देवीवेदपादस्तवः
(शिवरहस्यान्तर्गते ईशाख्ये)
चिदम्बरेश्वरशिवमुखाम्बुजरवित्विषे ।
यस्यै जैमिनिरुद्युक्तस्तस्यै वाचे नमोनमः ॥ १॥
प्रत्यूहशान्त्यै हेरम्बं प्रत्यूहयति ईश्वरः ।
विस्मापयन् स पितरौ अस्माकमस्तु केवलः ॥ २॥
वन्दे श्रीशिवपादाब्जमद्वन्द्वानन्दसाधनम् ।
चेतसां सम्प्रदायानां एतदालम्बनं परम् ॥ ३॥
पुस्तमुक्तालसद्बाहुरस्तु मे भारती मुखे ।
नियोजयन्ती सा देवी धियो विश्वा विराजती ॥ ४॥
हृद्यैरष्टोत्तरशतपद्यैरेवं शिवैस्तथा ।
प्रह्वा वेदस्तुतौ भूयाज्जिह्वा मे मधुमत्तमा ॥ ५॥
काव्यालङ्कारसर्वस्वमाधुरीलहरीमुचा ।
वाचा परमकल्याणी(णि) मुखं हि मम शोभया(य) ॥ ६॥
मादृशां वैखरीवाचां त्वादृशीं स्तोतुमम्बिके ।
यतो बिभेति ललिता ततो नो अभयं कृधि ॥ ७॥
मदीयकर्मसु शिवे त्वदीयदयया मुहुः ।
अवधूतरूषः सन्तु अवधूता अरावयः ॥ ८॥
रवीन्दुदक्षवामोद्यत्ताटङ्कां रुचिरामति ।
महाविद्येश्वरीं वन्दे ग्रहनक्षत्रमालिनीम् ॥ ९॥
खण्डशर्करयेवाम्ब दययालोकयाशु माम् ।
चण्डिके तेन जीवामो मण्डूका उदकादिव ॥ १०॥
गङ्गाद्या अभिषेकार्थं तुङ्गान्ताः सन्निधत्त भोः ।
पापोपशान्त्यै मेमातरापोहिष्ठा मयो भुवः ॥ ११॥
हृदयस्थेयसी नित्यं सदये मम कालिके ।
भूयाद्वितर मे श्रेयः आयुषा सहवर्चसा ॥ १२॥
काल्ये त्वद्भक्तिविमुखाः कालि सन्ति यतोऽधमाः ।
अप्रमत्ताःस्म तं देशं मा प्रगाम पथो वयम् ॥ १३॥
असमञ्जससंसारादसमञ्जसमेव माम् ।
वत्सला भवती त्रातुं वत्सं गौरिव धावतु ॥ १४॥
अर्थिभ्योऽभीतिवरदे मुदे भद्रं ददासि यत् ।
लक्ष्मीस्तं भजतां पद्भ्यां लक्ष्मीमनपगामिनीम् (?) ॥ १५॥
योऽस्मान् द्वेष्टि वयं यं च द्विष्मो दुष्यति यश्च नः ।
दुर्गे शूलेन तानेतान् मम शत्रून् विनाशय ॥ १६॥
धीरैकसुलभां देवीं घोरसंसारमोचनीम् ।
अहोरात्रं च नः पायादघोरा पापकाशिनी ॥ १७॥
ब्रह्मानन्दसमुल्लासे लीलान्दोलितलोचनाम् ।
महासौभाग्यजननीं महालक्ष्मीमुपास्महे ॥ १८॥
उग्रपत्नि समग्रान्मे दुर्ग्रहानाग्रहादिकान् ।
अनुग्रहादिमान् शिक्ष सर्वग्रहनिवारिणी ॥ १९॥
आर्तिं निवार्य भद्राणि पूर्तिं स्फूर्तिं च पार्वति ।
मूर्तिं प्रदर्श्य रुचिरां कीर्तिमृद्धिं ददातु मे ॥ २०॥
अधिकारिसमिद्धं मां सन्ध्यानटनसाक्षिणी ।
वर्चस्वन्तं धराध्यक्षं आयुष्मन्तं करोतु माम् ॥ २१॥
गर्भातिदयिते दुर्गे निसर्गस्त्वं जगत्त्वयि ।
आयुस्तत्कृपया नित्यं मयि श्रीः श्रयतां यशः ॥ २२॥
वेदान् शास्त्राणि यज्ञांश्च मोदाद्भक्तिमपि त्वयि ।
