दुर्गास्तोत्रम् १९
ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् ।
नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ॥ ९॥
सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् ।
सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम् ॥ १०॥
सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् ।
महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम् ॥ ११॥
कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ।
कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ॥ १२॥
तप्तकाञ्चनवर्णाभां कोटिसूर्यसमप्रभाम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥ १३॥
दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् ।
त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ॥ १४॥
त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम् ।
बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ॥ १५॥
वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ॥ १६॥
नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् ।
अमूल्यरत्नं बहुलं बिभ्रतीं श्रवणोपरि ॥ १७॥
मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिसुशोभिताम् ।
पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमङ्गलाम् ॥ १८॥
चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् ।
रत्नकेयूरवलयरत्नमञ्जीररञ्जिताम् ॥ १९॥
रत्नकङ्कणभूषाढ्यां रत्नपाशाङ्कशोभिताम् ।
रत्नाङ्गुलीयनिकरैः कराङ्गुलिचयोज्ज्वलाम् ॥ २०॥
पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम् ।
वह्निशुद्धांशुकाधानां गन्धचन्दनचर्चिताम् ॥ २१॥
बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम् ।
सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ॥ २२॥
अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु ।
विधातुश्च विधात्रीं च सर्वधात्रीं च शङ्करीम् ॥ २३॥
शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् ।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ २४॥
सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम् ।
शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ॥ २५॥
चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् ।
कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ॥ २६॥
रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम् ।
सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ॥ २७॥
संहारकाले संहर्त्तुः परां संहाररूपिणीम् ।
निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ॥ २८॥
पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा ।
मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ॥ २९॥
सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् ।
नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ॥ ३०॥
वराहशक्तिं वाराहे हिरण्याक्षवधे तथा ।
परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ॥ ३१॥
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः ।
पुनर्ध्यात्वा चैव भक्त्या कुर्यादावाहनं ततः ॥ ३२॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे
चतुष्षष्टितमाध्यायान्तर्गतं दुर्गास्तोत्रं समाप्तम् ।
ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ६४/९-३१॥
brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 64/9-31..
Proofread by PSA Easwaran