गायत्रीस्तोत्रम् २
नारद उवाच ।
भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्या कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥
श्रीनारायण उवाच ।
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥
त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४॥
हंसस्था गरुडारूढा तथा वृषभवाहिनी ॥
ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥ ५॥
यजुर्वेदं पठन्ती च अन्तरिक्षे विराजते ।
सा सामगापि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ६॥
रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ७॥
सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ८॥
आनन्दजननी दुर्गा दशधा परिपठ्यते ।
वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ९॥
गरिष्ठा च वराहा च वरारोहा च सप्तमी ।
नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥ १०॥
भागीरथी मत्यर्लोके पाताले भोगवत्ययि ।
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ ११॥
भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ १२॥
महर्लोके महासिद्धिर्जनलोकेऽजनेत्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १३॥
कमला विष्णुलोके च गायत्री ब्रह्मलोकदा ।
रुद्रलोके स्थिता गौरी हरार्धांगनिवासिनी ॥ १४॥
अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १५॥
ततः परा पराशक्तिः परमा त्वं हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥ १६॥
गङ्गा च यमुना चैव विपाशा च सरस्वती ।
शरयुर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १७॥
गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिका चन्द्रभागा च वितस्ता च सरस्वती ॥ १८॥
गण्डकी तपिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ॥ १९॥
गान्धारी हस्तजिह्वा च पूषाऽपूषा तथैव च ।
अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥ २०॥
नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २१॥
तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी ॥
मूले तु कुण्डलीशक्तिव्यापिनी केशमूलगा ॥ २२॥
शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
किमन्यद्बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥ २३॥
तत्सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तुते ।
इतीदं कीर्तिदं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥ २४॥
महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥ २५॥
अपुत्रः प्राप्नुयात्पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २६॥
भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २७॥
यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् ।
लभते नात्र सन्देहः सत्यं सत्यं च नारद ॥ २८॥
शृणुयाद्योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते ।
पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥ २९॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां
द्वादशस्कन्धे श्रीगायत्रीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ ५॥
Proofread by Nat Natarajan, NA