प्रियं कीर्ति धृतिं दाक्ष्यं श्रियं वासय मे कुले ॥ २३॥
माता कथं विरुद्धांस्त्वं सहसे सर्वमङ्गले ।
सर्वाण्यलक्ष्मीमापत्तिं सर्वां निर्णुद मे गृहात् ॥ २४॥
राजराजेश्वरी माता धत्से त्वं धनमव्ययम् ।
दयां कुरु सुतेऽहं त्वां तामिहोपह्वये श्रियम् ॥ २५॥
मदीयहृदयाब्जस्थत्वदीयमहसा शिवे ।
जहि मे क्रोधलोभादीन् लक्ष्मीमावासयान्वहम् ॥ २६॥
पवित्रमन्त्रैः सुश्लोकै विचित्ररचनैः शिवाम् ।
वाचस्पतिरिव स्तुत्वा वाचस्पत्यमशीमहि ॥ २७॥
पुत्रदे पौत्रदे मातर्नष्टदे गजवाजिदे ।
ज्ञानदायै नमस्तुभ्यं धनदायै महाधने ॥ २८॥
तेजसे यशसे मातरोजसे महसे शिवे ।
चर्चिते गन्धपुष्पाद्यैरचेतास्त्वां हवामहे ॥ २९॥
सञ्चितागामिदुःखेभ्यः स्मरतस्त्वामपालयः ।
प्रारब्धाच्च महादेवि पुनर्नः पाहि विश्वतः ॥ ३०॥
पौण्डरीकान्तयज्ञेभ्यश्चण्डिके प्रीतये तव ।
शतानि दशरिक्थानां आसहस्राणि दद्महे ॥ ३१॥
जपात्पवित्रकैर्मन्त्रैः शिवायै पायसं धृतम् ।
बिल्वपत्रसरोजानां सहस्राणि च दद्महे ॥ ३२॥
पण्डितास्तैरलं धीराः पौण्डरीकान्तकर्मभिः ।
उपासितुं महाविद्यां असखाय आनिषीदथ ॥ ३३॥
विपक्षापक्षयक्षारिपक्षग्रहमहर्क्षजम् ।
भयशंसीक्ष कामाक्षि रक्षस्व मां पदे पदे ॥ ३४॥
प्रचण्डचण्डमुण्डादिखण्डनोद्दण्डवज्रके ।
ये मेधनापहर्तास्तांस्ते ददामि जम्भयोः ॥ ३५॥
प्रारब्धमनिवार्यं चेदीदृशे वरदाभये ।
किमर्थं तव देव्यै ते ततो मे श्रियमावह ॥ ३६॥
ब्रह्मचक्रलसद्भूपा ब्रह्मविद्याविदेवताः ।
ईडनीयास्त्रयीचूडैः षोडशी शर्म यच्छतु ॥ ३७॥
महादारिद्र्यशमनीं याभूत्पापविमोचनाम् ।
शिवां नुमस्तां कालाग्नौ शिवारुद्रस्य भेषजी ॥ ३८॥
अन्नपूर्णे दयापूर्णे त्वन्नाम परिकुर्वते(तः) ।
सन्निधत्स्व ममोदारे अन्नपाने च सर्वदा ॥ ३९॥
यदि देवि कटाक्षः स्याद्हृदि शक्रादयः सुराः ।
मुहुर्हविर्भिः सोमाद्यैरहं वो जीवनप्रदः ॥ ४०॥
यत्सान्निध्यं देवि सिद्धं असाध्यं साधयाशु मे ।
ईदृशेन महिम्ना त्वां प्रशंसन्ति प्रशस्तिभिः ॥ ४१॥
नानन्दयन्ति किं देवि सकृद्वा त्वां गिरो मम ।
भक्तिरक्ती न चेद्वेत्सि भुक्तिमुक्ती न दित्ससि ॥ ४२॥
अधमर्णत्वमेतत्ते त्वं हि वेत्थ यथातथम् ।
आक्षेपं नः समाधेहि तिष्ठन्ती पुरतो मम ॥ ४३॥
निश्चित्य व्यतिरेकं ते भूरि नाम मनामहे ।
तुभ्यं देवि यशस्कामा भक्तस्यैतन्निदर्शनम् ॥ ४४॥
जिष्णोरपि सखायोऽद्य विष्णोः कर्माणि पश्यत ।
कर्मणाभ्यर्णपूर्णा त्वं कर्णिकाकर्णिसन्मुखी ॥ ४५॥
