गङ्गा पूजा

गङ्गा पूजा

सङ्कल्पम् - मम उपात्तसमस्तदुरितौघविनाशार्थं श्रुतिस्मृतिपुराणोक्तपुण्यफलप्राप्यर्थं च विष्णुचरणकमलोद्भूतायाः भागीरथ्याः पूजनमहं करिष्ये ॥ ध्यानम् - सितमकरनिषण्णां शुभ्रवस्त्रां त्रिणेत्रां करधृतकलशोद्धृत्सोत्फलाभीत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरजुष्टां कलितसितदुकूलां जाह्नवीं तां नमामि ॥ नमामि गङ्गे तवपादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपाम् । भुक्तिञ्च मुक्तिञ्च ददासि नित्यं भावानुसारेण सदा नराणाम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ ध्यायामि ॥ एह्येहि गङ्गे दुरितौघनाशिनि झषाधिरूढे उदकुम्भहस्ते । श्रीविष्णुपादाम्बुजसम्भवे त्वं पूजां ग्रहीतुं शुभदे नमस्ते ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ आवाहयामि ॥ सिंहाङ्कितस्वर्णपीठं नानारत्नोपशोभितम् । अनेकशक्तिसंयुक्तं आसनं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ आसनार्थं पुष्पं समर्पयामि ॥ पाटलोशीरकर्पूरसुरभि स्वादु शीतलम् । तोयमेतत्सुखस्पर्श पाद्यार्थ प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ पाद्यं समर्पयामि ॥ अर्घ्यङ्गृहाण देवेशि गन्धपुष्पाक्षतैः सह । पुण्यदं शङ्खतोयाक्तं मया तुभ्यं निवेदितम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ अर्घ्यं समर्पयामि ॥ गङ्गादिसर्वतीर्थेभ्यः मया प्रार्थनया हृतम् । तोयमाचमनीयार्थं देवेशि प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ आचमनीयं समर्पयामि ॥ दधिक्षीरं घृतं चैव मधुखण्डविमिश्रितम् । तृप्त्यर्थ तव देवेशि मधुपर्क ददाम्यहम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ मधुपर्कं समर्पयामि ॥ कामधेनुसमुद्धृतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ पयस्नानं समर्पयामि ॥ पयस्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥ पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ दधि स्नानं समर्पयामि ॥ दधि स्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥ नवनीतसमुत्पन्नं सर्वसन्तोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ घिऋत स्नानं समर्पयामि ॥ घृत स्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥ तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु । तेजःपुष्टिकरं दिव्यं स्नानार्थ प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ मधु स्नानं समर्पयामि ॥ मधु स्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥ इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका । मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ शर्करा स्नानं समर्पयामि ॥ शर्करा स्नानान्ते शुद्धोदकस्नानं समर्पयामि ॥ अभ्यङ्गार्थ च हे गङ्गे तैलं पुष्पादिसम्भवम् । सुगन्धद्रव्यसम्मिश्रं सङ्गृहाण महेश्वरि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ अभ्यङ्गस्नानं समर्पयामि ॥ अङ्गोद्वर्त्तनकं देवि कस्तूर्यादिविमिश्रितम् । लेपनार्थ गृहाणेदं हरिद्राकुकुमैर्युतम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ उद्वर्त्तनस्नानं समर्पयामि ॥ सर्वतीर्थात् समुद्धृत्य गन्धतोयं कुशोदकम् । स्नानार्थं ते मया दत्तं गृहाण परमेश्वरि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ गन्धोदकस्नानं समर्पयामि ॥ गङ्गा च गोदा सरयूश्च सिन्धुः सरस्वती सूर्यसुता च रेवा । कालिन्दिका स्नानविधौ समस्ता आयान्तु पुण्याः सरितां प्रवाहाः ॥ गङ्गा च यमुना चैव नर्मदा च सरस्वती । तापी पयुष्णी क्षिप्रा च ताभ्यःस्नानार्थमाहृतम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ महाभिषेक स्नानं समर्पयामि ॥ स्नानान्ते आचमनीयं समर्पयामि ॥ सूक्ष्मतन्तुमयं वस्त्रं कार्पासेन विनिर्मितम् । मयोपपादितं तुभ्यं वासोयुग्मं प्रगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ वस्त्रं समर्पयामि ॥ वस्त्रान्ते आचमनीयं समर्पयामि ॥ गोरोचनं चन्दनदेवदारु कर्पूरकृष्णागरुनागराणि । कस्तूरिकाकेसरमिश्रितानि यथोचितं देवि मयार्पितानि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ श्रीखण्डचन्दनं समर्पयामि ॥ अक्षताश्च सुरश्रेष्ठे कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्तया गृहाण परमेश्वरि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ अक्षताः समर्पयामि ॥ हरिद्रास्वर्णवर्णाभा सर्वसौभाग्यदायिनि । सर्वालङ्कारमुख्याहि गङ्गे त्वं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ हरिद्रां समर्पयामि ॥ हरिद्राचूर्णसंयुक्तं कुकुमं कामदायकम् । वत्रालङ्करणं सर्वं गङ्गे त्वं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ कुङ्कुमं समर्पयामि ॥ कज्जलं कामदं रम्यं कामिनीकामसम्भवम् । नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ कज्जलं समर्पयामि ॥ उदितारुणसङ्काशं जपाकुसुमसन्निभम् । सीमन्त भूषणार्थाय सिन्दूरं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ सिन्दूरं समर्पयामि ॥ हेम्ना निर्मितं दिव्यं कङ्कणं च सुरेश्वरि । हस्तालङ्करणार्थाय कङ्कणं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ कङ्कणं समर्पयामि ॥ माङ्गल्यं तन्तुमणिभिर्मुक्ताफलविराजितम् । कण्ठस्य भूषणार्थाय कण्ठसूत्रं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ कण्ठसूत्रं समर्पयामि ॥ अलङ्कारान् मया देवि सुवर्णेन विनिर्मितान् । प्रीत्यर्थं तव देवेशि भूषणं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ अलङ्कारान् समर्पयामि ॥ श्वेतचूर्णं रक्तचूर्णं हरिद्राकुङ्कमं तथा । सिन्दूरेण समायुक्तं सौभाग्यं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ सौभाग्यद्रव्यं समर्पयामि ॥ करवीरैः जातिकुसुमैः चम्पकैःबकुलैः शुभैः । शतपत्रैश्च कल्हारैः अर्चयेत् परमेश्वरीम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ पुष्पाणि समर्पयामि ।

