देवतागणैः कृतं देवकीस्तोत्रम्
अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
विभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ५-२-६॥
देवतागणा ऊचुः ।
प्रकृतिस्त्वपरा सुक्ष्मा ब्रह्मगर्भाभवः पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ ५-२-७॥
सूर्यस्वरूपगर्भासि सृष्टिभूता सनातनी ।
बीजभूता तु सर्वस्य यज्ञभूताभवस्त्रयी ॥ ५-२-८॥
फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ५-२-९॥
ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं प्रश्रयोद्वहा ॥ ५-२-१०॥
कामगर्भा तथेच्छा त्वं तुष्टिः सन्तोषगर्भिणी ।
मेधा च बोधगर्भासि धैर्यगर्भोद्वहा धृतिः ॥ ५-२-११॥
ग्रहर्क्षतारकागर्भा द्यौरस्याखिलहैतुकी ।
एता विभूतयो देवि तथान्याश्व सहस्रशः ॥ ५-२-१२॥
तथासङ्ख्या जगद्धात्रि साम्प्रतं जठरे तव ।
समुद्राद्रिद्वीपवनपत्तनभूषणा ॥ ५-२-१३॥
ग्राम-खर्वट-खैटाढ्या समस्ता पृथिवी शुभे ।
समस्तवह्नयोऽम्भांसि सकलाश्व समीरणाः ॥ ५-२-१४॥
ग्रहर्क्षतारकाचित्रं विमानशतसङ्कुलम् ।
अवकाशमशेषस्य यद्ददातिनभःस्थलम् ॥ ५-२-१५॥
भूर्लोकश्व भुवर्लोकः स्वर्लोकोऽथ महर्ज्जनः ।
तपश्व ब्रह्मलोकश्व ब्रह्माण्डमखिलं शुभे ॥ ५-२-१६॥
तदन्तरे स्थिता देवा दैत्यगन्धर्वचारणाः ।
महोरगास्तथ यक्षा राक्षसाः प्रेतगुह्यकाः ॥ ५-२-१७॥
मनुष्याः पशवश्चान्ये ये च जीवा यशस्विनि ।
तैरन्तःस्थैरनन्तोऽसौ सर्वेशः सर्वभावनः ॥ ५-२-१८॥
रूपकर्मस्वरूपाणि न परिच्छेदगोचरे ।
यस्याखिलप्रमाणानि स विष्णुर्गर्भगस्तव ॥ ५-२-१९॥
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरम्बरे ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥ ५-२-२०॥
प्रसीद देवि सर्वस्य जगतः शं शुभे कुरु ।
प्रीत्या त्वं धारयेशानं धृतं येनाखिलं जगत् ॥ ५-२-२१॥
इति विष्णुपुराणे पञ्चमभागे द्वितीयाध्यायान्तर्गतं
देवतागणैः कृतं देवकीस्तोत्रं समाप्तम् ।
विष्णुपुराण । अध्याय ५/२/७-२१॥
viShNupurANa . adhyAya 5/2/7-21..
Proofread by PSA Easwaran