अपर्णां वर्णये तूर्णं सुवर्णां हेममालिनीम् ।
तुङ्गस्तनीं शर्वसर्वमङ्गलामीश्वरप्रियाम् ॥ ४६॥
मङ्गलायतनां(नं)लौमि पिङ्गलां पद्ममालिनीम् ।
नन्दनोत्त्थ सुपुष्पाणि चन्दनान्यर्चितुं शिवाम् ॥ ४७॥
स्वयं सम्पाद्य पुरतः श्रियं देवीमुपह्वये ।
दयार्द्रहृदये मातः क्रियाशालिनमप्युमे ॥ ४८॥
त्वं मां भजस्व पद्माक्षि येन सौख्यं लभाम्यहम् ।
रक्ष मामम्ब ललिते यक्षराजसमर्चिते ॥ ४९॥
पूजार्चेह विराजेते प्रजया च धनेन च ।
परितः कान्ति धी श्रीभिर्गरिमाणं ययुः शिवे ॥ ५०॥
उमे तव दया दृष्ट्या सोम इन्द्र बृहस्पती ।
त्वच्चारु चरणं स्मृत्वा सच्चिदानन्दरूपिणि ॥ ५१॥
अच्युतो वाग्भवप्राप्तौ अच्युतां बहुलां प्रियाम् ।
हनुमद्वर रामाद्यैर्मनुभृद्भिर्महात्मभिः ॥ ५२॥
अर्थितासि महादेवि दीर्घायुत्वाय वर्चसे ।
गुणाढ्यपाकसरसशय्यालङ्काररीतिभिः ॥ ५३॥
शोभतां सुसुखं वाणी शोभयन्ती मुखं मम ।
दुष्टचित्तं नष्टवित्तं कष्टवृत्तमिमं जनम् ॥ ५४॥
पातुं जननि ते चित्तं यथा वारीव धावतु ।
उत्तिष्ठ देवि किं शेषे वरदाभयशोभिते ॥ ५५॥
पाहि दुर्गेऽतिदुष्टेभ्यो भयं विन्दति मामिह ।
दुग्धेति तिले घृतं तैलं मुग्धे घण्टाध्वनिं यथा ॥ ५६॥
मुदा त्वां सर्वगां देवीं सदा पश्यन्ति सूरयः ।
प्रपञ्चसृष्टेस्त्वं पूर्वं ब्रह्माणी सहिताम्बिके ॥ ५७॥
अजीजनस्त्वं धातारं शाश्वतं शिवमच्युतम् ।
स्थलीकमलसङ्काशं पादलक्ष्म तवेश्वरि ॥ ५८॥
माहिषे मस्तके भाति विद्युल्लेखेव भास्वरा ।
मूढोऽयमिति मा मंस्थास्स्मर्ताहं ताः समागताः (?) ॥ ५९॥
त्वया विना न किञ्चिञ्च दृश्यन्ते श्रूयतेऽपि वा ।
वन्दे विन्ध्याचलकुचां विन्ध्याचलनिवासिनीम् ॥ ६०॥
सन्ध्यासु पूजयसि चेद्धाता गर्भं दधातु ते ।
कुरुविन्दमणीन्द्राभमरविन्दलसन्मुखम् ॥ ६१॥
अहो तादृक् तवशिवे महो नो राय आभर ।
अखण्डवेदवाक्यार्थे अखण्डैकरसे शिवे ॥ ६२॥
अभयामद्वयां च त्वां सुभगामहमश्रवम् ।
चतुःसाधनसम्पन्न चतुरानुभवात्वियम् ॥ ६३॥
परं ब्रह्मेयमेव श्रीर्नह्यस्या अपरं च न ।
भवत्पादाम्बुजद्वन्द्वभवन्माध्वीकषट्पदी ॥ ६४॥
रुद्रभाग्याच्छचीपत्नी इन्द्रपत्नी महीयते ।
पापाधिक्याद्व्रजामस्त्वां सापायाऽऽमयवानपि ॥ ६५॥
ग्रीवातिगश्वसनवान् जीवाति शरदः शतम् ।
साष्टोत्तरशतावृत्त्याभीष्टोदयमहामनुम् ॥ ६६॥
विष्णुवज्जायते गौरि भूष्णुरात्मा फलग्रहिः ।
जपाकुसुमसङ्काशां कृपाबालमहालताम् ॥ ६७॥
आर्यां सेवे विनीतायां सूर्याभां श्रियमीश्वरीम् ।