अङ्गपूजा ।

ॐ चन्द्रिकायै नमः पादौ पूजयामि । ॐ चन्द्रकान्तायै नमः जङ्घे पूजयामि । ॐ चञ्चलाये नमः कटिं पूजयामि । ॐ चलद्युत्यै नमः नाभिं पूजयामि । ॐ चिन्मयायै नमः हृदयं पूजयामि । ॐ चितिरूपिण्यै नमः स्तनौ पूजयामि । ॐ चन्द्रायुतशताननायै नमः भुजौ पूजयामि । ॐ कमलपाण्यै नमः हस्तौ पूजयामि । ॐ कम्बुग्रीवायै नमः कण्ठं पूजयामि । ॐ भवान्यै नमः मुखं पूजयामि । ॐ चाम्पेयलोचनायै नमः नेत्रे पूजयामि । ॐ चार्वाङ्गिण्यै नमः कर्णौ पूजयामि । ॐ चारुगामिन्यै नमः नासिकां पूजयामि । ॐ मङ्गलायै नमः ललाटं पूजयामि । ॐ चरित्रनिलयायै नमः शिरः पूजयामि । ॐ गङ्गायै नमः सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनामार्चनं

ॐ गङ्गायै नमः । ॐ विष्णुपादसम्भूतायै नमः । ॐ हरवल्लभायै नमः । ॐ हिमाचलेन्द्रतनयायै नमः । ॐ गिरिमण्डलगामिन्यै नमः । ॐ तारकारातिजनन्यै नमः । ॐ सगरात्मजतारकायै नमः । ॐ सरस्वतीसमयुक्तायै नमः । ॐ सुघोषायै नमः । ॐ सिन्धुगामिन्यै नमः । १० ॐ भागीरत्यै नमः । ॐ भाग्यवत्यै नमः । ॐ भगीरतरथानुगायै नमः । ॐ त्रिविक्रमपदोद्भूतायै नमः । ॐ त्रिलोकपथगामिन्यै नमः । ॐ क्षीरशुभ्रायै नमः । ॐ बहुक्षीरायै नमः । ॐ क्षीरवृक्षसमाकुलायै नमः । ॐ त्रिलोचनजटावासायै नमः । ॐ ऋणत्रयविमोचिन्यै नमः । २० ॐ त्रिपुरारिशिरःचूडायै नमः । ॐ जाह्नव्यै नमः । ॐ नरकभीतिहृते नमः । ॐ अव्ययायै नमः । ॐ नयनानन्ददायिन्यै नमः । ॐ नगपुत्रिकायै नमः । ॐ निरञ्जनायै नमः । ॐ नित्यशुद्धायै नमः । ॐ नीरजालिपरिष्कृतायै नमः । ॐ सावित्र्यै नमः । ३० ॐ सलिलावासायै नमः । ॐ सागराम्बुसमेधिन्यै नमः । ॐ रम्यायै नमः । ॐ बिन्दुसरसे नमः । ॐ अव्यक्तायै नमः । ॐ अव्यक्तरूपधृते नमः । ॐ उमासपत्न्यै नमः । ॐ शुभ्राङ्गायै नमः । ॐ श्रीमत्यै नमः । ॐ धवलाम्बरायै नमः । ४० ॐ आखण्डलवनवासायै नमः । ॐ कण्ठेन्दुकृतशेखरायै नमः । ॐ अमृताकारसलिलायै नमः । ॐ लीलालिङ्गितपर्वतायै नमः । ॐ विरिञ्चिकलशावासायै नमः । ॐ त्रिवेण्यै नमः । ॐ त्रिगुणात्मकायै नमः । ॐ सङ्गत अघौघशमन्यै नमः । ॐ भीतिहर्त्रे नमः । ॐ शङ्खदुन्दुभिनिस्वनायै नमः । ५० ॐ भाग्यदायिन्यै नमः । भाग्यजनन्यै ॐ नन्दिन्यै नमः । ॐ शीघ्रगायै नमः । ॐ सिद्धायै नमः । ॐ शरण्यै नमः । ॐ शशिशेखरायै नमः । ॐ शाङ्कर्यै नमः । ॐ शफरीपूर्णायै नमः । ॐ भर्गमूर्धकृतालयायै नमः । ॐ भवप्रियायै नमः । ६० ॐ सत्यसन्धप्रियायै नमः । ॐ हंसस्वरूपिण्यै नमः । ॐ भगीरतभृतायै नमः । ॐ अनन्तायै नमः । ॐ शरच्चन्द्रनिभाननायै नमः । ॐ ओङ्काररूपिण्यै नमः । ॐ अनलायै नमः । ॐ क्रीडाकल्लोलकारिण्यै नमः । ॐ स्वर्गसोपानशरण्यै नमः । ॐ सर्वदेवस्वरूपिण्यै नमः । ७० ॐ अम्बःप्रदायै नमः । ॐ दुःखहन्त्र्यैनमः । ॐ शान्तिसन्तानकारिण्यै नमः । ॐ दारिद्र्यहन्त्र्यै नमः । ॐ शिवदायै नमः । ॐ संसारविषनाशिन्यै नमः । ॐ प्रयागनिलयायै नमः । ॐ श्रीदायै नमः । ॐ तापत्रयविमोचिन्यै नमः । ॐ शरणागतदीनार्तपरित्राणायै नमः । ८० ॐ सुमुक्तिदायै नमः । ॐ पापहन्त्र्यै नमः । ॐ पावनाङ्गायै नमः । ॐ परब्रह्मस्वरूपिण्यै नमः । ॐ पूर्णायै नमः । ॐ पुरातनायै नमः । ॐ पुण्यायै नमः । ॐ पुण्यदायै नमः । ॐ पुण्यवाहिन्यै नमः । ॐ पुलोमजार्चितायै नमः । ९० ॐ भूदायै नमः । ॐ पूतत्रिभुवनायै नमः । ॐ जयायै नमः । ॐ जङ्गमायै नमः । ॐ जङ्गमाधारायै नमः । ॐ जलरूपायै नमः । ॐ जगद्धात्र्यै नमः । ॐ जगद्भूतायै नमः । ॐ जनार्चितायै नमः । ॐ जह्नुपुत्र्यै नमः । १०० ॐ जगन्मात्रे नमः । ॐ जम्बूद्वीपविहारिण्यै नमः । ॐ भवपत्न्यै नमः । ॐ भीष्ममात्रे नमः । ॐ सिक्तायै नमः । ॐ रम्यरूपधृते नमः । ॐ उमासहोदर्यै नमः । ॐ अज्ञानतिमिरापहृते नमः । १०८ वनस्पतिरसोद्भूतः गन्धाढ्यः गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ धूपं आघ्रापयामि ॥ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहे ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ दीपं दर्शयामि ॥ शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारार्थं मया देवि स्थापितानि पुरस्तव ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ नैवेद्यं निवेदयामि ॥ पूगीफलं महदिव्यं पवित्रं पापनाशनम् । मुखवासाय मया दत्तं गृहाण परमेश्वरि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ ताम्बूलं समर्पयामि ॥ कर्पूरपूरेण मनोहरेण सुवर्णपात्रान्तरसंस्थितेन । प्रदीप्तभासा सह सङ्गतेन नीराजनन्ते परितः करोमि ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ कर्पूरनीराजनं समर्पयामि ॥ चरणकमलयुग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोऽयं मन्त्रपुष्पाञ्जलिस्ते हृदयकमलमध्ये देवि हर्षं तनोतु ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि विनश्यन्ति प्रदक्षिणं पदे पदे ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ प्रदक्षिणं समर्पयामि । नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरूपम् । भुक्तिञ्च मुक्तिञ्च ददासि नित्यं भावानुसारेण सदा नराणाम् ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ नमस्कारान् समर्पयामि ।

