देवैः कृतं ८ दुर्गास्तोत्रम् २१

देवैः कृतं ८ दुर्गास्तोत्रम् २१

देवाः कैलासमासाद्य सुस्थाने प्रणिपद्य च । सस्मरुश्च प्रणेमुश्च तुष्टुवुश्च तदा सतीम् ॥ ३॥ देव्युभे ओमिति त्वं वै गायत्री परमेश्वरी । पूजिता ब्रह्ममुनिभिरूर्जिता राजभिर्नृपैः ॥ ४॥ त्वं भूरितिविड्भिः पृथ्वी शूद्रैः शिवेति पूजिता । क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामपि ॥ ५॥ त्वं महोपायसन्दोहा नीतिर्नयविसर्पिणाम् । परिचितिस्त्वमर्थानां त्वमीहा प्राणिहृच्छ्रया ॥ ६॥ त्वं मुक्तिः सर्वभूतानां त्वं मतिः सर्वदेहिनाम् । ईतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृदि देहिनाम् ॥ ७॥ त्वं कीर्तिः सत्यभूतानां त्वं शान्तिर्दुष्टकर्मणाम् । त्वं भ्रान्तिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम् ॥ ८॥ त्वं समुद्रमहावेला त्वं च लीला विलासिनाम् । सम्भूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनाम् ॥ ९॥ त्वं कालरात्रिर्निःशेषभुवनावलिवासिनी । प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी ॥ १०॥ रक्षिका त्वमनाथानां दर्शनं देहि चाम्बिके । अनेकैर्विविधैर्लोके रूपैर्देवि त्वमर्चिता ॥ ११॥ सदा शिवप्रिये दुर्गे त्वां नमामो महेश्वरि । श्रीशक्तिं पावनीं पुष्टिं महदव्यक्तरूपिणीम् ॥ १२॥ वयं नमामहे भक्त्या शुद्धां ब्रह्मपरायणाम् । अन्तर्विद्यासुविद्याभ्यां सुप्रीतां त्वां नमामहे ॥ १३॥ त्वं दीधितिः सूर्यगता कौमुदी चन्द्रसङ्गता । आप्याययसि ब्रह्मादितृणान्तं त्वां नमामहे ॥ १४॥ गायत्री त्वं वेदमाता त्वं सावित्री सरस्वती । त्वं वार्ता सर्वजगतां त्वं त्रयी धर्मरूपिणी ॥ १५॥ त्वं निद्रा सर्वभूतेषु क्षुधा तृप्तिस्त्वमेव ह । त्वं लक्ष्मीः पुण्यकर्तॄणामलक्ष्मीः पापिनां तथा ॥ १६॥ त्वं शान्तिः सर्वजगतां त्वं धात्री प्राणपोषिणी । गीतिस्त्वं सामवेदस्य ग्रन्थिस्त्वं यजुषां हुतिः ॥ १७॥ ऋग्वेदस्य तथा मात्राऽथर्वणस्य परा गतिः । समस्तगीर्वाणशक्तिर्दुःखनिस्तारकारिणी ॥ १८॥ शिवे रुद्राणि सन्निद्रे चण्डे कात्यायनि सति । कौशिकि चण्डिके कालि नारायणि नमोऽस्तु ते ॥ १९॥ तपःप्रिये सदादृश्ये पार्वति ते नमोनमः । प्रसन्ना भव देवेशि दर्शनं देहि सुव्रते ॥ २०॥ मेनायां लभ पुत्रीत्वं महादेवि नमोऽस्तु ते । इत्थं देवैः स्तुता देवी दुर्गा दुर्गतिनाशिनी ॥ २१॥ आविर्बभूव देवानां पुरतो जगदम्बिका । बभूवाऽऽनन्दसन्दोहः सर्वेषां त्रिदिवौकसाम् ॥ २२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १८०-अध्यायान्तर्गतं देवैः कृतं दुर्गास्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १८०/३-२२॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 180/3-22.. Proofread by PSA Easwaran
% Text title            : Devaih Kritam 08 Durga Stotram
% File name             : devaiHkRRitaM08durgAstotram21.itx
% itxtitle              : durgAstotram 21 (devaiH kRitaM 08 lakShmInArAyaNIyasaMhitAntargatam devAH kailAsamAsAdya susthAne praNipadya cha)
% engtitle              : devaiH kRRitaM 08 durgAstotram 21
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 180/3-22||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : December 25, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org