ताम्बूलकबलैर्दिव्यैस्ताम्बूलितमुखाम्बुजान् ॥ ६८॥
शिवदालिगता यासा शिवा नश्यत्तमा भव ।
तथा प्रपद्ये त्वां मातर्यया नद्यः समुद्रागाः ॥ ६९॥
यथावृतवृतं याति यथा मासा अहर्जरम् ।
यत्रानन्दाश्च मोदाश्च मुदप्रमुद आसते ॥ ७०॥
मातस्त्वयि दयामूर्तौ तत्रमामृतं कृधि ।
जपन्तस्तव विद्यां च यजन्तस्त्वां हवाम च ॥ ७१॥
शर्वाणि दयया धीराः सर्वे साकं सरातयः ।
आनन्दरूपममृतं परं ब्रह्मैव सा शिवा ॥ ७२॥
नैव स्त्री न पुमानेष नायमेष नपुंसकः ।
जीर्णोऽप्ययं त्वद्दयया पूर्णया तूर्णमिन्द्रियैः ॥ ७३॥
आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन ।
सद्गुरोर्लब्धया ब्रह्मरूपया कश्चिदात्मवान् ॥ ७४॥
हृद्यया कृपया ते वै विद्ययाऽमृतमश्नुते ।
सर्वगा त्वमहं भृत्यः कीदृशःस्थेम मस्तकः ॥ ७५॥
यतो वाचो निवर्तन्ते अप्राप्यमनसा सह ।
ज्ञानादेव तु कैवल्यमित्यादिश्रुतिकोटिभिः ॥ ७६॥
जीवन्मुक्तस्ततो मातर्मामा ब्रह्म निराकरोत् ।
साक्षात्कृतायामम्बायां सत्यानन्दचिदात्मनि ॥ ७७॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
वर्णाश्रमोचितमतिर्वेदारण्येष्वटंश्च यः ॥ ७८॥
त्वत्प्रसादादुमे धीरश्चरन् वै मधुविन्दति ।
भूष्णुभ्यां कृष्णजिष्णुभ्यां पूज्ये पुष्णासि पार्वति ॥ ७९॥
त्वत्कृपाबलतो विष्णुरिदं विष्णुर्विचक्रमे ।
शारदाब्दमुखी पातु शारदाऽपारदाऽमला ॥ ८०॥
त्वत्प्रसादादभून्मातः सुमृकीका सरस्वती ।
पद्माक्षीं पद्मगां वन्दे पद्माक्ष्यादिभिरीडिताम् ॥ ८१॥
त्वत्प्रसादात्पद्महस्तां हस्तिनादप्रमोदिनीम् ।
गौरीकल्याणवैभोगं ऊरीचक्रुः स्त्रियोऽप्यथ ॥ ८२॥
जम्भितोग्रकिणैरङ्गैर्नदीनां वितनोषि ते ।
सहस्रादिमहास्वेदैः सहस्राणि सहस्रशः ॥ ८३॥
तत्तत्कालेष्वहल्यायै जारोऽपिखलु यज्वभिः ।
इज्यन्ते त्वत्प्रसादात्तैर्विश्वस्मादिन्द्र उत्तरः ॥ ८४॥
कन्याप्यर्जति भाग्यादिलाभाय शुभकर्मसु ।
त्वत्प्रसादातिशुद्धाङ्गी इन्द्राणीमासु नारीषु ॥ ८५॥
एक द्वित्रिचतुष्पञ्चषट्सप्ताष्टादिरूपकम् ।
त्वत्प्रसादान्महातत्वं अग्निमीळे पुरोहितम् ॥ ८६॥
गङ्गां भगीरथायाससङ्गां तुङ्गां त्वदाश्रयात् ।
क्रमेण गौरि पश्यामः श्रमेण महता पथि ॥ ८७॥
दिव्यालङ्ग्रहमात्राष्टभैरवाभयकृन्मुखाः ।
यतो देवि भवत्प्रीत्यै अतो देवा अवन्तुनः ॥ ८८॥
सुगन्ध चर्चितां कुन्दमन्दारकुसुमोज्ज्वलाम् ।
स्तुवे दुकूलवसनां सुवर्णरजतस्रजाम् ॥ ८९॥
गाङ्गेयानि च रत्नानि गाङ्गेयानि सृजानि ते । (?)
