गणेशकृतं श्रीराधास्तोत्रम् ९

गणेशकृतं श्रीराधास्तोत्रम् ९

गणेश उवाच । तव पूजा जगन्मातर्लोकशिक्षाकरी शुभे । ब्रह्मस्वरूपा भवती कृष्णवक्षःस्थलस्थिता ॥ ३॥ यत्पादपद्ममतुलं ध्यायन्ते ते सुदुर्लभम् । सुरा ब्रह्मेशशेषाद्या मुनीन्द्राः सनकादयः ॥ ४॥ जीवन्मुक्ताश्च भक्ताश्च सिद्धेन्द्राः कपिलादयः । तस्य प्राणाधिदेवी त्वं प्रिया प्राणाधिका परा ॥ ५॥ वामाङ्गनिर्मिता राधा दक्षिणाङ्गश्च माधवः । महालक्ष्मीर्जगन्माता तव वामाङ्गनिर्मिता ॥ ६॥ वसोः सर्वनिवासस्य प्रसूस्त्वं परमेश्वरी । वेदानां जगतामेव मूल्प्रकृतिरीश्वरी ॥ ७॥ सर्वाः प्राकृतिका मातः सृष्ट्यां च त्वद्विभूतयः । विश्वानि कार्यरूपाणि त्वं च कारणरूपिणी ॥ ८॥ प्रलये ब्रह्मणः पाते तन्निमेषो हरेरपि । आदौ राधां समुच्चार्य पश्चात्कृष्णं परात्परम् ॥ ९॥ स एव पण्डितो योगी गोलोकं याति लीलया । व्यतिक्रमे महापापी ब्रह्महत्यां लभेद्ध्रुवम् ॥ १०॥ जगतां भवती माता परमात्मा पिता हरिः । पितुरेव गुरुर्माता पूज्या वन्द्या परात्परा ॥ ११॥ भजते देवमन्यं वा कृष्णं वा सर्वकारणम् । पुण्यक्षेत्रे महामूढो यदि निन्दति राधिकाम् ॥ १२॥ वंशहानिर्भवेत्तस्य दुःखशोकमिहैव च । पच्यते निरये घोरे यावच्चन्द्रदिवाकरौ ॥ १३॥ गुरुश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः । स च मन्त्रश्च तत्तन्त्रं भक्तिः स्याद्ध्रुवयोर्यतः ॥ १४॥ निषेव्य मन्त्रं देवानां जीवा जन्मनि जन्मनि । भक्ता भवन्ति दुर्गायाः पादपद्मे सुदुर्लभे ॥ १५॥ निषेव्य मन्त्रे शम्भोश्च जगतां कारणस्य च । तदा प्राप्नोति युवयोः पादपद्मं सुदुर्लभम् ॥ १६॥ युवयोः पादपद्मं च दुर्लभं प्राप्य पुण्यवान् । क्षणार्धं षोडशांशं च नहि मुञ्चति दैवतः ॥ १७॥ भक्त्या च युवयोर्मन्त्रं गृहीत्वा वैष्णवादपि । स्तवं वा कवचं वाऽपि कर्ममूलनिकृन्तनम् ॥ १८॥ योजयेत्परया भक्त्या पुण्यक्षेत्रे च भारते । पुरुषाणां सहस्रं च त्वात्मना सार्धमुद्धरेत् ॥ १९॥ गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः । कवचं धारयेद्यो हि विष्णुतुल्यो भवेद्ध्रुवम् ॥ २०॥ इति ब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वभागे चतुर्विंशाधिकशततमाध्यायान्तर्गतं गणेशकृतं श्रीराधास्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, उत्तरभाग । अध्याय १२४/३-२०॥ brahmavaivartapurANa . shrIkRRiShNajanma, uttarabhAga . adhyAya 124/3-20.. Proofread by PSA Easwaran
% Text title            : Ganeshakritam Shri Radha Stotram
% File name             : gaNeshakRRitaMshrIrAdhAstotram09.itx
% itxtitle              : shrIrAdhAstotram 09 (gaNeshakRitaM brahmavaivartapurANAntargatam tava pUjA jaganmAtarlokashikShAkarI shubhe)
% engtitle              : gaNeshakRRitaM shrIrAdhAstotram 09
% Category              : devii, devI, brahmavaivartapurANa, stotra, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, uttarabhAga | adhyAya 124/3-20||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 29, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org