दुर्वासाकृतं ताम्रपर्णीस्तोत्रम्
दुर्वासा उवाच ।
मलयाचल सम्भूते मलयानिलसोदरि ।
मरुद्वृधे(?)महाभागे मङ्गलानि प्रयच्छ मे ॥ ६०॥
नारायणि शिवे गङ्गे गौरीदेहसमुद्भवे ।
सर्वपापहरे मातस्तुभ्यं नित्यं नमो नमः ॥ ६१॥
महापापपरिप्लुष्टं देहं मम तवाम्भसा ।
क्षालयामि जगन्मातर्मह्यं नित्यं प्रसीद मे ॥ ६२॥
इति सूक्तत्रयं जप्त्वा स्नात्वा तत्तीर्थवारिणा ।
उन्ममज्ज जलात्तस्मात् ध्यात्वा मनसि देवताम् ॥ ६३॥
तत्प्रभावादाविरभूत्पुरतोऽस्य महामुनेः ।
बालातपारुणा तन्वी तपनीयविभूषणा ॥ ६४॥
इति ताम्रपर्णीमाहात्म्ये ४२-अध्यायान्तर्गतं
दुर्वासाकृतं ताम्रपर्णीस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ४२/६०-६४॥
tAmraparNImAhAtmya . adhyAya 42/60-64..
Proofread by PSA Easwaran