गङ्गास्तोत्रम्

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदं अतः शान्ति प्रयच्छ मे ॥ त्रिपथगामिन्यै गङ्गायै नमः ॥ पूजासाङ्गतासिद्ध्यर्थ दक्षिणां समर्पयामि ॥ आवाहनं न जानामि न जानामि तवार्चनम् । पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि । यत्पूजितं मया देवि परिपूर्णं तदस्तु ते ॥ यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥ अनेन गङ्गा पूजाराधनेन भगवति गङ्गान्तर्गत लक्ष्मीनारायणः प्रीयतां ॐ तत्सत् श्रीकृष्णार्पणमस्तु ।

श्री गङ्गा आरती

ॐ जय गङ्गे माता, मय्या जय गङ्गे माता । जो नर तुमको ध्याता मनवाञ्छित फल पाता ॥ ॐ जय गङ्गे माता .... ॥ चन्द्र सी जोत तुम्हारी, जल निर्मल आता । शरण पडें जो तेरी सो नर तर जाता ॥ ॐ जय गङ्गे माता .... ॥ पुत्र सगर के तारे, सब जग को ज्ञाता । कृपा दृष्टि तुम्हारी, त्रिभुवन सुख दाता ॥ ॐ जय गङ्गे माता .... ॥ एक ही बार जो तेरी, शारणागति आता । यम की त्रास मिटा कर, परमगति पाता ॥ ॐ जय गङ्गे माता .... ॥ आरती मात तुम्हारी, जो जन नित्य गाता । दास वही सहज में, मुक्ति को पाता ॥ ॐ जय गङ्गे माता .... ॥ गङ्गा सिन्धु सरस्वती च यमुना गोदावरी नर्मदा कावेरी सरयू महेन्द्रतनया चर्मण्वती वेदिका । शिप्रा वेत्रवती महासुरनदी ख्याता च या गण्डकी पूर्णाः पुण्यजलैः समुद्रसहिताः कुवर्न्तु वो मङ्गलम् ॥ This text uses a simple procedure for performing Ganga Puja. See video links for additional information and consult a Pujari for more details.
% Text title            : Ganga Puja
% File name             : gangApUjA.itx
% itxtitle              : gaNgApUjA vidhI
% engtitle              : gangA pUjA
% Category              : devii, pUjA, nadI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (stotrANi), Info 1, 2, Marathi, simple, Hindi)
% Latest update         : March 19, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org