श्रीधर्मसंवर्धनीस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ धर्माम्बायै च विद्महे । भवमोक्त्र्यै च धीमहि ।
तन्नो देवी प्रचोदयात् ॥
धर्मसंवर्धनी माता क्षेत्रपञ्चनदालया ।
त्यागब्रह्मसुगेया च बहुरत्नकृतिस्फुरा ॥ १॥
धर्माम्बिका पराशक्तिश्चराचरमयी जनी ।
ध्यानतत्परसान्निध्या नारायणी नमस्कृता ॥ २॥
तडिल्लतातनुष्कान्तिस्तेजोमयशरीरिणी ।
तारागणस्फुरद्दृष्टिर्धारिणी भवतारिणी ॥ ३॥
पुराणी पूर्णसज्ज्ञाना भ्रूमध्यैक्यविलासिनी ।
गुरुकीर्तनसम्पूर्णा रागलयसुलासिनी ॥ ४॥
करस्थितशुकालापरामनामप्रमोदिनी ।
श्रीत्यागब्रह्मसद्भक्तिगानसन्नाममोदिनी ॥ ५॥
रामनामप्रिया माता श्रीरामसोदरी सती ।
त्यागराजमधुस्वादुभजनानन्दकामिनी ॥ ६॥
घनसुस्वरसङ्गीता सुस्वरालयवासिनी ।
सुस्वराजितसारङ्गा सङ्गीतवरदायिनी ॥ ७॥
वीणासङ्गीतसाराध्या वीणाप्रक्वणनादिनी ।
जितवीणास्वरस्वादुः सङ्गीतस्वरसालया ॥ ८॥
कार्तस्वरस्वरामिष्टा कार्तस्वरसुविग्रहा ।
कञ्जलोचनवैशाल्या कर्मकर्दममोचनी ॥ ९॥
राजराजविराजाभा राजीवालोकनच्छविः ।
स्मेरनेत्रकृपावर्षा सत्त्वसम्मृदुभाषिणी ॥ १०॥
नगजा पञ्चनद्याभा अघजालविमोचनी ।
भक्तिवैराग्यभिक्षादा आयुरारोग्यदायिनी ॥ ११॥
पञ्चापगेशजायाम्बा प्रणतार्तिहरप्रिया ।
कावेरीतीरसानन्दा क्षेत्रपावित्र्यवर्धनी ॥ १२॥
हस्ताभयकरी माता इन्दुशीतललोचनी ।
पदपद्मनतागोप्त्री भवसङ्ग्राहमोचनी ॥ १३॥
दमादिशमसंवर्धा दुरितक्षयकारिणी ।
कर्मबन्धनविच्छेत्री शरणागतपावनी ॥ १४॥
मनोजारिप्रिया गौरी मनोवाक्कर्मपूजिता ।
मानसालयपुष्पार्चा मानसालयभासुरा ॥ १५॥
चिन्तनाहरसान्निध्या प्रशान्तमनआलया ।
मनआलयनिध्याता निष्कामस्थितिभावना ॥ १६॥
भावनापूरनैर्मल्या निष्कामपूजिता वरा ।
नैष्कर्म्यसिद्धिसम्पादा मुक्तिदायपदाम्बुजा ॥ १७॥
ऐहिकामुष्मिकाधात्री पुनर्जन्मनिवारिणी ।
ज्ञानमोक्षफलादात्री ज्ञानसद्गुरुरूपिणी ॥ १८॥
त्यागराजगुरुस्वामिशिष्यापुष्पास्तवार्चनम् ।
बालालापनिभागीतं बालाम्बिकापदार्पणम् ॥ १९॥
अम्बास्तोत्रं गुरुप्रेर्यं अम्बापादसमर्पितम् ।
अम्बानुग्रहकारं च सर्वाघनाशनं शुभम् ॥ २०॥
अम्बारामं गुरुप्रेष्ठं पञ्चापगेशमोदितम् ।
गायेत्सुरागसम्पूर्णं पूर्णसौमङ्गलावहम् ॥ २१॥
अनुरागनुते देवि विरागत्वं प्रदेहि मे ।
संसाराद्बहुतप्ताहं भवजालान्विमोचय ॥ २२॥
भवप्रिये प्रियालोके मे प्रसीद मदम्बिके ।
रागतालवरं देहि देहि मे तव सुस्वरम् ॥ २३॥
कुरु सद्गानसौभाग्यं देहि मे तव दर्शनम् ।
कुरु स्थिरसुमाङ्गल्यं देहि मे तव सात्मकम् ॥ २४॥
मङ्गलं शिवजायायै क्षेत्रेश्वर्यै सुमङ्गलम् ।
मङ्गलं गुरुगेयायै मोक्षदायै सुमङ्गलम् ॥ २५॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीधर्मसंवर्धनीस्तोत्रम् गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan