देवताभिःकृतं परमेश्वरीस्तोत्रम्
देवता इन्द्रप्रस्थे वै विशाले वनविस्तरे ।
कुण्डं सुयोग्यविस्तारं कृत्वा वह्निं निधाय च ॥ ६७॥
कृत्वा दृढां प्रतिज्ञां वै महालक्ष्मीं प्रपूज्य च ।
परितो हवनं चक्रुः प्रीत्यर्थं तु श्रिया हरेः ॥ ६८॥
ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् ।
इत्येवं हवनं चक्रुस्तावत्प्रादुर्बभूव ह ॥ ६९॥
चक्राकारं महत्तेजस्तन्मध्ये पारमेश्वरी ।
जगन्माता जीवदात्री नारायणी परेश्वरी ॥ ७०॥
व्यूहतेजोमयी ब्रह्मानन्दिनी हरिसुन्दरी ।
पाशाङ्कुशेक्षुकोदण्डपद्ममाला लसत्करा ॥ ७१॥
दृष्ट्वा तां मुमुहुर्देवाः प्रणेमुर्विगतज्वराः ।
तुष्टुवुः श्रीमहालक्ष्मीं ललितां वैष्णवीं प्रसूम् ॥ ७२॥
जय लक्ष्मि जगन्मातर्जय लक्ष्मि परात्परे ।
जय कल्याणनिलये जय सर्वकलात्मिके ॥ ७३॥
जय ब्राह्मि महालक्ष्मि ब्रह्मात्मिके परात्मिके ।
जय नारायणि शान्ते जय श्रीललिते रमे ॥ ७४॥
जय श्रीविजये देवीश्वरि श्रीदे जयर्द्धिदे ।
नमः सहस्रशीर्षायै सहस्राननलोचने ॥ ७५॥
नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे लक्ष्मि महतोऽपि महीयसि ॥ ७६॥
अतलं ते स्मृतौ पादौ वितलं जानुनी तव ।
रसातलं कटिस्ते च कुक्षिस्ते पृथिवी मता ॥ ७७॥
हृदयं भुवः स्वस्तेऽस्तु मुखं सत्यं शिरो मतम् ।
दृशश्चन्द्रार्कदहना दिशः कर्णा भुजाः सुराः ॥ ७८॥
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयो मताः ।
क्रीडा ते लोकरचना सखा ते परमेश्वरः ॥ ७९॥
आहारस्ते सदाऽऽनन्दो वासस्ते हृदये हरेः ।
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ॥ ८०॥
शिरोरुहा घनास्ते वै तारकाः कुसुमानि ते ।
धर्माद्या बाहवस्ते च कालाद्या हेतयस्तव ॥ ८१॥
यमाश्च नियमाश्चापि करपादनखास्तव ।
स्तनौ स्वाहास्वधाकारौ सर्वजीवनदुग्धदौ ॥ ८२॥
प्राणायामस्तव श्वासो रसना ते सरस्वती ।
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ॥ ८३॥
आदौ दया धर्मपत्नी ससर्ज निखिलाः प्रजाः ।
हृत्स्था त्वं व्यापिनी लक्ष्मीर्मोहिनी त्वं तथा परा ॥ ८४॥
इदानीं दृश्यसे ब्राह्मी नारायणी प्रियङ्करी ।
नमस्तस्यै महालक्ष्म्यै गजमुख्यै नमो नमः ॥ ८५॥
सर्वशक्त्यै सर्वधात्र्यै महालक्ष्म्यै नमो नमः ।
या ससर्ज विराजं च ततोऽजं विष्णुमीश्वरम् ॥ ८६॥
रुद्रं तथा सुराग्र्याँश्च तस्यै लक्ष्म्यै नमो नमः ।
त्रिगुणायै निर्गुणायै हरिण्यै ते नमो नमः ॥ ८७॥
यन्त्रतन्त्रात्मिकायै ते जगन्मात्रे नमो नमः ।
वाग्विभूत्यै गुरुतन्व्यै महालक्ष्म्यै नमो नमः ॥ ८८॥
कम्भरायै सर्वविद्याभरायै ते नमो नमः ।
जयाललितापाञ्चालीरमातन्वै नमो नमः ॥ ८९॥
पद्मावतीरमाहंसीसुगुणाऽऽज्ञाश्रियै नमः ।
नमःस्तुता प्रसन्नैवं छन्दयामास सद्वरैः ॥ ९०॥
देवाः प्राहुश्च तुष्टा चेद्भण्डासुरं विनाशय ।
दुर्धरं जीवितं सौख्यं देहि ते शरणार्थिनः ॥ ९१॥
महालक्ष्मीः समुवाच मुदिताः सन्तु निर्भयाः ।
भण्डासुरं नाशयिष्ये ललिताऽहं महासती ॥ ९२॥
स्तावका मे भविष्यन्ति श्रीयशोधर्मसम्भृताः ।
विद्याविनयसम्पन्ना निरोगा दीर्घजीविनः ॥ ९३॥
पुत्रमित्रकलत्राढ्या भविष्यन्ति सुसम्पदः ।
इतिलब्धवरा देवाः सत्रं चक्रुः प्रपूर्णकम् ॥ ९४॥
अथ सा ललिता लक्ष्मीर्वरमालां करोत्थिताम् ।
अनादिश्रीमहाविष्णुस्वरूपाय परात्मने ॥ ९५॥
तत्रैव पश्यतां सर्वसुराणां चार्पयद्गले ।
देवदुन्दुभयो नेदुर्जयशब्दास्तदाऽभवन् ॥ ९६॥
गीतयश्चाऽभवंस्तत्राऽप्सरसां सुरयोषिताम् ।
ननृतुश्चाप्सरसश्च जगुर्गन्धर्वसत्तमाः ॥ ९७॥
ऋषयः स्तवनं चक्रुराशीर्वादपरायणाः ।
साधवो नमनं चक्रुः सेवां चक्रुश्च पार्षदाः ॥ ९८॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
११५-अध्यायान्तर्गतं देवताभिःकृतं परमेश्वरीस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ११५/६७-९८॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 115/67-98..
Proofread by PSA Easwaran