दुर्गाचरणस्मरणम्
भातु भव्या भवानीयं भावनाभाविता शुभा ।
भवाङ्गसङ्गतो यस्या भूतयो भान्ति भूतले ॥ १॥
भास्वन्ती भुवनाभिरामभरिताभोगप्रभाभासुरा
भूत्येकप्रभुतामुपेत्य भुवने या भासते भर्गगा ।
भूयोऽमी भुवनेश्वराः सुरगणा यत्पादपाथोद्भवैः
पूर्णैः पूतपरा भवन्ति गलिताऽज्ञानान्धकारैर्बुधाः ॥ २॥
वीणावादनतत्पराऽर्थलहरीमुद्वेल्लयन्ती सती
सा माता जगतां जयत्यतिशयज्ञानप्रदा भारती ।
यस्याः--पादनखप्रभामनुसरँश्चन्द्रोऽम्बरे चञ्चते
रागेणापगतादरो जलजनिः पुष्पाञ्जलिर्याचते ॥ ३॥
आस्तां समस्तवरवस्तुवितानवृन्दे
मातुश्चराचरनमस्कृतपादरेणुः ।
सैका सुरासुरविवन्दिशिरोऽर्चिता स्याद्
भर्गोत्तमाङ्गमिलिता भजतां विभूत्यै ॥ ४॥
भास्वत्करैः समुचितं विकचं करोति
शम्भोर्विलोचनगतेन च सङ्गितं तत् ।
पादाम्बुजं विकसितं न मृषोक्तिरेषा
वैधो विधिर्न विबुधैरपि वाधनीयः ॥ ५॥
उत्तमाङ्गसुभगा सुरापगा मौलिलब्धशरणा दिवश्च्चुता ।
साहसैकरसिका शिवा हि सा पद्गताऽश्रायनतिर्नचाश्रिते ॥ ६॥
सुधान्धःपतिस्ते सुधासुन्दरं किं
नमत्यङ्घ्रियुग्मं यतो भाग्यवान्सः ।
धरायां धियः साधुतैषां त्वदर्थे
धराया धवत्वं कियत्तद्यशोऽदः ॥ ७॥
पार्वतीपतिरयं वृषध्वजः किं श्रुतेरपि पतिर्न गीयते ।
तेन किं सुरपतिप्रपूजितः सेव्यसेवकमतिर्न चिन्त्यते ॥ ८॥
जटा सा धुता देवनद्या जलेन
न पूतेति तेनानतेनापि मूर्ध्ना ।
उमापादपद्मप्रसूतैः परागैः
प्रयुक्तः प्रणामः शिवस्याऽस्तु भूत्यै ॥ ९॥
नमामः प्रयामः पदद्वन्द्वचन्द्रं
चमत्कारचञ्चच्चरित्रं च शृण्मः ।
भजामोर्चयामः श्रवः सौम्यवर्ण-
मुमे गौरि दुर्गे शिवेऽम्बे भवानि ॥ १०॥ (शिवेऽम्बे - अम्ब इ, ईकारो लक्ष्मीस्तत्सम्बुद्धौ)
इति दुर्गाचरणस्मरणं सम्पूर्णम् ।
रचयिता - श्रीगिरिजादत्तपाठकः काव्यतीर्थ आयुर्वेदाचार्यः ।
प्रधानाध्यापकः श्रीकालिकेश्वरायुर्वेदविद्यालयस्य । (सं. १९९५, इ.स.१९३८)
Encoded and proofread by Anuj Tiwari