शतसाहस्रदशकान् शतनिष्कान् सहस्रशः ॥ ९०॥
अस्य द्विपित्साभव रुक्चिचित्सा
सुपूर्णलिप्सास्तु शिवा सुवत्सा ।
श्रीकण्ठलिप्सासदभीष्टलिप्सा
शालान्तरे गौरिव नष्टवत्सा ॥ ९१॥
नमो मखेभ्यो मघवन्मखेभ्यो
मुरवाग्रदृग्भ्यो दृगनद्वयेभ्यः ।
दया युतेभ्यः श्रुतिशास्त्रदृग्भ्यो
नमो युवभ्यो नम अशिनेभ्यः ॥ ९२॥
महामाये सृजसि हिरण्यगर्भ-
प्रभृत्येतद्भुवनमिवोर्णनाभिः ।
स्वतस्तन्तून्भगवति देवि पश्चा-
दजीर्णात्वं जरयसि सर्वमेतत् ॥ ९३॥
शिवं सुरेभ्यः कृपयाम्ब तेऽद्य
शिवे मुनिभ्यः शिवमर्भकेभ्यः ।
शिवं द्विजेभ्यः शिवमेव गोभ्यः
शिवं प्रजायै शिवमस्तु मह्यम् ॥ ९४॥
वेदान्ताद्यैः परितोघोषयित्वा
शक्त्याकारा प्रतिजातं महेशि ।
सर्वत्रैव रमसेऽस्मिन् प्रपञ्चे
पूर्णा पश्चात् उत पूर्णा पुरस्तात् ॥ ९५॥
नामानि शम्भुं नतकल्पपादं
परमा पतिस्तुत्य पदाम्बुजद्वयम् ।
कुमारविघ्नेशकुतूहलास्पदं
उमासहायं परमेश्वरं प्रभुम् ॥ ९६॥
वर्षार्थनियमादस्य हर्षान्प्रजपतोऽभवत् ।
वेधोऽङ्गना प्रयच्छन्ति(न्ती) मेधां देवी सरस्वती ॥ ९७॥
घोरवृश्चिकदुःस्वप्न चोरसर्पादिशान्तये ।
गोत्रात्मजास्तुतिं पुण्यां रात्रौ रात्रौ सदा पठेत् ॥ ९८॥
स्तुत्या पूजयतां भक्त्याऽमर्त्यां श्रेयः परम्पराम् ।
शर्वेण सा ददात्यम्बा सर्वमायुरुपासताम् ॥ ९९॥
सहस्रकृत्वः पुत्रार्थी स घस्रे प्रजपेद्यदि ।
वशगस्तस्य तनयो दशमे मासि जायते ॥ १००॥
शान्त्या मुमुक्षयाथर्वयजुरृक्सामशालिनाम् ।
पाहि मुक्तिं शिवे देहि सा हि श्रीरमृता सताम् ॥ १०१॥
विश्रुतैः श्रुतिपदैः कमनीयं
भव्यमव्ययमिदं भगवत्याः ।
(दिव्यचित्र) यः पठेत्प्रिदिनं भजनीयं
तस्य नायुषि भवेत्किल सत्यम् ॥ १०२॥
॥ इति श्रीशिवरहस्यान्तर्गते देवीवेदपादस्तवः सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । द्वादशांशः । अध्यायः २५ देवीवेदपादस्तवः । १-१०२ ॥
- .. shrIshivarahasyam . dvAdashAMshaH . adhyAyaH 25 devIvedapAdastavaH . 1-102 ..
Proofread by Ruma Dewan