गङ्गामाहात्म्यम् २
सिद्धयः सिद्धिलिङ्गानि स्पर्शलिङ्गान्यनेकशः ।
प्रासादा रत्नरचिताश्चिन्तामणिगणा अपि ॥ ५७॥
गङ्गाजलान्तस्तिष्ठन्ति कलिकल्मषभीतितः ।
अतएव हि संसेव्या कलौ गङ्गेष्टसिद्धिदा ॥ ५८॥
सूर्योदये तमांसीव वज्रपातभयान्नगाः ।
तार्क्ष्येक्षणाद्यथासर्पा मेघा वाताहता इव ॥ ५९॥
तत्त्वज्ञानाद्यथा मोहः सिंहं दृष्ट्वा यथा मृगाः ।
तथा सर्वाणि पापानि यान्ति गङ्गेक्षणात्क्षयम् ॥ १.२७.६०॥
दिव्यौषधैर्यथा रोगा लोभेन च यथा गुणाः ।
यथा ग्रीष्मोष्मसम्पत्तिरगाधह्रदमज्जनात् ॥ ६१॥
तूलशैलः स्फुलिङ्गेन यथा नश्यति तत्क्षणात् ।
तथा दोषाः प्रणश्यन्ति गङ्गाम्भःस्पर्शनाद्ध्रुवम् ॥ ६२॥
क्रोधेन च तपो यद्वत्कामेन च यथा मतिः ।
अनयेन यथा लक्ष्मीर्विद्या मानेन वै यथा ॥ ६३॥
दम्भकौटिल्यमायाभिर्यथा धर्मो विनश्यति ।
तथा नश्यन्ति पापानि गङ्गाया दर्शनेन तु ॥ ६४॥
मानुष्यं दुर्लभं प्राप्य विद्युत्सम्पातचञ्चलम् ।
गङ्गां यः सेवते सोत्र बुद्धेः पारं परं गतः ॥ ६५॥
विधूतपापा ये मर्त्याः परं ज्योतिःस्वरूपिणीम् ।
सहस्रसूर्यप्रतिमां गङ्गां पश्यन्ति ते भुवि ॥ ६६॥
साधारणाम्भसा पूर्णां साधारणनदीमिव ।
पश्यन्ति नास्तिका गङ्गां पापोपहतलोचनाः ॥ ६७॥
संसारमोचकश्चाहं जनानामनुकम्पया ।
गङ्गातरङ्गरूपेण सोपानं निर्ममे दिवः ॥ ६८॥
सर्व एव शुभः कालः सर्वो देशस्तथा शुभः ।
सर्वो जनो दानपात्रं श्रीमती जाह्नवी तटे ॥ ६९॥
यथाश्वमेधो यज्ञानां नगानां हिमवान्यथा ।
व्रतानां च यथा सत्यं दानानामभयं यथा ॥ १.२७.७०॥
प्राणायामश्च तपसां मन्त्राणां प्रणवो यथा ।
धर्माणामप्यहिंसा च काम्यानां श्रीर्यथा वरा ॥ ७१॥
यथाऽऽत्मविद्या विद्यानां स्त्रीणां गौरी यथोत्तमा ।
सर्वर्दवेगणानां च यथा त्वं पुरुषोत्तम ॥ ७२॥
सर्वषामेव पात्राणां शिवभक्तो यथा वरः ।
तथा सर्वेषु तीर्थेषु गङ्गातीर्थं विशिष्यते ॥ ७३॥
हरे यश्चावयोर्भेदं न करोति महामतिः ।
शिवभक्तः स विज्ञेयो महापाशुपतश्च सः ॥ ७४॥
पापपांसुमहावात्या पापद्रुमकुठारिका ।
पापेन्धनदवाग्निश्च गङ्गेयं पुण्यवाहिनी ॥ ७५॥
नानारूपाश्च पितरो गाथा गायन्ति सर्वदा ।
अपि कश्चित्कुलेऽस्माकं गङ्गास्नायी भविष्यति ॥ ७६॥
देवर्षीन्परिसन्तर्प्य दीनानाथांश्च दुःखितान् ।
श्रद्धया विधिना स्नात्वा दास्यते सलिलाञ्जलिम् ॥ ७७॥
अपि नः स कुले भूयाच्छिवे विष्णौ च साम्यदृक् ।
तदालयकरो भक्त्या तस्य सम्मार्जनादिकृत् ॥ ७८॥
अकामो वा सकामो वा तिर्यग्योनिगतोऽपि वा ।
गङ्गायां यो मृतो मर्त्यो नरकं स न पश्यति ॥ ७९॥
तीर्थमन्यत्प्रशंसन्ति गङ्गातीरे स्थिताश्च ये ।
गङ्गां न बहु मन्यन्ते ते स्युर्निरयगामिनः ॥ १.२७.८०॥
मां च त्वां चैव यो द्वेष्टि गङ्गां च पुरुषाधमः ।
स्वकीयैः पुरुषैः सार्धं स घोरं नरकं व्रजेत् ॥ ८१॥
षष्टिर्गणसहस्राणि गङ्गां रक्षन्ति सर्वदा ।
अभक्तानां च पापानां वासे विघ्नं प्रकुर्वते ॥ ८२॥
कामक्रोधमहामोहलोभादि निशितैः शरैः ।
घ्नन्ति तेषां मनस्तत्र स्थितिं चापनयन्ति च ॥ ८३॥
गङ्गां समाश्रयेद्यस्तु स मुनिः स च पण्डितः ।
कृतकृत्यः स विज्ञेयः पुरुषार्थचतुष्टये ॥ ८४॥
गङ्गायां च सकृत्स्नातो हयमेधफलं लभेत् ।
तर्पयंश्च पितॄंस्तत्र तारयेन्नरकार्णवात् ॥ ८५॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे सप्तविंशाध्यायान्तर्गतं
गङ्गामाहात्म्यस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय २७/५७-८४॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 27/57-84..
Proofread by PSA Easwaran