देवादिभिःकृतं श्रीमहारमास्तोत्रम्

देवादिभिःकृतं श्रीमहारमास्तोत्रम्

सभायां संहतास्तत्र सर्वस्त्रीजातिशोभिताः । तुष्टवुः सहगन्धर्वाऽप्सरसश्च महारमाम् ॥ १६॥ नमो नमस्ते परमेश्वरस्त्रीमूर्द्धन्यमूर्तेऽर्धहरिस्वरूपे । महाक्षरे चाक्षरधामवासे त्रिसृष्टिमातः सुनमो नमस्ते ॥ १७॥ नमोऽवतारादिसमग्रवासे नमः समस्तेश्वरकोटिवासे । नमः समग्रेश्वरिकानिवासे मुक्तानिकामुक्तगणाधिवासे ॥ १८॥ तुभ्यं नमः कृष्णनरायणाङ्गे सिद्धर्षिसत्पित्तृसुदे नमस्ते । सुरेश्वरीवृन्दसुसेविते ते श्रीमानवीरूपिणि ते नमोऽस्तु ॥ १९॥ ``श्रीकम्भरे श्रीललिते सनाथे सन्तोषिकामातरथो नमस्ते । गजाननेऽनन्तरमानुरूपे मातर्नमस्ते हरिणीस्वरूपे ॥ २०॥ सर्वेश्वरि सर्वरमाधिनाथे श्रीमाणिकीपाशवतीप्रमोदे । लक्ष्मीमहासागरभाविके ते ब्रह्मप्रियास्थे सततं नमस्ते ॥ २१॥ कामाधिनाथेऽर्थितदानदक्षे चिन्तामणे चित्रजगत्प्रसूते । मोक्षप्रदे भास्करचन्द्रनेत्रे मन्दस्मिते योगिनि ते नमोऽस्तु ॥ २२॥ नमो नमो भण्डमहासुरघ्ने समस्तदैत्यान्तककर्त्रि मातः । मुद्राधिनाथे च सुयन्त्ररूपे सर्वश्रुतिप्रोद्भविके नमस्ते ॥ २३॥ कृष्णे परे चक्रसुषट्कसंस्थे षडूर्मिहर्त्रि श्रमनाशिके ते । षड्भावशून्येऽष्टगुणाश्रये ते मातर्नमो मुख्यसमस्तराज्ञि ॥ २४॥ कान्ताधिनाथे कमले सुनिर्मले कलाधिनाथे भुवनेश्वरि प्रिये । रसायने सर्वरसाधिवासिनि दिव्यस्वरूपे च नमोऽस्त्वभीक्ष्णशः ॥ २५॥ सदाणिमाद्यष्टकसेवनीये गोपालकृष्णात्मकमञ्चवासे । देवाधिदेवप्रमदे सवित्रि लोकस्य मातः प्रणमो नमस्ते ॥ २६॥ व्रह्मप्रियेब्रह्मरमे हरिश्रि ब्रह्मात्मिके श्रीललिते नमस्ते । ब्रह्मामृतस्रोतसि जन्महन्त्रि ब्रह्मेश्वरि श्रीललिते नमस्ते ॥ २७॥ शुभाश्रये शुभप्रदेऽक्षराख्ये हतारिवर्गे ललिते नमस्ते । सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ २८॥ सर्वाऽमराऽऽकाङ्क्षितपूरयित्रि वरप्रदे श्रीललिते नमस्ते । बिन्दुस्थिते बिन्दुसुरूपिणि श्रीबृहत्कुचाऽम्भोजविलोलहारे ॥ २९॥ फलप्रदे कम्पलतेऽर्कशोभे सरोजवक्त्रे ललिते नमस्ते । सारैकभूमे पुरुषोत्तमि श्रीभूपद्मिकाऽजा कमलात्मिके ते ॥ ३०॥ कृपानिधाने सुरकार्यशालिनि श्रीवैष्णवि श्रीसकलावतारिणि । सारङ्गशावाक्षि मनोहरे प्रसु मातर्नमस्ते ललितेऽतिसुन्दरि ॥ ३१॥ श्रीमन्महालक्ष्मि समृद्धिदायिनि विपन्निवारेऽतिसनातनि प्रमे । त्वया समस्तं भुवनं सुरक्षितं भण्डासुरादीन् विनिहत्य सङ्गरे ॥ ३२॥ श्रीशम्भुना भस्मित एव मन्मथो भस्मोत्थभण्डोऽपि हतः पुनस्त्वया । कामस्य भस्माऽपि सुभस्मिता यतो निष्कामता नीरतिता प्रदर्शिता ॥ ३३॥ स्थूलं शरीरं मदनस्य शम्भुना दग्धं च सूक्ष्मं तु ततः पुनस्त्वया । एवं शरीरोभयवर्जितं पतिं विलोक्य तज्जीवनमार्थयद्रतिः ॥ ३४॥ तदा पुनः कारणवर्ष्म कल्पनात्मकं यदासीद्बहुवासनात्मकम् । तस्माददृश्यं रमणस्य वर्ष्म वै व्याप्तं बृहत्कृत्य ददौ रतिस्त्रियै ॥ ३५॥ रतिर्निजं कान्तमनुत्तमं पुनः समस्तलोकस्थितिकं हृदि स्थितम् । अदृश्यरूपं प्रसमीक्ष्य रञ्जिता प्रसन्नतापूर्वकमाश्लिषत् पतिम् ॥ ३६॥ अवर्ष्मरूपो ह्यपि वर्ष्मकार्यकृत् कामो भवत्या विहितस्ततो ह्यसौ । तवाज्ञया व्याप्तिमगाच्छिवापतौ स्कन्दोऽभवच्छैलसुतासुयोगतः ॥ ३७॥ स्थूलस्य कामस्य जयस्य कर्ता शम्भुस्वरूपो भवतीति बोध्यः । सूक्ष्मस्य कामस्य जयस्य कर्ता लक्ष्मीस्वरूपो भवतीति बोध्यः ॥ ३८॥ कुवासनाऽनङ्गजयस्यकर्ता नारायणश्चोर्ध्वगतिर्हिं बोध्यः । एवं त्वया बोधितमेव सर्वेभ्यो नः परेशेश्वरि मुक्तये नः ॥ ३९॥ इति स्तुत्वा पूजयित्वा निषेदुर्हृष्टमानसाः । उत्सवं तन्निमित्तं च चक्रुः सर्वे रणाजिरे ॥ ४०॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे ११८-अध्यायान्तर्गतं देवादिभिःकृतं श्रीमहारमास्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ११८/१६-४०॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 118/16-40.. Proofread by PSA Easwaran
% Text title            : Devadibhihkritam Shri Maharama Stotram
% File name             : devAdibhiHkRRitaMshrImahAramAstotram.itx
% itxtitle              : shrImahAramAstotram (devAdibhiHkRitaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : devAdibhiHkRRitaM shrImahAramAstotram
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 118/16-40||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org