ध्युत्सुकानां तत्त्वांशे तत्कुरु करुणया बुद्धिदार्ढ्यं मुरारे ॥ ८९७॥ आशाविशेषपरिगुण्ठितसत्स्वभावाः विश्वासपात्रमपि हन्त! सदाश्रितञ्च । हा! वञ्चयन्ति शठताकुटिला मनुष्याः तेषु प्रसीद कृपया कुरु सन्मतींस्तान् ॥ ८९८॥ सुप्तेषु पन्नगसुचारनिरर्गलत्वं सञ्चिन्त्य को नु मनुते निजरक्षणे स्वम् । स्वापैकलीनहृदयान् कृपयावसीति मत्वा भजन्तु मनुजा नृहरे! भवन्तम् ॥ ८९९॥ वक्षस्यमोघमणिहारपरिष्कृते ते लक्ष्मीस्सदा वसति भोगिगिरिप्रभो ! यत् । तन्मत्कृते पुरुषकारपरानुकम्पा सम्पातिनी यदहमार्जितकिल्बिषोऽस्मि ॥ ९००॥ निर्भयोऽस्मि दुरिताकरोऽप्यहं निर्भरोऽस्मि करुणाकराच्युत ! त्वद्दयास्ति जननी हि वत्सला मादृशावननिबद्धकङ्कणा ॥ ९०१॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे नवमशतकं सम्पूर्णम् ।

१०. दशमशतकम्

श्रीः । श्रीमते रामानुजाय नमः । श्रीलक्ष्मीदासाय नमः । श्रीमद्वेदान्तदेशिकाय नमः । अथ दयासहस्रे दशमशतकम् । पद्माक्षं पद्मनाभं पतगपतिपदं पूतपाथोधितल्पं प्राप्तानेकावतारं श्रितदुरितहरं श्रीधरोदारदारम् । दिव्यैः पञ्चायुधैश्च प्रकटितविभवं नीलजीमूतकान्तं शान्तं पीताम्बरन्तं मम च नयनयोर्दर्शयाद्यानुकम्पे ॥ ९०२॥ निर्लिप्तो निर्विकारः खगपतिगमनस्त्वं क्व देवेश! गोप्ता स्फीताघस्थेमधामा कुचरितनिरतः क्वाहमल्पार्थलिप्सुः । निर्लज्जोऽहं तथापि प्रणिपतनपरो भक्तिलेशं विनैव त्रायस्वेतीह याचे प्रगुणगुणनिधे! ते तु वीक्ष्यानुकम्पाम् ॥ ९०३॥ नाहं शक्तोऽस्मि रामावरजमुनिकृते त्वत्सपर्याविधौयत् कर्तव्ये नित्यकर्मण्यपि जडहृदयो नैव निष्ठां वहामि । त्वद्भक्तानां मुरारे श्रुतिमधुरगिरां संश्रवे मे न सक्तिः भक्तिर्नैव त्वदीये पदकमलयुगे तत्प्रतीक्षेऽनुकम्पाम् ॥ ९०४॥ निष्प्रत्यूहं विधातुं विधिवदिह बुधैरप्यशक्तं सुकर्म श्रीशार्चैकस्वरूपं विघटनपटुभिः पञ्चभूतैर्विकृष्टैः । चित्तं चाञ्चल्यमत्त क्षणमपि न भवेत्त्वत्पदध्यानसक्तं शेषग्रावाग्रदीप! प्रहिणु तव कृपां तत्समस्ताघहन्त्रीम् ॥ ९०५॥ पश्चात्तापोऽपि नोदेत्यनुदिनमपि दुष्कर्मणामार्जनेऽपि प्रायो जानन्ति कृत्यं सुकृतमितिकृतं लोभलाभाभिभूताः । सूनागारे पशूनां हननमिव कृतं निर्दयो घातुको यत् तेषामुज्जीवनं हा! कथमिति नृहरे! वेद्मि नाहं कृपालो ॥ ९०६॥ यत्र क्वापि स्थितं मां विविधतनुजुषं प्राप्ततापत्रयञ्च श्रीमन् शेषाद्रिनाथ! त्वदरुणचरणध्यानसक्तं वितन्वन् । तद्ध्यानप्राप्तहर्षं विदलितहृदयध्वान्तमध्वावबोध- त्वद्भक्ताङ्घ्रिप्रसक्तं वितनु करुणया पापवर्मावगुप्तम् ॥ ९०७॥ धूर्तोऽयं मे विपक्षस्सुहृदयमिति यद्भेदमाकल्प्य मौढ्यात् मर्त्येषु स्वीयभावप्रगुणितचरितो दुःखभाङ्मोदभाक् स्याम् । संलिप्ताच्छोरुगन्धे धुरि निजभुजयोश्छेदकेऽपि प्रमोदं स्वस्वान्तेत्वेकरूपं वितर करुणया मे भुजङ्गाद्रिनाथ ॥ ९०८॥ एतत्कर्माभिनुन्नं फलमिदमिति यत्सञ्चितेषु क्रमेण स्रष्टा नेष्टेऽपि वक्तुं ह्यविरतकरणात्कर्मणां भेदभाजाम् । व्यासेनाप्युक्तमेतद्गतिरपि बहुधाहो विचित्रेति तस्मात् श्रीमन् शेषाद्रिनाथ! प्रहिणु तव कृपां कर्महन्त्रीं जनेषु ॥ ८०९॥ सर्वज्ञोऽपि प्रकृत्या बहुविधकुटिलक्रूरकर्माभिषक्तां- स्तत्तत्कर्मानुरूपं तनुवितरणतश्चेतनान्पातयेश्चेत् । क्लेशप्राये जगत्यप्यनुभवशिथिलास्त्वत्पदध्यानसक्ताः भूयासुस्ते कथंवा वृषशिखरिपते! तत्कृपां पातयाशु ॥ ९१०॥ ब्रह्माण्डान्तर्गतानां विविधतनुजुषामन्तराविश्य तत्त- त्तत्तत्कर्मप्रवृत्त्या वृषशिखरिपते! प्रेरयन्नैहिकेषु । तांस्तान् द्वन्द्वाभिषिक्ताननवरतमपि प्रेक्षमाणो विभासि स्वीयं भव्यस्वरूपं प्रकटय कृपया भक्तिसम्प्रापणार्थम् ॥ ९११॥ मातुर्गर्भे वसन्सन् परवशविचलत्पिण्डकश्चण्डपीडः मात्राभुक्तान्ननानारसपरिणमनप्राप्तवृद्धिस्स्वकोशे । जीवोऽयं सञ्चितानां फलमनुभवितुं कर्मणां जायते यत् तस्मादभ्यर्थये त्वां प्रहिणु मयि कृपां जन्महन्त्रीं कृपालो ॥ ९१२॥ दत्वा शास्त्रं नरेभ्यः प्रकृतिमपि तथा तावकीं कल्पयन्सन् आज्ञाच्छेदीति रुष्टः क्षिपसि विषयगान्मायया मोहितांस्तान् । युक्तं किं वा तवेदं सततसुखधियः क्षिप्रसौख्येप्सवस्ते माद्राक्षीर्दोषमेषां तदिह करुणया रक्ष शेषाद्रिनाथ ॥ ९१३॥ आहारस्नानभोगाद्यखिलमपि च यन्मानुषो नित्यमस्यां मेदिन्यां साभिलाषं मुहुरनुभवति श्रीनिवासात्ममित्रैः । चित्रं तत्तज्जिहासा न हि भवति कदाप्येवमस्य त्वदीया सा माया कारणं तत्प्रहिणु तव कृपां हेयताज्ञानदात्रीम् ॥ ९१४॥ मातश्शेषाद्रिनेतुर्हृदयकमलजे! सानुकम्पेऽनुकम्पे ! तन्नाभीकूपपद्मप्रभवशतधृतेस्साह्यकृद्भासि नित्यम् । यस्मात्त्वां वीक्षमाणस्स तु सृजति चिरात्कर्मवीक्षानपेक्षः जन्तूनन्ताभिमन्तून्कलयसि सततं त्वं यतश्श्रीशसक्तान् ॥ ९१५॥ आकिञ्चन्यं धनादेः प्रकटयितुमहं न त्वयि श्रीश ! सज्जः कैङ्कर्याभावरूपं तदिति निगदितुं हन्त! जिह्रेमि नाथ! यस्मादाशाविशेषाद्धनगृहसुतदारादिवश्यस्तदर्थं दुष्कर्मप्राप्तपापस्तदिह तव कृपां पापहन्त्रीं निधेहि ॥ ९१६॥ एकत्र द्वेषिवर्गो धनसुतदयिताप्रेमबन्धः परत्र स्फीताशान्यत्र नित्यं वृषशिखरिपते! पीडयन्त्येकदैव । अन्तः कामादिदोषाः बहुविधविषयव्यग्रताजग्धमेनं दीनं मां पातु नित्यं निरुपमदुरिताकम्पमानं दया ते ॥ ९१७॥ स्यान्नामैतन्मुरारे! त्रिविधकटुमहातापसन्तप्यमाने लोकेऽस्मिंस्त्वत्सपर्याव्यतिकरकरणेऽप्यन्तरायो महान् हि । आस्तिक्याद्यद्यतेत प्रकृतिवशतया पुण्यकर्मप्रतीपो विघ्नस्स्यादेव तस्मात्सविनयमधुना त्वद्दयां प्रार्थयेऽहम् ॥ ९१८॥ ब्रह्माद्या देवता यच्छ्रुतिमधुरवचश्श्रोतुकामाः पयोधेः पारं प्राप्य स्तवैस्तैर्घटितकरपुटा भक्तिभाजस्स्तुवन्ति । मातश्श्रीशानुकम्पे! वृषशिखरितटे मर्त्यनेत्रैकपेयं कृत्वा तं वेङ्कटेशं परमपदमुदं दापयस्यैहिकेभ्यः ॥ ९१९॥ कारुण्यैकार्णवस्त्वं दशशिरसि कुतो नाकरोस्त्वद्दयां तां ध्वाङ्क्षे यामातनोर्यत्प्रणिपतनपरस्स त्वयं नेति किं वा । गृध्रेशस्याभिहन्ता शरणमुपजुषो यद्दया तन्न सक्ता स्थाने भक्तापराधिष्वयि! भवसि कथं नाथ! कारुण्यमूर्तिः ॥ ९२०॥ प्राचीनानल्पकर्मव्यतिकरजनितस्फीतदुःखोपभुक्त्यै तुच्छच्छागादियोनिष्वधिगतजननस्संसरन्नासमत्र । जातश्श्रीवैष्णवस्संस्तव तु करुणया दिव्यदेशेऽद्य नाथ! त्वद्भक्तानाञ्च सेवाकृतमतिरभवं धन्यधन्योऽस्म्यतोऽहम् ॥ ९२१॥ ग्राहग्रस्तं गजेन्द्रं परमपदगतो रक्षितुं हन्त! शक्तोऽ- प्यारात्सङ्कल्पतो यद्वृषशिखरिमणे! पञ्चहेतीशपाणिः । आकर्षन्पीतचेलं स्वयमहिरिपुमप्यात्तवेगोऽभिनुन्नः कारुण्येनाशु साक्षादिभपतिमगमस्तादृशं रक्ष तन्माम् ॥ ९२२॥ पाञ्चालीं पञ्चपत्नीं सपदि नृपसभे दुष्टदुश्शासनेन प्राकृष्टात्मांशुकां तां विविधवसनदस्स्वस्थलस्थोह्यरक्षः । एवं वा नाथ! मां च प्रियवृषशिखरिन्! तत्र तिष्ठन्कृपालो! संरक्षेत्यार्तचित्तस्स्त्वयि निहितभरः प्राञ्जलिः प्रार्थये त्वाम् ॥ ९२३॥ मातः किं वानुकम्पे! न दनुजरिपुणा कारयस्याश्रितार्थं यन्मातुर्गर्भकोशे मृतमपि तनयं जीवयन्नुत्तरायाः । कौन्तेयेभ्यः प्रमोदं व्यतरदयमहो! चोदितो हि त्वयैव श्रीमान्शेषाद्रिनाथः प्रकथय किमितोऽप्यस्ति वैचित्र्यमन्यत् ॥ ९२४॥ वेदाध्यायी न धर्मप्रवणसितमना नापि तत्वप्रवेत्ता द्रव्यत्यागी न चाहं न निजगुरुजनासक्तचित्तो न शान्तः । नाप्यन्यक्लेशदुःखी न परधनजिहासुस्तथा नोपकारी मातश्श्रीशानुकम्पे! कथय जनममुं वल्लभायेदृशं माम् ॥ ९२५॥ आशातूद्दामभूमा बहुविधविटपा धावयत्याशु दूरं त्रैलोक्यागारसारप्रसृमरमनसं मां वृषग्रावनाथ । तस्मादेकत्र तिष्ठंस्तवपदयुगलध्यानसक्तः कथं वा भूयासं भूमिभागे प्रहिणु मयि कृपां तत्सदा स्थेमदात्रीम् ॥ ९२६॥ मायासम्मोहितानां धुरि यदि नृहरे! गोचरस्स्या जनानां आशापाशाभिनुन्नैरहमहमिकया प्रार्थ्यमानश्च तैस्स्तैः । सर्वज्ञस्सर्वशक्तोऽप्यहह सपदि दिङ्मूढतां प्राप्य तिष्ठेः अप्रत्यक्षस्तदेतानवसि करुणया प्रार्थितार्थप्रदायी ॥ ९२७॥ अर्चारूपी स्वकीयां श्रियमतिशयिनीं दर्शयन्पापिनाञ्च श्रीमंस्तार्क्ष्याभियायिन्! स्वयमतिमधुरां मूर्तिमप्यार्तिहन्त्रीम् । तत्तत्कामाभिपूर्त्यै विलससि शिखरे शेषशैलस्य नित्यं किं ब्रूमस्तेऽनुकम्पां भुवि तु किमथवा भाग्यमेतज्जनानाम् ॥ ९२८॥ स्वानुष्ठानं विना ये प्रवचनपटवो बोधयन्तीह शास्त्रं गोवक्त्रव्याघ्रकल्पास्सहृदयजनतावञ्चकास्सञ्चितार्थाः । तेषां ज्ञानोपदेशात्कथमिव भविता शुद्धचित्तो जनोऽयं शास्त्रानुष्ठानसक्तान् विरचय कृपया तान्मुरारे! तदत्र ॥ ९२९॥ शेषाद्रीश! त्वदीयस्फुटकमलपदध्यानधारैकनिघ्नं स्वान्तं मे मोदमानं भवतु करुणया पुण्डरीकाक्ष! नित्यम् । यद्ध्यानादैहिकानां बहुविधविषयव्रातभाजां जनानां दूरीभूयादतन्द्रा सहवसतिरिह प्रायशश्शोकहेतुः ॥ ९३०॥ लक्ष्मीस्त्वां विश्वबन्धुं भजति निरुपमप्रीतिबन्धानुबद्धा त्वञ्चास्या भ्रूविलासप्रसरपरवशो वर्तसे निघ्नचेष्टः । नित्यावासा द्वयोस्सा मनसि च करुणा स्वाश्रितक्लेशहन्त्री सत्येवं चिन्तयेयं त्वयि निहितभर श्श्रीश! दासः किमर्थम् ॥ ९३१॥ नानाजन्मप्रदानं प्रबलनिरवधिक्लेशदानं कुवृत्तिः यद्यत्कारुण्यकार्यं तदिह गुणनिधे! चेतनानां जगत्याम् । क्लेशैः पापप्रणाशो भवति तदनु च श्रेष्ठवंशप्रसूतिः भूयात्त्वत्पादपद्मप्रवणमतिरपि श्रीश! सत्सङ्ग बोधः ॥ ९३२॥ निस्सीमाश्चर्यकार्यप्रकटितविभवं मानुषाकारभव्यं दिव्याकारं भवन्तं चिरदुरितगणध्वान्तरुद्धान्तराक्षाः । धिक्कुर्वन्तो मनुष्या निकटपरिचयान्नैव जानन्ति सेव्यं शौरे! तन्मावतारं भुवि कुरु कृपया दुष्टमेतज्जगद्धि ॥ ९३३॥ भक्ताधीनत्वमर्चाकृतिरिह भगवन्! शीतवातातपोत्थान् क्लेशान् शश्वत्सहिष्णुः प्रकृतिवशतया स्वानुकूलं कृतार्चाम् । अङ्गीकुर्वन् स्मितास्यः प्रकटयसि हरे! श्रीपतेस्ते किमेतत् स्वातन्त्र्यं कुत्र यातं भवसि करुणया चाथवा लोकनिघ्नः ॥ ९३४॥ नित्यानन्दात्मकोऽपि प्रकृतिविकृतिजद्वन्द्वसङ्घूर्णिताक्षैः स्वेच्छावृत्तिप्रवृत्तैष्षडरिगणविशीर्णात्मकैर्मानुषैस्त्वम् । नित्यञ्चाभ्यर्च्यमानो वृषशिखरिपते! मन्दहासाभिरामः क्षान्त्यौदार्योरुकार्यं कलयसि करुणाप्रेर्यमाणो धरित्र्याम् ॥ ९३५॥ दोषो नैवैष नॄणामिह कलिमहिमा तादृगित्यम्बुजाक्ष । त्वं मन्वानस्सपर्यां कलुषिजनकृतां सादरं स्वीकरोषि । कारुण्यैकाकरो हि प्रशमितदुरितस्संश्रितानां वृषाद्रौ क्षान्त्यौदार्योरुकार्यं कलयसि सततं प्रार्थितार्थप्रदायी ॥ ९३६॥ पत्रं पुष्पं फलञ्चाप्युपहृतमुदकं भक्तितोऽद्मीति शौरे । यत्प्रोक्तं तच्च कर्तुं त्वयि मम न दृढा भक्तिरस्तीह तादृक् । सृष्टं वस्तु त्वया तद्भुवि करयुगतो भक्तिपूतं गृहीत्वा तुभ्यं दत्तान्यमूनीत्यहह । गदितुमप्युद्धतोऽहं विलज्जे ॥ ९३७॥ घोरारण्ये जटायुर्धुतकुणपगणाघस्मरे गृध्रवंशे जातोऽपि स्वामिभक्तो जरठतनुरपि प्राणनिर्णिक्तरागः । पौलस्त्यौद्धत्यहन्ता रघुवरचरणन्यस्तमस्तोऽस्तमागात् तादृङ् निष्ठा कथं स्यान्मयि तव करुणापात्रतां यल्लभेय ॥ ९३८॥ भीषास्मान्मातरिश्वा पवत इह तथोदेति सूर्योऽपि भीषा मृत्युर्धावत्यतन्द्रो द्रुहिणहरतुराषाट् किरीटार्चिताङ्घ्रे । एतत्सर्वं शरीरिप्रकरपरिरिरक्षाकृतं सर्ववेत्त्रा कारुण्यप्रेरितेन त्रिभुवनविभुना वेङ्कटेश! त्वया हि ॥ ९३९॥ सम्प्राप्तानेकभोगोऽप्यसकृदिव तवानुग्रहादाशयैव श्रीमन्! शश्वद्धनार्थी धनिजनसदनद्वारसञ्चारशीलः । धिक्काराशीर्णकर्णो निरुपमहृदयक्लेशसन्दह्यमानो मर्त्यस्स्यात्तेऽनुकम्पां तदिह नरहरे! निक्षिपाशानिहन्त्रीम् ॥ ९४०॥ दुष्टे शिष्टोपदिष्टा भवति हि फणितिर्वृष्टिवच्चोषरे य- त्तत्कष्टा दुष्टमैत्री जगदिदमनिशं घुष्टदौष्ट्यैकनिष्ठम् । सुस्पष्टाष्टापदश्रीरियमपि जगती शारिसङ्क्षोभदक्षा ह्यक्षप्रक्षेपशिक्षाक्षुभितकुकितवा तत्क्षिपात्रानुकम्पाम् ॥ ९४१॥ साधूनां प्रायशोऽस्मिन् जगति परिभवस्सम्भवत्यल्पचित्तैः दुष्टैस्तन्मौनमुद्रापरिहृतजनतास्ते विसृष्टाभिमानाः । त्वन्नामध्यानतुष्टा दलपिहितशलाटुप्रतीकाशकायाः लीयन्ते क्वापि तादृक्स्थितिमिह कृपया देहि मह्यं कृपालो ॥ ९४२॥ विष्णो! पौष्णोऽसि कोष्णैः कतिपयकिरणैर्व्याधिमुन्मूलयन्सन् कैश्चित्तीक्ष्णैः करैश्च प्रविततजलधेरम्बु जीमूतयन्सन् । कालञ्चाकल्पयन्सन् प्रयतविधिकृते सर्वसाक्षी नियन्ता त्रय्यात्मान्नप्रदाता ननु तव करुणा हन्त! वैषम्यमुक्ता ॥ ९४३॥ कन्दर्पो दर्पदाता जरठमपि मनोनोदनेनानिनीषुः कान्ताभ्यर्णं विवर्णं किमुत! युवजनेष्वस्य चेष्टाविशेषे । जानन्त्येते युवानस्स्मरपरवशताभ्रान्तचित्ताः प्रमत्ताः विश्वं कान्तामयं तत्परिहर कृपया मौढ्यमेतन्मुरारे ॥ ९४४॥ दर्शं दर्शं मनुष्या यमसदनगतान्प्राणिनस्स्थैर्यमात्म- न्यामन्वाना निजासोश्शमदमरहिताः द्रोहलब्धान्यवित्ताः । आत्मानं पोषयन्तस्सततमपि परोद्गर्हणासक्तचित्ताः कालं संयापयन्ति प्रहिणु तव कृपां त्वत्पदध्यानदात्रीम् ॥ ९४५॥ सृष्टौ यद्वस्तु हेयं तदिह जनिमतः कस्यचिद्भोग्यमेव प्रायश्चेदं हि दृष्टं किटिरतिकलुषं हेयवस्त्वत्ति भोग्यम् । त्याज्यं यद् ज्ञानिनां तद्विषयिपरवशानां भवेद्भोग्यभोग्यं तस्माच्छ्री श्रीनिवास! प्रहिणु तव कृपां तेषु मूढात्मकेषु ॥ ९४६॥ संराड् भूत्वा समन्तादुपनृपतिशिरोरत्नकोटीरनिर्य- द्रोचिर्नीराजिताङ्घ्रिश्शशधरसदृशच्छत्रमूर्धा कदाचित् । द्विड्भिः प्रभ्रंशितस्सन्नटति निशि परागारकद्वारि भिस्सा- भिक्षार्थी स्थेम किञ्चित्तदिह न नृहरे! तेनुकम्पा स्थिरैका ॥ ९४७॥ यद्यद्रूपं मनोज्ञं क्रमश इह वयोव्युत्क्रमात्तत्करालं यद्यत्खाद्यं स्वभोग्यं क्रमगलितरदालेस्तदुत्सार्यमेव । कान्तास्रग्गन्धभूषाद्यखिलमपि तथा स्याज्जिहासैकपात्रं त्याज्यं भोग्यं न किञ्चित्तदभिलषत तां श्रीनिवासानुकम्पाम् ॥ ९४८॥ निर्धूताशेषपापोऽप्यनुसृतसुकृतस्तत्फलं चानुभोक्तुं रम्भोर्वश्यादियोषापटुकुटिलकटाक्षैकपात्रं हि नाके । भूयासं तत्कटाक्षं प्रहिणु मयि तथा चिन्तयन्त्यां कृतो यः श्रीमन्! शेषाद्रिनाथ! त्वदतुलकरुणां काङ्क्षमाणोऽस्मि दीनः ॥ ९४९॥ यद्यद्भव्यं भविष्यत्यनुभवफलदं प्रायशस्तत्तदेव श्रीशानुध्याननिष्ठां कुत इह वयमप्याद्रियामो मुधेति । मूढा जल्पन्ति केचित्त्वदमलकरुणावैभवं नो विदुस्ते त्वत्पादध्यानयोगाद्रचितमपि महत्कर्म तन्नश्यतीति ॥ ९५०॥ वित्ते सत्यप्यदानादनुभवविरहाज्जायते दुर्गतस्सन् दौर्गत्यात्पापकर्मण्यनुदिननिरतः पापतस्तुच्छजन्मा । तादृग्जन्मात्तदुःखप्रसरणगलितस्वीयकर्मप्रवृत्तिः तच्छेषग्रावनाथ! प्रहिणु तव कृपां दानबुद्धिप्रदात्रीम् ॥ ९५१॥ सा त्रय्यप्यादरात्त्वद्गुणगणगणनारब्धसर्वप्रयत्ना- प्यैकैकस्यान्तमन्तस्सुचिरमननतोऽप्राप्य खिन्ना निवृत्ता । सत्यप्येवं दयाया निरवधिमहिमाकृष्यमाणा नितान्तं स्मारंस्मारं विलीना भवति खलु सदा तन्मयी वेङ्कटेश ॥ ९५२॥ संवर्ते ज्ञानहीनान्गतकरणतयाप्यात्मरक्षावियुक्तान् जीवांस्तान् संरिरक्षुश्शिशुरपि जठरे पोषयन्सावकाशे । सृष्टौ स्पष्टाङ्गकांस्तान्विसृजसि जठरात्सेन्द्रियान् ज्ञानबुद्धान् श्रीमन्! शेषाद्रिनाथ! त्वदमितकरुणाकार्यमेतद्धि सर्वम् ॥ ९५३॥ युद्धान्ते प्रार्थिता या पवनतनुभुवा राक्षसीच्छेदनार्थं पापानां वा शुभानां हननसमुचितानाञ्च कार्या कृपेह । निर्दोषी कोऽस्ति लोकेत्विति गदितवती सास्ति वक्षस्स्थले ते निर्भीको घोरपापस्तदहमिह फणिक्ष्माभृदीशास्मि हृष्टः ॥ ९५४॥ अर्थानामर्थितानां प्रवितरणकृते शेषशैले वसन्सन् लक्ष्मीवक्षाः क्षमाक्षश्श्रयणवचनमात्रेण जानन्स्वभक्तम् । तत्क्लेशञ्च क्षिपन्संस्तदुदयमनिशं भावयस्यादराद्य- न्मर्त्या जानन्ति नैव त्वदमलकरुणाकार्यमज्ञानतस्तत् ॥ ९५५॥ निन्दागर्भैर्वचोभिस्सुचरितजनतारुन्तुदैस्सप्रमोदं पापात्मानो मनुष्यास्समयमखिलमप्युत्सुकास्ते क्षिपन्ति । आयुर्व्यर्थं नुदन्तः क्षणमपि भवतो नामसङ्कीर्तनार्थं बुद्धिं नावर्तयन्ति प्रहिणु तव कृपां तेषु तद्वेङ्कटेश ॥ ९५६॥ नानावित्तापहारात्स्वयमिह धनिको जृम्भमाणामयस्सन् स्वीयद्रव्योपभोगेऽप्यनभिमतमनास्तान्तनेत्रः क्षुधार्तः । तद्वित्तं भेषजार्थं वितरति भिषजे न त्वदर्चोपयुक्त्यै पापं हि द्रव्यमूलं त्विति च न मनुते त्वद्दया तत्र दूरे ॥ ९५७॥ त्वद्दासप्रेष्यदासप्रवरपदसरोजात्तभक्तिं कृपालो! तन्वन्मामप्यमन्तुं विरचय कृपया यत्प्रहृष्टो भवेस्त्वम् । त्वय्यागः क्षन्तुमर्हस्यपि तु भुवि भवद्दासवर्गे कृतं त- त्क्षन्तुं शक्नोषि नैव प्रियवृषशिखरिन्! वर्तयैवं सदा माम् ॥ ९५८॥ ऐश्वर्योन्मत्तचित्तास्त्रिदिवविभवतो विस्मृतत्वत्पदाब्जाः देवा अप्यात्मलाभप्रणिहितमनसो भक्तसृष्टापराधाः । प्राप्ते क्लेशे तदानीं त्वदमलकरुणां याचमाना लभन्ते स्वास्थ्यं तत्तेऽनुकम्पा निरुपममहिमा शेषशैलाग्रदीप! ॥ ९५९॥ त्वद्ध्यानस्थापितासुं सवनधरणिजां जानकीं हन्त! राम । क्रोधान्धस्त्वद्गिरा द्राग्घुतवहपतितां वीक्षमाणो व्यतिष्ठः । त्रैलोक्यप्रत्ययार्थं व्यवसितमुचितं किं क्व याता दया ते दुष्टं ह्येतज्जगद्यत्त्रिभुवनजननीं तां तथाप्यभ्यनिन्दत् ॥ ९६०॥ हन्तुं तं सैन्धवं यत्प्रकुपितविजयोदग्रसोग्रप्रतिज्ञां सार्थं कर्तुं च कोटिद्युमणिरुचिजुषा चक्रराजेन नाके । चञ्चत्सूर्यापिधानं प्रधनभुवि भवान्कारयामास शौरे । भक्तत्राणाय किं वा कलयसि कृपया नात्र चित्रं न किञ्चित् ॥ ९६१॥ उद्दिश्य श्वेतवाहं तपनतनुभुवा रक्षितां शक्तिमेकां रक्षस्यक्षोभ्यदाक्ष्ये पवतनयजे पातयित्वा रजन्याम् । जिष्णुं भक्ताग्रगण्यं रणभुवि विपदो मोचयामासिथाहो । भक्तत्राणाय किं वा कलयसि कृपया नात्र चित्रं न किञ्चित् ॥ ९६२॥ उत्तुङ्गक्ष्माभृदग्राद्गगनगमनतस्स्फीतशुभ्रांशुकस्सन् लोकायैवं सुधांशुस्समुपदिशति यन्मानसान्माधवस्य । आविर्भूता दया साप्यहमिव तदियं शीतला क्लेशहन्त्री तद्यूयं संश्रयध्वं वृषशिखरिपतेस्तामतन्द्रा मनुष्याः ॥ ९६३॥ शश्वद्भोगानुभूत्याप्युपरतिरिह नैवानुभूतौ पुनस्त- त्काङ्क्षा चोज्जृम्भते यद्धुतघृतहुतभुक्कल्पसङ्कल्पतारा । अस्मिन् साक्षी ययातिस्तदनुदिनमहं कामकोपाभितप्तः श्रीमन्! शेषाद्रिनाथ! त्वदमलकरुणां शीतलामत्र याचे ॥ ९६४॥ स्वार्थत्वेनार्जितेषु प्रचुरतरधनेषूच्चश‍ृङ्गेऽपि सौधे सेवाहेवाकभृत्येष्वपि नवरुचिरप्रत्नरत्नेषु मानी । प्रायस्स्वीयाङ्गमेये स्वपिति खलु तले कुक्षिमेयं रसान्नं प्राश्नात्यन्यं परार्थं प्रकृतिविवशताकार्यमेतत्कृपालो ॥ ९६५॥ वैकुण्ठाद्दिव्यधाम्नोऽप्युरगशयनतोऽपीन्दिरासुन्दराङ्गं नित्यानन्दस्वरूपं भवगहनगलत्प्राणिपीडापनुत्यै । मातर्धीरेऽनुकम्पे! त्रिभुवनसरणिं दर्शयन्त्यानयस्य- प्याराद्भाग्यं तदेतत्कथयितुमहमस्म्यल्पचित्तो न दक्षः ॥ ९६६॥ सद्भिस्संसेव्यमानं कुमतिवनकुठारं महाभाष्यकारं श्रीमद्रामानुजार्यं गुरुवरमुरुहृद्ध्वान्तविध्वंससूरम् । सन्दर्श्याज्ञाय मह्यं यदुपकृतिमतानीः कृपां किं ब्रवीमि श्रीमंस्तच्छ्रीनिवास! प्रगुणगुणनिधे! निर्भयोऽस्म्यत्र पापः ॥ ९६७॥ क्षीराकूपारकन्या यदचलदयिता यस्य सर्वेश्वरत्वं श्रीवत्सो यस्य वक्षस्यभिकनति तथा कौस्तुभो वैजयन्ती । यद्वाहो वैनतेयश्शयनमहिपतिर्धाम वैकुण्ठनाम त्वं शेषाद्रौ स एव प्रविलससि कृपा हन्त! मर्त्येषु कीदृक् ॥ ९६८॥ दुर्मार्गव्यापृतानां कटुकपटहृदामन्यविद्रोहिणाञ्च स्वाधीनात्यन्तशान्त स्ववचनकरणासक्तहिंसाप्रदानाम् । साह्यप्रोत्साहकेस्मिन्सति कलिपुरुषे सार्वभौमे मुरारे! सन्तस्त्वद्ध्यानसक्ताः कथमिव निवसेयुः कृपां ते विनात्र ॥ ९६९॥ प्रामाण्येन त्रयीं तां नु कतिचिदुररीकृत्य येप्यामनन्तः तद्व्याख्याकैतवात्त्वां गुणिनमगुणिनं हन्त । मिथ्या जगच्च । इत्येवं वञ्चयन्ति प्रियवृषशिखरिंस्तैः कलिभ्रष्टधीभिः व्याप्तेस्मिन् भूमिभागे परिहर वसतिं मे कृपालो कृपातः ॥ ९७०॥ कृत्याकृत्यान्धदुष्टप्रचुरभुवनतो भीतभीतः प्रसर्प- ज्ज्वालाजाज्वल्यमानज्वलनपरिगतागारवासीव वर्ते । शश्वद्रक्षाप्रतीक्षः क्षणमपि युगवद्भावयन्भूमिभागे शेषक्ष्माभृत्क्षितीश । त्वदमलकरुणां काङ्क्षमाणः क्षमार्थी ॥ ९७१॥ धर्मोयत्रास्ति तत्र प्रविलसति जयोपीति वार्तापि मिथ्या प्रायो दृष्टं किलैतत्कलिमलकलुषे तत्प्रतीपोत्र जेता । प्रत्यक्षैकप्रमाणो न यदनुमनुते शास्त्रवेद्यं परोक्षं तस्माच्छ्री श्रीनिवास प्रहिणु तव कृपां वेदविश्वासदात्रीम् ॥ ९७२॥ शास्त्रानुष्ठानहीना मुहुरभिदधतस्स्वीयवैराग्यनिष्ठां सर्वेष्वासक्तचित्ता जलकमलदलं साधु दृष्टान्तयन्तः । पूर्वचार्योपदिष्टां सरणिमतिगतास्स्वेच्छया सञ्चरन्तः सन्ति ज्ञानित्वदृप्ताः ननु कथय कुतस्तेषु ते नानुकम्पा ॥ ९७३॥ त्वत्कैङ्कर्यैकतानैरहिपतिशयनस्सूरिभिर्गीयमानं श‍ृण्वन्यस्सामगानं सरसिजनिलयाविद्युदुद्योतमानः । गाम्भीर्यावासनेत्रः प्रविलसति यथावाक्सदाधाम्नि दिव्ये भक्तार्थं शेषशैले निरवधिकृपयैवार्च्यरूपस्तथा सः ॥ ९७४॥ दुर्वृत्तक्षीणपुण्यः पुनरपि नरके सम्पतन्दुःखभागी शश्वद्भोगाभिलाषी प्रतिजनि भुवने पर्यटत्येष मर्त्यः । ज्ञात्वैतच्छास्त्रतोऽयं सुकृतकृतमतिर्भोगलब्ध्या प्रहृष्टः भूयात्तच्छ्रीनिवास! त्वदमलकरुणां प्रेषयात्र प्रसन्नः ॥ ९७५॥ योगीन्द्रा ध्यानयोगाद्भवदनुभवतः फुल्लरोमाञ्चिताङ्गाः आनन्दाश्रुप्रदिग्धाश्शिथिलितहृदया विस्मृतैतत्प्रपञ्चाः । कालं त्वानन्दरूपं भुवि परिकलयन्त्यैहिकांस्तुच्छयन्तः श्रीमंस्तादृग्दशां मे वितर करुणया शेषशैलाग्रदीप ॥ ९७६॥ सर्वं द्वन्द्वात्मकं हि प्रतिभटसहितं यद्यपीह प्रकृष्टं दुष्टैर्व्याहन्यते यज्जयति भुवि तथाप्यागमत्याज्यमेव । तस्मात्सत्कर्म लोके प्रचलति विरलं सन्ति सन्तोऽप्यतन्द्राः एवं तच्छ्रीनिवास! प्रहिणु तव कृपां सत्समृद्धिप्रदात्रीम् ॥ ९७७॥ योगाभ्यासैकनिष्ठोऽप्यधिगतहृदयस्वस्थभावोऽपि दीर्घ- प्राणायामावरुद्धश्वसनगतिरपि स्थेमसिद्धासनोऽपि । योगी तत्सिद्धकाले सुरपदविभवाकृष्टचित्तो यियासुः प्रभ्रष्टस्स्याद्दया ते न यदि मधुरिपो! पूर्वसंस्कारवश्यः ॥ ९७८॥ श्रीमान्कूराधिनाथः पथिगतदयिताभीतिसन्नोदनार्थं दूरे प्रक्षिप्य वस्त्रप्रपिहितकनकामत्रमत्रस्तचित्ताम् । व्यातन्वन्नब्रवीत्तां न च यदि ममता तत्र भीर्नेति धीरः तादृग्बुद्धिं मुरारे! वितर करुणया मे ममत्वाश्रयाय ॥ ९७९॥ ज्ञान्यग्र्याद्याज्ञवल्क्यादधिगतममताहीनतैकोपदेशः तत्सृष्टाग्निप्रदग्धं स सपदि जनकस्सौधमाकर्ण्य धीरः । औदास्येनोपदेशे विनिहितहृदयो मे न किञ्चित् प्रदग्धं ज्ञानीत्यूचे तथा मां कुरु तव कृपया भोगिराट् शैलनाथ ॥ ९८०॥ स्नानानुष्ठानहीना मृगसहवसतिश्चाक्षरज्ञानशून्या वार्धक्यक्लिष्टकार्याप्यवनिगतफलान्वेषणायात्तचारा । भक्त्या तान्यर्पयित्वा द्युमणिकुलमणे! ते श्रमण्याप हर्षं तस्या भक्तेर्लवांशोप्ययि न मयि विभो । तेऽनुकम्पा गतिर्मे ॥ ९८१॥ कान्तारे व्याघ्रभीतश्शरणमुपगतो मर्कटं वृक्षसंस्थं कश्चिन्मर्त्योऽभिगुप्तस्तरुविटपतटे तेन निद्रालुमेनम् । कीशं तस्मै त्वदात्तन्न हि जगति नरात्स्वार्थिनो हा! कृतघ्नः तस्माच्छ्रीवेङ्कटेश! प्रहिणु तव कृपां सर्वसत्त्वाभिरामाम् ॥ ९८२॥ दीक्षाबद्धा द्विजाग्र्यास्सवहवनरतास्स्त्वां विदुर्नैव शौरे! यज्ञाराध्यं बुधास्ते किमु फलमखिलज्ञानतस्तद् गृहिण्यः । तुभ्यं यत्पायसादि प्रियतममनसैवार्पयामासुरारात् शास्त्रज्ञानेन किं वा न यदि तव कृपा वेङ्कटक्ष्माभृदीश ॥ ९८३॥ स्खालित्यं गच्छतस्स्यादिति नयमनुसृत्यापराधान्मदीयान् अज्ञानोज्जृम्भितांस्तान्वृषशिखरिपते! क्षन्तुकामोऽसि सत्यम् । इच्छापूर्वं कृतानां प्रतिदिनमपि चोग्रागसां मामकानां क्षान्तिस्सा ते कथं वा तदहमिह कृपां मातृकल्पां तु याचे ॥ ९८४॥ मत्तो ज्ञानं त्वपोहस्स्मरणमपि तथेत्यभ्युदीर्णं त्वयैव श्रीमन्! कोऽहं तथात्वे निखिलमपि भवत्सिद्धसङ्कल्पनिघ्नम् । तत्त्वत्सङ्कल्पनिघ्नः पशुसदृशगतिः क्षुत्पिपासाभिभूतः सर्वत्रापि भ्रमामि प्रहिणु तव कृपां माथवा मे न किञ्चित् ॥ ९८५॥ गम्भीराम्भस्सुजातद्युमणिकरपरामर्शफुल्लाम्बुजाक्ष ! त्वत्कुल्याकल्पनेत्रे प्रवहति करुणा सापराधेष्वपीह । तस्मादभ्यर्थये त्वां मयि दुरितमये पातयेत्येकवारं श्रीमंस्तादृक्कटाक्षं मधुमथन! मम प्रार्थनां स्वीकुरु त्वम् ॥ ९८६॥ सौशील्यं यत्त्वया तत्प्रकटितमिह गोपालकैस्सेवितेन स्वातन्त्र्यं क्वापि लीनं यदुवरकुलजातस्य ते वेङ्कटेश! सङ्कोचं त्वद्गुणानां विकसनमपि तत्कालयोग्यं तनोषि प्रायस्सर्वत्र नित्यं तव खलु करुणा त्वेकरूपा विचित्रम् ॥ ९८७॥ भेदाभेदश्रुतीनां घटकनिगमतोवारयन्नर्थदौस्थ्यं जीवान्तर्यामितां ते सदखिलमिति यो दर्शनादर्शदर्शी । व्याचष्टे लक्ष्मणार्यं गुरुवरमभजस्तं किमेतन्मुरारे! स्वं ज्ञातुं गुर्वपेक्षा तव च किमथवा लोकमर्त्ये कृपातः ॥ ९८८॥ ऐश्वर्योद्रिक्तचित्ताः क्षणमपि न हि मां संस्मरन्तीति मत्वा दारिद्र्यक्लेशदायी भवदमलपदध्यानसक्तान्वितन्वन् । पापग्रन्थ्युज्झितांस्तान्ननु भुवि तनुषे नैव जानन्ति ते तु त्वत्कारुण्यं जनेभ्यस्सुकृत वितरणे बद्धदीक्षं हि नाथ ॥ ९८९॥ नित्यस्सन्निर्विकारः प्रकृतिमनुसरन् बाल्यकौमारचञ्च- त्तारुण्यस्थाविरान्तास्तदनुगुणगुणा धारयन्सन् दशाश्च । रामत्वे यादवत्वेऽप्यनुभवरसिको मानुषप्राप्यभोगो भक्ताधीनो ह्यभूस्त्वं वृषशिखरिपते! वच्मि किं तेऽनुकम्पाम् ॥ ९९०॥ काचिद्वाणी त्रयीस्था त्रिपुररिपुनमस्यां वदत्यादरार्हं काचिद्दम्भोलिपाणेरपचितिमुचितां स्तौति वह्नेस्तथैव । एवञ्चेदल्पबुद्धेः कथमिव न भवेच्चित्तचाञ्चल्यमस्मिन् तत्ते तास्ता भजन्ति त्वदरुणचरणं नानुकम्पा न तेषु ॥ ९९१॥ सर्वान्तर्यामितान्ते भुवि मनसि जना भावयन्तो नमस्यां कुर्वन्त्वेते परेभ्यो जलधिरिव गतिर्यन्नदीनां भवेस्त्वम् । तस्या विस्मृत्य च त्वामचिरलघुफलप्रेप्सवो देवतास्ताः वन्दन्ते मन्दमेधास्तदिह कुरु कृपां त्वत्सपर्यानुकूलाम् ॥ ९९२॥ साक्षाद्द्रष्टा यतीनां प्रभुवरगुरुणा ताञ्च वैकुण्ठगद्ये प्रोक्तां सूक्तिं स्मरन्सन्परमपदमहावैभवध्यानयोगात् । सर्वं कालं क्षिपामि द्रुहिणमुखसुरागम्यदिव्यप्रदेशं द्रष्टुं शक्तो मुकुन्द! त्वदमितकरुणापातमत्रान्तरा कः ॥ ९९३॥ वेदा निर्वेदवादा हुतभुगपि घृतं चक्षुषा नेक्षतेऽपि व्यापादापादनेच्छा जगति च मनुजास्सज्जनाकल्पकल्याः । वन्ध्या सन्ध्योपसत्त्या भगवदपचितिश्शोचनीया विचेयाः त्वद्भक्ता हन्त! शौरे! चलति कलिबले त्वद्दयैका गतिर्मे ॥ ९९४॥ एका यद्धातृपीठं विदलयति तथा दृष्टिरन्या त्वदीया सम्फुल्लं तन्नितान्तं मुकुलयति हरे! लोकमेवं कटाक्षैः । हासह्रासप्रवृत्तौ घटयति तत एवाहुरेतद्बुधेन्द्राः द्वन्द्वायत्तं जगद्धीत्यनुपमकृपया मां कुरु द्वन्द्वमुक्तम् ॥ ९९५॥ यातायातातिखिन्ना अपि शठपवनाच्छन्नपूर्वस्मृतित्वात् नूत्नत्वेनात्तदेहभ्रममुषित बहूत्पत्तिहेयत्वमेधाः । जीवास्तेजस्स्वरूपाअपि जगति लुठन्त्यम्बुजाक्षप्रतीक्षाः शिक्षाहीना मुकुन्द । प्रहिणु तव कृपां चेतनोज्जीवनार्थम् ॥ ९९६॥ मूर्धा त्वत्पादनत्यां नयनमपि भवद्रूपसन्दर्शने मे जिह्वा त्वन्नामनुत्यां करयुगलमपि त्वत्पदार्चा विधौ च । पादौ त्वन्मन्दिराभ्यन्तरपरिसरणे ध्यानसक्तं मनस्स्युः श्रीमन्! शेषाद्रिनाथ! त्वदमलकृपया प्रार्थयेत्वामिदन्तु ॥ ९९७॥ धूर्तानां वञ्चकानां कपटकटुहृदामन्ययोषिज्जुषाञ्च द्रोहोद्रिक्तात्मकानां श्रितहृदयारुन्तुदव्याहृतीनाम् । वासो यत्रास्ति तस्मिन् परिहर कृपया मे स्थितिं दीनबन्धो श्रीमन्! शेषाद्रिनाथ! प्रतिदिनमपि तत्प्रार्थये त्वामिदन्तु ॥ ९९८॥ त्वद्दत्ताद्भोगभागादधिकतरसुखप्रेप्सया मर्त्यवर्गः कृच्छ्रासाध्यप्रयत्नस्स्खलति पतति चाप्राप्तकामोतिदुःखी । यद्धात्रा फालदेशे परिलिखितमतो नाधिकं प्राप्स्यतीति प्रायो जानाति नैव प्रहिणु तव कृपां कामहन्त्रीं कृपालो ॥ ९९९॥ श्रीमद्रामानुजार्यप्रयतपदयुगध्यानतश्चित्तशुद्धिः तच्छ्रीसूक्त्यर्थचिन्ताद्विगुणितपुलकस्यास्तु मे कालयापः । तद्भक्तानां पदाब्जेष्वनिशमतरला भक्तिरप्याविरस्तु श्रीमन् । एवं तनोतु त्वदमलकरुणा हेतुहीनातिदीने ॥ १०००॥ श्रीशाहेतुप्रसादस्फुरदुरुविमलज्ञानदृष्टाच्युतस्य स्वान्तध्वान्तोष्णरश्मेः कठिनशठरिपो र्भूमिभाग्यात्मकस्य । त्रय्यन्तोद्घुष्टसारप्रकटनरुचिरा द्राविडाम्नायगाथाः गायन् कालं क्षिपेयं सततमपि यथा मां तथा वर्तयात्र ॥ १००१॥ इत्थं श्रीनिगमान्तदेशिकवरेणोक्तं वृषाद्रीशितुः स्तोत्रं श्रीवरवर्णिनीमुखवराद्यो वा पठत्यादरात् । सम्पद्दायि दयासहस्रममलं श्रीशानुकम्पां सदा स प्राप्नोति यदीप्सितं तदपि यद्दत्तैहिकामुष्मिकम् ॥ १००२॥ श्रीनिवासाय सर्वान्तर्वासाय करुणात्मने । तन्मानसनिवासायै दयायै चास्तु मङ्गळम् ॥ १००३॥ इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे दशमशतकं सम्पूर्णम् । इति समाप्तश्चायं ग्रन्थः । श्रीमते रामानुजाय नमः । श्रीमते लक्ष्मीदासाय नमः । श्रीमते निगमान्त देशिकाय नमः ।

मुक्तकानि श्रीलक्ष्मीदासकृतानि

द्रव्यमूलानि पापानि हरन्नहि महीधरे । योऽनुगृह्णाति मर्त्यांस्तान् श्रीनिवासमुपास्महे ॥ १॥ पटीरोशीर काश्मीर जन्मकर्पूरवासितैः । तीर्थैश्श्रियाभिषिक्तः श्री वेङ्कटेशो जयत्वसौ ॥ २॥ शङ्खचक्राङ्कितः श्रीमान् भाष्यकारस्य शिष्यताम् । भेजे भुजङ्गशैले यः श्रीनिवासं नमामि तम् ॥ ३॥ परात्परोऽपि सुलभः शेषाद्रिशिखरे मुदा । यो राजते नमस्तस्मै श्रीनिवासाय मङ्गळम् ॥ ४॥ पद्मावती समेताय शेषशैलविहारिणे । सर्वाभीष्टप्रदात्रेस्यात् श्रीनिवासाय मङ्गळम् ॥ ५॥ मङ्गळानां निधिर्मुग्धा श्रीनिवासानुवर्तिनी । पावयन्ती दृशा मर्त्यान् जीयात् पद्मवती सदा ॥ ६॥ भ्रूलताचालनेनैव द्वन्द्वात्मकमिदं जगत् । क्रीडार्थं कारयत्यै स्यात् पद्मावत्यै सुमङ्गलम् ॥ ७॥ पद्मावतीति विख्याता श्रीनिवासप्रिया च या । पद्मावासा जगद्वन्द्या तस्यै स्यान्मङ्गलं श्रियै ॥ ८॥ - श्री लक्ष्मीदासः - श्रीरस्तु - अष्टशक्तिविशिष्टाय शिष्टेष्टार्थप्रदायिने । दर्शयित्रे प्रपत्तिं स्याद्वेङ्कटेशाय मङ्गळम् ॥ - श्री रामानुजमुनि मधुरस्मितमात्रेण कृताश्वासमिव श्रिया । अञ्चितोरस्स्थलं देवं श्रीनिवासमुपास्महे ॥ -- श्री गोदादेवी Encoded and proofread by Mandayam Nayaka Ramanuja
% Text title            : Dayasahasram by lakShmIdAsa
% File name             : dayAsahasram.itx
% itxtitle              : dayAsahasram (lakShmIdAsavirachitaM vedAntadeshikapraNItam)
% engtitle              : dayAsahasram by lakShmIdAsa revealed by vedAntadeshika
% Category              : devii, vedAnta-deshika
% Location              : doc_devii
% Sublocation           : devii
% Author                : lakShmIdAsa revealed by vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : M N Ramanuja
% Proofread by          : M N Ramanuja
% Indexextra            : (Scans 1, 2, Video 1, Info 1)
% Latest update         : March 17, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org