श्रीदुर्गाष्टकम्
दुर्गा चण्डि शिवा भवानि गिरिजा कात्यायनी शूलिनी
काली भद्रकपालिनी त्रिनयना विश्वेश्वरी शाङ्करी ।
अम्बा शैलसुता सुरार्चितपदा दैत्येन्द्रदर्पापहा
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ १॥
दुर्गा शुम्भनिषूदिनी मधुमथिनी धूम्रासुरध्वंसिनी
चण्डी रक्तविलोचनी रिपुकुलप्रध्वंसिनी भीषणा ।
सिंहारूढविराजिता वरकरा भक्तार्तिसंहारिणी
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ २॥
दुर्गा वेदमयी परा श्रुतिशिरोवन्द्या सनातन्युमे
गायत्री प्रणवात्मिका परमयी विद्येश्वरी निर्मला ।
वाणी श्रीरपि मेधिनी धृतिमती श्रद्धा दया शाश्वती
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ३॥
दुर्गा ब्रह्ममयी हरिप्रणयिनी रुद्रप्रिया सर्वदा
लक्ष्मीः पद्मविभूषिता कमलजा गौरी च नारायणी ।
राधा कृष्णमनोहरा रमणिका सीता च रामप्रिया
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ४॥
दुर्गा शक्तिमयी परात्परतराऽनन्तप्रभा निर्गुणा
माया योगनिदा पराशिवतनुर्बिन्दुस्वरूपाम्बिका ।
नादान्तस्थितचिन्मयी हृदयगा सर्वेश्वरी सर्वदा
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ५॥
दुर्गा शूलगदासिचक्रधनुषां पाशाङ्कुशैर्भासुरा
खड्गं खेटकशङ्खपद्मममलं बिभ्राणभूषोज्ज्वला ।
भक्ताभीष्टफलप्रदा विजयदा सौभाग्यसम्पत्करी
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ६॥
दुर्गा भूतपिशाचदानवभयध्वान्तप्रदीपोपमा
व्याधिक्षामविनाशिनी ग्रहभयच्छेत्त्री कृपामन्दिरा ।
मृत्युद्वारनिवारिणी शरणदा संसारतारिण्युमे
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ७॥
दुर्गा सृष्टिविलासकारिणि परा संहारलीलामयी
पालन्येकपरायणा त्रिजगतां मातेति विश्रूयसे ।
आद्यन्तस्थितिवर्जिता परशिवा पूर्णामृतानन्दिनी
चिद्रूपा परदेवता भगवती श्रीदुर्गिका पाहि माम् ॥ ८॥
दुर्गाष्टकमिदं पुण्यं यः पठेद्भक्तिसंयुतः ।
तस्य दुर्गा प्रसन्ना स्यात् सर्वाभीष्टफलप्रदा ॥ ९॥
प्रातःकाले शुचिर्भूत्वा मध्याह्ने वा निशामुखे ।
यः पठेत्सततं भक्त्या सर्वसौख्यमवाप्नुयात् ॥ १०॥
दारिद्र्यं दुःखदौर्भाग्यं रोगशोकभयं तथा ।
क्षणेन नाशमायाति दुर्गानामानुकीर्तनात् ॥ ११॥
अपुत्रः पुत्रमाप्नोति निर्धनो धनवान्भवेत् ।
विद्यार्थी लभते विद्यां जयार्थी विजयी भवेत् ॥ १२॥
राजद्वारे सभामध्ये सङ्ग्रामे शत्रुसङ्कटे ।
अरण्ये सागरे दुर्गे दुर्गा रक्षति सर्वदा ॥ १३॥
गद्यपद्यप्रबन्धेषु वाग्वैभवमवाप्नुयात् ।
सभा मध्ये महाप्राज्ञो वादिनां विजयी भवेत् ॥ १४॥
भूतप्रेतपिशाचाश्च डाकिन्यो योगिनीगणाः ।
दूरादेव पलायन्ते स्तोत्रस्यास्य प्रभावतः ॥ १५॥
अष्टम्यां नवमीकाले चतुर्दश्यां विशेषतः ।
यः पठेद्भावसंयुक्तः सिद्धिमाप्नोति निश्चितम् ॥ १६॥
दुर्गाक्षेत्रे नदीतीरे पर्वते वा शिवालये ।
पठनादस्य स्तवस्याशु देवी साक्षात्प्रसीदति ॥ १७॥
अन्ते दुर्गापुरं दिव्यं सिंहासनसमन्वितम् ।
प्राप्य देव्याः समीपेऽसौ मोदते नात्र संशयः ॥ १८॥
इति श्रीदुर्गाष्टकं सम्पूर्णम् ॥